श्रीजयतीर्थयतिविरचितगीतातात्पर्यनिर्णयटीका-न्यायदीपिका
श्रीमद्धनुमद्भीममध्वान्तर्गतरामकृष्णवेदव्यासात्मक
श्रीलक्ष्मीहयग्रीवायनमः ॥
श्रीगुरुभ्योनमः हरिः ॐ ॥
श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितः श्रीगीतातात्पर्यनिर्णयः ॥
हरिः ॐ ॥
समस्तगुणसम्पूर्णं सर्वदोषविवर्जितम् ।
नारायणं नमस्कृत्य गीतातात्पर्यमुच्यते ॥
श्रीजयतीर्थविरचित न्यायदीपिका ॥ हरिः ॐ ॥
इन्दिरावदनाम्भोजराजहंसाय विष्णवे ।
अमन्दानन्दसन्दोहसुन्दराकृतये नमः ॥ 1 ॥
धर्मविज्ञानवैराग्यपरमैश्वर्यशालिनः ।
आनन्दतीर्थभगवत्पादान् वन्दे निरन्तरम् ॥ 2 ॥
स पद्मनाभतीर्थार्कगोगणोऽस्तु दृशे मम ।
न तत्त्वमार्गे गमनं विना यदुपजीवनम् ॥ 3 ॥
प्रणम्य चरणद्वन्द्वं गुरूणां तत्कृपाबलात् ।
व्याकरिष्ये यथाबोधं गीतातात्पर्यनिर्णयम् ॥ 4 ॥
अथाशेषपुरुषार्थहेतुभूतामन्यैरन्यथा व्याख्यातां गीतां यथावद् व्याख्यातुकामो भगवानाचार्यः प्रारिप्सितस्य ग्रन्थस्याविघ्नेन परिसमाप्त्यादिप्रयोजनमिष्टदेवतानतिं शिष्टाचारपरम्परादिप्ताप्तां शिष्यजनशिक्षार्थं ग्रन्थे निबध्नाति, ग्रन्थारम्भं च प्रतिजानीते -- समस्तेति ॥ अन्तरायपरिजिहीर्षादिमन्तो देवतान्तरनतिमाचरन्तो दृष्टाः । तत्किं नारायणप्रणामेनेत्यत उक्तम् -- समस्तेत्यादि ॥ नारायणस्यैव समस्तगुणसम्पूर्णत्वेनाशेषदोषदूरत्वेन निखिलप्रार्थितप्रदानसामर्थ्यादितरेषां तत्प्रसादासादितशक्तिमत्त्वात् तत्प्रणाम एव कर्तव्य इति भावः । सम्पूर्णमिति गुणानां प्रत्येकं पूर्णतामाह । विवर्जितमिति च दोषवर्जनस्य निःशेषताम् । समस्तगीतासु भगवद्गीतायाः प्राधान्यज्ञापनाय गीतेत्येवोक्तम् । ``मुख्यस्य निर्विशेषेण शब्द" इति स्मृतेः । स्वयमेव गीताभाष्यस्य कृतत्वात् किं पुनरारम्भेणेत्यतः तात्पर्यमित्युक्तम् । व्याख्यातत्वेऽपि गीतायाः तदर्थस्य शिष्याणां बुद्ध्यारोहार्थं शब्दानुकरणाद्यन्तरेण पुनस्तात्पर्यमेवोच्यत इति भावः ॥
*शास्त्रेषु भारतं सारं तत्र नामसहस्रकम् ।
वैष्णवं कृष्णगीता च तद् ज्ञानान्मुच्यतेऽञ्जसा ॥
// नन्वनेकेषु ग्रन्थेषु विद्यमानेषु को विशेषो गीताया येन तस्या एव तात्पर्यमुच्यते । अपि च, भारतमध्यगतत्वात् गीतायाः कुतस्तस्या एव पृथक् तात्पर्यमुच्यत इत्यतो भारतस्य सर्वशास्त्रोत्तमत्वात् युक्तं तदन्तर्गतगीताया एव तात्पर्यकथनम् । भारतेऽपि गीताया उत्तमत्त्वात् तस्याः पृथक् तात्पर्यकथनं चोपपन्नमिति परिहारमभिप्रेत्य भारतस्य सर्वशास्त्रोत्तमत्वं, भारतेऽपि गीताया एव उत्तमत्वमेव कुत इत्यतः तत्पुराणवचनेन साधयति -- शास्त्रेष्विति ॥ भारतेऽपि गीतानामसहस्रयोरुत्तमत्वं कुत इत्यत आह -- तदिति ॥ भारतज्ञानादप्याञ्जस्येन गीतादि ज्ञानस्य मोक्षसाधनत्वात् युक्तं भारर्तेपि गीतादेरुत्तमत्वमिति भावः ॥
* न भारतसमं शास्त्रं कुत एवानयोः समम् ।
भारतं सर्ववेदाश्च तुलामारोपिताः पुरा ॥
देवैर्ब्रह्मादिभिः सर्वै ऋ#240;षिभिश्च समन्वितैः ।
व्यासस्यैवाज्ञया तत्र त्वत्यरिच्यत भारतम् ॥
महत्त्वाद् भारवत्त्वाच्च महाभारतमुच्यते ।
निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते ॥
स्वयं नारायणो देवैर्ब्रह्मरुद्रेन्द्रपूर्वकैः ।
अर्थितो व्यासतां प्राप्य केवलं तत्त्वनिर्णयम् ॥
चकार पञ्चमं वेदं महाभारतसञ्ज्ञितम् --- इति ब्रह्माण्डे ॥
// गीतानामसहस्रसमानशास्त्रान्तरज्ञानस्याप्याञ्जस्येन मोक्षहेतुत्वात् को विशेषो गीतादेरित्यत आह -- नेति ॥ भारतस्य सर्वशास्त्रोत्तमत्वमेव कुत इत्यत आह -- भारतमिति ॥ वेदपदेन वेदयन्तीति सर्वशास्त्राण्युच्यन्ते । भारतादेस्तुलाऽऽरोपणं नाम तत् प्रतिनिधेरारोपणम् । एतदेव कुत इत्यतो महाभारतशब्दार्थपर्यालोचनयैव ज्ञायत इत्यत आह -- महत्त्वादिति ॥ महत्त्वात्तत एव भारेण तत्वाच्च महाभारतमित्यर्थः । किञ्च महाभारतशब्दनिर्वचनज्ञानादेव यदा सर्वपापक्षयो भवति तदा किं वाच्यं तस्य सर्वशास्त्रोत्तमत्वमिति भावेनाह -- निरुक्तमिति ॥ निरुक्तं निर्वचनम् । अस्य महाभारतशब्दस्य ।
भारतस्यैवं सर्वशास्त्रोत्तमत्वे किं निमित्तमित्यतः परमाप्तकृतत्वं दर्शयति -- स्वयमिति ॥
नन्वाप्तो नाम यथार्थदर्शी यथादृष्टार्थवादी च । तत्र व्यासस्य यथार्थदर्शित्वं कुतः ? भगवदवतारेष्वपि पृथ्वादिष्वज्ञानादिदर्शनादित्यत उक्तम् -- स्वयमिति ॥
अस्तु व्यासस्य यथार्थदर्शित्वं साक्षात् नारायणावतारत्वेनाज्ञानभ्रमसन्देह शून्यत्वात् । यथादृष्टार्थवादित्वं तु कुतः ? तस्य प्रमादेनायथादृष्टवादित्वाभावेऽपि विप्रलिप्सया तत्सम्भवादित्यत आह -- ब्रह्मेति ॥ वक्तुर्विप्सलिप्सा श्रोतरूणामयोग्यतायां सम्भवति । प्रकृते च ब्रह्मादीनां योग्यानामेव श्रोतृत्वेन भगवतो विप्रलम्भाभावाद्युक्तं यथादृष्टार्थवादित्वमिति भावः । अपहासेनायथादृष्टार्थवादित्वं किं न स्यादित्यत आह -- तत्त्वेति ॥ अपहासस्य प्रसङ्गदोषनिबन्धनत्वादत्र च तत्त्वनिर्णयस्य प्रसक्तत्वेन तदसम्भवान्नात्रापहासेनापि व्यासस्यायथादृष्टार्थवादित्वमिति भावः । एवम्भूताप्तरचितत्वस्य भागवतादिष्वपि साम्यात्कोविशेषो भारतस्येत्यत उक्तम् -- केवलमिति ॥ नासुरमोहनाद्यर्थमप्यत्रान्यदुच्यते । अन्यथा प्रतीतस्य गुह्यदर्शनभाषाभ्यामुक्तत्वात् । अन्यत्र क्वचिद् व्यामोहनार्थमन्यथा कथनादिति भावः । एवं परमाप्तिमूलत्वेनैव न भारतस्य सर्वशास्त्रोत्तमत्वं किन्तु वेदसंवादितया पञ्चमवेदत्वेनापीति भावेनाह-- पञ्चममिति ॥
* तत्र साक्षादिन्द्रावतारमुत्तमाधिकारिणमात्मनः प्रियतममर्जुनं क्षत्रियाणां विशेषतोऽपि परमधर्मं नारायणद्विट् तदनुबन्धिनिग्रहं बन्धुस्नेहादधर्मत्वेनाशङ्क्य ततो निवृत्तप्रायं स्वविहितवृत्त्या भक्त्या भगवदाराधनमेव परमो धर्मस्तद्विरुद्धः सर्वोऽप्यधर्मो भगवदधीनत्वात् सर्वस्येति बोधयति भगवान्नारायणः ।
/ एवं गीतातात्पर्यकथनस्य युक्ततां प्रसाध्य श्रोतृशेमुषीमनुकूलयिष्यन्नादावेव अशेषगीताप्रतिपाद्यमर्थं सङ्क्षेपेण दर्शयति -- तत्रेति ॥
तत्र गीतायाम् । इति कथ्यत इति शेषः । कृष्णस्याप्यर्जुनादविशेषात् कथं तद् बोधकत्वमित्यतो भगवान्नारायण इत्युक्तम् । आप्तसमस्तकामस्य भगवतः किमर्जुनबोधनेनेत्यतो उक्तम् -- आत्मन इति ॥ प्रयोजनाभावेऽपि प्रीत्यतिशयवशात् मातुरपत्यपालनवत्तद्बोधनं युक्तमिति भावः । अर्जुनस्य भगवत्प्रियत्वमेव कुतः ? अपरोक्षज्ञानित्वात् ``ज्ञानी प्रियतमोऽतो मे" इति स्मृतेरिति चेत्तदेव कुत इत्यत आह -- उत्तमेति ॥ एतदपि कुत इत्यत आह -- साक्षादिति ॥ साक्षादिन्द्रः पुरन्दरः । साक्षादवतारो नावेशमात्रमिति वा । अत्र देवत्वमेव वक्तव्यम् । इन्द्रावतारमिति स्वरूपकथनम् । अर्जुनबोधने का प्राप्तिरित्यत आह -- नारायणेति ॥ बान्धवादिनिग्रहस्याधर्मत्वात् किमुच्यतेऽधर्मत्वेनाशङ्क्येत्यत एतन्निग्रहस्य कैमुत्येन धर्मत्वमाह -- क्षत्रियाणामिति ॥ भागवतमात्रस्यैतादृशनिग्रहः परमधर्मः । अत्रैव नियुक्तानां क्षत्रियाणां तु विशेषतोऽपि परमधर्म इत्यर्थः । बान्धवादिनिग्रहः कथं परमधर्म इत्यतो बान्धवादीति वक्तव्ये नारायणद्विट् तदनुबन्धीत्युक्तम् । बान्धवादित्वेऽपि केषाञ्चिन्नारायणद्वेषित्वात् केषाञ्चित् तत्सम्बन्धित्वात् तन्निग्रहो धर्म एवेति भावः ।
नन्वयं धर्मश्चेत् शास्त्रोदित एव भवेत् । तथा च न शास्त्रविदुषाऽधर्मत्वेनाऽशङ्क्येत । शङ्क्यते च । अतो न धर्म इत्यत आह -- बन्धुस्नेहादिति ॥ न शास्त्रमुखेनेयं शङ्का । अपि तु स्नेहमात्रनिबन्धनैवेति भावः । ज्ञानिनः स्नेहमात्रेण सञ्जातया शङ्कया कथं स्वकीयपरमधर्मनिवृत्तिरित्यत उक्तम् -- निवृत्तप्रायमिति ॥ एवमाशङ्कया निवृत्तप्रायश्चेदेतद्युद्धकरणमेव बोधनीयम्, भगवन्महिमादिकं किमर्थमुच्यत इत्यतो बोध्यार्थमाह -- स्वेति ॥ न केवलं युद्धादि स्वविहितवृत्तिमात्रं परमो धर्मः । येन तदेव बोध्यम् स्यात् । अपि तु भक्त्यादिकमपि । तत्रार्जुनस्य धर्मैकदेशेऽधर्मशङ्कायामपि प्राप्तलोकोपकाराय समग्रधर्मो भगवता बोध्यते । तत्र भगवन्महिमाद्युक्तिस्तु भक्त्युत्पादनायेति भावः ।
ननु युद्धादिस्वविहितवृत्तिनिवृत्तोऽप्यर्जुनो न परमधर्मनिवृत्तः । भक्त्यादिमत्त्वात् । अतः किं बोध्यत इत्यत आह -- तदिति ॥ न भक्त्यादिकं प्रत्येकं परमधर्मः । येन तावता तस्य न परमधर्मनिवृत्तेर्युक्तं तद्बोधनमिति भावः । तर्~हि प्रकृत्यादिवर्णनं क्वोपयुज्यत इत्यतोऽस्तु स्वविहितवृत्तेर्धर्मत्वं, तद्विरुद्धस्याधर्मत्वं च । भगवद् भक्त्या तदाराधनस्य धर्मत्वं तद्विरुद्धस्याधर्मत्वं च कुत इत्याशङ्कानिवारणाय सर्वस्य भगवदधीनत्वहेतुं वक्तुं सर्वनिरूपणमिति भावेनाह -- भगवदिति ॥ सर्वस्य भगवदधीनत्वेन धर्माधर्मतया भगवन्नियतयोरेव तथाभावात्तस्य चैवं विधयोरेव तथा नियमनोपपत्तेरिति भावः ।
* सर्वञ्चैतदत्रैवावगम्यते ॥
अथ चेत्त्वं धर्म्यमिमं सङ्ग्रामं न करिष्यसि ।
ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि ॥ इत्यादिना युद्धस्य स्वधर्मत्वम् ।
``यतः प्रवृत्तिभूतानां येन सर्वमिदं ततम् ।
स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः ॥
श्रेयान् स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् ।
सर्वं गुह्यतमं भूयः शृणु मे परमं वचः ।
इष्टोऽसि मे दृढमिति ततो वक्ष्यामि ते हितम् ॥
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ।
मामेवैष्यति सत्यं ते प्रतिजाने प्रियोऽसि मे ॥
सर्वधर्मान् परित्यज्य मामेक शरणं व्रज ।
अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ॥" इत्यादिना स्वधर्मेणैव भगवदाराधनस्यैव कर्तव्यत्वं, तदन्यस्य त्याज्यत्वं च ।
/ नन्वर्जुनस्य देवत्वादि कुतः ? स्वविहितेत्यादेर्गीतातात्पर्यार्थत्वं च कुत इत्यत आह -- सर्वञ्चेति ॥ अर्जुनो देव इत्याद्येतच्च सर्वं गीतायामेवावगम्यते । न च प्रमाणान्तरं तत्रान्वेषणीयम् । स्वविहितेत्यादिकं च सर्वं गीतायामवगम्यत एव । न तु तदर्थतया बलादुच्यत इत्यर्थः । तत्र तावन्नारायणद्विट् तदनुबन्धिनिग्रहं बन्धुस्नेहादधर्मत्वेनाऽऽशङ्क्य ततो निवृत्तप्रायमर्जुनं भगवन्नारायणो बोधयतीत्येतावद् गीतायां स्फुटमवगम्यते । ``यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे" इति प्रार्थनात् तस्य निवृत्तप्रायतावगमात् । साक्षात् निवृत्तौ तदनुपपत्तेः ।
नारायणद्विट् तदनुबन्धिनिग्रहस्य क्षत्रियाणां परमधर्मत्वं गीतायां केनावगम्यत इत्यत आह -- अथेति ॥ युद्धस्य उक्तविधस्येति शेषः । अवगम्यत इति सर्वत्रानुषज्यते ।
स्वविहितवृत्त्या भक्त्या भगवदाराधनमेव परमधर्मः । तद्विरुद्धः सवोऽप्यधर्म इत्येतद् केनावगम्यत इत्यत आह -- यत इति ॥ यत इत्यनेन स्वविहितवृत्त्या भक्त्या भगवदाराधनस्य कर्तव्यत्वमवगम्यते । भक्त्याऽर्चनस्यैवाभ्यर्चनत्वात् । स्वकर्मणेत्यनेन स्वविहितवृत्त्या भगवदाराधनस्यैव मुख्यतः कर्तव्यत्वम् । मोक्षसाधनस्यैव मुख्यकर्तव्यत्वात् । श्रेयानित्यनेन स्वविहितवृत्तेः कर्तव्यत्वमस्वविहितवृत्तेस्त्याज्यत्वं च । श्रेयस एव कर्तव्यत्वादश्रेयसत्स्याज्यत्वात् । सर्वेत्यनेन भक्त्या भगवदाराधनस्य कर्तव्यत्वम् । सर्वगुह्यतमतया, हितसाधनतया, भगवत्प्राप्तिसाधनतया च विहितस्य कर्तव्यत्वात् । सर्वधर्मानित्यनेन स्वविहितवृत्त्या भक्त्या भगवदाराधनस्यैव कर्तव्यत्वं, तदन्यस्य त्याज्यत्वं च । स्वविहितवृत्त्या भक्त्या भगवदाराधनस्यैव शरणागतित्वात् । सर्वधर्मपदेनैतद्विरुद्धस्य धर्माभासस्य विवक्षितत्वात् । सर्वपापगमनहेतुतया विहितस्य कर्तव्यत्वात् । तदर्थत्वेन निषिद्धस्य त्याज्यत्वात् ॥ स्वधर्मेण ॥ भक्त्या चेति संयोज्यम् । कर्तव्यत्याज्यत्वाभ्यां धर्माधर्मत्व इति भावः ।
* नाहं वेदैर्न तपसा न दानेन न चेज्यया ।
शक्य एवं विधो द्रष्टुं दृष्टवानसि मां यथा ॥
भक्त्या त्वनन्यया शक्य अहमेवं विधोऽर्जुन ।
ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप ॥ (गी. 11-53,54) इत्यादिना विष्णुभक्तेरेव सर्वसाधनोत्तमत्वं परोक्षापरोक्षज्ञानयोर्ज्ञानिनोऽपि मोक्षस्य तदधीनत्वं च ।
``मत्कर्मकृन्मत्परमो मद्भक्तः सङ्गवर्जितः ।
निर्वैरः सर्वभूतेषु यः स मामेति पाण्डव ॥" (गी. 11-55) इत्यादिना भक्तस्यापि तत्कर्म विकर्मत्यागश्च ।
/ ननु श्रवणादिरूपस्वविहितवृत्त्यैव परोक्षापरोक्षज्ञानसिद्धेस्तत्साधनस्यैव परमधर्मत्वान्न भक्तिः परमधर्मतया गीताभिमतेत्यत आह -- नाहमिति ॥
अभिमतैव गीतायां भक्तिः परमधर्मत्वेन । परोक्षापरोक्षज्ञानयोर्ज्ञानिनोऽपि मोक्षस्य गीतायामेव तदधीनत्वात् । न चैवं श्रवणादिवैयर्थ्यम् । अन्यथा ज्ञानादेर्भक्त्यधीनत्वानुपपत्तिरिति वाच्यम् । श्रवणादेर्ज्ञानादिसाधनत्वेऽपि भक्तेरेव तेभ्यः श्रवणादिसर्वसाधनेभ्य उत्तमत्वस्यात्र विवक्षितत्वादिति भावः ।
ननु न भक्त्या स्वविहितवृत्त्या भगवदाराधनं कर्तव्यं तद्विरुद्धं त्याज्यमिति गीताभिमतम् । तत्र भक्तिमतः कर्तव्यत्याज्याभावमात्रस्याभिमतत्वादित्यत आह -- मत्कर्मेति ॥
न भक्तस्य कर्तव्यत्याज्याभावो गीताभिमतः । तत्रैव भक्तस्यापि स्वविहितवृत्त्या भगवदाराधनस्य कर्तव्यतया तद्विरुद्धस्य त्याज्यतयाऽवगमादिति भावः । यदुक्तं स्वविहितवृत्तिरूपं मद्विषयं च कर्म मत्कर्म तदेव तत्कर्म । सङ्गवर्जितोस्वविहिताभगवद्विषयकर्मसङ्गवर्जितः । तदेव विकर्मोच्यते । भगवत्प्राप्तिहेतुतयोक्तमेव कर्म कर्तव्यम् । तदर्थत्वेन निषिद्धमेव त्याज्यमिति ।
<लन्ग्=कन्>* कुरु कर्मैव तस्मात्त्वं पूर्वैः पूर्वतरं कृतम् । (गी. 4-15) इत्यादिना ज्ञानिनोऽपि भगवत्कर्म ।
सुदुर्दर्शमिदं रूपं दृष्टवानसि यन्मम ।
देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः ॥ (गी. 11-52)
इष्टोसि मे दृढमिति ततो वक्ष्यामि ते हितम् । (गी. 18-64)
दैवी सम्पद्विमोक्षाय निबन्धायासुरी मता ।
मा शुचः सम्पदं दैवीमभिजातोऽसि पाण्डव । (गी. 16-5)
महात्मनस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः ।
भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् ॥ (गी. 9-13)
दर्शयामास पार्थाय परमं रूपमैश्वरम् । (गी. 11-9) इत्यादिनाऽर्जुनस्योत्तमाधिकारित्वमपरोक्षज्ञानित्वं च ।
/ नन्वर्जुनस्य ज्ञानित्वे कथं तं प्रति स्वविहितवृत्त्या भवदाराधनं विधीयते । ज्ञानिनस्तदभावस्य गीताभिमतत्वादित्यत आह -- कुर्विति ॥
न ज्ञानिनः स्वविहितवृत्त्याद्यभावो गीताऽभिमतः । तत्र `एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः । कुरु कर्मैव' इति ज्ञानिनोऽपि स्वविहितवृत्त्यादेः कर्तव्यतयाऽवगमादिति भावः । स्वविहितं, भगवदर्थमेव पूर्वैः कृतं तदुभयमेव भगवत्कर्म ।
यदुक्तमर्जुनो भगवतोऽतिप्रियोपरोक्षज्ञान्युत्तमाधिकारी देवश्चेति तत्केनावगम्यत इत्यत आह -- सुदुर्दर्शमिति ॥
सुदुर्दर्शमित्यनेनापरोक्षज्ञानित्वमवगम्यते । देवैः सह पठितत्वेन देवत्वं च । इष्टोसीति प्रियतमत्वम् । दैवीति देवत्वम् । महात्मान इत्यनन्यमनस्कतया भगवन्तं भजतां देवत्वमपरोक्षज्ञानित्वं चावगम्यते । तादृशभजनवतश्चार्जुनस्य तज्जञायते । दर्शयामासेत्यपरोक्षज्ञानित्वम् । भगवदतिप्रियत्वं देवत्वं चेति संयोज्यम् । देवत्वेनैवोत्तमाधिकारित्वं चावगतम् ।
* `न मे विदुः सुरगणाः प्रभवं न महर्षयः ।
अहमादिर्~हि देवानां महर्षीणां च सर्वशः ।
यो मामजमनादिं च वेत्ति लोकमहेश्वरम् ।
असम्मूढः स मर्त्येषु सर्वपापैः प्रमुच्यते ।
बुद्धिर्ज्ञानमसम्मोहः क्षमा सत्यं दमः शमः ॥' (गी. 10/2-4)
`महर्षयः सप्त पूर्वे' (गी. 10/6)
`एतां विभूतिं योगं च' (गी. 10/7)
`अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते ।
इति मत्वा भजन्ते मां बुधा भावसमन्विताः" (गी. 10/8)
`तेषामेवानुकम्पार्थमहमज्ञानजं तमः । नाशयामि' (गी. 10/11)
`तेषामहं समुद्धर्ता मृत्युसंसारसागारात् ।'(गी. 12/ 7)
`भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् ।
सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति ।' (गी. 5/29)
`ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः ।
यज्जञात्वा नेह भूयोऽन्यज्जञातव्यमवशिष्यते ।' (गी. 7/2)
अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा ॥ 7/6 ॥
मत्तः परतरं नान्यत्किञ्चिदस्ति धनञ्जय ।
मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव ॥ 7/7 ॥
इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे ।
ज्ञानं विज्ञानसहितं यद् ज्ञात्वा मोक्ष्यसेऽशुभात् ॥9/ 1 ॥
राजविद्या राजगुह्यं(9/2)
मया ततमिदं सर्वं जगदव्यक्तमूर्तिना ।
मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः ॥ 9/4 ॥
भूतभृन्न च भूतस्थो ... (9/5)
`न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यः' (11/43)
`परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम्' (गी 14/1)
मम योनिर्महद्ब्रह्म तस्मिन् गर्भं दधाम्यहम् ।
सम्भवः सर्वभूतानां ततो भवति भारत ॥ 14/4)
ब्रह्मणो हि प्रतिष्ठाऽहममृतस्याव्ययस्य च ।
शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च ॥ 14/27 ॥
द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च ।
क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥
उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः ।
यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ॥
यस्मात् क्षरमतीतोऽहमक्षरादपि चोत्तमः ।
अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥
यो मामेवमसम्मूढो जानाति पुरुषोत्तमम् ।
स सर्वविद्भजति मां सर्वभावेन भारत ॥
इति गुह्यतमं शास्त्रमिदमुक्तं मयाऽनघ ।
एतद् बुद्ध्वा बुद्धिमान् स्यात्कृतकृत्यश्च भारत ॥ 15/16-20 ॥
न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन ।
नानवाप्तमवाप्तव्यं .......... ॥ 3/22 ॥ इत्यादिना सर्वस्माद् भगवतो भेदः, सर्वस्य तदधीनत्वं, सर्वगुणपूर्णत्वं, सर्वशास्त्राणां तत्परत्वं तथा तद् ज्ञानादेव मोक्ष इत्यादि ।
/ यदुक्तं सर्वस्य भगवदधीनत्वं तत्केनावगम्यते । तथात्वे च तस्य सर्वस्माद् भेदेन, सर्वस्य च सत्यत्वेन, तथा सर्वोत्तमत्वेन, सर्वगुणपूर्णत्वेन, निर्दोषत्वेनानन्याधीनत्वेन, मोक्षप्रदत्वेन, सर्वशास्त्रप्रतिपाद्यत्वेन च भाव्यम् । सर्वस्य तदधीनतायाः साक्षात् परम्परया चैतत्सापेक्षत्वात् । तदेतत् सर्वं केनावगम्यत इत्यत आह -- नेति ॥
न मे विदुरित्यनेन पूर्णत्वमवगम्यते । अहमादिरिति सर्वोत्तमत्वम् । योमामिति निर्दोषत्वं, सर्वस्य तदधीनत्वं, तद् ज्ञानात् मोक्षश्च । जन्मादीनां दोषत्वात् । सर्वपापक्षयस्य मोक्षत्वात् । बुद्धिरिति सर्वस्य तदधीनत्वम् । एतामिति तद् ज्ञानात् मोक्षः । निष्कम्पयोगस्य सायुज्यत्वात् । अहमिति सर्वस्य तदधीनत्वं तद् ज्ञानात् मोक्षश्च । अज्ञानजतमसः संसारत्वात् । तेषामिति तद् ज्ञानात् मोक्षः । भोक्तारमिति सर्वस्य तदधीनत्वं तद् ज्ञानात् मोक्षश्च । शान्तेर्मोक्षत्वात् । ज्ञानमिति सर्वशास्त्राणां तत्परत्वम् । भगवद् ज्ञानेनैव सर्वशास्त्राणां ज्ञातत्वोक्तेः । अहमिति सर्वस्य तदधीनत्वम् । मत्त इति सर्वोत्तमत्वम् । मयीति सर्वस्य तदधीनत्वम् । इदमिति तद् ज्ञानात् मोक्षः । राजेति सर्वशास्त्राणां तत्परत्वम् । भगवद्विद्यायाः प्राधान्योक्तेः । प्रधानानुसारित्वाच्च अप्रधानानाम् । मयेति सर्वस्य तदधीनत्वं निर्दोषत्वं च । ततेः प्रेरणार्थत्वात् । अव्यक्तपदेन चाकार्यत्वोक्तेः । न चाहमिति तस्यानन्याधीनत्वम् । भूतभृदिति सर्वस्य तदधीनत्वम् । तस्यानन्याधीनत्वं च । न त्वदिति सर्वोत्तमत्वम् । परमिति सर्वशास्त्राणां तत्परत्वम् । ज्ञायतेऽनेनेति ज्ञानशब्दोदितभगवच्छास्त्रस्य सर्वशास्त्रोत्तमत्वोक्तेः । अप्रधानस्य प्रधानानुयायित्वात् । ममेति सर्वस्य तदधीनत्वम् । ब्रह्मणो हीति सर्वस्य तदधीनत्वं तद् ज्ञानात् मोक्षश्च । द्वाविति सर्वस्माद् भगवतो भेदः, सर्वोत्तमत्वं, सर्वस्य तदधीनत्वं, सर्वशास्त्राणां तत्परत्वं तद् ज्ञानात् मोक्षश्च । न मे पार्थेति पूर्णत्वम् । प्रथमाऽदिपदेनासत्यमप्रतिष्ठं त इत्यादि, द्वितीयेन जगत्सत्यत्वं गृह्यते ।
* ``अधा ते विष्णो विदुषां चिदर्ध्यः स्तोमो यज्ञश्च राध्यो हविष्मता" (ऋ.मं. 1. सू 156-1)
`पश्यन्नपीममात्मानं कुर्यात् कर्माविचारयन् ।
यदात्मानः सुनियतमानन्दोत्कर्षमाप्नुयात् ॥'
`भक्त्या प्रसन्नः परमो दद्याद् ज्ञानमनाकुलम् ।
भक्तिं च भूयसीं ताभ्यां प्रसन्नो दर्शनं व्रजेत् ॥
ततोऽपि भूयसीं भक्तिं दद्यात् ताभ्यां विमोचयेत् ।'
मुक्तोऽपि तद्वशो नित्यं भूयोभक्तिसमन्वितः ।
साध्यानन्दस्वरूपैव भक्तिर्नैवात्र साधनम् ॥
ब्रह्मरुद्ररमादिभ्योऽप्युत्तमत्वं स्वतन्त्रताम् ।
सर्वस्य तदधीनत्वं सर्वसद्गुणपूर्णताम् ॥
निर्दोषत्वं च विज्ञाय विष्णोस्तत्राखिलाधिकः ।
स्नेहो भक्तिरिति प्रोक्तः सर्वोपायोत्तमोत्तमः ।
तेनैव मोक्षो नान्येन दृष्ट्यादिस्तस्य साधनम् ॥
/ यदुक्तं ज्ञानिनोऽपि भगवत्कर्मेति तत्र श्रुतिं चोदाहरति -- अधेति ॥ अथ विष्णो ते स्तुतिर्यज्ञश्च हविष्मता ज्ञानिनाऽप्यर्थ्यः साध्यश्चेत्यर्थः । ज्ञानिनो मोक्षनियमात् किं कर्मणेत्यत आह -- पश्यन्नपीति ॥ सुनियतं वर्णाश्रमोचितम् । आप्नुयात् तेनेति शेषः । यद्यस्मात् तेनात्मनः क्लृप्तमानन्दोत्कर्षमाप्नुयात् तस्मात् इति वा ।
यदुक्तं विष्णुभक्तेरेव सर्वसाधनोत्तमत्वमित्यादि तत्र श्रुतिं दर्शयति -- भक्त्येति ॥ ज्ञानं विना भक्तेरभावात् कथम्भक्त्या ज्ञानमित्यत उक्तम् -- अनाकुलमिति ॥ प्रागल्पतयाऽऽकुलस्य सतोऽनाकुलत्वं भक्त्या भवतीति भावः । मोक्षसाधनत्वात् भक्तेस्तदनन्तरमभावाऽशङ्कां प्रसङ्गात् वारयति -- मुक्तोऽपीति ॥ भूयसी भक्तिः भूयोभक्तिः । मुक्तौ भेदाभावात्साम्याद्वा न भक्तिर्युक्तेत्यत उक्तम् -- तद्वश इति ॥ मुक्तौ भक्तिसद्भावे सुखादिफलमपि स्यात् । अन्यथा तदनुपपत्तेः । फलाङ्गीकारे च वृद्ध्यादिप्राप्तिरित्यत आह -- साध्येति ॥ न मुक्तभक्तेः फलसद्भावः । तस्याः साधनत्वाभावात् । न चैतावताऽनुपपत्तिः । यः पूर्वतन भक्त्या साध्य आनन्दस्तत्स्वरूपत्वेन भक्तेः फलत्वात् । फलस्य च तदाऽनुभवादिति भावः ।
कीदृशी सा विष्णुभक्तिरित्यत आह -- ब्रह्मेति ॥ कथं भक्तेरेव ज्ञानादिसाधनत्वमुच्यते । श्रवणादेस्तत्साधनत्वश्रवणादित्यत आह -- सर्वेति ॥ तदेव विवृणोति -- तेनैवेति ॥ मोक्षो मोक्षादिः । अतिपरिपक्वभक्तियोग एव मोक्षसाधनं, न भगवद् दृष्टिः । सा तु तत्साधनत्वात् मोक्षसाधनत्वेनोच्यते । परिपक्वभक्तियोग एव दृष्टिसाधनं, नतु ध्यानम् । तत्तु तत्साधनमिति दृष्टिसाधनतयोच्यते । पक्वो भक्तियोग एव ज्ञानसाधनं, नतु श्रवणादि । तत्तु तत्साधनतया ज्ञानसाधनत्वेनोच्यत इति भावः ।
* अधमाधिकारिणो मर्त्या मुक्तावृष्यादिकाः समाः ।
अधिकार्युत्तमा देवाः प्राणस्तत्रोत्तमोत्तमः ॥
नैव देवपदं प्राप्ताः ब्रह्मदर्शनवर्जिताः ।
तिरोहितं तथाप्येते शृण्वन्ति क्रीडयाऽथवा ॥
बहुवारतदभ्यासात् तिरोभावेऽपि नो भवेत् ॥
यथा व्यासानुशिष्टानां देवानां क्षत्रजन्मनाम् ।
पार्थानामतिरोधानं ज्ञानं सुस्थिरतां गतम् ॥'
/ यदुक्तम् अर्जुनस्य देवत्वादुत्तमाधिकारित्वं, ततोऽपरोक्षज्ञानित्वमिति तत्रार्जुनस्य देवत्वोत्तमाधिकारित्वयोर्व्याप्तौ, उत्तमाधिकारित्वापरोक्षज्ञानित्वयोर्व्याप्तौ च श्रुतिमुदाहरति -- अधमेति ॥ मर्त्या मर्त्योत्तमाः । समा मध्यमाः । देवानामुत्तमाधिकारित्वं कुत इत्यतो ब्रह्मदर्शनाविनाभावादित्याह-- नैवेति ॥ कथं तर्~हि तेषां श्रवणाद्युपलभ्यत इत्यत आह -- तिरोहितमिति ॥ एवं चेन्न पुनः श्रोत्रव्यं पूर्ववत्, भूयस्तिरोभावप्राप्तेरित्यत आह -- बहुवारेति ॥ तदभ्यासात् श्रवणाद्यभ्यासात् । बहुवाराभ्यासेन ज्ञानस्यातिरोभावः क्व दृष्ट इत्यत आह -- यथेति ॥ अभ्यासप्रदर्शनार्थमुक्तं व्यासेति ॥ प्रथमश्रवणाद्येवैतत्किं न स्यादित्यत उक्तम् -- देवानामिति ॥ देवत्वेन प्रागपि श्रवणाद्यस्त्येवेति भावः ।
* `अस्य देवस्य मीळ्~हुषो वया विष्णोरेषस्य प्रभृथे हविर्भिः ।
विदे हि रुद्रो रुद्रियं महित्वं यासिष्टं वर्तिरश्विनाविरावत् ॥ (ऋ.7-40-5)
``एको नारायण आसीन्न ब्रह्मा न च शङ्करः ।
स मुनिर्भूत्वा समचिन्तयत्तत एते व्यजायन्त ।
विश्वो हिरण्यगर्भोऽग्निर्यमो वरुणरुद्रेन्द्रा इति ।"
``एको नारायण आसीन्न ब्रह्मा नेशानः ।"
``वासुदेवो वा इदमग्र आसीन्न ब्रह्मा न च शङ्करः ।"
`यं यं कामयते विष्णुस्तं ब्रह्माणं च शङ्करम् ।
शक्रं सूर्यं यमं स्कन्दं कुर्यात् कर्ताऽस्य न क्वचित् ॥'
``सर्वोत्कर्षे देवदेवस्य विष्णोर्महातात्पर्यं नैव चान्यत्र सत्यम् ।
अवान्तरं तत्परत्वं तदन्यत् सर्वागमानां पुरुषार्थस्ततोऽतः ।" इति पैङ्गि श्रुतिः ।
``परो मात्रया तन्वा वृधान नते महित्वमन्वश्नुवन्ति" (ऋ. 7-99-1)
``अनन्तगुणमाहात्म्यो निर्दोषो भगवान् हरिः ।
न समो वाऽधिको वाऽपि विद्यते तस्य कश्चन ।
नाऽसीन्न च भविष्यो वा परतः स्वत एव च ।" इत्यादि श्रुतेश्च ।
/ यद्विष्णोर्ब्रह्मरुद्रादिसर्वोत्तमत्वमुक्तं तत्र श्रुतीरुदाहरति -- अस्येति ॥ अस्याभिलषितसेचकस्य आ समन्तादीशस्य विष्णोर्देवस्य हविर्भिः प्रभरणे कृते बन्धको रुद्रो रौद्रं महिमानं लेभे यथा तथाश्विनौ युवामप्यन्नवद्वर्तनं प्राप्तौ स्थ इत्यर्थः । आसीज्जगदादौ । मुनिर्मौनी । समचिन्तयदेते जायन्तामिति । विश्वो वायुः । इदमग्रेऽस्य जगतोऽग्रे । सर्वोत्कर्षे इति श्रुतिः सर्वशास्त्राणां तत्परत्वे तद् ज्ञानात् मोक्षे च मानं भवति । सत्यं मुख्यम् । ततः विष्णुतः । विष्णो त्वं मितेः परोऽसि । मूर्त्यैव पूर्णोऽसि न तु कीर्त्यादिमात्रेण । अतस्ते महिमानं नान्ये प्राप्नुवन्तीत्यर्थः ।
* ``यस्त्वात्मरतिरेव स्यात्" इत्यादि तु मुक्तविषयम् ।
`यस्त्वेवात्मरतो मुक्तः कार्यं तस्यैव नास्ति हि ।
तस्मात् कुर्वीत कर्माणीत्याह कृष्णोऽर्जुनं स्मयन् ॥' इति स्कान्दे ।
ज्ञानयोगेन साङ्ख्यानामित्यादि तु बाह्यकर्मसङ्कोचापेक्षया ।
`न हि कश्चित् क्षणमपि जातु तिष्ठत्यकर्मकृत् ।' (गी. 3-5)
`शरीरयात्राऽपि च ते न प्रसिध्येदकर्मणः ॥' (गी. 3-7)
`एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च ।
कर्तव्यानीति मे पार्थ निश्चितं मतमुत्तमम् ॥' (गी. 18-6)
/ यदुक्तं ज्ञानिनामपि कर्म कार्यं, तेनानन्दातिशयश्च भवतीति तदयुक्तम् । यस्त्विति ज्ञानिनस्तदुभयाभावस्योक्तत्वादित्यत आह -- यस्त्विति ॥ नानेन ज्ञानिनः कर्माद्यभावः सिद्ध्यति । अस्यात्मरतित्वादि विशेषणानां मुक्त एव मुख्यत्वेन पूर्वोत्तरवाक्यानुसारेण च मुक्तविषयतया ज्ञानिमात्रविषयत्वाभावादित्यर्थः । अत्र सर्वथा देहाद्यभिमानमुक्तत्वेनासम्प्रज्ञातसमाधिस्थोऽपि मुक्त उच्यते । स्मृतिसमाख्यानाच्बैतत् मुक्तविषयमित्याह -- यस्त्विति ॥
* `ज्ञानी च कर्माणि सदोदितानि कुर्यादकामः सततं भवेत ।'
` न सर्वकर्मणां त्यागः कस्यचिद्भवति क्वचित् ।
त्यागिनो यतयोऽपि स्युः सङ्कोचाद् बाह्यकर्मणाम् ॥' इत्यादि ।
`उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्वदर्शिनः' इत्यादि चोत्पन्नज्ञानतिरोभावनिवृत्त्यर्थम् ।
/ तथापि न ज्ञानिनः कर्मकरणं युक्तम् । ज्ञानयोगेनेति ज्ञानिनां कर्माभावोक्तेः । न चास्य मुक्तविषयत्वं वक्तुं शक्यते । ज्ञानेनैव ज्ञानिनां मुक्तिरित्युक्तेरित्यत आह -- ज्ञानेति ॥ न ज्ञानिनां कर्माङ्गीकारेप्येतद् वाक्यविरोधः । अस्य यति विषयत्वात् । तेषामप्येतद् बाह्यकर्मसङ्कोचापेक्षयैव ज्ञानेन मोक्षमाह । नतु कर्माभावाभिप्रायेणेति भावः । ज्ञानिनां सर्वकर्माभाव एवास्यार्थः किं न स्यादित्यतो भगवतैव तदसम्भवस्योक्तत्वादित्याह -- न हीति ॥ नात्र ज्ञानिनः शरीरयात्रार्थकर्मत्यागो विवक्षित इति ब्रूमो येनासम्भवः स्यात् । किन्तु यज्ञादिकर्मत्याग एव । तस्यैव मोक्षविरोधित्वादिति चेन्न । कामादिरहितयज्ञादेरबन्धकत्वाभिप्रायेण भगवताऽभिहितत्वादित्याह -- एतानीति ॥ अज्ञविषयोऽयं विधिः किं न स्यादिति चेन्न । ज्ञानिन एव श्रुत्या कर्तव्यतयेति शेषः । तथाप्येतद् वाक्यस्योक्तार्थः कुत इति चेत्समाख्यानादित्याह -- नेति ॥
यदुक्तमर्जुनो ज्ञानीति तदयुक्तम् । उपदेक्ष्यन्तीत्यस्याज्ञत्वप्रतीतेरित्यत आह -- उपदेक्ष्यन्तीति ॥ नार्जुनस्य ज्ञानित्वेप्येतद् वाक्यस्य विरोधः । यत एतद् प्रागुत्पन्नज्ञानतिरोभावनिवृत्त्यर्थमेवोपदेशमाह । न तु प्रागप्राप्तज्ञानलाभार्थमित्यर्थः ॥
॥उपोद्घातः सम्पूर्णः ॥
॥ श्रीवादिराजगुर्वन्तर्गतमध्वेशाभिन्नहयग्रीवात्मककृष्णार्पणमस्तु ॥
******************************************************************************
॥श्रीगुरुभ्योनमः ॥
श्रीवादिराजगुर्वन्तर्गत श्रीमध्वेशाभिन्न श्रीलक्ष्मीहयग्रीवायनमः ॥
अथ द्वितीयोऽध्यायः ॥
* प्रकर्षेण जानन्तीति प्रज्ञाः । तदवादः प्रज्ञावादः । प्राज्ञमतविरुद्धवादं वदसि । कथं ? गतासून् ॥2/ 11 ॥
एवं सङ्क्षेपतो गीतातात्पर्यमुक्त्वाऽथ विस्तरेण तद्विवक्षुः कतिपय श्लोकाधिकाऽद्याध्यायस्यातिरोहितार्थत्वात् सङ्ग्रहोक्त्यैव व्याख्याततां मन्वानोशोच्यान्वशोचस्त्वमित्यादि व्याकुर्वन् प्रज्ञावादपदार्थमाह -- प्रकर्षणेति ॥ तदवादो न तदुपेक्षितः । अपि तु तद्वादविरुद्ध इत्यभिप्रेत्योक्तं विवृण्वन् वाक्यार्थमाह -- प्राज्ञेति ॥ ननु कथं विनाशिष्यन्तोऽशोच्याः । येनाशोच्यानन्वशोचस्त्वमित्युच्यते । कथं च न योत्स्य इति वाक्यं प्राज्ञमतविरुद्धम् ? दृष्ट्वेममित्यादिनोपपत्तेरुक्तत्वादित्याक्षिपति -- कथमिति ॥ तत्राऽद्यचोद्यपरिहारतयोत्तरार्धमुपादत्ते गतासूनिति ॥ 11 ॥
(गी 2/12)
* बन्धुस्नेहाद्धि त्वया स्वधर्मनिवृत्तिः क्रियते । तत्र देहनाशभयात् किं वा चेतननाशभयात् । देहस्य सर्वथा विनाशित्वान्न तत्र भये प्रयोजनम् । नच चेतननाशभयात् । तस्याविनाशित्वादेव । न तावत्परमचेतनस्य मम नाशोऽस्ति । एवमेव तवान्येषां च । ``नित्यो नित्यानां चेनश्चेतनानामेको बहूनां यो विदधाति कामान्" इत्यादि श्रुतेः ।
``स्वदेहयोगविगमौ नाम जन्ममृती पुरा ।
इष्येते ह्येव जीवस्य मुक्तेर्न तु हरेः क्वचित् ॥" इति स्कान्दे ।
ईश्वरस्यापि युद्धगतत्वात् मोहात्तस्याप्युभयविधानित्यत्वशङ्काप्राप्तौ तदपि निवार्यते -- न त्वेवाहं जातु नासमिति ॥ यद्यप्येषा शङ्काऽर्जुनस्य नास्ति । तथापि प्राप्तलोकोपकारार्थं भगवता निवार्यते । एकान्ते कथयन्नपि व्यासरूपेण तदेव लोके प्रकाशयिष्यति हि ॥ 12 ॥
द्वितीयं चोद्यं परिहर्तुमनुवदति -- बन्धुस्नेहादिति ॥ बन्धुस्नेहनिमित्तात् तन्नाशभयादित्यर्थः । सत्यमित्यतो विकल्पासहत्वात् तत्प्राज्ञमतविरुद्धमिति भावेन बन्धुशब्दस्य शरीरविशिष्टचेतने प्रयोगात् विकल्पयति -- तत्रेति ॥ आद्यं दूषयितुं देहिन इति श्लोकतात्पर्यमाह -- देहस्येति ॥ न तत्र भये प्रयोजनमिति । देहनाशभयनिमित्तया स्वधर्महान्या प्रयोजनं नास्तीत्यर्थः ।
(परिहारो हि भये प्रयोजनम् । न चासौ सम्भवति । कौमारादीनामिव देहस्य सर्वथा विनाशित्वात् । प्रयोजनाभावेन च भयानुपपत्तौ न तेन स्वधर्मनिवृत्तिर्युक्तेत्यर्थः । भयस्यास्वाधीनत्वेन प्रयोजनापेक्षापूर्वत्वाभावात् कथमिति चेन्न । यदृच्छया भयोत्पत्तावपि प्रयोजनाभावपरामर्शेन तत्परिहारस्याभिप्रेतत्वात् ।)-- एतत् पाठः मातृकायामेव दृश्यते । किरणावलीकाराश्च इदं पाठमधिकं वदन्तो व्याख्यान्ति ॥
द्वितीयनिरासाय न त्वेवेति श्लोकतात्पर्यमाह -- नेति ॥ अविनाशित्वेन भयप्राप्तेरेवायोगात् भयेन स्वधर्मनिवृत्तिः सुतरामयुक्तेत्यर्थः । नन्वीश्वरनाशस्यानाशङ्कितत्वात् किमर्थं न त्वेवाहमित्युक्तिरित्यतो दृष्टान्तत्वेन श्लोकं व्याचष्टे - न तावदिति ॥ प्रागभावश्चेति द्रष्टव्यम् । तावदितीश्वरस्य स्वरूपतो देहतश्च नाशाद्यभावं सूचयति । परमचेतनस्येति स्वतन्त्रचेतनत्वहेतुं सूचयति ॥ एवमेवेति ॥ चेतनमात्रत्वेन स्वरूपतो नाशादिर्नास्तीत्यर्थः । ईश्वरस्य परमनित्यत्वचेतनत्वे कुतः प्रसिद्धे ? येनासौ दृष्टान्ततयोपादीयत इत्यतः श्रुतिप्रसिद्धिं दर्शयति -- नित्य इति ॥ नित्यो नित्यानामित्यतिशयेन नित्यत्वमेवोच्यते, न तु विवक्षितार्थ इत्यतस्तद् स्मृत्या विवृणोति -- स्वदेहेति ॥ विष्णोरपि जीववद् देहयोगादिसद्भावात् स्वदेहेत्युक्तम् । मुक्तेः पुरेति सम्बन्धः ।
अथवा दृष्टान्ततां विना ईश्वरोऽपि पक्षे निक्षिप्यत इति तत्प्राप्तिपूर्वकमाह-- ईश्वरस्येति ॥ तदपि उभयविधानित्यत्वमपि । नन्वत्रेश्वरस्य जीववत्स्वरूपनाशाद्यभाव एवोच्यते । तत्कथमुभयविधानित्यत्वं निवार्यत इत्युच्यत इत्यत आह -- न त्वेवेति ॥ तुशब्देनेश्वरस्य विशेषतो नाशाद्यभावो ज्ञायते । स चोक्तविध एवेति भावः ।
नन्वर्जुनस्य ज्ञानित्वाद्युद्धगतेऽपि भगवत्येतद् शङ्काऽभावादप्राप्तप्रतिषेधोऽयमित्यत आह -- यद्यपीति ॥ प्राप्तः योग्यः शङ्कावान् सज्जनश्च । अनेनैवेश्वरानित्यत्वस्याप्रस्तुतत्वादिति भाष्यविरोधोऽपि परिहृतः । एकान्ते कथ्यमानेनानेन कथं लोकोपकार इत्यत आह -- एकान्त इति ॥ व्यासरूपेण गीतायां निबध्य ॥ 12 ॥
* मम स्वकीयदेहान्तरप्राप्तिरपि नास्तीति दर्शयितुं देहिन इति विशेषणम् । भवदादीनां सा भविष्यतीत्यपि शोको न कर्तव्यः । देहस्येदानीमप्यन्यथात्वदर्शनात् ॥ 13 ॥
/ यद्यत्रेश्वरस्योभयविधनाशाद्यभावो विधीयते कथं तर्~हि देहिन इत्यत्र पूर्वोक्तानामीश्वरादीनां देहान्तरप्राप्तिरुच्यते । न चेश्वरातिरिक्तानाम् । तद्व्यावर्तकाश्रवणादित्यत आह -- ममेति ॥ न देहिन इत्यत्रेश्वरस्य देहान्तरप्राप्तिरुच्यते । अपि तु जीवानामेव । न चेश्वरव्यावर्तकाभावः । ईश्वरव्यावृत्त्यर्थ देहिन इति विशेषणस्य प्रयुक्तत्वात् । विष्णोर्भिन्नदेहाभावेन देहित्वाभावादिति भावः । ईश्वरस्यापि जीवदेहान्तरप्राप्तिसद्भावात् स्वकीयेत्युक्तम् । एवं चेत्कः श्लोकार्थ इत्यतस्तमाह -- भवदिति ॥ इदानीमेकस्मिन्नपि शरीरे कौमारादिरूपेणान्यथात्वदर्शनात् तत्र यथा शोकाभावस्तथैवेत्यर्थः ॥ 13 ॥
श्लोक: मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः।
आगमापायिनोऽनित्यास्तांस्तितिक्षस्व भारत ॥ 14/2 ॥
* तददर्शनादिनिमित्तं सोढव्यमित्याह -- मात्रास्पर्शा इति ॥ विषयसम्बन्धाः ॥ 14 ॥
/ कौमारदिहानेन यौवनादिप्राप्तावप्यशोको युज्यते । तस्यैव पुनर्दर्शनादिसम्भवात् । देहान्तरप्राप्तौ तद्दर्शनाद्यसम्भवात् शोक इत्याशङ्कापरिहाराय श्लोकमवतारयति -- तदिति ॥ दुःखमिति शेषः । सोढव्यमिति ॥ अनभिमानेन परिहर्तव्यमित्यर्थः । मात्रास्पर्शा इत्येतद् शब्दश्रवणेन भिन्नपदत्वशङ्कापरिहाराय व्याचष्टे -- विषयेति ॥ 14 ॥
श्लोक:-- यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ ।
समदुःखसुखं धीरं सोऽमृतत्वायकल्पते ॥ 15/2 ॥
* फलमाह ॥ यं हीति ॥ न केवलमव्यथामात्रेणामृतत्वं किन्तु पुरुषम् । ``पुरु ब्रह्म गुणाधिक्यात् तद् ज्ञानात् पुरुषः स्मृतः" इति प्रवृत्ते । पुरुसरणात् पुरुष इत्यर्थः ।
ननु दुःखाभावस्य युद्धाकरणेऽपि सम्भवात् किं तत्कृत्वा दुःखाभावाय अभिमान परित्यागेनेत्याशङ्क्य देहाद्यनभिमानेन भवन् दुःखपरित्यागः स्वयं फलरूपोऽपि परमपुरुषार्थहेतुश्च भवतीति भावेन श्लोकमवतारयति -- फलमिति ॥ अनभिमानेन दुःखपरिहारस्येति शेषः । कथं व्यथापरिहारमात्रेणामृतत्वम् ? ``तमेवं विद्वान्" इत्यादि श्रुतिविरोधादित्याशङ्कापरिहाराय पुरुषपदमवतारयति -- नेति ॥ कथमनेनैतद् शङ्कापरिहार इत्यतः स्मृत्यैव व्याचष्टे -- पुरु ब्रह्मेति ॥ अस्तु पुरुपदेन ब्रह्म । तद् ज्ञानात् पुरुष इत्येतद् कथं लभ्यत इत्यत आह -- पुरुसरणादिति ॥ सरणं गमनम् । तदेव ज्ञानमिति भावः ॥ 15 ॥
नासतो विद्यते भावो नाभावो विद्यते सतः ।
उभयोरपि दृष्टोन्तस्त्वनयोस्तत्वदर्शिभिः ॥ 16/2 ॥
* न च युद्धात् परलोकदुःखमिति शोकः । असत्कर्मणः सकाशात् भावो नास्ति, सत्कर्मणः सकाशादभावो नास्तीति नियतत्वात् ।
``सद्भाववाचिनः शब्दाः सर्वे ते सुखवाचकाः ।
अभाववाचिनः शब्दाः सर्वे ते दुःखवाचकाः" - इति शब्दनिर्णये ।
``सद्भावे साधुभावे च सदित्येतद् प्रयुज्यते ।
प्रशस्ते कर्मणि तथा सच्छब्दः पार्थ युज्यते" इति वक्ष्यमाणत्वात् । ``असन्नेव स भवति । असद्ब्रह्मेति वेद चेत्" इत्यादेश्च । अन्तो निर्णयः ।
ननु ``पापमेवाश्रयेदस्मान्"इत्यादिना बन्धुहननादिरूपात् युद्धात् परलोकदुःखं शोकहेतुतयोक्तम् । अतः शोक इत्यत आह -- न चेति ॥ कुतो नेत्यतो हेतुतया नासत इति श्लोकं व्याचष्टे -- असदिति ॥ असत्कर्मण इति दृष्टान्तः । नियतत्वादित्यनेनोत्तरार्धतात्पर्यमुक्तं भवति । इदं च नारायणद्विट् तदनुबन्धिनिग्रहरूपत्वात् सत्कर्मैवेति भावः ।
ननु यथाऽसत्कर्मणा सुखं नास्त्येवं सत्कर्मणा दुःखं नास्तीति वक्तव्ये भावाभावयोरभाववर्णनं क्वोपयुज्यत इत्यतो भावाभावशब्दयोरेव सुखदुःखवाचित्वे प्रमाणमाह -- सद्भावेति ॥ सदसच्छब्दयोः सदसत्कर्मवाचित्वं कुत इत्यत आह -- सद्भाव इति ॥ अश्रद्धयेत्युत्तरवाक्यं चात्र ग्राह्यम् ।
भावाभावशब्दपर्यायसदसच्छब्दयोः सुखादौ प्रयोगं प्रमाणं च दर्शयति -- असन्निति ॥ ब्रह्म दुःखीति वेद चेत्तर्~हि स वेत्ता दुःख्येव भवति । ब्रह्म सुखरूपमिति वेद चेत्तर्~हि वेत्तारं सुखिनं विदुरित्यर्थः । अन्तशब्दस्यानेकार्थत्वादिह विवक्षितार्थमाह -- अन्त इति ॥
* न चाविद्यमानविद्यमानयोरुत्पत्तिनाशनिषेधकोऽयं श्लोकः । प्रत्यक्ष विरोधात् । सन्निति व्यवह्रियमाणमेव पदार्थस्वरूपमुत्पत्तेः प्रा~घX नाशोत्तरं च नास्तीति सर्वलोको व्यवहरति । नच विपर्यये किञ्चिन्मानम् । इदं तु वाक्यमन्यथासिद्धम् ।
``आद्यन्तयोः सर्वकार्यमसदेवेति निश्चितम् ।
यद्यसन्न विशेषोऽत्र ज्ञायते कोऽत्र जायते ॥
व्यक्तावपि समं ह्येतदनवस्थाऽन्यथा भवेत् ।
एवं नाशेऽपि बोद्धव्यमतोऽसन्नेव जायते ॥
तथाप्यभेदानुभवात् कार्यकारणयोः सदा ।
भेदस्य चाविशेषेण देहोऽगात् क्षितितामिति ।
व्यवहारो भवेद्यस्मात् बल्येवानुभवः सदा ॥" इति ब्रह्मतर्के ।
असतः प्रागविद्यमानस्य भाव उत्पत्तिर्न विद्यते । सतो विद्यमानस्याभावो नाशो न विद्यत इत्यपव्याख्यां प्रत्याख्याति -- नचेति ॥ गीतानुसारेणाल्पाच् तरमित्याद्यतिक्रमः । किमेकप्रत्यक्षविरोधोऽथ सर्वप्रत्यक्षविरोधः ? नाद्यः । भ्रान्तित्वोपपत्तेः । न द्वितीयः । परबुद्धेरसिद्धेरित्यत आह -- सन्निति ॥ स्थितिकाले सत्त्वेन व्यवह्रियमाणमेव पदार्थं उत्पत्तेः प्रा~घX नाशोत्तरं च नास्तीति सर्वलोको व्यवहरति । तेन सर्वलोकस्याविद्यमानविद्यमानयोरुत्पत्तिनाशव्यवहारेण तन्मूलं प्रत्यक्षमनुमातुं शक्यमिति भावः । ननु व्यवहारान्यथानुपपत्त्या तन्मूल ज्ञानमेव सिद्ध्यति । न तु तस्य प्रत्यक्षतानियम इति चेत् । किमिदमनुमानादिज्ञानमुत भ्रमः ? नाद्यः । अनङ्गीकारात् । लिङ्गाद्यभावेऽपि भावाच्च । द्वितीयं निराचष्टे -- न चेति ॥ भ्रमत्वे बाधकेन भाव्यम् । नच तदत्रास्ति । अतो नायं भ्रम इति परिशेषात् प्रत्यक्षमेव व्यवहारमूलं सिध्यतीति भावः । नासत इत्येतद् वाक्यमेव विपर्यये मानमित्यत आह -- इदमिति ॥ सिद्धं घटितम् ।
एतमेवार्थं ब्रह्मतर्केण साधयति -- आद्यन्तयोरिति ॥ उत्पत्तेः प्रा~घX नाशोत्तरं चेत्यर्थः । निश्चितं प्रत्यक्षेणेति शेषः । आदावसत्त्वानङ्गीकारे बाधकमाह -- यदीति ॥ यद्यत्र कार्ये पृथुबुध्नोदराकारादिविशेषः प्रागसन्नजायते तर्~ह्यत्र कार्ये जायत इति वित्तिव्यवहारयोः को विशेषः ? तौ निर्विषयौ प्रसज्येते इत्यर्थः । अभिव्यक्तिर्विषय इत्यत आह -- व्यक्ताविति ॥ व्यक्तिर्विषय इति वदताऽपि नासतो जन्म परिहृतम् । प्रागविद्यमानव्यक्तेर्जन्मनोऽङ्गीकार्यत्वात् । अन्यथा व्यक्तेः कादाचित्कत्वानुपपत्तेरिति भावः । प्रागविद्यमानाया एव व्यक्तेरभिव्यक्तिः कदाचिद्भवति । अतोऽभिव्यक्तेः कादाचित्कतेत्यत आह -- अनवस्थेति ॥ यदि व्यक्तेरपि व्यक्तिः तर्~हि तस्याः प्रागसत्या एव जन्माङ्गीकार्यम् । अन्यथोक्तदोषात् । तस्या अपि प्राग्विद्यमानाया एव व्यक्तिश्चेत्तस्या अप्येवमित्यनवस्था स्यादित्यर्थः । विद्यमानस्य नाशानभ्युपगमेऽप्येवं बाधकं बोद्धव्यमित्याह -- एवमिति ॥ तथाहि । सतो नाशाभावे नष्ट इति प्रत्ययादेर्निर्विषयत्वं स्यात् । अनभिव्यक्तिविषयत्वं चेत्तस्याः पूर्वमपि भावे कादाचित्कत्वानुपपत्तिः । अभावेऽसत्कार्यतापातः । अनभिव्यक्तेरभिव्यक्तिश्चेत् पूर्ववदनवस्थेति ॥ सन् विनश्यतीति चोपसंहारो द्रष्टव्यः ।
नन्वेवमसतो जन्मोपपत्तेरत्यन्तासत एव स्यात् । किं विशेषो जायत इत्युक्तेत्यत आह -- तथापीति ॥ यद्यप्येवमसतो जन्मोक्तम् । तथापि नात्यन्तासतः । किन्तु रूपभेदेन सदसत एवेति भावः । तत्कुत इत्यत आह -- अभेदेति ॥ भेदस्य चानुभवादिति सम्बन्धः । मृदेव घट इति कार्यकारणयोरभेदानुभवात् कारणस्य च प्रागपि सत्त्वात् कार्यस्यापि पूर्वं सत्त्वं सिध्यति । भेदानुभवादसत्त्वं चेत्यर्थः । अभेदानुभवो भ्रमः किं न स्यादित्यत आह -- अविशेषेणेति ॥ अभेदानुभवस्य भ्रमत्वे भेदानुभावस्यापि भ्रमत्वं स्यात् । विशेषाभावादिति भावः । अभेदानुभव एव नास्तीत्यत आह -- देह इति ॥ तस्मादभेदव्यवहारमूलमनुभवोऽनुमीयत इत्यर्थः । अनुभवसद्भावेऽपि कुत एतदित्यत आह -- बलीति ॥ अबाधितानुभवः स्वविषयस्थापने शक्त इत्यर्थः ।
* नच सदसद्विलक्षणं किञ्चिदस्तीत्यत्र किञ्चिन्मानम् । न चासतः ख्यात्ययोगात् सतो बाधायोगादुभयविलक्षणं भ्रान्तिविषयम् । असतः ख्यात्ययोगादिति वदतोऽसतः ख्यातिरभून्न वा । यदि नाभून्न तत् ख्यातिनिराकरणम् । यद्यभूत्तथापि । न चासतोऽसत्त्वेन, भ्रान्तौ सत्त्वेन च ख्यातिर्नास्तीत्यत्र किञ्चिन्मानम् । असद् व्यवहारलोपप्रसङ्गाच्च । यदविद्यमानं रूपं तस्य सत्त्वेन प्रतीतेरेव भ्रान्तित्वाच्च । अनिर्वचनीयत्वपक्षेऽपि सदिदं रजतमित्यविद्यमानसत्त्वप्रतीतिं विना नहि भ्रान्तित्वम् । भ्रान्तिसत्त्वाङ्गीकारेऽप्यभ्रान्तं सदिदं रजतमित्यविद्यमानसत्त्वप्रतीतौ हि प्रवर्तते । तस्मादुभयविलक्षणं न किञ्चित् । ``विश्वं सत्यम्" । ``यच्चिकेत सत्यमित्" । ``कविर्मनीषी परिभूस्सवयम्भूर्याथातथ्यतोऽर्थान् व्यदधात् शाश्वतीभ्यः समाभ्यः" इत्यादि श्रुतेश्च ॥
यदपि सदसद्विलक्षणत्वं विश्वस्यानेन श्लोकेनोच्यत इति व्याख्यानं तन्निराचष्टे -- न चेति ॥ सदसद्विलक्षणं किञ्चिदपि न प्रमाणिकं, कुतो विश्वमित्यर्थः । नन्वसतो भावो भानं ख्यातिर्न विद्यते । सतोऽभावो बाधो न विद्यते । अतस्तदुभयवतो भ्रमविषयस्यार्थापत्त्या सदसद्विलक्षणत्वात् कथं सदसद्विलक्षणं किञ्चिदपि न प्रामाणिकमित्यत आह -- न चेति ॥ यत् भ्रमविषयस्य शुक्तिरजतादेः सद्वैलक्षण्यमुक्तं तदङ्गीक्रियत एव । ख्यात्यनुपपत्त्या यदसद्वैलक्षण्यमुक्तं न तद्युक्तम् । तथाहि । असतः ख्यातिरनुपपन्नेति किमसत्त्वेनोत सत्त्वेन । आद्ये विकल्पयति -- असत इति ॥ द्वितीयं दूषयति -- यदीति ॥ प्रतीत एव धर्मिणि धर्मनिषेधस्य दृष्टत्वादसतोऽप्रतीतौ न तत्र प्रतीतत्व धर्मो निषेद्धुं शक्यत इति भावः । आद्यं पराह -- यदीति ॥ तथापि न तत् ख्यातिनिराकरणं सम्भवति । व्याघातादिति भावः । द्वितीयेऽपि किं भ्रान्तावभ्रान्तौ वा असतः सत्त्वेन ख्यात्ययोगः ? द्वितीयोऽङ्गीकारपरास्तः । प्राचीनपक्षे दूषणान्तरं वदन्नाद्यं दूषयति -- न चेति ॥ प्राचीनपक्षे दूषणान्तरमाह -- असदिति ॥ न केवलमसतोऽप्रतीतौ तद्धर्मनिराकरणानुपपत्तिरपि तु न कोऽपि व्यवहारस्तत्र युज्यते । सर्वव्यवहाराणां प्रतीति मूलत्वादिति भावः । असतो भ्रान्तौ सत्त्वेन प्रतीत्यभावे न मानमित्युक्तम् । तद्भावोऽपि कुत इत्यत आह -- यदिति ॥ शुक्त्यादेरधिष्ठानस्य योऽसद्रजतकाद्याकारस्तस्य सत्त्वेन प्रतीतेरेव भ्रान्तित्वात् । भ्रान्तावसतः सत्त्वेन प्रतीत्यनङ्गीकारे भ्रान्त्युच्छेदप्रसक्तेः साऽङ्गीकार्येति भावः ।
भवेदेतद्यदि भ्रान्तौ प्रतीयमानाकारस्यासत्त्वं सम्प्रतिपन्नं स्यात् । नैतदस्ति । अनिर्वचनीयत्वाङ्गीकारात् । अनिर्वचनीयप्रतीतौ भ्रमत्वोपपत्तेः । अतः कथं भ्रान्तावसतः सत्त्वेन प्रतीतिरित्यत आह -- अनिर्वचनीयत्वेति ॥ अस्त्वनिर्वचनीयत्वं भ्रान्तौ प्रतीयमानाकारस्य । तथापि न भ्रान्तावसतः सत्त्वेन प्रतीतिर्निवारयितुं शक्यते । तथाहि । तदनिर्वचनीयं रजतं किं भ्रान्तावनिर्वचनीयतयैव प्रतीयते सदिदमिति वा । नाद्यः । सदिदमिति प्रतीतिं विनाऽनिर्वचनीयमित्येव प्रतीतौ भ्रान्तित्वायोगात् । अन्यथा बाधकज्ञानस्यापि भ्रमत्वप्रसङ्गात् । परिभाषामात्रस्यान्यथयितुमपि शक्यत्वात् । द्वितीये च तत्सत्त्वं सदसद्वा । नाद्यः , अनिर्वचनीयत्वविरोधात् । भ्रान्तित्वानुपपत्तेश्च । द्वितीये प्राप्तमसतः सत्त्वेन प्रतिभानमिति भावः । नानिर्वाच्यरजतस्य सत्त्वमसत् । किन्तु प्रातीतिकमतो नासतः सत्त्वेन प्रतीतिरित्यत आह -- भ्रान्तीति ॥ अस्तु तावदनिर्वचनीयस्य सत्त्वं प्रातीतिकम् । तथाप्यसतः सत्त्वेन ख्यातिर्दुष्परिहरा । तथाहि । तत्प्रातीतिकं सत्त्वं किं प्रातीतिकमित्येव प्रतीयत उत व्यावहारिकमिति ? नाद्यः । प्रवृत्त्यभावप्रसङ्गात् । द्वितीये तु कथं नासतः सत्त्वेन ख्यातिरिति भावः । अतोऽसद्वैलक्षण्यसाधकार्थापत्तेर्दुष्टत्वान्न कस्यापि भ्रमविषयस्यानिर्वाच्यतेत्युपसंहरति -- तस्मादिति ॥
माऽस्तु भ्रमविषयस्यानिर्वाच्यताऽत्रोच्यत इति । विश्वस्य तु भविष्यति । तत्रासद्वैलक्षणस्य सङ्गतत्वात् । सद्वैलक्षण्यं तु बाधान्यथाऽनुपपत्त्या सिद्ध्यतीत्यतः श्रुतिविरोधान्नेति भावेनाह -- विश्वमिति ॥ विश्वस्य सदसद्विलक्षणत्वं विरुद्धं चेति भावेनाह -- विश्वमिति ॥ यशस्विनाविन्द्राबृहस्पती युवयोर्विश्वं सत्यमेव । कुतः ? युवयोः सत्यजगत्सृष्ट्यादिकर्म सर्वदेवता अपि जानन्ति यत इत्याहेत्यर्थः । बल्यादिभ्यः स्पृहणीयं वसु जेता इन्द्रादिभ्यो दाता । ईश्वरो यद्विश्वं चकार तत्सत्यमेव न मिथ्येत्यर्थः । सर्वज्ञो मनःप्रेरकः सर्वतो वरः स्वतन्त्रः परमेश्वरः पदार्थाननन्तकालेऽप्यबाधिततयैवाकरोदित्यर्थः ॥ 16 ॥
अविनाशि तु तद्विद्धियेनसर्वमिदं ततं ।
विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्~हति ॥ 17/2 ॥
* यद्यपि नित्यत्वं जीवस्याप्यस्ति । तथापि सर्वप्रकारेणाविनाशित्वं विष्णोरेवेति तु शब्दः ।
``अनित्यत्वं देहहानिर्दुःखप्राप्तिरपूर्णता ।
नाशश्चतुर्विधः प्रोक्तस्तदभावो हरेः सदा ॥
तदन्येषां तु सर्वेषां नाशाः केचिद्भवन्ति हि" इति महावाराहे ॥
``देशतः कालतश्बैव गुणतश्च त्रिधा ततिः ।
सा समस्ता हरेरेव न ह्यन्ये पूर्णसद्गुणाः ॥" इति परमश्रुतिः ॥ 17 ॥
एवं युद्धाकरणे कारणाभावमुक्त्वा तत्कर्तव्यं, तच्च भगवत्पूजात्वेन कार्यमिति वक्ष्यति । तत्रोभयोरपि नित्यत्वेन ईश्वरस्यातिशयाभावात् किं तत्पूजयेत्यत्रोक्तमविनाशीति । तत्रापि कस्यचिदविनाशित्वमेवोच्यते, न जीवादीश्वरस्यातिशयः । तद् ज्ञापकाश्रवणादित्यत आह -- यद्यपीति ॥ इति जीवादीश्वरस्यातिशयं तु शब्दो ज्ञापयतीत्यर्थः । नाशस्यानेकविधत्वं कथम् ? कुतश्चेश्वरस्य तदभाव इत्यत आह -- अनित्यत्वमिति ॥ अनित्यत्वं स्वरूपनाशः । अत्र विष्णुवाचकाभावात् कथमुच्यते विष्णोरित्यतो येन सर्वमिदं ततं इत्येतदेव तद्वाचकमिति भावेनैतत् श्रुत्यैव व्याचष्टे -- देशत इति ॥ 17 ॥
अन्तवन्त इमे देहानित्यस्योक्ताः शरीरिणः ।
अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत ॥ 18/2 ॥
* शरीरिणां तु देहहान्यादिनाशो विद्यत एव । ``येन सर्वमिदं ततम्" इति तस्यैव लक्षणकथनात् न जीवानां देशतो गुणतश्च अपूर्णता । अनिच्छया देहहान्यादेरेव दुःखावाप्तिः सिद्धा । तस्मादनाशिनोऽप्रमेयस्य विष्णोः पूजार्थं युध्यस्व । तत्प्रसादाधीनत्वात् दुःखनिवृत्तेः सुखस्य च । ``ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्पराः । तेषामहं समुद्धर्ता" इत्यादेः ।
जीवपक्षे नित्यस्योक्ता इत्युक्तत्वादनाशिन इति पुनरुक्तिः । `अविनाशि' `येन सर्वमिदं ततम्' इत्युक्तस्यैव ``अनाशिनोऽप्रमेयस्य" इति प्रत्यभिज्ञानाच्च ॥
अस्तु हरेः सर्वप्रकारेणाविनाशित्वम् । तथापि कथं तस्य जीवादतिशय इत्याशङ्कापरिहारायोच्यत -- अन्तवन्त इति ॥ तत्रैकस्य शरीरिणो देहनाशमात्रमुच्यत इत्यन्यथाप्रतीति निरासाय व्याचष्टे -- शरीरिणामिति ॥ ईश्वरः सर्वप्रकारेनाविनाशी । शरीरिणां तु नित्यत्वमात्रमेवास्ति । नतु सर्वप्रकारेणाविनाशित्वम् । देहहान्यादिसद्भावात् । अतोऽस्ति जीवादीश्वरस्यातिशय इति भावः ।
अस्त्वविनाशीति श्लोके भगवद्वाचकसद्भावः । तथापि येन सर्वमिदं ततं तदविनाशीति व्याप्तिरूपेणोक्तेः कथं विष्णोरेवेत्यवधार्यत इत्यत आह -- येनेति ॥ यद्यपि व्याप्तिरूपेणेदमुच्यते । तथापि सर्व ततत्वस्य विष्णुलक्षणत्वेन तत्रैव पर्यवसानाद्युक्तमवधारणमिति भावः ।
कथमिदमीश्वरस्य लक्षणम् ? जीवानामपि कालतस्ततत्वेन तत्रातिव्याप्तेरित्यत आह -- नेति ॥ न केवलमत्र कालतस्ततिरुच्यते । अपि तु देशतो गुणतश्च । नच सा जीवानामस्तीति भावः । अत्र जीवस्य प्रतिपाद्यतानिषेधपरं भाष्यममुख्यार्थपरं चानुमतमिति न तद्विरोधः । तत्र जीवेभ्योऽपि ततेराधिक्यात् । न त्वेवाहमिति पुनरुक्तेश्चेति ।
नन्वन्तवन्त इत्यत्र जीवस्य देहहानिरेवोच्यते । न तु नाशान्तरम् । अथः कथमादिपदप्रक्षेपेण व्याख्यानमित्यत आह -- अनिच्छयेति ॥ सत्यं देहहानिरेवात्रोक्तेति । तथापि दुःखप्राप्तिहान्योरनिष्टत्वेन तद्वतो दुःखप्राप्तिनियमादिति भावः ।
अस्त्वेवं जीवादिश्वरस्यातिशयः । ततश्च किमित्याशङ्कापरिहारायोत्तरार्धं व्याचष्टे -- तस्मादिति ॥ सर्वप्रकारेणाविनाशत्वेन सातिशयत्वादित्यर्थः । सातिशयत्वेऽपि कुतस्तत्पूजा कार्येत्यत आह -- तदिति ॥ न केवलं सर्वप्रकारेणाविनाशित्वात् तत्पूजाऽत्र कर्तव्येत्युच्यते । अपि तु सर्वप्रकारेणाविनाशित्वात् स एव स्वतन्त्रः । ततश्च तदधीनत्वं मुक्तेः । युद्धादि स्वकर्मणाऽऽराधितश्चेश्वरो मोक्षं ददाति । अतस्तत्पूजा कर्तव्येत्येवाभिप्रेतमिति भावः ।
अस्त्वीश्वरस्य सातिशयत्वात् मोक्षप्रदानशक्तिः । तथापि स्वकर्मणाऽऽराधितो हरिर्मोक्षं ददातीत्येतद् गीताभिमतमित्येतद् कुतः ? मुक्तेर्ज्ञानभक्तिसाध्यताया गीताभिमतत्वादित्यत आह -- ये त्विति ॥ केवलकर्मणा मोक्षसिद्धेः गीतानभिमतत्वेऽपि भक्तिज्ञानसहितेन साभिमतैव । ``ये तु सर्वाणि" इति तथोक्तत्वात् । तादृशं च कर्मात्रभिप्रेतमिति भावः । ``मत्पराः" इत्यनेन भगवद् ज्ञानमुच्यते । अनन्ययोगः अनन्यभक्तिः ।
`अनाशिनोऽप्रमेयस्य' इति प्रकृतशरीरिविषयं किं न स्यादित्यत आह -- जीवेति ॥ जीवपक्षेऽनाशिनोऽप्रमेयस्येत्यत्र जीवो वाच्य इति पक्षे । ईश्वरग्रहणपक्षे स्फुटमर्थभेदसम्भवात् तद्विहाय कथञ्चिदर्थभेदकथनं न युक्तमित्यत्रोच्यते । भाष्ये तु मुख्यार्थे सिद्धे गौणमप्यर्थान्तरमुच्यत इत्यविरोधः । न केवलं जीवपक्षे पुनरुक्तेरीश्वरपरत्वं अपि तु तज्जञापकसद्भावाच्च इत्याह -- अविनाशीति ॥ अविनाशीत्यत्र भगवता तावदीश्वर एव प्रतिपाद्य इति समर्थितम् । यदुक्तमविनाशित्वं तदेवात्र प्रत्यभिज्ञायते अनाशिन इति । यदपि सर्वततत्वमुक्तं तदेवाप्रमेयस्येति प्रत्यभिज्ञायते । अतोऽप्यत्रेश्वर एवोच्यत इति भावः ।
* ``इमे देहाः" इति विशेषणान्नित्यश्चिदानन्दात्मकः स्वरूपभूतो देहो मुक्तानामपि विद्यत इति ज्ञायते ।
``न वर्तते यत्र रजस्तमस्तयोः सत्त्वं च मिश्रं नच कालविक्रमः ।
न यत्र माया किमुतापरे हरेरनुव्रता यत्र सुरासुरार्चिताः ॥
श्यामावदाताः शतपत्रलोचनाः पिशङ्गवस्त्राः सुरुचः सुपेशसः ।
सर्वे चतुर्बाहव उन्मिषन्मणिप्रवेकनिष्काभरणाः सुवर्चसः ॥
प्रवालवैदूर्यमृणालवर्चसां परिस्फुरत् कुण्डलमौलिमालिनाम् ।
भ्राजिष्णुभिर्यः परितो विराजते लसद्विमानावलिभिर्महात्मनाम् ।
विद्योतमानप्रमदोत्तमाभिः सविद्युदभ्रावलिभिर्यथा नभः ॥" इति हि भागवते ।
`चिदानन्दशरीरेण सर्वे मुक्ता यथा हरिः ।
भुञ्जते कामतो भोगास्तदन्तर्बहिरेव च" इति परमश्रुतिः ॥
नच जीवेश्वरैक्यं मुक्तावपि ।
``इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः ।
सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च ॥" (गी. 14-3)
``यो वेद निहितं गुहायां परमे व्योमन् । सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता ।"
``एतमानन्दमयमात्मानमुपसङ्क्रम्य । इमान् लोकान् कामान्नी कामरूप्यनुसञ्चरन् । एतत्साम गायन्नास्ते ।"
``सर्वे नन्दन्ति यशसाऽऽगतेन सभासाहेन सख्या सखायः । किल्बिषस्पृत् पितुषणिर्~ह्येषामरं हितो भवति वाजिनाय ।"
``ऋचां त्वः पोषमास्ते पुपुष्वान् गायत्रं त्वो गायति शक्वरीषु । ब्रह्मा त्वो वदति जातविद्यां यज्ञस्य मात्रां विमिमीत उ त्वः" ।
``परं ज्योतिरुप सम्पद्य स्वेन रूपेणाभिनिष्पद्यते ।"
``स तत्र पर्येति जक्षन् क्रीडन् रममाणः । तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति ।"
जीवस्य देहहानिसद्भावादीश्वरदेहस्य नित्यत्वादीश्वरस्य जीवादतिशय इति यद्व्याख्यानं न तद्गीताऽभिमतं भवितुमर्~हति । देहस्यानित्यत्वनियमादित्यतो गीतायामेव इति विशेषणात् मुक्तदेहस्यापि नित्यत्वमनुज्ञायते । किमु हरेः । अन्यथा तद्विशेषणवैयर्थ्यात् । अतो युक्तमेव व्याख्यानमिति भावेनाह -- इम इति ॥ ननु मुक्तदेहस्यापि कथं नित्यत्वम् ? देहस्यानित्यत्वनियमादित्यत आह -- चिदिति ॥ जडशरीरत्वमेवानित्यत्वे प्रयोजकम् । तच्च मुक्तदेहस्य चिदानन्दात्मकत्वेन ततो व्यावर्तमानमनित्यत्वमपि व्यावर्तयतीति भावः । चिदानन्दात्मकत्वं देहस्य कथमित्यत आह -- स्वरूपेति ॥ स्वरूपं चिदानन्दात्मकमिति भावः । मुक्तानां देह एव नास्ति । `अशरीरं वाव सन्तम्' इत्यादेरित्यतो वाह -- चिदिति ॥ जडदेहाभावपरा श्रुतिरिति भावः । भिन्नदेहाभावपरा चेति भावेनाह -- स्वरूपेति ॥
ननु मुक्तानां नित्यचिदानन्दात्मकदेहसद्भाव एव कुत इत्यत आह -- न वर्तत इति ॥ अपरे दोषाः । सुपेशसः सुरूपाः । उन्मिषन्मणिप्रवेकनिष्काभरणाः स्फुरद्रत्नप्रवरहारामरणाः । सुवर्चसः सुकान्तिमन्तः । अत्र जडाभावमुक्त्वा तेषां शरीरोक्तेरर्थाच्चिदानन्दात्मकदेहवत्त्वं ज्ञायते ।
नन्वेतानि वाक्यानि गौणमोक्षपराण्येव मुख्यमुक्तौ जीवेश्वरयोरैक्येनैतदनुपपत्तेरित्यत आह -- नचेति ॥ कुतो नेत्यतो मुख्यमोक्षान्तरमपि भेदस्य श्रुतिस्मृतिसिद्धत्वादित्याह -- इदमिति ॥ अत्रापुनरावृत्तिश्रवणान्मुख्यमोक्षत्वं ज्ञायते । न केवलं मुक्तानामीश्वरात् भिन्नतया व्यथाद्यभावमात्रमपि तु भिन्नतयैव परमानन्दानुभवोऽप्यस्तीति भावेनाह -- यो वेदेति ॥ एतद्वाक्ययोः परब्रह्मप्रकरणगतत्वात् मुख्यमोक्षपरत्वम् । अन्योन्यं सखायस्ते सर्वे मुक्ताः । स्वावगतेन यशोरूपेण ब्रह्मादिसभां सहमानेनेश्वरेण निमित्तेन नन्दन्ति । कथम् ? यतोऽसौ एषामनिष्टस्पर्धी दिव्यान्नदाता सन्निन्द्रियाय हितो भवतीत्यर्थः । अत्राप्यनिष्टाभावश्रवणात् मुख्यमोक्षविषयत्वम् ।
कश्चिद् ब्रह्मा ऋचां सम्यगुच्चारणं कुर्वन्नास्ते । स्वयं चातिपुष्टिमान् कश्चिद् ब्रह्मा शक्वरीषु छन्दोमतीषु ऋक्षु गायत्रं साम गायति । कश्चिद् ब्रह्मा पुराणविद्यां वदति । कश्चिद् ब्रह्मा विष्णोर्मूर्तिं ध्यायतीत्यर्थः । अस्य च ब्रह्मबाहुल्यप्रतिपादकत्वात् मुख्यमोक्षविषयत्वम् । जक्षन् भक्षयन् हसंश्च रममाणो रतिं प्राप्नुवान् ।
* ``मुक्ताः प्राप्य परं विष्णुं तद्देहं संश्रिता अपि ।
तारतम्येन तिष्ठन्ति गुणैरानन्दपूर्वकैः ॥
भूपा मनुष्यगन्धर्वा देवाः पितर एव च ।
आजानेयाः कर्मदेवास्तत्त्वरूपाः पुरन्दरः ॥
शिवो विरिञ्च इत्येते क्रमात् शतगुणोत्तरा ।
मुक्तावपि तदन्ये ये भूपात् शतगुणावराः ॥
न समो ब्रह्मणः कश्चित् मुक्तावपि कथञ्चन ।
ततः सहस्रगुणिता श्रीस्ततः परमो हरिः ॥
अनन्तगुणितत्वेन तत्समः परमोऽपि न "
``अक्षण्वन्तः कर्णवन्तः सखायो मनोजवेष्वसमा बभूवुः ।" ``कामस्य यत्राऽप्ताः कामाः तत्र माममृतं कृधि" इत्यादि मोक्षानन्तरमपि भेदवचनेभ्यः ।
परमसाम्यं नाम योग्यानन्दपूर्वत्वमेव । न तु सर्वसाम्यमिति भावेन मुक्ततारतम्ये च मानमाह -- मुक्ता इति ॥ देवा देवगन्धर्वाः । तत्त्वरूपाः तत्त्वाभिमानिनो बृहस्पत्यादयः । उक्तेभ्योऽन्ये ये मनुष्योत्तमास्ते भूपाच्छतांशोना इत्यर्थः । तारतम्यसद्भावे परस्परं विरोधः स्यादित्यत आह -- अक्षण्वन्त इति ॥ प्राप्ताक्षिकर्णफलाः परस्परविरोधशून्या मुक्ताः ज्ञानादिगुणेष्वसमा बभूवुः । तत्र केचित् क्षीरसागरमग्नाः । केचिदश्वत्थवनमुपवर्तमानाः । केचित् स्नातव्यहृदा इव गम्भीरा भगवन्तं ददृशुरित्यर्थः । इदं वाक्यं ``श्रुत्वा विष्णुं" इत्यागमेन मुख्यमुक्तिविषयतया व्याख्यातम् । अत एव ऋचां त्वं इत्यस्य ऋत्विग्विषयत्ववर्णनं परास्तम् । तारतम्येऽपूर्तिः स्यादित्यत आह -- कामस्येति ॥ यत्रेच्छाविषयाः पर्याप्तास्तत्र लोके माममृतं कुर्वित्यर्थः ।
* नच ``यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत् ।" ``यद्वैतन्न पश्यति पश्यन् वै तन्न पश्यति ।" ``न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यते । अविनाशित्वात् । नतु तद् द्वितीयमस्ति । ततोऽन्यद् विभक्तं यत्पश्येत् ।" ``परमं ब्रह्म वेद ब्रह्मैव भवति" ``तत्त्वमसि", ``अहं ब्रह्मास्मि" इत्यादि श्रुतिविरोधः ।
सञ्ज्ञानाशो यदि भवेत् किं मुक्त्या नः प्रयोजनम् ।
मोहं मां प्रापयामास भवानत्रेति चोदितः ॥
याज्ञवल्क्यः प्रियामाह नाहं मोहं ब्रवीमि ते ।
भूतजज्ञानलोपः स्यान्निजं ज्ञानं न लुप्यते ॥
नच ज्ञेयविनाशः स्यादात्मनाशः कुतः पुनः ।
स्वभावतः पराद्विष्णोर्विश्वं भिन्नमपि स्फुटम् ॥
अस्वातन्त्र्याद्भिन्नमिव स्थितमेव यदेदृशम् ।
तदा घ्राणादिभोगः स्यात् स्वरूपज्ञानशक्तितः ॥
तदाऽऽत्मानुभवोऽपि स्यादीश्वरज्ञानमेव च ।
यदाऽन्यन्न विजानाति नात्मानं नेश्वरं तथा ॥
पुरुषार्थता कुतस्तु स्यात् तदभावाय को यतेत् ।
तस्मात् स्वभावज्ञानेन भिन्ना विष्णुसमीपगाः ॥
भुञ्जते सर्वभोगांश्च मुक्तिरेषा न चान्यथा ।
यन्न पश्येत् परो विष्णुर्द्वितीयत्वेन स स्वतः ॥
तद् द्वितीयं न भवति प्रादुर्भावात्मकं वपुः ।
प्रधानपुरुषादन्यद् यत् तस्मात् भिन्नमीश्वरः ॥
विभक्तत्वेन नियतं यस्मात् पश्यति सर्वदा ।
पश्यन्नेव यतो विष्णुस्तदभेदं न पश्यति ॥
चेतनाचेतनस्यास्य नाभेदोऽस्ति ततोऽमुना ।
नहि ज्ञानविलोपोऽस्ति सर्वज्ञस्य परेशितुः ॥
तथापि न जीवेशभेदो युक्तः । तदभेदाभिधायकश्रुतिविरोधादित्यत आह -- न चेति ॥ कुतो न विरोध इति चेदर्थान्तरसम्भवात् । प्रतीत एवार्थः किं न स्यादिति चेन्न । श्रुत्यन्तरेभ्य एवार्थान्तरस्यावगमादित्याह -- सञ्ज्ञेति ॥ ``प्रज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति । न प्रेत्य सञ्ज्ञाऽस्ति " इति याज्ञवल्क्यवाक्यानन्तरं तदभिप्रायमजानन्त्याः मैत्रेय्याश्चोद्यवाक्यम् -- ``अत्रैव मा भगवान् मोहान्तमापीपन्न प्रेत्य सञ्ज्ञाऽस्ति" इति । तदर्थ उच्यते सञ्ज्ञेति । यदि मोक्षे ज्ञानं नश्येत् तर्~हि तस्यापुरुषार्थत्वं स्यात् । भवति चासौ पुरुषार्थः । अतस्तत्र ज्ञानाभाववचनं मोहकमेवेत्यर्थः । ``स होवाच । न वा अरे अहं मोहं ब्रवीमि" इत्यस्यार्थ इतीति । ज्ञानानाशकथनं कथं न मोहकमित्यत उच्यते -- ``अविनाशी वा अयमात्माऽनुच्छित्तिधर्मा" इति । तस्यार्थो भूतजेति । भौतिकज्ञानं लुप्यत इति मद्वाक्यार्थो न तु निजज्ञानमपीत्यतो न मद्वाक्यं मोहकमिति भावः । भूतजानाममुक्तानामेतद्विषये ज्ञानं लुप्यत इति वा । कुतो निजं ज्ञानं न लुप्यत इत्यत आह -- न चेति ॥ आत्मनाशः आत्मस्वरूपभूतज्ञाननाशः । आत्मातिरिक्तमपि यदा न नश्यति तदा किं वाच्यमतिप्रेमास्पदात्मस्वरूपज्ञानं न नश्यतीत्यर्थः । ज्ञेयानाशोऽपि कुत इत्याशङ्कापरिहाररूपं -- ``यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति । तदितर इतरं जिघ्रति । यत्र त्वस्य सर्वमात्मैवाभूत् तत्केन कं पश्येत्तत्केन कं जिघ्रेद्येनेदं सर्वं विजानाति तं च केन विजानीयात् । विज्ञातारमरे केन विजानीयात्" इति वाक्यं व्याख्यायते --स्वभावत इति ॥ आत्मव्यतिरेकेण ज्ञेयसद्भाव एव घ्राणादिभोगस्येश्वरज्ञानस्यात्मज्ञानस्य च सम्भवादन्यथाऽसम्भवात् ज्ञेयसद्भावोऽङ्गीकार्य इत्यर्थः । निर्विशेषाद्वैते कर्मकर्तृभावविरोधात् स्वज्ञानं च नोपपद्यते । यो ज्ञेयाभावे भोगाद्यसम्भव उक्तः सोऽप्यस्त्वित्यत आह -- यदेति ॥ अन्यद्गन्धादि । कथं भोगाद्यभावे पुरुषार्थताभाव इत्यत आह -- तदिति ॥ पुरुषेणार्थ्यो हि पुरुषार्थः । न हि भोगाद्यभावं पुरुषोऽर्थयते । तदर्थं यतते वा । अतो भोगाद्यभावरूपो मोक्षो न पुरुषार्थ इत्यर्थः । ``एतावदरे खल्वमृतत्वम्" इत्युपसंहारवाक्यं व्याक्रियते -- तस्मादिति ॥ भोगाद्यभावेऽपुरुषार्थत्वप्रसक्तेर्भोगाद्यङ्गीकार्यम् । भोगादिसम्भवाच्च भिन्ना विषयादयः । ततश्च स्वरूपज्ञानमिति भावः ।
`यद्वैतन्न पश्यति न तु तद् द्वितीयमस्ति' इत्यस्यार्थो यदिति । ``ततोऽन्यद् विभक्तं यत्पश्येत्" इत्येतद् व्याक्रियते -- प्रधानेति ॥ अन्यदवतारव्यतिरिक्तमीश्वरेण भिन्नतया दृष्टत्वात् प्रधानपुरुषादिकं भिन्नमेवेश्वरादित्युक्तम् । अभिन्नतया सर्वज्ञेनेश्वरेणादृष्टत्वाच्च भिन्नमित्युपपादकं `पश्यन् वै तन्न पश्यति' इति । एतद् वाक्यं व्याक्रियते -- पश्यन्निति ॥ प्रधानादीनां स्वतो भिन्नत्वेन दर्शनमीश्वरस्य भ्रमः किं न स्यादित्याशङ्कापरिहाररूपं ``न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यते" इत्येतद् व्याक्रियते -- नहीति ॥ विपरिलोपो विपरीतत्वम् । अविनाशित्वादिति । नित्यत्वेन निर्दोषत्वादित्यर्थः ।
* ब्रह्माणि जीवाः सर्वेऽपि परब्रह्माणि मुक्तिगाः ।
प्रकृतिः परमं ब्रह्म परमं महदच्युतः ॥
नैव मुक्ता न प्रकृतिः क्वापि तद्विष्णुवैभवम् ।
प्राप्नुवन्त्यपि तज्जञानान्निजं ब्रह्मत्वमाप्यते ॥
यद्यस्य परमेशत्वं तदा स्यात् दुःखिता कुतः ।
दुःखी चेत् कुत ईशत्वमनीशो ह्येव दुःखभाक् ॥
कुतः सर्वविदोऽज्ञत्वं क्व भ्रमोऽप्यज्ञतां विना ।
तस्मान्नैवेश्वरो जीवस्तत्प्रसादात्तु मुच्यते ॥
अहेयत्वादहं नामा भगवान् हरिरव्ययः ।
ब्रह्माऽसौ गुणपूर्णत्वादस्म्यसावसनान्मितेः ॥
असनादसिनामाऽसौ तेजस्तात्त्वमितीरितः ।
सर्वैः क्रियापदैश्बैव सर्वैर्द्रव्यपदैरपि ।
सर्वैर्गुणपदैश्बैव वाच्य एको हरिः स्वयम् ।
युष्मत्पदैः प्रातियोग्यात् तद्युतैश्च क्रियापदैः ॥
अस्मत्पदैरान्तरत्वात् क्रियार्थैश्च तदन्वयैः ।
परोक्षत्वात् तत्पदैश्च मुख्यवाच्यः स एव तु ॥
सर्वान् वेदानधीत्यैव प्रज्ञाधिक्येन हेतुना ।
श्वेतकेतुरहङ्कारात् प्रायशो नास्मि मानुषः ॥
देवो वा केशवांशो वा नैषा प्रज्ञाऽन्यथा भवेत् ।
एवं महत्त्वबुद्ध्यैव दर्पपूर्णोऽभ्यगात्पितुः ॥
सकाशमाकृताचारं तं दृष्ट्वा स्तब्धमज्ञवत् ।
पितोवाच कुतः पुत्र स्तब्धता त्वामुपागता ॥
प्रायो नारायणं देवं नैव त्वं पृष्टवानसि ।
यस्मिन् ज्ञाते त्वविज्ञातज्ञानादीनां फलं भवेत् ॥
प्राधान्यात् सदृशत्वाच्च तदधीनमिति स्फुटम् ।
तत्सृष्टं चेति विज्ञातं फलवद्धि भवेत् जगत् ॥
‘परमं ब्रह्म वेद ब्रह्मैव भवति'इति श्रुतिं व्याख्यातुं तदुपयुक्तमाह -- ब्रह्माणीति ॥ श्रुतिव्याख्यानं अपीति । यद्यपि परमं ब्रह्म वेद तथापि ब्रह्मैव भवति न परं ब्रह्म भवतीत्यर्थः । कुत इत्थं कल्प्यते? परब्रह्मज्ञानेन परब्रह्मत्वं भवतित्येवार्थः किं न स्यादित्यत आह -- यदीति ॥ यदि जीवस्य मुक्तौ परमेश्वरैक्यं स्यात्तर्~हि संसारेऽपि तथा स्यात् । प्राग्भिन्नस्य पश्चादभेदानुपपत्तेर्नैतद्युज्यते । तथात्वे दुःखानुपपत्तेरिति भावः । कुतो न स्याद्दुःखितेत्यत आह -- दुःखीति ॥ परमेश्वरभूतस्याप्यज्ञानवशाद्दुःखित्वमित्यत आह -- कुत इति ॥ सर्वज्ञस्यापि भ्रान्त्याऽज्ञानमित्यत आह -- क्वेति ॥ भ्रमस्याधिष्ठानाज्ञानमूलत्वादज्ञानस्य च भ्रान्तिमूलत्वाङ्गीकारेऽन्योन्याश्रयतेति भावः । `अहं ब्रह्मास्मि' ``तत्त्वमसी"ति श्रुतिद्वयं व्याचष्टे ॥ अहेयत्वादिति ॥ असनान्मितेरिति ॥ स्वस्मिन् परिमितेर्निरासादित्यर्थः । विरोधिनां निरसनात्प्रमितिरूपत्वाच्चेति वा । त्विट् (त्वि~घ्) प्रकाशन इति धातोस्तेजस्त्वात्त्वमितीरितः । न केवलमेतच्छब्दवाच्यत्वं हरेरपि तु सर्वशब्दवाच्यत्वं चेत्याह ॥ सर्वैरिति ॥ सर्वशब्दवाच्यत्वेऽपि रूपविशेषनियमोऽस्तीत्याह ॥ युष्मदिति ॥
तत्त्वमसीति वाक्यं नाभेदपरम् । पूर्वोत्तरवाक्याननुसारित्वादिति भावेनाऽदित एव प्रकारान्तरेण व्याक्रियते । तत्र ``सर्वान् वेदानधीत्य महामना अनूचानमानी स्तब्ध एयाय"इत्येतद्व्याक्रियते ॥ सर्वानिति ॥ ``तं ह पितोवाच श्वेतकेतो यन्नु खलु सोम्यैवं महामाना अनूचानमानी स्तब्धोऽस्युत तमादेशमप्राक्ष्यो येनाश्रुतं श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातं भवति" इत्येतद्व्याक्रियते ॥ अकृताचारमिति ॥ आदिश्यत इत्यादेशो नारायणः । ज्ञाते श्रुते मते च । अविज्ञातज्ञानादीनामिति ॥ अविज्ञाताश्रुतामतज्ञानश्रवणमननानामित्यर्थः । अविज्ञातान्यज्ञानादीनां यत्फलं तत्तदभावेऽपि भगवज्जञानादिमात्रेणापि भवतीत्यर्थः । अविज्ञातान्यज्ञानादीनां जातानामपि यत्फलं तदपि भगवज्जञानादौ जात एव जातं भवतीति च । परमात्मज्ञानादौ सत्यन्यदज्ञाताद्यपि ज्ञातादिवद्भवतीति वा । एवंविधत्वादीश्वरस्य तज्जञाने स्वात्मनोऽत्यन्ताधमत्वज्ञानसम्भवेन केशवोऽस्मीत्याद्यभिमानायोगान्नासौ त्वया पृष्ट इति भावः । तत्राऽद्ययोजनाद्वये प्राधान्यं हेतुः । तृतीययोजनायां सादृश्यं हेतुः ।
जातमपि जगज्जञानादि परमात्मज्ञानादौ सत्येव सफलमिति कथमित्यत आह ॥ तदधीनमिति ॥ भगवज्जञानादि तावदेवं भवति । वशीकृतविश्वो जगत्सृष्ट्यादिकर्तेश्वर इति । एवं च भगवज्जञानादौ सति जगत्तदधीनमिति ज्ञानादिकं दृढं भवति । ततश्च मोक्षादिफलं भवतीत्यर्थः ।
* स्वातन्त्र्येणास्य विज्ञानं मिथ्याज्ञानमनर्थकृत् ।
यथा चैवैकमृत्पिण्डज्ञानादेः सदृशत्वतः ।
मृण्मयं तदकार्यं च ज्ञातं मृदिति वै भवेत् ॥
यथैव मृत्तिकेत्यादिनित्यनामप्रवेदनात् ।
वाचारब्धमनित्यं तु ज्ञातं तन्मूलमित्यपि ॥
एवं कारणभूतोऽसौ भगवान् पुरुषोत्तमः ।
प्रधानश्च स्वतन्त्रश्च तन्मूलमखिलं जगत् ॥
तदाधारं विमुक्तौ च तदधीनं सदा स्थितम् ।
स सूक्ष्मो व्यापकः पूर्णस्तदीयमखिलं जगत् ।
तस्मात्तदीयस्त्वमसि नैव सोऽसि कथञ्चन ॥
<लन्ग्=कन्>// एवमज्ञातस्यापि जगतो ज्ञानादिना फलं किं न स्यादित्यतः का फलप्रत्याशा प्रत्युतानर्थ एव भवतीत्याह ॥ स्वातन्त्र्येणेति ॥ उक्तरीत्या भगवज्जञानाद्यभावे जगतः स्वातन्त्र्येणैव ज्ञानादि प्राप्यते । तच्च मिथ्याज्ञानत्वादनर्थकृदित्यर्थः ।
सादृश्याद् भगवज्जञानादौ सत्यन्यज्जञातादिवद्भवतीत्यत्रोक्तं `यथा सोम्येकेन मृत्पिण्डेन सर्वं मृण्मयं विज्ञातं स्यात्'इति दृष्टान्तं व्याचष्टे ॥ यथा चेति ॥ ज्ञातं ज्ञातादि । प्राधान्याद्भगवज्जञानादिमात्रेणाज्ञातादेरप्यन्यस्य ज्ञानादिफलं भवति, भगवज्जञानादौ सत्येव ज्ञातस्याप्यन्यस्य ज्ञानादेः फलं भवतीत्युभयत्रोक्तं `वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्'इति दृष्टान्तं व्याचष्टे ॥ यथेति ॥ यस्मात् साङ्केतिकनामधेयस्य वाचाऽऽरम्भणं क्रियते अतस्तद्विकारोऽत एवाप्रधानम् । मृत्तिकेत्यादिसंस्कृतं नाम नित्यम् । अत एव प्रधानं । प्राधान्यात् मृत्तिकेत्यादिसंस्कृतज्ञानमात्रेण साङ्केतिकाज्ञानादावपि तत्फलं विद्वानिति व्यवहारविषयत्वादिकं भवति । संस्कृतनामज्ञान एव च साङ्केतिकानामज्ञानं सफलं भवति । तन्मात्रेण विद्वानिति व्यवहारविषयत्वाद्यभावादित्यर्थः ॥ तन्मूलमिति ॥ तत्प्रधानकत्वादित्यर्थः ।
`एवं सोम्य स आदेशो भवति'इति दार्ष्टान्तिकवाक्यं व्याचष्टे ॥ एवमिति॥ प्रधानोऽतस्तद् ज्ञानादिनोक्तप्रकारद्वयेनान्यज्ञानादिसाफल्यं भवतीति शेषः । एवं सदृशश्चेति द्रष्टव्यम् । प्राधान्यमेवेश्वरस्य कुत इत्यतः सदेव सोम्येत्यादिना स्वातन्त्र्येण जगत्कारणत्वमुक्तम् । तदेवाह ॥ स्वतन्त्रः कारणभूत इति ॥ ईश्वरोऽहमिति भावाकरणे हेतुतयेश्वरमाहात्म्यमुक्तम् । माहात्म्यान्तरं चोच्यते- `सन्मूलाः सोम्येमाः सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठाः'इति । तदर्थमाह ॥ तन्मूलमिति ॥ माहात्म्यान्तरमुक्त्वा अभेदबुद्धिं मा कुर्वित्युच्यते -'स एषोऽणिमैतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा तत्त्वमसि श्वेतकेतो'इति । तद्व्याचष्टे ॥ स इति ॥ व्यापकः पूर्ण इत्यात्मशब्दस्यार्थद्वयम् । पूर्णो गुणैः । नैव सोऽसीति । अतत्त्वमसीति विभज्य व्याख्यानान्तरम् ।
* यथा पक्षी च सूत्रं च नानावृक्षरसा अपि ।
यथा नद्यः समुद्रश्च यथा वृक्षपरावपि ॥
यथा धानाः परश्बैव यथैव लवणोदके ।
यथा पुरुषदेशौ च यथाऽज्ञज्ञानदावपि ॥
यथा स्तेनापहार्यो च तथा त्वं च परस्तथा ।
भिन्नौ स्वभावतो नित्यं नानयोरेकता क्वचित् ॥
एवं भेदोऽखिलस्यापि स्वतन्त्रात् परमेश्वरात् ।
परतन्त्रं स्वतन्त्रेण कथमैक्यमवाप्नुयात् ॥
स जीवनामा भगवान् प्राणधारणहेतुतः ।
उपचारेण जीवाख्या संसारिणि निगद्यते ॥
तदधीनमिदं सर्वं नान्याधीनः स ईश्वरः ।
जीवेश्वरभिधा चैव जडेश्वरभिधा तथा ।
जीवभेदो मिथश्बैव जडजीवभिधा तथा ॥
जडभेदो मिथश्चेति प्रपञ्चो भेदपञ्चकः ।
स नित्य एव नोत्पाद्य उत्पाद्यश्चेन्नशेदपि ॥
तस्मादनादिमानेव प्रपञ्चो भेदपञ्चकः ।
विष्णोः प्रज्ञामितं यस्माद् द्वैतं न भ्रान्तिकल्पितम् ॥
अद्वैतः परमार्थोऽसौ भगवान् विष्णुरव्ययः ।
परमत्वं स्वतन्त्रत्वं सर्वशक्तित्वमेव च ॥
सर्वज्ञत्वं परानन्दः सर्वस्य तदधीनता ।
इत्यादयो गुणा विष्णोर्नैवान्यस्य कथञ्चन ।
अभावः परमद्वैते सन्त्येव ह्यपराणि तु ॥
``विकल्पो विनिवर्तेत कल्पितो यदि केनचित् ।
अद्वैतं ज्ञानिनां पक्षे न तस्माद्विद्यते क्वचित् ॥" इत्यादि श्रुतिभ्योऽर्थान्तरस्यैवावगतत्वात् ।
// जीवेश्वरभेदे `स यथा शकुनिः'इत्यादिनोक्तदृष्टान्तवाक्यानि व्याचष्टे ॥ यथेति ॥ यदपि `जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि'इति, `स एष जीवेनात्मनाऽनुप्रभूतः'इति जीवेशाभेदाभिधायकवत्प्रतीयमानं वाक्यद्वयं तत् `इत्यादिश्रुतिविरोध'इत्यादिपदगृहीतं व्याख्यायते ॥ न इति ॥ `जीवापेतं वाव किलेदं म्रियते । न जीवो म्रियते'इत्यस्यार्थस्तदधीनमिति ।
`प्रपञ्चो यदि विद्येत निवर्तेत न संशयः'इत्यादिश्रुतिः भेदमिथ्यात्वाभिधायकवत्प्रतीयमाना प्रागादिपदगृहीता व्याख्यायते ॥ जीवेति ॥ विद उत्पत्ताविति धातुमाश्रित्य `यदि विद्येत'इत्येतदुत्पाद्यश्चेदिति व्याख्यातम् । भ्रान्तिकल्पितत्वाद्भेदस्य कथमनादिनित्यतेत्याशङ्कानिवर्तकस्य `मायामात्रमिदं द्वैतम्'इत्यस्यार्थो विष्णोरिति । भेदस्य सत्यत्वे कथमद्वैतं स्थानान्तरे कथ्यत इत्यत उक्तं अद्वैतं परमार्थत इति । अस्यार्थोऽद्वैत इति । अनेन परमार्थत इति तसिः प्रथमार्थ इत्युक्तं भवति । अद्वैतवाक्यं परमार्थो भगवानद्वैत इत्याहेत्यर्थः । किं तत्परमत्वमित्यत आह ॥ परमत्वमिति ॥ एवं परमत्ववतोऽद्वैतत्वं नाम किमित्यत आह ॥ इत्यादय इति ॥ सोऽय परमद्वैते अभावः । तदिदं परमत्ववतोऽद्वैतत्वं तदेवाद्वैतश्रुत्यर्थ इत्यर्थः । सर्वाद्वैतमेवार्थः किं न स्यादित्यत आह ॥ सन्तीति ॥
* एकपिण्डनामधेयेतिशब्दानां वैयर्थ्यं चान्यथा ।
न चैकविज्ञानेन सर्वविज्ञानं तत्पक्षे । न हि शुक्तिज्ञो रजतज्ञ इति व्यवहारः । नवकृत्वोऽपि भेद एव दृष्टान्तोक्तेश्च । तस्मादतत्त्वमसीत्येवोच्यते ।
ऐतदात्म्यमित्येदात्मसम्बन्धि, तत्स्वामिकम् । त्वमपि तदैतदात्म्यमेवासि न सोऽसीति वा । तदिति लिङ्गसाम्यं चात्र ।
अविद्यमानमेवेश्वरं सृष्ट्यादिकं चाप्राप्तमेवात्मनो भिन्नत्वेन प्रापयित्वा तन्निषेधे कथं श्रुतेरुन्मत्तवाक्यत्वं न स्यात् । अनुवादोऽपि यदिदं वदन्ति तन्न युज्यत इत्यादिवाक्यं परिहारे विशेषयुक्तिं च विना न दृष्टः । अतिप्रसङ्गश्चान्यथा । अभेदानुवादेन भेदोपदेशः किमिति न स्यात् ।
// बाधकाभावाच्च न भेदस्य कल्पितत्वमित्यर्थप्रतिपादकं विकल्प इति वाक्यम् । तस्यार्थो विकल्प इति । `स आत्मा तत्त्वमसि'इत्यादिवाक्यस्य भेदपरत्वसिद्ध्यर्थं `यथा सोम्य'इत्यादिवाक्यस्य स्वोक्तमर्थमनङ्गीकृत्य अर्थान्तरताकल्पनायां उदाहृतश्रुतिविरोधो बाधकः । बाधकान्तरं चाह ॥ एकेति ॥ यथैकमृत्पिण्डविज्ञानेन सर्वं मृण्मयं विज्ञातं स्यात्, यतो नामरूपात्मकं मृण्मयं वागालम्बनमात्रं न तु पारमार्थिकं, मत्तिकैव सत्या तथा परमात्मज्ञाने सति जगज्जञानं भवति । ततोऽतिरेकेणाभावादित्यन्यथा व्याख्यानं न युज्यते । `मृदा ज्ञातया सर्वं मृण्मयं विज्ञातं स्यात् । वाचारम्भणं विकारो मृत्तिकैव सत्या'इत्येतावता पूर्णत्वेनैकादिशब्दानां वैर्य्यथ्यात् । सर्वमृण्मयानामेकमृत्पिण्डातिरेकेणाभावाभावात् । नामधेयस्यापि विकारत्वादिति भावः ।
किन्द वाचारम्भणवाक्ये यदि ईशेशितव्यादिप्रपञ्चस्य परमात्मन्यारोपिततया ततोऽतिरेकेणाभावो विवक्षितस्तर्~हि प्रतिज्ञातं परमात्मज्ञानेन जगज्जञानं न स्यात् । सत्यज्ञानेन मिथ्याज्ञानस्यानुपपत्तेः । विरोधात्तयोर्ज्ञानयोरित्याह ॥ न चेति ॥ ननु परमात्मज्ञानेन जगन्मिथ्येति ज्ञायत एव । अतः कथमुच्यते ब्रह्मण्यारोपितत्वे जगतः तज्जञानेन जगत् ज्ञानानुपपत्तिरित्यत आह ॥ न हीति ॥ एवं चेत्परमात्मज्ञानेन प्रपञ्चाभावज्ञानं भवतीति वक्तव्यम् । न तु प्रपञ्चज्ञानं ब्रह्मज्ञानेन भवतीति । तथा लोके व्यवहाराभावादिति भावः । इतोऽपि नात्र प्रपञ्चस्य परमात्मातिरेकेणाभावो विवक्षित इत्याह ॥ नवकृत्व इति ॥ किमतो यद्येवं वाचारम्भणश्रुतिर्भेदपक्षे युक्तेत्यत आह ॥ तस्मादिति ॥ तस्मात्पूर्ववाक्यानां भेदपरत्वादित्यर्थः ।
अतत्त्वमसीति भेदपरतया योजनायां `ैतदात्म्यमिदं सर्वम्'इति पूर्ववाक्यविरोधः स्यादित्यतस्तस्य श्रुत्योक्तमर्थं स्मारयति ॥ ऐतदात्म्यमिति ॥ अस्त्वेवमात्मसम्बन्धीति योजना । सम्बन्धश्च तादात्म्यमित्यतः स्वस्वामिभावसम्बन्ध एवेति भावेनाह ॥ तदिति ॥ तत्त्वमसीति पदविभागमभ्युपेत्यापि पूर्वोत्तरवाक्यानां भेदपरत्वात् भेदपरतया श्रुतिसिद्धमर्थान्तरं चाह ॥ त्वमपीति ॥ न सोऽसीति व्यावृत्तिकथनमात्रम् । इतोऽप्यैतदात्म्यपरामर्शोऽयमित्याह ॥ तदिति ॥ ऐतदात्म्यपरामर्शे तदितिपदस्यैकलिङ्गत्वं गुणः स्यात् । ततश्चैतदात्म्यपरामर्शोऽयमित्यर्थः । प्राचीनपक्षेपि तस्मादन्यदतदिति न लिङ्गवैषम्यम् ।
भवेदयमैतदात्म्यपरामर्शो भवतामनुगुणो यद्यैतदात्म्यपदेन तत्सम्बन्ध्युच्यते । न च तन्निश्चितम् । सर्वोऽपि ईशेशितव्यादिप्रपञ्चः परमात्मात्मक इत्यप्यर्थसम्भवादिति चेत् । तत्किमत्र ईशेशितव्यादिप्रपञ्चस्य साक्षात्परमात्माभेदोऽभिधीयत इति ते मतम् उत ईशेशितव्यादिप्रपञ्च एव परमात्मातिरिक्तो नास्तीति स्वरूपतो निषिध्यते? नाद्यः । मिथ्यासत्ययोरभेदायोगात् । द्वितीयं दूषयति ॥ अविद्यमानमिति ॥ यद्येषा श्रुतिरीशेशितव्यादिप्रपञ्चं परमात्मातिरेकेण प्रतिषेधति तदोन्मत्तवाक्यवदप्रमाणं स्यात् । अविद्यमानस्यैवेशेशितव्यादिप्रपञ्चस्य स्वयमेव तदैक्षतेत्यादौ परमात्मातिरेकेण विहितत्वात् । न च वाच्यमत्र निषेद्धुं तदैक्षतेत्यादावीशेशितव्यादिप्रपञ्चोऽनूद्यत एव, अतो न दोष इति । ईशेशितव्यादिप्रपञ्चस्य श्रुतिं विनाऽत्मनो भिन्नत्वेनाप्राप्ततयाऽनुवादायोगादिति भावः ।
इतोऽपि निषेधाय तदैक्षतेत्यादौ प्रपञ्चोऽनूद्यत इति न युज्यते । `यदिदं वदन्ति तन्न युज्यते'इति वाक्येन, निषेधे विशेषयुक्त्या च हीनत्वात् । तद्विनाऽनुवादस्य क्वाप्यदृष्टत्वादित्याह ॥ अनुवादोऽपीति ॥ तादृशवाक्याद्यभावेऽपि निषेधायात्रानुवादः प्रपञ्चस्येत्यङ्गीकारे को दोष इति चेत् अदृष्टकल्पनेत्येकं दूषणम् । अपरं चाह ॥ अतिप्रसङ्गश्चेति ॥ कथमित्यत आह ॥ अभेदेति ॥ अन्यथेति सम्बध्यते । यद्येतादृशवाक्याद्यभावेऽप्यैतदात्म्यमित्यादौ निषेद्धुं तदैक्षतेत्यादिना परमात्मातिरिक्ततया प्रपञ्चोऽनूद्यत इति कल्प्यते तर्~हि तदैक्षतेत्यादौ प्रपञ्चस्य परमात्मातिरेकेणाभावं निषिध्यातिरिक्तत्वेन भावं विधातुमैतदात्म्यमित्यादिना प्रपञ्चस्य परमात्मातिरेकेणाभावोऽनूद्यत इत्यपि स्यादविशेषादित्यर्थः ।
* सर्वशाखान्ते भेदोक्तेश्बैतदेव युक्तम् । ``नासंवत्सरवासिने प्रब्रूयात् नाप्रवक्त्र इत्याचार्या आचार्याः ।" ``अहं विश्वं भुवनमभ्यभवाम् ।" ``अनन्ते स्वर्गे लोके ज्येये प्रतितिष्ठति प्रतितिष्ठतीति ब्रह्मविदो विदुः ।" ``नमोविष्णवे महते करोमि" ``पश्यन्त्यात्मन्वयस्थितम्" इत्यादि ।
नचेश्वरः तद् भेदो वा प्रत्यक्षादि सिद्धः ।
तत्पक्षे त्वैक्यादेरपि मिथ्यात्वात् स्वरूपस्य च सिद्धत्वात् व्यर्थैव श्रुतिः । लक्षितस्वरूपस्यापि न स्वरूपाद्विशेषः । निर्विशेषत्वोक्तेः । मिथ्याविशेषोक्तौ चाप्रामाण्यं श्रुतेः ।
मिथ्यात्वं च मिथ्यैव तेषाम् । अतः सत्यत्वं सत्यं स्यात् ।
// इतश्च निषेधायायं प्रपञ्चस्य परमात्मातिरिक्ततया सद्भावानुवादो न भवतीत्येतदेव युक्तमित्याह ॥ सर्वेति ॥ अनुवादो भवन् शाखादावेव भवेत् । तदन्ते तु निषेधः । न चात्र तदस्ति । भेदस्यैव शाखान्तेषूक्तत्वात् । अतोऽपि न भेदस्य निषेधाय श्रुतावनुवाद इत्यर्थः । शाखान्तेषु कास्ता भेदोक्तय इत्यत आह ॥ नेति ॥
यदुक्तमभेदानुवादेन भेदोपदेशः स्यादिति न तद्युज्यते । अभेदस्य श्रुतिं विनाऽप्राप्तत्वात् । किं नामेशेशितव्यादिप्रपञ्चस्य परमात्मभिन्नतयाऽनुवादेन तन्निषेध एव युक्तः । ईशेशितव्यादिप्रपञ्चस्य परमात्मभिन्नतायाः प्रत्यक्षादिप्राप्तत्वादित्यत आह ॥ न चेति ॥ अत्रेश्वरपदेन परमात्मोच्यते । परमात्मन एव प्रत्यक्षाद्यसिद्धत्वेन तत्प्रतियोगिकेशेशितव्यादिप्रपञ्चस्य भेदः सुतरां प्रत्यक्षाद्यसिद्धः । यदुच्यते श्रुतिसिद्धं परमात्मानं प्रतियोगीकृत्य प्रपञ्चस्य भेदः प्रत्यक्षादिना गृह्यत इति तन्न । तथासति प्रपञ्चभिन्नतया श्रुतावपि परमात्मनिरूपणप्रसङ्गात् । अन्यथा प्रत्यक्षादिनाऽपि तद्भेदस्य विषयीकर्तुमशक्यत्वात् । तथा चोन्मत्तवाक्यमेवेति भावः । ईश्वरस्यैव प्रत्यक्षादिनाऽसिद्धेरीशेशितव्यस्य च तदाकारेणासिद्धेः परमात्मनः सकाशादीश्वरादिरूपप्रपञ्चस्य भेदः सुतरां तेनासिद्ध इति वा ।
इतोऽपि न परमात्मातिरिक्तप्रपञ्चनिषेधो युज्यत इत्याह ॥ तत्पक्ष इति ॥ यदि परमात्मातिरिक्तः सर्वोऽपि प्रपञ्चो मिथ्या स्यात् तदा सर्वश्रुतीनां वैर्यथ्यं स्यात् । तथाहि । `एकमेवाद्वितीयम्' `यः सर्वज्ञः' इत्यादिश्रुतिरैक्यादिधर्मप्रतिपादिका उत आत्मास्वरूपप्रतिपादिका । आद्येऽप्यैक्यसार्वज्ञादिधर्माः किं स्वरूपातिरिक्ताः स्वरूपं वा । नाद्यः । तथात्वे मिथ्यात्वापातात् । द्वितीयस्तु तृतीयोऽन्तर्भवति । नाप्यसौ युक्तः । स्वरूपस्य स्वतः सिद्धत्वेन प्रतिपादनवैर्यथ्यादिति भावः ।
शुद्धस्वरूपस्याप्रतिपाद्यत्वेऽपि भेदाभावसार्वज्ञाद्युपलक्षितस्वरूपस्य प्रतिपाद्यत्वान्न श्रुतिवैयर्थ्यमित्यत आह ॥ लक्षितेति ॥ लक्षितस्यापि शुद्धाद्विशेषाभावेन तद्वदस्याप्यप्रतिपाद्यत्वान्न तत्प्रतिपादकत्वं श्रुतेर्युक्तमित्यर्थः । कुतः शुद्धाद्विशेषाभावो लक्षितस्येत्यत आह ॥ निर्विशेषत्वेति ॥ लक्षितमिति यदोक्तं तदैव तस्य निर्विशेषत्वमप्युक्तमेव । अन्यथा विशिष्टत्वापत्त्या मिथ्यात्वापातात् । अतस्तस्य न शुद्धाद्विशेष इति भावः । ननु भवतु धर्माणां मिथ्यात्वम् । तथापि श्रुतेस्तत्प्रतिपादकत्वे को दोष इत्यत आह ऽऽ मिथ्येति ॥
इतोऽपि नाऽत्मातिरिक्तस्य सर्वस्य मिथ्यात्वं युक्तमित्याह ॥ मिथ्यात्वमिति ॥ आत्मातिरिक्तस्य सर्वस्य मिथ्यात्वे तन्मिथ्यात्वं सत्यं मिथ्या वा । नाद्यः । आत्मातिरिक्तं सर्वं मिथ्येति पक्षक्षतेः । अतो मिथ्येत्येवाङ्गीकार्यमिति भावः । किमतो यद्येवमित्यत आह ॥ अत इति ॥ इतश्च नात्मविशेषाणां मिथ्यात्वमिति वाऽऽह ॥ मिथ्येति ॥
* उपाधिकृतभेदेऽप्युपाधेर्मिथ्यात्वे त्वप्राप्तमेवोपाधिभेदं प्रापयित्वा पुनर्निषिध्यत इति स एव दोषः । सत्योपाधिपक्षेऽपि हस्तपादाद्युपाधिभेदेऽपि भोक्तुरेकत्वदृष्टेरेकेनैवेश्वरेण सर्वोपाधिगतं सुखं दुःखं भुज्येतेत्येवमादयो दोषाः समा एव ।
अचेतनानामनुभवाभावान्न तत्साम्यम् । अतो जीवेश्वरयोर्भेद एवेति सिद्धम् ॥ 18 ॥
//न सार्वज्ञादिविशेषा असन्तो येन श्रुतेरप्रामाण्यं स्यात् । नापि शुद्धं लक्ष्यं ज्ञानस्वरूपं श्रुतिवेद्यमित्युच्यते । येनोक्तदोषः स्यात् । किं नामैकस्मिन्नेवात्मनि उपाधिभेदभिन्नेतन्निमित्तसार्वज्ञादिविशेषाश्च भवन्ति । तदुपाधिभेदभिन्नमौपाधिकविशेषविशिष्टस्वरूपं श्रुतिप्रतिपाद्यमिति चेत्, किमसावुपाधिः मिथ्या सत्यो वा ॥ आद्ये दोषमाह ॥ उपाधीति ॥ उपाधिकृत एवात्मनि भेदो विशेषाश्चेत्यङ्गीकृत्योपाधेर्मिथ्यात्वाङ्गीकारे तद्भिन्नस्वरूपस्य तन्निमित्तविशेषाणां च मिथ्यात्वं स्यात् । तथाच तदभिधायकश्रुतेरप्रामाण्यं स्यात् । नेह नानेत्यादौ निषेधाय मिथ्याभूतमपि तदुच्यते श्रुताविति चेत्तर्~हि स्वयमेव मिथ्याभूतमुपाधिभेदभिन्नस्वरूपं तन्निमित्तविशेषांश्च विधाय पुनस्तन्निषेधे श्रुतेरुन्मत्तवाक्यत्वमेव स्यात् । निषेधाय तदनूद्यत इति चेन्न । उपाधिभेदभिन्नस्वरूपस्य तन्निमित्तविशेषाणां च प्रत्यक्षाद्यप्राप्तत्वेनानुवादानुपपत्तेरिति भावः । द्वितीयं दूषयति । सत्येति ॥ यद्यप्यत्रापसिद्धान्तो वक्तुं शक्यः । तथापि तस्यातिस्फुटत्वेन दोषान्तरमेवोक्तम् । ब्रह्मातिरिक्तस्य सत्यत्वमङ्गीकृत्यापि ब्रह्मण्युपाधिभेदमङ्गीकुर्वतां दूषणाय च । आदिपदेनोपाधेरप्येकदेशसम्बन्ध इत्यादिवक्ष्यमाणसङ्ग्रहः । सत्योपाधिपक्षेऽपि दोषाः समा इत्यनेन मिथ्योपाधिपक्षेऽप्येति भवन्तीति सूचयति ।
नन्वेकत्वेऽप्याकाशस्य तथा महानसाकाशगतधूमानुभवस्तस्यैव न सर्वाकाशस्योपाधिभेदात् । तथाऽत्रापि स्यादित्यत आह ॥ अचेतनानामिति ॥ किं महानसाकाशसम्बन्धवत्त्वेऽपि धूमस्य सर्वाकाशसम्बन्धाभाववद्दुःखाश्रयत्वाभावोऽस्त्वित्युच्यते उत तदनुभावभाववदनुभावभावः । नाद्यः । अस्माकमनिष्टाभावात् । न द्वितीयः । आकाशस्याचेतनत्वेन अनुभवप्राप्तेरेवाभावेन दृष्टान्तवैषम्यादिति भावः । अयं चाभ्युपगमवादः । आकाशस्यान्तर्भेदवत्त्वात् । उपसंहरति ॥ अत इति ॥ 18 ॥
(( य एनं वेत्तिहन्तारं यश्बैनं मन्यते हतं ।
उभौ तौ न विजानीतो नायं हन्ति न हन्यते ॥ 19/2 ॥
* य एनं जीवं वेत्ति हन्तारं स्वातन्त्र्येण । अन्यथा ``मया हतांस्त्वं जहि" इत्यादि विरोधः ।
चेतनं प्रति य एनमिति परमात्मनोऽपि समम् ॥ 19 ॥
<लन्ग्=कन्>// यदुक्तं सर्वप्रकारेणाविनाशित्वादीश्वरः स्वतन्त्र इति । तदयुक्तम् । `अयमस्य देहवियोगकर्ता', `अनेनायं देहाद्वियोजितः'इति जीवस्यापि स्वातन्त्र्यप्रतीतेरित्याशङ्कापरिहारायोच्यते `य एनमिति'। तत्र जीवस्य देहवियोगादौ कथमपि कर्तृत्वं नास्तीत्यन्यथाप्रतीतिनिरासायाह ॥ य एनमिति ॥ य एनं जीवं स्वातन्त्र्येण देहवियोगकर्तारं पश्यति, यश्चैनं जीवं जीवान्तरेण स्वातन्त्र्येण देहाद्वियोजितं पश्यति तौ न विजानीत इत्येवं व्याख्येयम् । न तु पारतन्त्र्येणापि जीवस्य हन्तृत्वादिकं पश्यन् न जानातीत्यर्थः । कुतोऽन्योऽर्थो न स्यादित्यत आह ॥ अन्यथेति ॥ जीवस्य पारतन्त्र्येणापि हन्तृत्वाभावे `मया हतांस्त्वं जहि'इतीश्वराधीनतया जीवस्य हन्तृत्वोक्तिविरोधः स्यादित्यर्थः ।
यदुक्तं जीवो नित्य इति न तद्युक्तम् । `अयं जीवस्य हन्ता', `अनेनायं जीवो हतः'इति व्यवहारेण चेतनस्यानित्यत्वावगमादित्याशङ्का परिहारायप्ययमेव श्लोकः । तत्र प्रथमपक्षे य एनमिति पदं जीवविषयतया व्याख्यातम् । नेश्वरविषयतया । तत्र देहवियोगरूपहननस्य विवक्षितत्वात् । तत्र जीवस्यैव स्वातन्त्र्याभावादीश्वरस्य तद्भावात् । अस्मिन् पक्षे तु `य एनं चेतनं हन्तारं पश्यति स न जानाति'इति चेतनं प्रति हननस्य विवक्षितत्वात् । चेतनहननस्य जीववदीश्वरेणाप्यकरणात् एनमिति पदमुभयोरपि वाचकमित्याह ॥ चेतनमिति ॥ 19 ॥
(( न जायते म्रियते वा कदाचिन्नायं भूत्वा भविता वा न भूयः ।
अजो नित्यः शाश्वतोयं पुराणो न हन्यते हन्यमाने शरीरे॥ 20/2॥
* जीवेश्वरयोर्नित्यत्वे मन्त्रवर्णोऽप्यस्तीत्याह -- न जायते म्रियते इति ॥ अयं ना परमपुरुषो भूत्वा विद्यमान एव देहसम्बन्धरूपेणापि भविता न । मरणं तु देहवियोग इति सिद्धमेव । न हि घटादीनां मरणव्यवहारः । स्वरूपनाशः कैमुत्येनैव सिद्धः ।
अयं जीवोऽप्यजो नित्यश्च । अन्यथा पुनरुक्तेः । शाश्वतश्च । न कदाचिदस्वातन्त्र्यादिकं जीवस्वरूपं जहाति ।
``अल्पशक्तिरसार्वज्ञं पारतन्त्र्यमपूर्णता ।
उपजीवकत्वं जीवत्वमीशत्वं तद्विपर्ययः ॥
स्वाभाविकं तयोरेतन्नान्यथा स्यात् कथञ्चन ।
वदन्ति शाश्वतावेतावत एव महाजनाः ॥" इति महाविष्णुपुराणे । पुराण्यणति गच्छतीति पुराणः ॥ 20 ॥
// ननु जीवनित्यत्वादेः पूर्वमेवोक्तत्वात् किमुत्तरश्लोकेनेत्यत आह ॥ जीवेति ॥ नेदं भगवद्वाक्यं, येन पुनरुक्तिः स्यात् । किन्तु यदुक्तं स्वयं जीवेश्वरयोरुत्पत्तिविनाशराहित्यम्, ईश्वरस्य शरीरतोऽप्युत्पत्त्याद्यभावेन स्वातन्त्र्यं, जीवस्य स्वरूपतो जन्मादिशून्यस्यापि देहोत्पत्त्यादिनाऽस्वातन्त्र्यं तत्र प्रमाणत्वेन मन्त्रवर्णोऽयमुदाह्रियत इति भावः ।
अत्रेश्वरप्रतिपादनाप्रतीतेः कथमेतदित्यतो नायं भूत्वेत्यत्र देहतोऽप्युत्पत्तिराहित्यश्रवणात् तस्य चेश्वरलिङ्गत्वात् पूर्वार्धस्तत्प्रतिपादक इति भावेनाह ॥ अयमिति ॥ एतेन वा शब्दादेव पूर्वत्र नञोऽनुकर्षसम्भवात् किं तदन्तरेणेति परास्तम् । अपि चात्र `न म्रियते'इति देहवियोगाभावश्च श्रूयते । मरणशब्दस्य देहवियोग एव प्रसिद्धत्वाद्देहवियोगाभावस्य चेश्वरलिङ्गत्वात् तत्प्रतिपादकः पूर्वार्ध इति भावेनाह ॥ मरणमिति ॥ देहवियोग इव स्वरूपनाशेऽपि मरणशब्दस्य प्रसिद्धत्वात् सोऽर्थः किं न स्यादित्यतः स्वरूपनाशे मरणशब्दस्य प्रसिद्धिरेव नास्तीत्याह ॥ न हीति ॥ यदि मरणशब्दस्य न स्वरूपनाशोऽर्थः तर्~हि ईश्वरस्वरूपानाशे नायं मन्त्रः प्रमाणं स्यात् । तदभिधायकशब्दान्तराभावात् । तथा च मरणशब्दस्य स्वरूपनाशेऽर्थे ग्राह्ये नैतद्बलात् पूर्वार्धस्येश्वरपरत्वसिद्धिरित्यत आह ॥ स्वरूपेति ॥ नात्रेश्वरस्य स्वरूपानाशो वक्तव्यः । येनैतत्पदस्य तत्परत्वं कल्प्यते । यस्य देहनाशोपि नास्ति तस्य स्वरूपानाशः किमु वाच्य इति कैमुत्येनैव सिद्धेतित्यर्थः ।
अत्र जीवस्योत्पत्त्याद्यभावादिकथनं न श्रूयत इत्युत्तरार्धस्तद्विषय इति भावेनाह ॥ अयमिति ॥ अत्रापीश्वर एव प्रतिपाद्यः किं न स्यादित्यत आह ॥ अन्यथेति ॥ `न जायते ' `अजः'इति पौनरुक्त्यम् । ननु पुनरुक्तिभयेन पूर्वोत्तरार्धयोर्विषयभेदकल्पने शाश्वतोप्यन्य एव प्रसज्यते । नित्यपदेन पुनरुक्तेरित्यत आह ॥ शाश्वतश्चेति ॥ अयं जीव एवेति सम्बध्यते । तर्~हि पुनरुक्तिरित्यत आह ॥ नेति ॥ न शाश्वतपदेन नित्यत्वमुच्यते । येन पुनरुक्तिः स्यात् । अपि तु जीवोप्यजो नित्यश्चेत्तर्~हि ईश्वरवत्स्वातन्त्र्यादिमानपि स्यात् । तथा च न तत्पूजा कार्येति शङ्कानिरासाय तस्यास्वातन्त्र्याद्यहानमेवोच्यत इति भावः । जीवस्यास्वातन्त्र्यादिकं स्वरूपं, तच्च न जहाति, तेन च शाश्वत इत्युच्यत इत्येतत्कुत इत्यत आह ॥ अल्पेति ॥ तथापि पुराण इति पुनरुक्तिरित्यत आह ॥ पुराणीति ॥ नानेन पुराणपदेनानादित्वमुच्यते । येन पौनरुक्त्यं स्यात् । किन्तु जीवस्येश्वरवदजत्वादिसद्भावेऽपि कुतो न स्वातन्त्र्यादीत्यतो देहोत्पत्त्यादिभावेन तद्वदजत्वाद्यभाव एवोच्यत इति भावः ॥ 20 ॥
वेदाविनाशिनं नित्यं य एनमजमव्ययं ।
कथं स पुरुषः पार्थ कं घातयति हन्ति कं ॥ 21/2 ॥
* अविनाशिनं शरीरापायादिवर्जितम् । नित्यं स्वरूपतः । एनं परमेश्वरम् ।
``कर्तृत्वं तु स्वतन्त्रत्वं तदेकस्य हरेर्भवेत् ।
तच्चाव्ययं तस्य जानन् कथं कर्ता स्वयं भवेत् ॥" इति परमश्रुतिः । अन्यथाऽविनाशिनं नित्यमिति पुनरुक्तिः ॥ 21 ॥
// यदुक्तं `जीवे स्वातन्त्र्यं मन्यमानो न जानाति'इति तत्र `नायं हन्ति' इति हेतुरुक्तः । अथ ज्ञानिनां तादृशाभिमानाभावश्च तत्र हेतुरुच्यते `वेदेति'। तत्राविनाशिनित्यपदयोः पौनरुक्त्यपरिहारायार्थभेदमाह ॥ अविनाशिनमिति ॥ जीवस्य समीपोक्तत्वादेनमित्यस्य जीवविषयत्वप्रतीतिनिरासायाह ॥ एनमिति ॥ समस्तश्लोकं श्रुत्यैव व्याचष्टे ॥ कर्तृत्वमिति ॥ जानन् अविनाशित्वादिहेतुनेति शेषः । कर्ता कर्तृत्वाभिमानी । जीवस्य समीपोक्तत्वात्तद्विषयोऽयं श्लोकः किं न स्यादित्यत आह ॥ अन्यतेति ॥ ईश्वरस्य शरीरापायरहितत्वात् तत्परत्वे शक्यते पुनरुक्तिपरिहारः । न तु जीवपरत्वे । तस्य देहनाशसद्भावात् । अतः पुनरुक्तिविरोधात् समीपोक्तमपि जीवं विहायेश्वरग्रहणं युक्तमिति भावः ॥ 21 ॥
((वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि ।
तथा शरीराणि विहाय जीर्णान्यन्यानि संयाति नवानि देहि॥ 22/2 ॥
* जीवस्यापि शरीरसंयोगवियोगावेव जनिमृती यतस्ततो न दुःखकारणमित्याह -- वासांसीति ॥ 22 ॥
// नन्वस्त्वीश्वरविषये शोकाभावो, जीवविषयो तु भविष्यति । जीवो नित्यस्तस्य देहयोगवियोगौ कौमारादिवदित्युक्तेऽपि सर्वलोकप्रसिद्धजनिमृतिसद्भावात् युद्धे च तत्प्राप्तेरित्याशङ्कापरिहारत्वेन श्लोकमवतारयति ॥ जीवस्येति ॥ शरीरयोगवियोगयोः कौमारादिवच्छोककारणत्वाभावोऽङ्गीकृतश्चेत्तर्~हि जनिमृती अपि न शोककारणं, यतः शरीरयोगवियोगावेव जनिमृती इत्यर्थः ॥ 22 ॥
((नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः ।
न चैनं क्लेदयन्त्यापो न शोषयति मारुतः ॥ 23/2 ॥
* कारणतोऽपि नेश्वरस्यान्यथात्वमित्याह -- नैनं छिन्दन्तीति ॥ 23 ॥
// अस्त्यीश्वरस्य स्वतो नाशाभावः । तथापि युद्धगतशस्त्रादिकारणविशेषेण च्छेदादिप्राप्तेः शोक इत्याशङ्कापरिहारत्वेन श्लोकमवतारयति ॥ कारणतोऽपीति ॥ अन्यथात्वं छेदादि ॥ 23 ॥
((अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च ।
नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः॥ 24/2 ॥
* अच्छेद्यत्वादिकं जीवस्यापि तत्सममित्याह -- अच्छेद्योऽयमिति ॥ नित्यं सर्वगते स्थितः अणुश्चायमिति सर्वगतस्थाणुः । सर्वगतो विष्णुः । तदधीनत्वादिकं तत्स्थत्वम् ।
हेतुतोऽपि तत्स्थत्वान्न चलतीत्यचलः । नादेन शब्देन सह वर्तत इति सनातनः ।
``नित्यं सर्वगते विष्णावणुर्जीवो व्यवस्थितः ।
न चास्य तदधीनत्वं हेतुतोऽपि विचाल्यते ॥
निषेधविधिपात्रत्वात् सनातन इति स्मृतः ॥" इति महाविष्णुपुराणे । अच्छेद्योऽयमित्यादिपुनरुक्तिश्चान्यथा ।
// जीवविषयेऽप्येतदाशङ्कापरिहाराय श्लोकमवतारयति ॥ अच्छेद्यत्वेति ॥ ननु `नित्यः सर्वगतः'इति नित्यत्वं पुनः किमर्थमुच्यते । अत्र सर्वगतवस्तुप्रतिपादनात् कथं चास्य जीवविषयत्वम्? न चायमर्ध ईश्वरविषयः । जीवस्य समीपोक्तत्वादित्यत आह ॥ नित्यमिति ॥ नित्यं सर्वगतस्थाणुरित्यर्थः । कः सर्वगतः? किं च तत्स्थत्वमित्यत आह ॥ सर्वगत इति ॥ नात्र नित्यत्वं सर्वगतत्वं चोच्यते । येन पुनरुक्तिरीश्वरविषयत्वं चाशङ्केत । किन्तु `जीवस्यापीश्वरवदच्छेद्यत्वादिसद्भावे सर्वसाम्यम्, तथाच किं तत्पूजया'इत्यतो नित्यं तदधीनत्वाद्येवोच्यत इति भावः । सर्वगतस्थाणुत्वोक्त्या वैषम्यहेतुर्दर्शितः ।
नन्वत्र सर्वगत इत्येव युक्तम् । न तु सर्वगतस्थ इति । सर्वगतस्यैवाचलत्वोपपत्तेः । अणौ तदनुपपत्तेरित्यत आह ॥ हेतुतोऽपीति ॥ नात्राचलपदेन क्रियाराहित्यमुच्यते । येन सर्वगत इत्येव पदविभागशङ्का । किन्त्वस्तु जीवस्येश्वराधीनत्वम् । तदपि कदाचिन्नश्यति । ततश्च सर्वसाम्यम् । तथाच न तत्पूजा कार्येत्यतः तदधीनत्वानाश एवोच्यत इति भावः । नित्यपदेनैवास्यार्थस्य सिद्धेः किमनेनेत्यत उक्तं हेतुत इति । नित्यमपि सर्वगतस्थत्वं वरादिकारणविशेषेण नश्यत्विति शङ्का निराकरणान्नैतद्वैर्यथ्यमिति भावः । तथापि सनातन इति पुनरुक्तिरित्यत आह ॥ नादेनेति ॥ न सनातनपदेन नित्यत्वमुच्यते । येन पुनरुक्तिः स्यात् । अपि तु स्वातन्त्र्याभावे जीवस्य विधिनिषेधबद्धत्वं हेत्वन्तरमुच्यत इति भावः अत एवानूक्तहेतूपन्यासातात् प्राग् अस्वातन्त्र्योक्तावप्यपौनरुक्त्यम् ।
नन्वच्छेद्य इति श्लोकः प्रकृतेश्वरविषय एव किं न स्यात् । किमनेन प्रतीतपदविभागत्यागादिनेत्यत आह ॥ नित्यमिति ॥ स्मृतिसमाख्यानाज्जीवविषय एवायं श्लोक इति भावः । इतोऽपि नायं श्लोक ईश्वरविषय इत्याह ॥ अच्छेद्य इति ॥ `नैनं छिन्दन्ति'इतीश्वरस्याच्छेद्यत्वादेरुक्तत्वात् 'अच्छेद्योऽयम्'इत्यच्छेद्यत्वादेः पुनरुक्तिप्रसङ्गोऽस्य श्लोकस्येश्वरविषयतायाम् । अतो नायं तत्पर इत्यर्थः ।
* यस्मिन्नयं स्थितः सोऽव्यक्ताचिन्त्यादिरूपः । एवं ज्ञातः परमेश्वरः सर्वदुःखनाशं करोतीति नानुशोचितुमर्~हसि । तेषामहं समुद्धर्तेत्यादेः ।
`न त्वेवाहं जातु नासं न त्वम्' इत्युभयोरपि प्रस्तुतत्वात् । देहिनः शरीरिणः देहीति विशेषितत्वाच्च जीवस्य तत्र तत्र । `अविनाशि तु', `येन सर्वमिदं ततम्', `अनाशिनोऽप्रमेयस्य', `न म्रियते', `भूत्वा भविता न', `अविनाशिनम्', `अव्ययम्', `अव्यक्तोऽयमचिन्त्योयमविकार्योऽयम्' इत्यादि परमात्मनश्च ।
// जीवस्य समीपोक्तत्वात् `अव्यक्तोऽयम्'इत्यस्यापि तद्विषयत्वप्रतीतिनिरासायाह ॥ यस्मिन्निति ॥ यस्मिन्नयं स्थित इत्युक्त्या सर्वगतपदेनेश्वरस्यापि समीपोक्तत्वं सूचयति । यद्यत्रेश्वरः प्रतिपाद्यस्तर्~हितस्मादित्युत्तरवाक्यमनुपपन्नं स्यात् । न हीश्वरस्याव्यक्तत्वादिज्ञाने युद्धगतशोकाभावो भवति । नाप्यस्मिन् पक्षे तस्मादिति परामर्शविषयोऽस्ति । यदि तस्य जीवविषयता तदा दूरोक्तत्वदोष इत्यत आह ॥ एवमिति ॥ नात्र युद्धगतशोको निवार्यते । नापि तस्मादिति परामर्शविषयाभावः । यतोऽत्राच्छेद्यत्वादिसाम्याज्जीवस्यापि स्वातन्त्र्येण किमीश्वरपूजयेत्यतः सनातनत्वादिहेतुना ईश्वरस्यैव स्वातन्त्र्यमुक्तम् । अस्त्वीश्वरस्य स्वातन्त्र्यं, किं तावता तत्पूजयेत्यतो यस्मादीश्वर एव स्वतन्त्रोऽस्तस्यैव संसारशोकनाशकत्वं युज्यते । स च स्वकर्मणाऽव्यक्तत्वादिगुणयुक्तत्वेन ज्ञात एव सर्वसंसारदुःखनाशं संसारशोकं परिहरेत्येवोच्यत इति भावः ।
भवेदयमत्रार्थोऽभिप्रेतो यदि स्वकर्मणा भगवज्जञानं, ज्ञातो भगवान् सर्वदुःखनाशं करोतीति गीताभिमतं स्यात् । तदेव कुत इत्यत आह ॥ तेषामिति ॥ अत्र मां ध्यायन्त इत्यनेनैव ज्ञानं लभ्यते ।
एवमेतत्प्रकरणं जीवेश्वरपरतया व्याख्याय अथास्योभयपरत्वे युक्तिं चाह ॥ न त्वेवेति ॥ नन्वेकः प्रसङ्गादेवोपक्रान्तः । प्रकरणं त्वेकविषयमेव किं न स्यादित्यतः सर्वत्रोभयलिङ्गसद्भावादुभयविषयं प्रकरणमित्याह ॥ देहिन इति ॥ अस्तूपक्रमवशादुभयोः प्राकरणिकत्वं तथापि यद्वाक्यं यद्विषयतया व्याख्यातं तस्य तद्विषयता कुत इत्यतो यद्वाक्यं यद्विषयतया व्याख्यातं तत्र तल्लिङ्गसद्भावात्तस्य तद्विषयत्वं युक्तमिति वाऽह ॥ देहिन इति ॥
* न हि जीवेन ततं सर्वम् । नच मुख्यतोप्रमेयोसौ । न चाविनाशिनं नित्यमिति नित्यत्वातिरिक्तमविनाशित्वं तस्य । न चाव्यक्तत्वमविकार्यत्वं च मुख्यम् । नच `भूत्वा भविता वा न' इति देहस्याप्यनुत्पत्तिः । परमात्मनस्तु देहवियोगादिकमपि नास्तीति ``अविनाशि तु" इत्यादि विशेषणम् ।
यस्मादेवम्भूतस्तस्मात् स एव स्वतन्त्रस्तदधीनमन्यत् सर्वम् । अतः स एव सर्वपुरुषार्थदः । अतः तत्पूजा सत्कर्मैव । अतः तदर्थं युध्यस्व । अन्येषां त्वन्तवन्त एव देहाः । प्राकृतदेहिनश्च । अतो स्वतन्त्रवान्न हन्तुं तेषां सामर्थ्यम् । नित्यत्वान्न हन्यते च । तस्माद्धन्ता हत इति मन्यमानौ न विजानीतः । यस्मादयमेव परमेश्वरः शरीरवियोगरूपेणापि न म्रियते, तत्संयोगरूपेणापि न जायते जीववत् कदापि, अतः स एव स्वतन्त्रत्वात् सर्वस्य हन्ता । जीवस्तु तेन शरीरे हन्यमाने स्वयं न हन्यत इत्येतावत् ।
// नन्वस्तु तत्र तत्र जीवः प्रतिपाद्यः । देहित्वादिविशेषणानां जीवादन्यत्र निरवकाशत्वात् । अविनाशित्वादीनां तु जीवेऽपि सम्भवात् कथं तद्वाक्यस्येश्वरविषयत्वनिश्चय इत्यत आह ॥ न हीति ॥ ईश्वरेऽपि तत्सम्भवः कथमित्यत आह ॥ परमात्मन इति ॥ न च तत्र तत्र भाष्यविरोधः शङ्कनीयः । अत्र च मुख्ययैव वृत्त्यार्थमङ्गीकृत्य पौनरुक्त्यादिशङ्कोन्मूलनं विना केवलामुख्यार्थग्रहणे बाधकानामुक्तत्वात् । भाष्ये पुनर्मुख्यार्थमपरित्यज्यैवार्थान्तरस्योक्तत्वादिति ॥
तथापि नैतेषां वाक्यानामुक्तार्थता युक्ता । असङ्गतत्वादित्यतो `नासतः' इत्यन्तानां सङ्गतेरुक्तत्वात् `अविनाशि तु'इत्यादीनां सङ्गतिं दर्शयन् `अविनाशि तु'इत्यस्य श्लोकस्य `नासतः'इत्यनेन सङ्गतिं साक्षादसम्भवादवतारक्रमेणाह ॥ यस्मादिति ॥ एवम्भूत इति ॥ सर्वप्रकारेणाविनाशीत्यर्थः । अस्य श्लोकस्योक्तप्रकारेण `अनाशिनः'इति वक्ष्यमाणेनापि सङ्गतिरित्याह ॥ अतस्तदर्थमिति ॥ अथवा `नासतः' इत्येतच्छेषत्वेनापि `अनाशिनः'इत्यस्य सङ्गतिरित्यनेनोक्तम् । `अन्तवन्तः' इतस्योक्तरीत्या `अनाशिनः' इत्यनेन सङ्गतौ सिद्धायां `नायं हन्ति' इत्यनेनापि सङ्गतिरित्याह ॥ अन्येषामिति ॥ प्राकृतदेहिनश्च । जीवा इति शेषः । अनेन `शरीरिणः'इत्यस्योपयोगमाचष्टे । नित्यत्वादित्यनेन `नित्यस्य'इत्यस्य । अत एवास्य `न त्वेवाहम्', `देहिनोऽस्मिन्'इत्यनेन गतार्थताऽपि परिहृता भवति । `नायं हन्ति'इत्यत्र हेतुतया प्रकृतानुवादोऽयमित्याश्रयणात् । अत एवोक्तं `नित्यस्योक्ताः'इति ॥ `नायं हन्ति'इत्यस्य `य एनम्'इत्यनेन सङ्गतिमाह ॥ तस्माद्धन्तेति ॥ एतेन `नायं हन्ति' इत्येतत्पुनरुक्तम् । जीवास्वातन्त्र्यादेरुक्तत्वात् । न च `य एनम्' इत्येतदुपपादनायोक्तानुवादोऽयं प्रमाणानुपन्यासेनोपपादनायोगादित्येतदपि पराकृतम् । `नायं हन्ति'इत्येतत्प्रकृतम् `अन्तवन्तः'इत्यपेक्ष्य प्रवृत्तमित्युक्तत्वात् । मन्त्रवर्णस्य जीवेश्वरनित्यत्वोपपादकत्वमुक्तम् । `नायं हन्ति'इत्येतदुपपादकत्वेनापि सङ्गतिरित्याह ॥ यस्मादयमेवेति ॥ एतेन मन्त्रवर्णस्य जीवेश्वरनित्यत्वमात्रोपपादकत्वेऽधिकविशेषणोक्तेरनुपयोग इत्येतदपरिहृतम् । जीववदित्यनेन `पुराणः' इत्यस्योपयोगं दर्शयति । `न हन्यते'इत्यस्य पूर्वार्धप्रकृतेन परमेश्वरस्यैव स्वातन्त्र्यमित्यनेन सङ्गतिमभिप्रेत्य तद्घटनाय तात्पर्यमाह ॥ जीवस्त्विति ॥ अनेनास्य गतार्थता परिहृता भवति ।
* अत एवमविनाशित्वादेः स्वातन्त्र्यात् सर्वकर्तारं परमात्मानं यो वेद स कथं घातयति हन्ति वा । वाससो जरावत् स्वशरीरजरादावस्वातन्त्र्यदर्शनात् सर्वत्रास्वातन्त्र्यं ज्ञातव्यं जीवस्य । ईश्वरस्य तु देहस्यापि च्छेदादेरभावात् स्वातन्त्र्यम् ।
नैनं छीन्दन्तीति च्छेदनाद्यभावः साक्षादेव दर्शयितुं शक्यते स्वदेहस्येति वर्तमानापदेशः । छेदादिकं त्वीश्वरो मोहाय मृषैव दर्शयति ॥ 24 ॥
// `वेदाविनाशिनम्'इतीश्वराविनाशित्वादेः कथं `स पुरुषः'इत्यनेन साक्षात्सङ्गतेरभावादवतारक्रमेण तामाह ॥ अत एवमिति ॥ एतेनेश्वराविनाशित्वादेः प्रागेवोक्तत्वात्पुनरुक्तिरित्यपि परास्तम् । `कथं स पुरुषः'इत्येतदुपपादकस्वातन्त्र्योपपादनायोक्तानुवादोऽयमित्याश्रितत्वात् । `वासांसि'इत्येतस्य प्रकृतेनेश्वरस्वातन्त्र्येणापि सङ्गतिमाह ॥ वासस इति ॥ नैनमित्यस्य प्रकृतेनेश्वरस्वातन्त्र्येणापि सङ्गतिमाह ॥ ईश्वरस्येति ॥ ज्ञातव्यमिति सम्बन्धः । यद्वा तथापि नास्य प्रकरणस्योभयविषयत्वं युक्तम् । उभयप्रतिपादनस्य प्रसङ्गाननुगुणत्वात् । युद्धविधानस्यैव प्रकृतत्वादतो नोभयप्रतिपादनं प्रसङ्गानुगुणम् । युद्धं कर्तव्यं, तच्चेश्वरस्यैव स्वतन्त्रत्वेन मोक्षप्रदानसमर्थत्वात्तत्पूजात्वेन कार्यमित्यत्राभिप्रेतम्। तत्रेश्वरस्य नित्यत्वप्रतिपादनं युद्धविधानाय शोकनिवारणार्थमुपयुज्यते । तस्य सर्वप्रकारेणाविनाशित्वादिप्रतिपादनं च तत्पूजाविधानार्थं तस्य मोक्षदत्वसार्मथ्यसमर्थनाय स्वातन्त्र्योपपादकतयोपयुज्यते । जीवस्य नित्यत्ववर्णनं युद्धविधानाय शोकनिवारणार्थमुपयुज्यते । तस्य देहनाशादिवर्णनमपि शोकनिवारणाय परमेश्वरस्यैव स्वातन्त्र्यसिद्ध्यर्थं जीवस्यास्वातन्त्र्यप्रदर्शनायोपयुज्यते-इति भावेन सर्ववाक्यान्यभिप्रेतार्थे योजयति ॥ यस्मादेवम्भूत इति ॥ सर्वप्रकारेणाविनाशीत्यर्थः । यस्मादेवम्भूत इत्यविनाशित्वित्यभिमते प्रमेये योज्यम् । अतस्तत्पूजेति नासत इति ।
अतस्तदर्थमित्यनाशिन इति । अन्येषामित्यन्तवन्त इति । प्राकृतदेहिन इति शरीरिण इति । अत इति नायं हन्तीति । नित्यत्वादिति न हन्यत इति । तस्मादिति य एनमिति । यस्मादिति न म्रियत इति । तत्संयोगेति नायं भूत्वेति । जीवस्त्विति न हन्यत इति । अत एवमिति वेदेति । वासस इति वासांसीति । ईश्वरस्येति नैनमिति । यद्यप्येतद्व्याख्यानत एव सिद्धं, तथापि विप्रकीर्णतयोक्तं न मन्दबुद्धावारोहतीति पिण्डीकृत्योक्तम् ।
<लन्ग्=कन्>अत्र `नैनं छिन्दन्ति' इति वर्तमानप्रयोगः कालान्तरच्छेदाद्यनुज्ञार्थ इत्यन्यथाप्रतीतिनिरासायाह ॥ नैनमिति ॥ न कालान्तरच्छेदाद्यनुज्ञार्थं वर्तमानप्रयोगः । किन्तु मम देहे छेदादिकं नास्तीति तत्र युक्तितया छेदादिप्राप्तिसद्भावेऽपीदानीं तदभावस्य प्रत्यक्षत एव दर्शयितुं शक्यत्वसूचनार्थमेवेति भावः । अत्रेश्वरस्वरूपस्यैव छेदाद्यभावः कथ्यते न तु तद्देहस्यापि । देहस्य `निशितशरैर्विभिद्यमानत्वचि' इति तद्भावोक्तेः । अतः स्वदेहस्येति कथमुच्यत इत्यतोऽभिप्रायमाह ॥ च्छेदेति ॥ मृषा प्रदर्शनं किमर्थमित्यत आह ॥ ईश्वर इति ॥ कुतो मृषा, परमार्थत एव किं न स्यादित्यतो वाऽह ॥ ईश्वर इति ॥ स्वतन्त्रस्य परमार्थतस्तदयुक्तमित्यर्थः ॥ 24 ॥
((अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते ।
तस्मादेवं विदित्वैनं नानु शोचितुमर्~हसि ॥ 25/2 ॥
* सर्वगतश्चेत् परमात्मा किमिति तथा न दृश्यत इत्यतो वक्ति -- अव्यक्तोऽयमिति ॥ कथमेतदुज्यते ? अचिन्त्यशक्तित्वात् । नच सा शक्तिः कदाचिदन्यथा भवति । अविकार्यत्वात् । यानि यान्यस्य रूपाणि तानि सर्वाण्यपि तानि सर्वाण्यप्येवम्भूतानीति दर्शयितुम् `एनम्', `अयं', इत्यादि पृथग्वचनम् । जीवे तु सर्वजीवेष्वनुगमार्थम् ।
सर्वं चैतद् श्रुतिसिद्धम् ।
`सद्देहः सुखगन्धश्च ज्ञानभाः सत्पराक्रमः ।
ज्ञानज्ञानः सुखसुखः स विष्णुः परमाक्षरः ॥' इति पैङ्गिश्रुतिः ।
// `अव्यक्तोऽयम्'इतीश्वरविषयमित्युक्तम् । तत्रेश्वरस्याव्यक्तत्वादिकथने का सङ्गतिरित्यतः `सर्वगतस्थाणुः'इति परमात्मनः सर्वगतत्वमभिहितम् । तत्रेश्वरस्य देहोऽस्ति न वा? आद्ये देहिनः सर्वत्र वर्तमानस्य सर्वत्र दर्शनं स्यात् । द्वितीये शरीरच्छेदादिनिरासो न युक्त इत्याशङ्कानिरासायाद्यपदमवतारयति ॥ सर्वेति ॥ देहित्वेऽव्यक्तत्वं कथं युज्यत इत्याशङ्क्य तत्परिहातत्वेनाचिन्त्यपदं व्याचष्टे ॥ कथमिति ॥ अचिन्त्यशक्तेः प्रतिबन्धे नाशे वा सति प्रतीतिप्रसङ्ग इत्याशङ्कापरिहारायाविकार्यपदं व्याचष्टे ॥ न चेति ॥ नन्वेकेनैव शब्देन पूर्तेः किमर्थं नैनमित्यत्र प्रति प्तत्येनमिति वचनम् । `अव्यक्तोऽयम्'इत्यत्र प्रतिविशेषणम् `अयम्'इति वचनं च किमर्थमित्यत आह ॥ यानीति ॥ आदिपदेन नञो ग्रहणम् । अनेन प्रतिविशेषणमपि वीप्सारूपेण `एनम्'इत्यादिबहुशब्दयोजनां सूचयति । एवं चेज्जीवस्य बाहुल्याभावात् `अच्छेद्योऽयम्'इति पृथग्वचनं व्यर्थमित्यत आह ॥ जीवे त्विति ॥ जीवे पृथग्वचनमिति शेषः ।
नन्वीश्वरस्य देहवत्त्वं, तस्य च देहस्य छेदादिराहित्यमेवम्भावश्च सर्वरूपाणामित्येतत्कुत इत्यत उक्तम् `उच्यते'इति पदं व्याचष्टे ॥ सर्वमिति ॥ कास्ताः श्रुतय इत्यत आह ॥ सदिति ॥ छेदादिदोषरहितो देहो यस्यासौ सद्देहः । सुखगन्धः । सुखात्मकगन्धो वा । ज्ञानज्ञान इत्यादेरतिशयितज्ञानादिमानित्यर्थः ।
* `अदेहो देहवांश्बैव प्रोच्यते परमेश्वरः ।
अप्राकृतशरीरत्वाददेह इति कथ्यते ॥
शिरश्चरणबाह्वादिविग्रहोऽयं स्वयं हरिः ।
स्वस्मान्नान्यो विग्रहोऽस्य ततश्चादेह उच्यते ॥
स्वयं स्वरूपवान् यस्मात् देहवांश्चोच्यते ततः ।
शिरश्चरणबाह्वादिः सुखज्ञानादिरूपकः ॥
स च विष्णोर्न चान्योऽस्ति यस्मात् सोऽचिन्त्यशक्तिमान् ।
देहयोगवियोगादिस्ततो नास्य कथञ्चन ॥
गुणरूपोऽपि भगवान् गुणभुक् च सदा श्रुतः ।
अहमित्यात्मभोगो यत्सर्वेषामनुभूयते ॥"
अभिन्नेऽपि विशेषोऽयं सदानुभवगोचरः ।
`विशेषोऽपि हि नान्योऽतः स च स्वस्यापि युज्यते ।
नानवस्था ततः क्वापि परमैश्वर्यतो हरेः ।
युक्तायुक्तत्वमपि हि यदधीनं सदेष्यते ॥
प्रमाणावगते तत्र कुत एव ह्ययुक्तता ।' इत्यादि परमश्रुतिः ।
// नन्वीश्वरस्य देहसद्भावे श्रुतिविप्रतिपत्तेस्तत्सत् सन्देह एव स्यात्कुतो निश्चयस्तद्भावस्येत्यतः श्रुत्यन्तरेण तद्व्यवस्थां दर्शयति ॥ अदेह इति ॥ स्वरूपवान्= स्वरूपभूतदेहवान् ॥ सुखज्ञानादिरूपकः ॥ अस्तीति सम्बन्धः । ततश्च देहवानुच्यत इत्यनुषज्यते । देहदेहिनोरैक्यमन्यत्रादृष्टं कथं युज्यत इत्यत आह ॥ स चेति ॥ ननु सुखज्ञानादिरूपोदेहो विष्णोरनन्यश्चेत् तदा तस्य सुखादिगुणरूपत्वं प्रसज्यते । नच तद्युज्यते । `आनन्दभुक्'इत्यादावानन्दभोक्तृत्वस्योक्तत्वात् । एकस्य च भोक्तृभोग्यभावादर्शनादित्यत आह ॥ गुणेति ॥ दृष्टोप्ययमभिन्ने भोक्तृभोग्यभावः किंनिमित्त उपपद्यत इत्यत आह ॥ अभिन्नेऽपीति ॥ अस्ति । तेनाभिन्नेऽपि भोक्तृभोग्यभाव उपपद्यत इति शेषः । विशेषसद्भाव एव कुत इत्यत आह ॥ अयमिति ॥
नन्वयं विशेषो विशेषितेऽन्योऽनन्यो वा? आद्ये भेदपरम्परयाऽनवस्था । द्वितीये विशेषविशेषिभावव्यवहारायोगः । तत्रापि विशेषाङ्गीकारेऽनवस्थेत्यत आह ॥ विशेषोऽपीति ॥ विशेषो विशेषितोऽनन्य इति न भेदपरम्परयाऽनवस्था । स एव विशेषो यथाऽभिन्नेऽपि वस्तुनि भोक्तृभोग्यभावनिर्वाहकः तथा विशेषितो भेदरहितस्यापि स्वस्य विशेषत्वं, विशेषिणो विशेषित्वं च निर्वहतीति न विशेषपरम्परयाऽप्यनवस्थेत्यर्थः । इतोप्येकस्यैव हरेर्भोक्तृभोग्यभावो युक्त इत्याह ॥ परमेति ॥ अभिन्नस्यैव स्वस्य भोक्तृभोग्यभावेऽनुपपत्तिं परिहर्तुं हरेरैश्वर्यं कुत इत्यत आह ॥ युक्तेति ॥ युक्तायुक्तत्वं वस्तुनोरिति शेषः । तत्र ईश्वरे । तर्~हीश्वरे दुःखित्वाद्यपि कल्प्यतामयुक्त्यभावादित्यत उक्तम् । प्रमाणेति ॥ एकस्यैव भोक्तृभोग्यत्वादिकं प्रमाणावगतत्वाद्विरुद्धमप्यैश्वर्यबलादङ्गीकार्यं नान्यत् । तस्याप्रामाणिकत्वादिति भावः ।
* `एकमेवाद्वितीयं' तत्, `नेह नानास्ति किञ्चन ।'
`मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति ।'
`यथोदकं दुर्गे वृष्टं पर्वतेषु विधावति ।
एवं धर्मान् पृथक् पश्यंस्तानेवानुविधावति ॥'
`मत्स्यकूर्मादिरूपाणं गुणानां कर्मणामपि ।
तथैवावयवानां च भेदं पश्यति यः क्वचित् ॥
भेदाभेदौ च यः पश्येत्स याति तम एव तु ।
पश्येदभेदमेवैषां बुभूषुः पुरुषस्ततः ॥
अभेदोऽपि विशेषोऽस्ति व्यवहारस्ततो भवेत् ।
विशेषिणां विशेषस्य तथा भेदविशेषयोः ॥
विशेषस्तु स एवायं नानवस्था ततः क्वचित् ।
प्रादुर्भावादिरूपेषु मूलरूपेषु सर्वशः ॥
// एकस्यैव भोक्तृभोग्यभावादिगुणा एवेश्वरस्य प्रमाणिका न दुःखादिदोषा इत्यत्र श्रुत्यन्तरं चाह ॥ गुणा इति ॥ कथं न दोषाः श्रुताः? `जनितोत विष्णोः'इत्यादौ प्रतीतेरित्यत आह ॥ अज्ञैरिति ॥
प्रकृतगुणानां भगवताऽभेदे, सर्वाण्यपि रूपाण्येवंविधानीत्यत्र च श्रुतीराह ॥ एकमिति ॥ एकम् एकत्वसङ्ख्यायोगि । एवेत्यवयवादिभेदनिराकरणम् । अद्वितीयं समाभ्यधिकरहितम् । किञ्चन नानेति रूपावयवगुणकर्मभेदः । तर्~हि भेदाभेदौ स्यातामित्यत आह ॥ मृत्योरिति ॥ मृत्योः मृत्युं तम आप्नोति । नानेवेति भेदाभेदौ भेददर्शने कोऽनर्थ इत्यत आह ॥ यथेति ॥ यथा पर्वतेषु दुर्गे शिखरे वृष्टमुदकम् अधो विधावति एवं गुणादीन् भिन्नान् पश्यन् तान् दृष्टाननु तेषामेव दर्शनान्तरमधो विधावतीत्यर्थः ।
सर्वाद्वैतपराः श्रुतय एता इत्यतस्ताः स्मृत्यैव व्याचष्टे ॥ मत्स्येति ॥ अत्यन्ताभेदे व्यवहारभेदः किंनिमित्त इत्यत आह ॥ अभेदेऽपीति ॥ यद्यभिन्नषु गुणादिविशेषेषु विशेषो वर्तते तर्~हि विशेषिणां विशेषस्य तथाभेदविशेषयोः भेदोऽभेदो वा । आद्येऽनस्था । द्वितीये व्यवहारविशेषायोगः । तत्रापि विशेषाङ्गीकारेऽनवस्थैवेत्यत आह ॥ विशेषिणामिति ॥ विशेषिणां विशेषस्य तथाभेदविशेषयोः भेदाभावान्न भेदपरम्परयाऽनवस्था । न च व्यवहारविशेषानुपपत्तिः । यतस्तत्र विशेषोऽङ्गीक्रियते । न चैवं विशेषपरम्परयाऽनवस्था । य एव विशेषोऽभिन्नेष्वपि गुणगुण्यादिषु व्यवहारभेदनिर्वाहकः स एव विशेषो विशेषविशेष्यादिव्यवहारभेदनिर्वाहक इत्यङ्गीकारादित्यर्थः । मत्स्यादीनामभेदेऽपि इन्द्रार्जुनादिवत्तारतम्यमपि नास्तीत्याह ॥ प्रादुर्भावेति ॥
* मत्स्यकूर्मवराहाश्च नृसिंहवटुभार्गवाः ।
राघवः कृष्णबुद्धौ च कल्किव्यासैतरेयकाः ॥
दत्तो धन्वन्तरिर्यज्ञः कपिलो हंसतापसौ ।
शिंशुमारो हयास्यश्च हरिः कृष्णश्च धर्मजः ॥
नारायणस्तथेत्याद्याः साक्षान्नारायणः स्वयम् ।
ब्रह्मरुद्रौ शेषविपौ शक्राद्या नारदस्तथा ॥
सनत्कुमारः कामभवोप्यनिरुद्धो विनायकः ।
सुदर्शनाद्यायुधानि पृथ्वाद्याश्चक्रवर्तिनः ॥
इत्याद्या विष्णुनाऽऽविष्टा भिन्नाः संसारिणो हरेः ।
तेष्वेव लक्ष्मणाद्येषु त्रिष्वेवं च बलादिषु ॥
नरार्जुनादिषु तथा पुनरावेश उच्यते ।
स्वल्पस्तु पुनरावेशो धर्मपुत्रादिषु प्रभोः ॥
एतज्जानाति यस्तस्मिन् प्रीतिरभ्यधिका हरेः ।
सङ्करज्ञानिनस्तत्र पातस्तमसि च ध्रुवम् ॥" इत्यादि महावाराहे ॥ 25 ॥
// के ते मत्स्यादयः प्रादुर्भावा इत्यत उक्तमेव विवृणोति ॥ मत्स्येति ॥ ब्रह्मादयोऽपि भगवदवतारत्वेनान्यत्रोच्यन्ते । ते हि किमत्रादिशब्देन गृहीता उतानवतारा एवेत्यपेक्षायामाह ॥ ब्रह्मेति ॥ तर्~ह्यवतारत्वोक्तेः का गतिरित्यत आह ॥ विष्णुनेति ॥ आवेशाविशेषवत्तया तदुक्तिरित्याशयः । साक्षादवतारा एव किं न स्युरित्यत आह ॥ संसारिण इति ॥ तेष्वेवेति ॥ शेषसनत्कुमारानिरुद्धशक्रयमाश्विषु लक्ष्मणभरतशत्रुघ्नबलप्रद्युम्नानिरुद्धनरार्जुनयुधिष्ठिरनकुलसहदेवत्वेन जातेष्वित्यर्थः । अर्जुनादिचतुर्षु नैकप्रकारावेश इत्याह ॥ स्वल्प इति ॥ अवताराणामनवतारत्वेनानवताराणामवतारत्वेन ज्ञानं सङ्करज्ञानम् ॥ 25 ॥
((अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतं ।
तथापि त्वं महाबाहो नैनंशोचितुमर्~हसि ॥ 26/2 ॥
* तिष्ठतु तावदयं विस्तारः । यावन्मोक्षं जीवस्य जन्ममरणे स्वयमेव मन्यसे, न तु नियमेन । तथापि तावन्मात्रेणापि ज्ञानेन शोचितुं नार्~हसि ।
`नित्यं सनातनं प्रोक्तं नित्यं नियतमेव च ।' इति शब्दनिर्णये । अत्र तु नियतम् । `जातस्य हि ध्रुवः' इति प्रकाशनात् ॥ 26 ॥
// एवं स्वयं युक्तीरुक्त्वा शोको न कार्य इत्युक्तम् । तत्र देहनाशस्यावश्यभावित्वं यदुक्तं तन्नास्माभिः साध्यमपि तु भवतोऽपि सिद्धम् । तेनैव शोको न कार्य इत्युच्यते `अथेति'। तत्र मुक्तस्यापि जननमरणसद्भावं पराकुर्वन्नेव श्लोकं व्याचष्टे ॥ तिष्ठत्विति ॥ `अथ च'इत्यस्यार्थस्तिष्ठत्विति । तथापीत्यनूद्य तावन्मात्रज्ञानेनापीति व्याख्यानम् । नित्यपदस्य नियमवाचित्वे मानाभावात्कथं नियमेनेति व्याख्येत्यत आह ॥ नित्यमिति ॥ एवं नित्यपदस्योभयार्थत्वे नियमार्थग्रहणे को हेतुरित्यत आह ॥ अत्र त्विति ॥ एतच्छ्लोकार्थविवरणात्मकोत्तरश्लोके नित्यपदस्य ध्रुव इति विवृतत्वादित्यर्थः ॥ 26 ॥
((जातस्य हि ध्रुवो मृत्युः ध्रुवं जन्म मृतस्य च ।
तस्मादपरिहार्योऽर्थे न त्वं शोचितुमर्~हसि ॥ 27/2 ॥
* तस्मान्नात्राश्चर्यबुद्धिः कर्तव्या ॥ 27 ॥
// जननमरणनियमोऽत्र शोकनिवारणे हेतुतयोक्तः स्फुटं प्रतीयते । प्रागभिप्रेते जीवस्यास्वातन्त्र्ये च हेतुतयाऽभिमत इति भावेनाऽह ॥ तस्मादिति ॥ तस्माज्जननादिनियमवत्त्वादेव । अत्र जीवे स्वातन्त्र्यबुद्धिश्च न कार्येत्यर्थः ॥ 27 ॥
(( अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत ।
अव्यक्त निधनान्येव तत्र का परिवेदना ॥ 28/2 ॥
आश्चर्यवत्पश्यति कश्चिदेनमाश्चर्यवद्वदति तथैवचान्यः ।
आश्चर्यवच्बैनमन्यः शृणोति श्रुत्वाप्येनं वेदनचैव कश्चित् ॥ 29/2 ॥
* किं तर्~ह्याश्चर्यो भगवानेवेत्याह -- आश्चर्यवदिति ॥ आश्चर्यमेव सन्तमेनमाश्चर्यवत्पश्यति । न पुनरनाश्चर्यम् । ``गगनं गगनाकारं सागरं सागरोपमम्" इत्यादिवत् ।
``आश्चर्यो भगवान् विष्णुर्यस्मात् नैतादृशः क्वचित् ।
तस्मात् तद्गोचरं ज्ञानं तद्गोचरवदेव तु ॥" इति ब्रह्मतर्के । अनाश्चर्यवदप्यसुरादयः पश्यन्तीति कश्चिदिति विशेषणम् ॥ 28-29 ॥
// यदि जीवे नाश्चर्यबुद्धिः कार्या तर्~हि कुत्रासौ कार्या? ईश्वर इत्युक्तमिति चेत्सत्यम् । किं ततोऽन्यत्रापि क्वचिदित्याशङ्क्य तत्परिहारत्वेनोक्तोपसंहाररूपं श्लोकमवतारयति ॥ किं तर्~हीति ॥ नन्वत्राश्चर्योऽन्य एव, ईश्वरस्तु तत्सदृश एव, न स्वयमाश्चर्य इति प्रतीतेः कथमाश्चर्यो भगवानेवेत्युच्यत इत्यत आह ॥ आश्चर्यमिति ॥ आश्चर्यवदित्यनेन नेश्वरस्यानाश्चर्यत्वमभिप्रेयते किन्त्वाश्चर्यस्यैव सत आश्चर्योपमत्वमुच्यत इति भावः । एवमपि भगवदितरस्य स्वातन्त्र्यमङ्गीकार्यम् । तस्यैव स्वतन्त्रतायामाश्चर्यवदित्युक्त्यसम्भवात् । स्वोपमायाः क्वाप्यदर्शनात् । तथाच भगवानेवेत्यवधारणायोग इत्यत आह ॥ गगनमिति ॥ इतिवत्स्वोपमाभिधानमुखेन भगवदितरस्य स्वातन्त्र्याभावे तात्पर्यमत्रेति भावः । सागरं= सागरसमूहः ।
प्रतीत एवार्थः किं न स्यादित्यतः स्वोक्तार्थे स्मृतिसम्मतिमाह ॥ आश्चर्य इति ॥ तद्गोचरमित्यनेन `आश्चर्यवत्'इत्येतत्क्रियाविशेषमित्युक्तं भवति । ननु भगवानाश्चर्य एव चेत्तर्~हि सर्वेषामप्याश्चर्यत्वात् `कश्चित्'इति विशेषणं व्यर्थम् । न हि स्तम्भः कस्यचिदेव स्तम्भ इत्यत आह ॥ अनाश्चर्यवदिति ॥ यद्यपीश्वरः सर्वेषामाश्चर्य एव । तथापि विपरीतदर्शिनां बहूनां भावाद्यथावद्दर्शिनः कस्यचिदेव भावादाश्चर्यतया दर्शनं विवक्ष्य कश्चिदिति विशेषणं युक्तमिति भावः ॥ 29॥
(( देहीनित्यमवध्योयं देहे सर्वस्य भारत ।
तस्मात्सर्वाणि भूतानि नत्वं शोचितु मर्~हसि ॥ 30/2 ॥
* देही कुतोऽवध्यः ? यस्मादयमीश्वरः सर्वस्य जीवस्य सूक्ष्मे स्थूले च देहे रक्षत्वेनावस्थितः, अत एवावध्यः । न स्वसामर्थ्यं कस्यापि ।
``द्रव्यं कर्म च कालश्च स्वभावो जीव एव च ।
यदनुग्रहतः सन्ति न सन्ति यदुपेक्षया ॥" इति हि भागवते ।
``तत्र तत्र स्थितो विष्णुर्नित्यं रक्षति नित्यदा ।
अनित्यदैवानित्यं च नित्यानित्ये ततस्ततः ।
भावाभावनियन्ता हि तदेकः पुरुषोत्तमः ॥" इति पाद्मे ॥ 30 ॥
// आक्षिपति ॥ देहीति ॥ जीवो नित्य इत्युक्तम् । तत्र किं स्वत एव नित्योऽथेश्वरसार्मथ्येन? नाद्यः । सर्वं परमेश्वराधीनमित्यभिमतविरोधात् । न द्वितीयः । नित्यस्य स्वाभाविकत्वेनेश्वराधीनत्वानुपपत्तेरिति भावः । एतत्परिहाराय देहीति श्लोकं व्याचष्टे ॥ यस्मादिति ॥ देहे रक्षकत्वेन स्थितश्चेत् प्रलयादौ नाशः स्यादित्यत उक्तम् ॥ सूक्ष्म इति ॥ सूक्ष्मदेहपदेन लिङ्गशरीरं चैतन्यशरीरं चोच्यते । नित्यत्वादेः स्वाभाविकत्वात्कथमीश्वराधीनत्वमित्यत आह ॥ द्रव्यमिति ॥ स्वाभाविकत्वेऽपि नित्यत्वादेरीश्वराधीनत्वं युज्यते । स्वभावस्यापि भगवदधीनतया स्मृतिसिद्धत्वादिति भावः । जीवसत्ताया भगवदधीनत्वे चेयं स्मृतिः प्रमाणम् । तथापि जीवे स्थित्वा तद्रक्षक ईश्वर इति विशेषः कुत इत्यत आह ॥ तत्रेति ॥ ततः तदधीने । ततस्तस्मात्तन्नियन्तृत्वात् । भावाभावयोरपि नित्यानित्याबहिर्भावात् ॥ 30 ॥
((स्वधर्ममपि चावेक्ष्य न विकम्पितु मर्~हसि ।
धर्म्यात् हि युद्धात् श्रेयोऽन्यत् क्षत्रियस्य न विद्यते ॥ 31/2॥
श्लोकः यदृच्छया चोपपन्नं स्वर्गद्वारमपावृतं।
सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धमीदृशं ॥ 32/2 ॥
श्लोकः अथ चेत्त्वमिमं धर्म्यं सङ्ग्रामं न करिष्यसि।
ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि॥ 33/2 ॥
श्लोक अकीर्तिं चापि भूतानि कथयिष्यन्ति तेऽव्ययां
सम्भावितस्य चाकीर्तिर्मरणादितिरिच्यते ॥ 34/2 ॥
भयाद्रणादुपरतं मंस्यन्ते त्वां महारथाः।
येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवं॥ 35/2 ॥
अवाच्यवादांश्च बहून् वदिष्यन्ति तवाहिताः।
निन्दन्तस्तव सामर्थ्यं ततो दुःखतरं नु किं ॥ 36/2 ॥
हतोवा प्राप्स्यसे स्वर्गं जित्वा वा भोक्ष्यसे महीं ।
तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः ॥ 37/2 ॥
<लन्ग्=कन्>* जित्वा स्वर्गं महीं च । ``ये युध्यन्ते प्रधनेषु शूरासः" इति श्रुतेः ॥ 31-37 ॥
// `यद्वा जयेम'इत्युक्तस्य पक्षद्वयेऽप्यहानिः परिहार उच्यते `हतो वेति'। तत्र `हतो वा प्राप्स्यसि स्वर्गम्'इत्यत्रेव `जित्वा वा भोक्ष्यसे महीम्'इत्यत्रापि महीमात्रं न स्वर्ग इत्यन्यथाप्रतीतिनिरासायाऽह ॥ जित्वेति ॥ `युद्धे मृत एव स्वर्गं प्राप्स्यसि, जित्वा महीमेव भोक्ष्यसे'इति प्रतीत एवार्थः किं न स्यादित्यत आह ॥ य इति ॥ ये शूराः युद्धेषु प्रयुध्यन्ति, ये च तत्र म्रियन्ते, ये च सहस्रसङ्ख्यातधनदक्षिणादातारः तानेवायं प्रेतोऽपि गच्छतादिति यमं प्रति प्रेतस्य स्वर्गप्रार्थनाज्जयेऽपि स्वर्गप्राप्तिः श्रूयते । अतो न प्रतीत एवार्थ इति भावः ॥ 37 ॥
(( सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ।
ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि॥ 38/2 ॥
एषा तेऽभिहिता साङ्ख्ये बुद्धिर्योगेत्विमां शृणु ।
बुद्ध्यायुक्तो यया पार्थ कर्मबन्धं प्रहास्यसि॥ 39/2 ॥
* सम्यक् ख्यातिर्ज्ञानं साङ्ख्यम् । युज्यतेऽनेनेति योगस्तदुपायः ।
``सम्यक्तत्वदृशिः साङ्ख्यं योगस्तत्साधनं स्मृतम् ।" इति शब्दनिर्णये ।
``ब्रह्मतर्कस्तर्कशास्त्रं विष्णुना यत्समीरितम् ।
अक्षपादकणादौ च साङ्ख्ययोगौ च हैतुकाः ॥
बौद्धपाशुपताद्यास्तु पाषण्डा इति कीर्तिताः ।
मीमांसा त्रिविधा प्रोक्ता ब्राह्मी दैवी च कार्मिकी ॥
ब्रह्मतर्कं च मीमांसां सेवेत ज्ञानसिद्धये ।
वैदिकज्ञानवैरूप्यन्नान्यत् सेवेत पण्डितः ॥" इत्यन्यसाङ्ख्ययोगयोर्निषिद्धत्वान्नारदीये । साङ्ख्यस्य निरीश्वरत्वात् उक्तत्वाच्चेश्वरस्य । साङ्ख्यैर्योगैश्च विहितहिंसाया अप्यनर्थहेतुत्वाङ्गीकारात् । अत्र तु युद्धविधानाच्च मोक्षार्थत्वेनैव `कर्मबन्धं प्रहास्यसि' इति । परमसाङ्ख्ययोगयोश्चोक्तार्थत्वेनैव न विरोधः ॥ 38-39 ॥
// उक्तमुपसंहृत्य प्रकरणान्तरमारभ्यते `एषेति'। तत्र साङ्ख्ययोगशब्दौ दर्शनविशेषपराविति प्रतीतिनिरासाय तदर्थं सप्रमाणकमाह ॥ सम्यगिति ॥ अत्रोक्तयोः साङ्ख्ययोगयोर्बुद्ध्य युक्त इति प्रशस्तत्वादितरयोर्निन्दित्वान्न तावत्रोक्ताविति भावः । इतोऽपि न साङ्ख्यपदेनात्र प्रसिद्धसाङ्ख्यं विवक्षितमित्याह ॥ साङ्ख्यस्येति ॥ अत्र साङ्ख्यपदेन प्रसिद्धसाङ्ख्यग्रहणे साङ्ख्योक्तमभिहितमित्युक्तं स्यात् । न च तद्युक्तम् । अत्र `न जायते'इत्यादावीश्वरस्योक्तत्वात्, साङ्ख्यस्य निरीश्वरत्वात् । अतश्च नात्र साङ्ख्यं शास्त्रविशेष इत्यर्थः । इतोऽपि नात्र साङ्ख्ययोगशब्दौ प्रसिद्धशास्त्रपरावित्याह ॥ साङ्ख्यैरिति ॥ अत्र पूर्वोत्तरप्रकरणयोः । साङ्ख्यादिभिः पारत्रिकानर्थहेतुत्वमेव हिंसाया अङ्गीक्रियते । न त्वैहिके । अत्र पुना राज्यार्थमेव हिंसा विधीयते । अतो न विरोध इत्यत आह ॥ मोक्षेति ॥ साङ्ख्ययोगशब्दयोः सोपपत्तिकमर्थान्तरं चाह ॥ परमेति ॥ पूर्वोत्तरप्रकरणोक्तार्थप्रतिपादकत्वादित्यर्थः । न विरोधोऽत्र तदुक्तग्रहण इति शेषः ॥ 39 ॥
((नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते ।
स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात्॥ 40/2 ॥
* ``प्रारम्भमात्रमिच्छा वा विष्णुधर्मे न निष्फला ।
न चान्यधर्मकरणाद्दोषवान् विष्णुधर्मकृत् ॥" इत्याग्नेये ।
``स्वोचितेनैव धर्मेण विष्णुपूजामृते क्वचित् ।
नाप्रवृत्तिः प्रवृत्तिर्वा यत्र धर्मः स वैष्णवः ॥
एनं धर्मं च देवाद्या वर्तन्ते सात्त्विका जनाः ।
एष कार्तयुगो धर्मः पाञ्चरात्रश्च वैदिकः ॥
तत्प्रीत्यर्थं विनाऽन्यस्मै नोदबिन्दुं न तण्डुलम् ।
दद्यान्निराशी च सदा भवेद्भक्तश्च केशवे ॥
नैतत्समेऽधिके वाऽपि कुर्यात् शङ्कामपि क्वचित् ।
जानीयात्तदधीनं च सर्वं तत्तत्ववित् सदा ॥
यथाक्रमं तु देवानां तारतम्यविदेव च ।
एष भागवतो मुख्यस्त्रेतादिषु विशेषतः ॥
एष धर्मोऽतिफलदो विशेषेण पुनः कलौ ।
एवं भागवतो वस्तु स एव हि विमुच्यते ॥
त्रैविद्यस्त्वपरो धर्मो नानादैवतपूजनम् ।
तत्रापि विष्णुर्ज्ञातव्यः सर्वेभ्योऽभ्यधिको गुणैः ॥
समर्पयति यज्ञाद्यमन्ततस्त्वेव विष्णवे ।
त्रैविद्यधर्मा पुरुषः स्वर्गं भुक्त्वा निवर्तते ॥
पुनः कुर्यात्पुनः स्वर्गं याति यावद्धरेर्वशे ।
सर्वान् देवान् प्रविज्ञाय तत्कर्मैव सदा भवेत् ॥
सम्यग् तत्त्वापरिज्ञानादन्यकर्मकृतेरपि ।
स्वर्गादिप्रार्थनाच्बैव रागादेश्चापरिक्षयात् ॥
सदा विष्णोरस्मरणात् त्रैविद्यो नाप्नुयात् परम् ।
क्रमेण मुच्यते विष्णौ कर्माण्यन्ते समर्पयन् ॥
यदि सर्वाणि नियमाज्जन्मभिः बहुभिः शुभैः ।
परं विष्णुं न यो वेत्ति कुर्वाणोऽपि त्रयीक्रियाः ॥
नासौ त्रैविद्य इत्युक्तो वेदवादी स उच्यते ।
वादो विवादः सम्प्रोक्तो वादो वचनमेव च ॥
वेदोक्ते विष्णुमाहात्म्ये विवादात् पठनादपि ।
अथवा निरर्थकात् पाठाद्वेदवादी स उच्यते ॥
वेदवादरतो न स्यान्न पाषण्डी न हैतुकी ।
तेभ्यो याति तमो घोरमन्धं यस्मान्न चोत्थितिः ॥
अनारम्भमनन्तं च नित्यदुःखं सुखोज्झितम् ।
वव्रं यद्वेदगदितं तत्र यान्त्यसुरादयः ॥ 40 ॥
// योगः स्तूयते नेहेति । तत्र योगातिक्रमे नाशः प्रत्यवायश्च नास्तीत्यन्यथाप्रतीतिनिरासाय पूर्वार्धं स्मृत्यैव व्याचष्टे ॥ प्रारम्भेति ॥ तमेव विष्णुधर्मं स्मृत्या दर्शयति ॥ स्वोचितेनेति ॥ प्रवृत्तिर्~हितकरणमप्रवृत्तिर्निषिद्धपरित्यागश्चान्यविषये नानुष्ठीयत इत्यर्थः । तस्मिन् धर्मेऽधिकारिकालप्रमाणान्याह ॥ एनमिति ॥ तमेव विवृणोति ॥ तदिति ॥ कार्तयुगत्वे त्रेतादिषु न फलप्रदोऽनध्यायाधीतवेदवदित्यत आह ॥ त्रेतेति ॥ कार्तयुगत्वोक्तिस्तत्र प्राचुर्येण सम्भवाभिप्रायेणेति भावः । किमस्य फलं यत्त्रेतादिष्वधिकं स्यादित्यत आह ॥ एवमिति ॥ कथं स एव मुच्यते? त्रैविद्यस्यापि मोक्षसद्भावादित्यतः त्रैविद्यधर्मस्वरूपमुक्त्वा तद्वतो मोक्षाभावमाह ॥ त्रैविद्य इति ॥ त्रैविद्यस्यापि भगवज्जञानादिसद्भावात्तस्यैव मोक्षहेतुत्वात्कथमसौ स्वर्गं भुक्त्वा निवर्तत इत्यत आह ॥ सम्यगिति ॥ किं तस्य कदापि न मोक्ष इत्यतः स्वर्गगमनावधिकथनेनैवार्थतः सिद्धमर्थं स्फुटमाह ॥ क्रमेणेति ॥ अन्ते समर्पयन् त्रैविद्यो यदि नियमात् प्रत्येकं सर्वाणि समर्पयतीत्यर्थः । त्रैय्युक्तकर्मकरणमात्रेण त्रैविद्यो भवेत्किं भगवत्सर्वोत्तमत्वज्ञानादिनेत्यत आह ॥ परमिति ॥ वेदवादित्वस्य भागवतत्रैविद्ययोरपि साम्यादस्यैव किमुच्यत इत्यतो न वेदानुसारित्वं वेदवादित्वमत्राभिप्रेतमिति भावेनाह ॥ वाद इति ॥ विवादात्पठनादिति ॥ विवादपूर्वकपठनादित्यर्थः । अस्त्वेवं वेदवादित्वं तथापि तेन मोक्षादिसिद्धेः कथं भागवतस्यैव मोक्ष उक्त इत्यतः पाषण्डादिवत्तस्य निषिद्धत्वान्न मोक्षसाधनत्वमिति भावेनाह ॥ वेदेति ॥ न केवलं मोक्षसाधनत्वाभावोऽपि तु तमःसाधनत्वं चास्तीत्याह ॥ तेभ्य इति ॥ `अनारम्भमनन्तं च'इति तमसि दुःखानुभवानुवृत्तेराद्यन्तशून्यत्वमुच्यते । `यस्मान्नैवोत्थितिः' इति तत् प्राप्तानामपुनरावृत्तिरुच्यते । तमसः पुनरावृत्तिराहित्यं कुत इत्यत आह ॥ वव्रमिति ॥ स्वगतानां गमनं वारयतीति वा, सदा वृणोतीति वा वरमानन्दं वारयतीति वा वव्रम् । 'इत्यादिवेदगदितम् ॥ 40 ॥
(( व्यवसायात्मिका बुद्धिरेकेह कुरुनन्दन ।
बहुशाखाह्यनन्ताश्च बुद्धयोऽव्यवसायिनाम्॥ 41/2 ॥
* बुद्धिर्निर्णीततत्त्वानामेका विष्णुपरायणा ।
बहुशाखा ह्यनन्ताश्च बुद्धयोऽव्यवसायिनाम् ॥" इति ब्रह्मवैवर्ते ॥ 41 ॥
// एवंविधश्चेदयं वैष्णवो धर्मः तर्~हि किमिति कैश्चिदेवैकमत्येनानुष्ठीयते, परस्परविरुद्धतया बहुभिर्नानुष्ठीयत इत्यत आह ॥ बुद्धिरिति ॥ केषाञ्चिदेव बुद्धेर्निर्णीतत्वात्तावन्त एवैकमत्येन विष्णुपरायणाः । बहूनामनिर्णीतबुद्धित्वात्परस्परविरोधेन न विष्णुपरत्वमिति भावः । अनेन व्यवसायेति श्लोकोपि व्याख्यातो भवति ॥ 41 ॥
((यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः ।
वेदवादरताः पार्थ नान्यदस्तीतिवादिनः ॥ 42/2 ॥
कामात्मानः स्वर्गपरा जन्मकर्मफलप्रदां ।
क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति ॥ 43/2 ॥
भोगैश्वर्यप्रसक्तानां तयापहृतचेतसां ।
व्यवसायात्मिका बुद्धिः समाधौ न विधीयते॥ 44/2 ॥
* अव्यवसायबुद्धिः केषाम् । यां वाचमविपश्चितः प्रवदन्ति तयाऽपहृतचेतसां बुद्धिः व्यवसायात्मकत्वेन समाधाने न वर्तते ।
``यथा वस्तु तथा ज्ञानं तत्साम्यात् सममीरितम् ।
विषमं त्वन्यथाज्ञानं समाधानं समस्थितिः ॥
न तद्भवत्यसद्वाक्यैर्विषमीकृतचेतसाम् ।
स्वर्गादिपुष्पवाद्येन वचनं यदचेतसाम् ॥
न मन्यन्ते फलं मोक्षं विष्णुसामीप्यरूपकम् ।
फलदं च न मन्यन्ते तं विष्णुं जगतः पतिम् ॥
भोगैश्वर्यानुगत्यर्थं क्रियाबाहुल्यसन्तताम् ।
बहुसंहारफलदामन्ते तमसि पातनीम् ॥
यां वदन्ति दुरात्मानो वेदवाक्यविवादिनः ।
तया सम्मोहितधियां कथं तत्त्वज्ञता भवेत् ॥" इति च ।
``इष्टापूर्तं मन्यमाना वरिष्ठं नान्यत् श्रेयो वेदयन्ते प्रमूढाः । नाकस्य पृष्ठे सुकृते तेऽनुभूत्वा इमं लोकं हीनतरं वा विशन्ति ॥" इति चाथर्वणी श्रुतिः ।
// यद्यव्यवसायात्मकबुद्धित्वमेव वैष्णवधर्मराहित्ये निमित्तं तर्~ह्यव्यवसायबुद्धिस्त्याज्या स्यात् । त्यागश्च कारणपरित्यागेन स्यात् । केन कारणेनाव्यवसायबुद्धिर्भवतीति पृच्छति ॥ अव्यवसायेति ॥ तत्परिहाराय `याम्'इति श्लोकान् योजयति ॥ यामिति ॥ समाधान इति निश्चयस्य तत्त्वविषयतया दार्ढ्यमुच्यते । समाधानाभावे च न विष्णुधर्मानुष्ठानमिति वाक्यशेषः ।
स्मृत्यैव श्लोकान् व्याचष्टे ॥ यथेति ॥ तथा तथाविषयीकारि । तत्साम्यादिति ॥ वस्तुसाम्यादित्यर्थः । असतां वाक्यं कुतो वैषम्यहेतुरित्यत आह ॥ स्वर्गेति ॥ यद्यस्मात् । नान्यदस्तीत्यस्यार्थद्वयमाह ॥ न मन्यन्त इति ॥ अनुगतिः प्राप्तिः । क्रियाबाहुल्यसन्तताम् एतत्प्रतिपादिकाम् । जन्मेत्यस्यार्थो बह्विति । अन्त इत्यभिप्रायमात्रम् । नान्यदस्तीत्याद्यर्थे श्रुतिं चाह ॥ इष्टेति ॥ अन्यच्छ्रेयो भगवज्जञानादि । सुकृते सुकृतप्राप्ये । अनुभूत्वा । भोगानिति शेषः ।
* ``वेदवादरतो न स्यान्न पाषण्डी न हैतुकी" इति हि भागवते ।
``ये न जानन्ति तं विष्णुं याथातथ्येन संशयात् ।
जिज्ञासवश्च नितरां श्रद्धावन्तः सुसाधवः ॥
निर्णेतरूणामभावेन केवलं ज्ञानवर्जिताः ।
ते याज्ञिकाः स्वर्गभोगक्षये यान्ति मनुष्यताम् ॥
यैर्निश्चितं परत्वं तु विष्णोः प्रायो न यातनाम् ।
ब्रह्महत्यादिभिरपि यान्त्याधिक्ये चिरं न तु ॥
विशेष एव तेषां तु तदन्येषां विपर्ययः ।
ये तु भागवताचार्यैः सम्यग् यज्ञादि कुर्वते ॥
बहिर्मुखा भगवतोऽनिवृत्ताश्च विकर्मणः ।
दक्षिणातर्पितानां तु ह्याचार्याणां तु तेजसा ॥
यान्ति स्वर्गं ततः क्षिप्रं तमोऽन्धं प्राप्नुवन्ति च ।
तदन्ये नैव च स्वर्गं यान्ति विष्णुबहिर्मुखाः ॥" इति नारदीये ॥ 42-44 ॥
वेदवादरतत्वमुक्तार्थतया निषिद्धमित्यत्र प्रमाणान्तरं चाह ॥ वेदेति ॥ इष्टापूर्तं वरिष्ठं मन्यमानाः केचन स्वर्गभोगानन्तरमिमं लोकं विशन्ति । केचन हीनतरं विशन्तीत्युक्तम् । तत्स्मृत्या विवृणोति ॥ य इति ॥ संशयात् संशयेन । विषयीकुर्वन्तीति शेषः । श्रद्धादिसद्भावे कथं तत्त्वज्ञानाभावः? `श्रद्धावान् लभते ज्ञानम्'इत्यादेरित्यत आह ॥ निर्णेतृणामिति ॥ तत्त्वज्ञानरहितश्रद्धादिकमेवैतत्फलप्रदं चेत्तर्~हि कियान् विशेषस्तत्त्वज्ञानिनां भवतीत्यत आह ॥ यैरिति ॥ आधिक्ये चिरं नेति ॥ ब्रह्महत्यादेरप्यधिकपापाचरणेऽप्यल्पकालं यातनां यान्ति ॥ न तु चिरमित्यर्थः । यज्ञादिमात्रेण भगवद्दवेषिणामपि स्वर्गसिद्धेः किं जिज्ञासादिनेत्यत आह ॥ तदन्येषामिति ॥ विपरीतनिश्चयानामश्वमेधादिभिरपि न स्वर्गं इत्यर्थः । दुर्योधनादीनां द्वेषिणामेव स्वर्गादिदर्शनात् कथमेतदित्यत आह ॥ ये त्विति ॥ तथापि द्वेषिणां स्वर्गप्राप्तिसद्भावात् कथं तदन्येषां विपर्यय इत्युक्तमित्यत आह ॥ तदन्य इति ॥ भागवताचार्यवर्जित तद्दवेष्यभिप्रायेण तदुक्तमिति भावः । अनेन `इमं लोकम्'इत्यज्ञविषयम् । प्रमूढत्वमज्ञत्वमेव । हीनतरमिति त्ववैष्णवाचार्यवद्भगवद्दवेषिविषयम् । तेषां प्रमूढत्वं मिथ्याज्ञानित्वमित्युक्तं भवति ॥ 42-44 ॥
((त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन ।
निर्द्वन्द्वो नित्यसत्वस्थो निर्योगक्षेम आत्मवान् ॥ 45/2 ॥
* त्रैगुण्याख्यं विषं यापयन्त्यपगमयन्तीति त्रैगुण्यविषयाः ।
``आश्रित्य वेदांस्तु पुमान् त्रैगुण्यविषहारिणः ।
निस्त्रैगुण्यो भवेन्नित्यं वासुदेवैक संश्रयः ॥" इति ।
`सत्त्वं साधुगुणात् विष्णुरात्मा सन्ततिहेतुतः ।" इति च । सन्ततविष्णुस्मरणं नित्यसत्त्वस्थत्वम् । परमात्मा मम स्वामीति ज्ञानमात्मवत्त्वम् । तेनैक्यज्ञानं निवारयति । विरुद्धयोगक्षेमेच्छावर्जितः । अन्यथोत्थानादेरप्ययोगात् ॥ 45 ॥
// प्रतिज्ञातो ज्ञानोपाय उच्यते ॥ `त्रैगुण्येति'॥ तत्र वेदानां त्रैगुण्यविषयत्वात् तान् परित्यज्य निस्त्रैगुण्यो भवेत्यन्यथाप्रतीतिनिरासायाह ॥ त्रैगुण्येति ॥ यापयन्तीत्यस्य प्रापयन्तीत्यन्यथाप्रतीतिनिरासायाह ॥ अपगमयन्तीति ॥ प्रतीत एवार्थः किं न स्यादित्यतः स्वोक्तार्थे स्मृतिसम्मतिमाह ॥ आश्रित्येति ॥ सत्त्वस्थत्वं सात्त्विकत्वं, आत्मवत्त्वं मनस्वित्वमित्यन्यथाप्रतीतिनिरासाय सत्त्वात्मशब्दार्थं स्मृत्यैवाऽह ॥ सत्त्वमिति ॥ सन्ततिः सम्यग्व्याप्तिः । सत्त्वं विष्णुश्चेत् तत्स्थत्वं स्वाभाविकं किं विधियत इत्यत आह ॥ सन्ततेति ॥ न तदाधारतयाऽवस्थानमात्रमत्र विवक्षितमिति भावः । आत्मा विष्णुश्चेत्तद्वत्त्वं स्वाभाविकं न विधेयमित्यत आह ॥ परमात्मेति ॥ न तु तत्सम्बन्धमात्रमिति भावः । सत्त्वस्थपदेनैवास्यार्थतः प्राप्तत्वात्किं पुनरुच्यत इत्यत आह ॥ तेनेति ॥ सततं विष्णुस्मरणमात्रविधावैक्येनापि तत्स्मरणं प्राप्यते । अत आत्मवत्त्वकथनेन तन्निवार्य यथावत्स्मरणप्रकार उच्यत इति भावः । अप्राप्तप्राप्तिर्योगः । प्राप्तपरिरक्षणं क्षेमः । तदुभयं सर्वथा त्याज्यमित्यन्यथाप्रतीतिनिरासायाऽह ॥ विरुद्धेति ॥ न केवलं शास्त्रविरुद्धविषययोगक्षेमपरित्यागमात्रमत्र विवक्षितम् । अपि तु तदिच्छात्यागोऽपीति भावेनेच्छेत्युक्तम् । प्रतीत एवार्थः किं न स्यादित्यत आह ॥ अन्येथेति ॥ उत्थानादीनामप्यप्राप्तप्राप्तिरूपत्वेन योगत्वात् । ततश्च `योगमातिष्ठोत्तिष्ठ'इत्यादिविरोध इति भावः ॥ 45 ॥
((यावानर्थ उदपाने सर्वतः सम्प्लुतोदके ।
तावान्सर्वेषु वेदेषु ब्राह्मणस्य विजानतः॥ 46/2 ॥
* ``उद्रेकात् पातृराहित्यादनत्वाच्चाखिलस्य च ।
प्रलयेऽप्युदपानोसौ भगवान् हरिरीश्वरः ॥
प्रकृतिर्~ह्युदरूपेण सर्वमावृत्य तिष्ठति ।
प्रलयेऽतो लयं प्राहुः सर्वतः सम्प्लुतोदकम् ॥" इति च ।
``यावत् प्रयोजनं विष्णोः सकाशात् साधकस्य च ।
धर्ममोक्षादिकं तावत् सर्ववेदविदो भवेत् ॥
वेदार्थनिर्णयो यस्माद् विष्णोर्ज्ञानं प्रकीर्तितम् ।
ज्ञानात् प्रसन्नश्च हरिर्यतोऽखिलफलप्रदः ॥" इति च ।
सर्वतः सम्प्लुतोदकेऽप्युद्रिक्तः पालकवर्जितः कालद्यनश्च यो विष्णुस्तस्माद् यावत् फलं तावत् सर्ववेदेषु विशेषज्ञस्यैव भवतीत्यर्थः । सर्वे हि विष्णोरन्ये प्रलयकाले नोद्रिक्ताः । ये चोद्रिक्ता मुक्ता रमा च तेऽपि न पालकवर्जिताः । विष्णुपाल्यत्वात् । नच मुक्ताः कालादिचेष्टकाः । न चोद्रिक्तत्वं तेषां तद्वत् । अतः उदपानो विष्णुरेव । प्रलये विशेषतोऽपि ।
``अनीदवातं स्वधया तदेकं तस्माद्धान्यन्न परः किञ्चनाऽस । तम आसीत् तमसा गूळ्~हमग्रेऽप्रकेतं सलिलं सर्वमा इदम् ।" ``आपो वा इदमग्रे सलिलमासीत्" ``सलिल एको द्रष्टाऽद्वैतो भवति ।" इत्यादि श्रुतिभ्यः ॥ 46 ॥
// त्रैगुण्यनिवृत्त्यर्थः वेदाश्रयणं कार्यमित्यत्र युक्तिरुच्यते `यावानिति'। तत्रोदपानशब्दं, सर्वतः सम्प्लुतोदकशब्दं च स्मृत्यैव व्याचष्टे ॥ उद्रेकादिति ॥ सर्वकार्याणां प्रलये लीनत्वात् कथं सर्वतः सम्प्लुतोदकशब्दार्थतया प्रलयो गृह्यत इत्यत आह ॥ प्रकृतिरिति ॥
समस्तश्लोकं स्मृत्या व्याचष्टे ॥ यावदिति ॥ साधकस्य सम्भवतीति शेषः । वेदज्ञानेन कुतो विष्णुः फलं ददातीत्यत आह ॥ वेदेति ॥ अस्तु वेदार्थज्ञानं नाम विष्णुज्ञानम् । तथापि कुतो भगवान् फलं ददातीत्यत आह ॥ ज्ञानादिति ॥
वाक्यद्वयसिद्धं श्लोकार्थमेकीकृत्य दर्शयति ॥ सर्वत इति ॥ नन्वत्र कश्चिदुद्रिक्तत्वादिगुणः श्रूयते । स विष्णुरिति कुतः? अन्योपि किं न स्यादित्यत आह ॥ सर्वे हीति ॥ मुक्तानां रमायाश्चोद्रिक्तत्वात् कथमुद्रिक्तत्वेन विष्णुत्वनिश्चय इत्यत आह ॥ ये चेति ॥ मुक्तानामुद्रिक्तत्वेऽपि पालकवर्जितत्वाभावेनोदपानत्वासम्भव इति भावः । मुक्तानामुदपानत्वासम्भवे हेत्वन्तरं चाह ॥ न चेति ॥ रमायाः सर्वाभिमानित्वेन कालादिचेष्टकत्वादसङ्ग्रहः । किञ्चोद्रिक्तत्वं तेषामङ्गीकृतमेव न तु मुख्यतोस्त्यतो न तेषामुदपानत्वमित्याह ॥ न चेति ॥ अनेन रमाया अपि चेष्टकत्वमनुमतमेवेति ज्ञायते । उद्रिक्तत्वादेरन्यत्रासम्भवेऽपि किमित्यत आह ॥ अत इति ॥ किञ्चोद्रिक्तत्वाद्येवान्यत्र न सम्भवति । किमुत सर्वतः सम्प्लुतोदके । अतोऽप्युदपानो विष्णुरेवेत्याह ॥ प्रलय इति ॥
मास्त्वन्येषामसम्भवात् सर्वतः सम्प्लुतोदकेऽप्युदपानत्वम् । विष्णोरपि तत्सम्भवः कुत इति चेत्परिशेषादिति ब्रूमः । श्रुतिभ्यश्चेत्याह ॥ आनीदिति ॥ तदेकं ब्रह्म वायुप्रेरणां विना स्वसार्मथ्येनैव कालादिकं प्रेरयति स्म । तस्मादन्यदुत्तमं वस्तु किञ्चन नाऽस । अपि तु तदेवोद्रिक्तमास । अपरं तमः प्रकृतिरस्मिन् सर्वस्मिन् देशेऽविज्ञातं सलिलं भूत्वाऽसीत् । तेन सलिलेन प्रलये सर्वं गूढमासीदित्यर्थः । अस्याग्रे सलिले समन्तात्पालकवर्जितो भगवानासीदित्यर्थः । अद्वैतः सर्वोद्रिक्तः ॥ 46 ॥
((कर्मण्येवाधिकारस्ते मा फलेषु कदाचन ।
मा कर्मफलहेतुर्भूर्माते सङ्गोस्त्वकर्मणि ॥47/2 ॥
<लन्ग्=कन्>* कर्माधिकारिण एव त्वदादयो जीवाः, फलं तु मदायत्तमिति भावः । मा कर्मफलहेतुर्भूर्नेश्वरोऽहमिति भावं कुरु । ``एष उ एव शुभाशुभैः कर्मफलैरेनं संयोजयति न स्वयं संयुक्तो भवति । यदेनं कर्मफलैः संयोजयति न स्वयं संयुक्तो भवति तस्मादन्य एवासौ भगवान् वेदितव्यः" इति पैङ्गिश्रुतिः ॥47॥
// ऐक्यभावनं न कार्यमित्यत्र हेतुरुच्यते `कर्मणीति'। तत्रार्जुनस्य कर्मकरणे किञ्चित्सार्मथ्यमस्ति, न तु फलापादन इत्येवोच्यते । तत्कथमनेन सर्वजीवानामीश्वराभेदाभावः साध्यत इत्यत आह ॥ कर्मेति ॥ नात्र त इत्युर्जुन एव गृह्यते । अपि तु सर्वजीवाः । तेषां फलापादनासार्मथ्यमुक्त्वा ईश्वरे तत्सार्मथ्यमभिप्रेयते । तेनात्रोक्तैवाभेदाभावे युक्तिरिति भावः । नन्वत्रास्त्वेतावदभिप्रेतम् । तथापि प्रतिज्ञाया अभावादभेदाभावे युक्तिरियमुक्तेति कथं ज्ञायत इत्यत आह ॥ मा कर्मेति ॥ फलहेतुरीश्वरः स मा भूर्मनसेत्यर्थः । अत्र श्रुतिं चाह ॥ एष इति ॥ स्वयं जीवः ॥ 47 ॥
(( योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय ।
सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते ॥ 48/2॥
* सङ्गं फलस्नेहम् ॥ 48 ॥
// कर्माकरणे स्नेहो मा।स्त्वित्युक्तम् । किं तर्~हीत्यत उच्यते `योगस्थः'इति । तत्र कर्मसङ्गं त्यक्त्वा कर्माणि कुर्विति व्याहतमित्यत आह ॥ सङ्गमिति ॥ न सङ्गपदेन कर्मसम्बन्धोऽभिधीयते । येन व्याहतिः । अपि तु फलस्नेह एवेति भावः ॥ 48 ॥
(( दूरेण ह्यवरं कर्म बुद्धियोगाद्धनञ्जय ।
बुद्धौ शरणमन्विच्छ कृपणाः फलहेतवः ॥ 49/2 ॥
* बुद्धौ जातायामपि विष्णुमेव शरणमन्विच्छ --
``अज्ञानां ज्ञानिनां चैव मुक्तानां शरणं हरिः ।
तं ये स्वैक्येन मन्यन्ते सर्वभिन्नं गुणोच्छ्रयात् ॥
कृपणास्ते तमस्यन्धे निपतन्ति न संशयः ।
न तेषामुत्थितिः क्वापि नित्यातिशयदुःखिनाम् ।
गुणभेदविदां विष्णोर्भेदाभेदविदामपि
देहकर्मादिषु तथा प्रादुर्भावादिकेऽपि वा ॥
स्वोद्रिक्तानां तदीयानां निन्दां कुर्वन्ति येऽपि च ।
सर्वेषामपि चैतेषां गतिरेषा न संशयः ॥" इति नारदीये ॥ 49 ॥
// ज्ञानात्कर्माधममित्युक्तम् । तर्~हि ज्ञानस्योत्तमत्वात् ज्ञानावास्थायामीश्वरैक्यभावनं युक्तमित्याशङ्कापरिहारायोच्यते बुद्धाविति । तत्रैतच्छङ्कापरिहारः कथमुक्त इत्यत आह ॥ बुद्धाविति ॥ अस्मिन्नेवार्थे स्मृतिसम्मतिं दर्शयंस्तयैवोत्तरपादमपि व्याचष्टे ॥ अज्ञानामिति ॥ फलहेतुपदव्याख्यानं `तं ये स्वैक्येन'इत्यादि पूर्ववत् । कृपणाः कृपाविषयाः । तत्र हेतुमाह ॥ तमसीति ॥ 49 ॥
((बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते ।
तस्माद्योगात युज्यस्व योगः कर्मसु कौशलम् ॥ 50/2 ॥
कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः ।
जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयम् ॥ 51/2 ॥
* यथावद्विष्णुं ज्ञात्वा तदर्थत्वेन कर्मकरणमित्येतत् कर्मकौशलमेव योगः । भगवत् ज्ञानमेव बुद्धिः ॥ 50-51 ॥
// नन्वस्तु ज्ञानस्याधिक्यं, ततश्च किमित्यतः `तस्मात्'इति ज्ञानसाधनमापाद्यमित्युक्तम् । तत्रास्तु ज्ञानसाधनापादनम् । किं फलस्नेहरहितकर्मणेत्याशङ्कायां फलस्नेहरहितकर्मैव ज्ञानसाधनमिति वक्तव्यम् । किमर्थमत्र कर्मकौशलस्य ज्ञानसाधनत्वमुच्यत इत्यतः फलस्नेहराहित्यादियुक्तकर्मैव कर्मकौशलपदेनोच्यत इति भावेनाह ॥ यथावदिति ॥ `योगस्थः'इत्यत्र भगवज्जञानस्यापरिगृहीतत्वादत्रापि न तदभिप्रेतमित्यत आह ॥ भगवदिति ॥ एतच्छ्लोकार्थविवरणात्मकोत्तरश्लोके `बुद्धियुक्तः'इति भगवज्जञानस्यापरोक्षज्ञानसाधनत्वेन गृहीतत्वादत्र पूर्वत्रापि तदभिमतमिति भावः ॥ 50 ॥ 51 ॥
(( यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति ।
तदा गन्तासि निर्वेदं श्रोत्रव्यस्य श्रुतस्य च ॥ 52/2 ॥
श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला ।
समाधवचला बुद्धिस्तदायोगमवाप्स्यसि ॥ 53/2 ॥
* निर्वेदं नितरां लाभम् ।
``बुद्धिमोहो यदा न स्यादन्यथाज्ञानलक्षणः ।
श्रोतव्यश्रुतसाफल्यं तदा प्राप्नोति मानवः ॥
श्रुतिमार्गं प्रपन्ना तु तदर्थज्ञाननिश्चला ।
समाधानेन तु पुनरापरोक्ष्याच्च निश्चला ॥
विष्णौ प्राप्स्यसि तद्योगं मुक्तो भूत्वा तदश्नुते ।" इति च ।
श्रुतौ विशेषेण प्रतिपन्ना ॥ 52 - 53 ॥
// कियत्पर्यन्तमवश्यं कर्तव्यानि मुमुक्षुणैवं कर्माणीत्यत उच्यते यदेति । तत्र निर्वेदपदेन वैराग्यमुच्यत
इत्यन्यथाप्रतीतिनिरासायाह ॥ निर्वेदमिति ॥ एतच्छ्लोकद्वयं स्मृत्यैव व्याचष्टे ॥ बुद्धीति ॥ श्रोतव्यश्रुतपदं सर्वकर्मोपलक्षकम् । समाधानेन श्रुत्यर्थज्ञाननिश्चलत्वेनापरोक्षज्ञानं भवति । अनेन `समाधावचला'इति समाधौ सत्यपरोक्षज्ञानं तेन विष्णावचलेति व्याख्यातं भवति । तद्योगं भगवद्योगम् । भगवद्योगस्य सर्वेषामपि विद्यमानत्वात् को विशेष इत्युक्तं विवृणोति ॥ मुक्त इति ॥ तदश्नुते ब्रह्माप्नोतीत्यर्थः । अत्रापि यदा तदेति सम्बध्यते । नन्वत्र `श्रुतिविप्रतिपन्ना'इति श्रुतिविरुद्धत्वमुच्यते । तत्कथं श्रुतिमार्गं प्रपन्नेति व्याख्येत्यत आह ॥ श्रुताविति ॥ 52 ॥ 53 ॥
((स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव ।
स्थितधीः किं प्रभाषेत किमासीत व्रजेत किम्॥ 54/2 ॥
* का भाषा ? कथं भाष्यते ? कैर्गुणैः ? समाधिस्थस्य विषमबुद्धिवर्जितस्य ॥ 54 ॥
// प्रकृतज्ञानिलक्षणादिप्रश्नः क्रियते स्थितेति ॥ तत्र `का भाषा'इत्येतदन्यथाप्रतीतिनिरासाय व्याचष्टे ॥ केति ॥ ननु ज्ञानीति भाष्यत इति सिद्धत्वात्किं प्रश्नेनेत्यत आह ॥ कैरिति ॥ `समाधिस्थस्य'इत्यस्य समाधिं कुर्वतो ज्ञानिनो लक्षणादि पृच्छतीत्यन्यथाप्रतीतिनिरासार्थमाह ॥ समाधीति ॥ 54 ॥
(( प्रजहाति यदा कामान्सर्वान्पार्थ मनोगतान् ।
आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते ॥ 55/2 ॥
* ``सर्वकामनिवृत्तिस्तु जानतो न कथञ्चन ।
अनिषिद्धकामितैवातो ह्यकामित्वमितीर्यते ॥
अपरोक्षदृशोऽपि स्यात् यदा नास्त्यपरोक्षदृक् ।
क्वचिद् विरुद्धकामोऽपि यथाऽयुध्यद्धरो हरिम् ॥
अतोऽनभिभवो यावद् दृशस्तावन्निगद्यते ।
स्थितप्रज्ञस्तथाप्यस्य कादाचित्क्यपि या दृशिः ॥
नियमेनैव भक्तिजाता चेत् क्रमात् मुक्त्यै भवेत् तथा ॥" इति च । आत्मनि विष्णौ । आत्मना विष्णुना । तत्प्रसादादेव तुष्टः ॥ 55 ॥
// ज्ञानिलक्षणमुच्यते प्रजहातीति ॥ तत्र ज्ञानिनः सर्वकामप्रहाणं नाम निषिद्धानिषिद्धसर्वकामप्रहाणमित्यन्यथाप्रतीतिनिरासाय तत्स्मृत्यैव व्याचष्टे ॥ सर्वेति ॥ कुतो न ज्ञानिनः सर्वकामनिवृत्तिः, यतः सर्वशब्दसङ्कोचः क्रियत इत्यत आह ॥ अपरोक्षेति ॥ ज्ञानिनः कदाचिन्निषिद्धकामनिवृत्तिरपि नास्ति । कुतः सर्वकामनिवृत्तिरित्यर्थः । तर्~हि ज्ञानस्याभिभवकाले ज्ञानिलक्षणाभावाज्जञानित्वाभावः प्रसज्यत इत्यतः सत्यमित्याह ॥ अत इति ॥ निषिद्धकामराहित्यस्य ज्ञानानभिभवकाल एव सत्त्वादित्यर्थः । ननु यदि कदाचिद् दृशिरभिभूयते तर्~हि सा न मोक्षसाधनं स्यात् । कादाचित्कतया दौर्बल्यादित्यत आह ॥ तथापीति ॥ योग्या स्वबिम्बविषया । `आत्मन्येवात्मना'इत्यात्मशब्दौ जीवमनःपरावित्यन्यथाप्रतीतिनिरासायाह ॥ आत्मनीति ॥ कुतो न जीवादिपरावित्यत आह ॥ तुष्ट इति ॥ अत्रात्मस्थित्यादिना तुष्ट्यभिधानाज्जीवस्थित्यादिना तदसम्भवान्न तत्परावात्मशब्दाविति भावः ॥ 55 ॥
((दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः ।
वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते ॥ 56/2 ॥
यः सर्वत्रानभिस्नेहस्तत्तत्त्राप्य शुभाशुभं ।
नाभिनन्दति नद्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ॥ 57/2 ॥
यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः ।
इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥ 58/2 ॥
विषया विनिवर्तन्ते निराहारस्य देहिनः ।
रसवर्जं रसोप्यस्य परं दृष्ट्वा निवर्तते ॥ 59/2 ॥
* रसो रागः ॥ 56-59 ॥
// एतादृशं चेज्जञानं तत्किं सर्वे न साधयन्तीत्यतो निराहारत्वेनेन्द्रियजयस्तेनैव ज्ञानमित्यतिदुःसम्पादत्वं ज्ञानस्योच्यते `विषया' इति । तत्र रसशब्दस्यापूर्वमर्थमाह ॥ रस इति ॥ 59 ॥
((यततोह्यपि कौन्तेय पुरुषस्य विपश्चितः ।
इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः ॥ 60/2 ॥
तानि सर्वाणि संयम्य युक्त आसीत मत्परः ।
वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता ॥ 61/2 ॥
ध्यायतो विषयान्पुंसः सङ्गस्तेषूपजायते ।
सङ्गात्सञ्जायते कामः कामात्क्रोधोऽभिजायते ॥ 62/2 ॥
क्रोधाद्भवति संमोहः संमोहात्स्मृतिविभ्रमः ।
स्मृतिभ्रंशाद्भुद्धिनाशो बुद्धिनाशात्प्रणश्यति ॥ 63/2 ॥
* सम्मोहान्मिथ्याज्ञानात् ज्ञातमप्यन्यथा स्मर्यते । वाक्यार्थानामन्यथास्मरणान्निर्णीतं ज्ञानमपि नश्यति ॥ 60-63 ॥
// वीतरागेत्यादिना रागादिराहित्यं ज्ञानिलक्षणमुक्तम् । जिज्ञासुना च तत्साध्यम् । कारणफलपरिज्ञाने च रागादित्यागो भवति । अतो रागादिपरिहाराय तत्कारणफले उच्येते `ध्यायत'इति । तत्र संमोहस्मृतिविभ्रमपदाभ्यां विपरीतज्ञानमेवोच्यते । अतः कथं हेतुहेतुमद्भाव इत्यत आह ॥ संमोहादिति ॥ अत्र संमोहपदेन परवित्तापहरणाद्यधर्मे धर्मबुद्धिरित्यादिमिथ्याज्ञानमुच्यते । स्मृतिविभ्रमपदेन च परवित्तापहरणादेरधर्मत्वाभिधायकश्रुत्याद्यर्थस्य पूर्वं स्वयं ज्ञातस्याप्यन्यथास्मरणमुच्यते । तयोश्च हेतुहेतुमद्भावः सम्भवतीति भावः । स्मृतिभ्रंशाद्बुद्धिनाश इति दुर्घटम् । चेतनस्य बुद्ध्यविनाभावित्वेन बुद्धेर्नाशायोगादित्यत उक्तं विवृण्वन्नाह ॥ वाक्येति ॥ निर्णीतं केवलवाक्यसापेक्षतां विनापि निश्चितम् । न तु ज्ञानमात्रमिति भावः ॥ 63 ॥
((रागद्वेषवियुक्तैस्तु विषयानिन्द्रियैश्चरन् ।
आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति ॥ 64/2 ॥
प्रसादे सर्वदुःखानां हानिरस्योपजायते ।
प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठते ॥ 65/2 ॥
नास्तिबुद्धिरयुक्तस्य न चायुक्तस्य भावना ।
न चाभावयतः शान्तिरशान्तस्य कुतः सुखं ॥ 66/2 ॥
* शान्तिर्भगवन्निष्ठा । ``शमो मन्निष्ठता" इति हि भागवते ॥ 66 ॥
// इन्द्रियजये जाते मनसः स्वतोऽपि प्रायो विषयागतिलक्षणेन प्रसादेन मोक्षलाभादसावापाद्य इत्युक्तम् । तदनापादने दोषश्चोच्यते नास्तीति । तत्र भावनायाः शान्तिसाध्यत्वात् `न चाभावयतः शान्तिः'इति कथमुच्यत इत्यतो न शान्तिपदेनात्र चित्तनिरोध उच्यते । अपि तु भगवन्निष्ठबुद्धित्वम् । तच्च भावनासाध्यं भवतीति भावेन शान्तिशब्दार्थं सप्रमाणकमाह ॥ शान्तिरिति ॥ 66 ॥
इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते ।
तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि ॥ 67/2 ॥
तस्मादस्य महाबाहो निगृहीतानि सर्वशः ।
इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञाप्रतिष्ठिता ॥ 68 ॥
या निशा सर्वभूतानां तस्यां जागर्ति संयमी ।
यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ॥ 69/2 ॥
* ``देवेभ्योऽन्ये यदा ब्रह्म पश्यन्त्यन्यत्र दृश्यते ।
निशायामिव सुव्यक्तं यथाऽन्यैर्ब्रह्म नेयते ॥
आश्चर्यवस्तुदृग् यद्वद् व्यक्तमन्यत्र पश्यति ।
ऐकाग्र्याद्वा सुखोद्रेकात् देवाः सूर्यवदेव च ॥
प्रायशः सर्ववेत्तारस्तत्रापि ह्युत्तरोत्तरम् ॥" इति ब्रह्मतर्के ॥ 69 ॥
// पिण्डीकृत्योक्तलक्षणमुच्यते या निशेति । तत्र सर्वप्रेरकाणां देवानामपि ज्ञानित्वाज्जञानिनां परमात्मेतरादर्शने लोकयात्रोच्छेदः स्यादित्यतस्तद्वाक्यं देवेतरज्ञानिविषयतया स्मृत्यैव व्याचष्टे ॥ देवेभ्य इति ॥ `यथाऽन्यैः'इत्यनेन पूर्वार्धतात्पर्यमुक्तं भवति । यथाज्ञैर्ब्रह्म न ज्ञायत इत्यर्थः ॥ सूर्यवदिति ॥ सूर्यो यथा स्वतेजसा सर्वं प्रकाशयत्येवं स्वज्ञानेन सर्वं विषयीकुर्वन्तीत्यर्थः ॥ 69 ॥
(( आपूर्यमाणमचलप्रतिष्ठं समुद्रमापः प्रविशन्ति यद्वत् ।
तद्वत्कामा यं प्रविशन्ति सर्वे स शान्तिमाप्नोति न कामकामी ॥ 70/2 ॥
* ``भुञ्जानोऽपि हि यः कामान् मर्यादां न तरेत् क्वचित् ।
समुद्रवद्धर्ममयीं नासौ कामी स मुच्यते ॥
केति कुत्सितवाची स्यात् कुत्सितं मानमेव तु ।
कामो मोक्षविरोधी स्यान्न सर्वेच्छा विरोधिनी ॥" इति च । नच सर्वेच्छाभावे जीवनं भवति । `शान्तिर्मोक्षो हतो ह्यत्र विष्णुनिष्ठा भवेद् ध्रुवा ॥" इति च ॥ 70 ॥
// एवं ज्ञानी सर्वत्रोदासीनश्चेत्कथं विषयभोगस्तस्येत्यत उच्यते आपूर्यमाणमिति । तत्स्मृत्यैव व्याचष्टे ॥ भुञ्जान इति ॥ धर्ममयीं धर्माख्याम् । विषयभोक्ता न कामी कथमुच्यत इत्यत उक्तस्य `न कामकामी 'इत्यस्यार्थो नासाविति । ननु कामाभावे विषयभोगासम्भवात् कथं ज्ञानिनः कामाभावो मोक्षसिद्ध्यर्थमुच्यत इत्यतोऽत्र कामपदेन निषिद्धेच्छैवाभिप्रेता । तस्या एव मोक्षविरोधित्वात् । नेच्छामात्रं
तस्य मोक्षाविरोधित्वादित्याह ॥ केति ॥ कुत्सितेयमिति मानं यद्विषये सैवेच्छा काम इत्यर्थः । इतश्च `न कामकामी 'इत्यत्र नेच्छामात्रनिषेध इत्याह ॥ न चेति ॥ ननु शान्तिशब्दस्य भगवन्निष्ठावाचित्वात् कथं स मुच्यत इति व्याख्येत्यतो भगवन्निष्ठासम्बन्धादेव मोक्षोऽपि शान्तिशब्दाभिधेय इति स्मृत्यैवाह ॥ शान्तिरिति ॥ 70 ॥
((विहाय कामान्यः सर्वान् पुमांश्चरति निःस्पृहः ।
निर्ममो निरहङ्कारः स शान्तिमधिगच्छति ॥ 71/2 ॥
* निषिद्धस्पृहाभावमात्रेण सर्वविषयान् विहाय ।
``अस्वरूपे स्वरूपत्वमतिरेव ह्यहङ्कृतिः ।
त्याज्या सर्वत्र ममता ज्ञात्वा सर्वं हरेर्वशे ॥" इति च ॥ 71 ॥
// पूर्वश्लोकोक्तं प्रपञ्च्यते विहायेति । तत्र कामपदेन यदीच्छा गृह्यते तर्~हि निःस्पृह इति पुनरुक्तिः । यदि विषयान्तर्~हि विषयत्यागे किं भक्षयति । निःस्पृहत्वं च कथं युज्यते । सर्वकामनिवृत्तिरिति वचनविरोधात् । जीवनाद्यभावप्रसङ्गाच्चेत्यत आह ॥ निषिद्धेति ॥ सर्वकामपदेन विषयाणां ग्रहणान्न पुनरुक्तिदोषः । नापि चरणासम्भवः । अत्र निःस्पृह इत्यनेन विषयाणां स्वरूपतो हानमन्तरेण स्पृहाभावमात्रेण हानस्याभिप्रेतत्वात् । नापि स्मृतिवचनादिविरोधः । निःस्पृह इति निषिद्धविषयस्पृहाभावस्य विवक्षितत्वादिति भावः ॥ ननु ज्ञानिनामप्यहं ममेति प्रत्ययप्रयोगदर्शनात् कथं तस्योच्यते
निरहङ्कारत्वादीत्यतो नाहमित्यादिज्ञानादिमात्रमहङ्कारादीति भावेन स्मृत्यैवाहङ्कारादिशब्दर्थामाह ॥ अस्वरूप इति ॥ ममता मदधीनमिति भावना ॥ 71 ॥
(( एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति ।
स्थित्वास्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति ॥ 72/2 ॥
॥ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु (ब्रह्मविद्यायां योगशास्त्रे) श्रीकृष्णार्जुनसंवादे साङ्ख्ययोगो नाम द्वितीयोध्यायः ॥
* ब्राह्मी ब्रह्मविषया । ज्ञानिनामप्यन्तकालेऽन्यमनसां प्रारब्धकर्मभावात् जन्मान्तरम् । प्रारब्धकर्मनाशकाले नियमेन भगवत्स्मृतिर्भवति । ततो मोक्षश्च । ``यं यं वाऽपि स्मरन् भावम्" इति हि वक्ष्यति । बाणं शरीरम् ॥
``अभावात् जडदेहस्य विष्णुर्निर्वाण उच्यते ।
भिन्नदेहाभावतो वा स सहस्रशिरा अपि ॥" इति च ॥ 72 ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीतातात्पर्यनिर्णये द्वितीयोऽध्यायः ॥ 2 ॥
// उक्तलक्षणमुपसंह्रियते एषेति । तत्र ब्राह्मीति ब्रह्मधर्मभूतेति प्रतीतिनिरासायाह ॥ ब्राह्मीति ॥ ननु `क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे 'इत्यादेर्ज्ञानमात्रेण सर्वकर्मणां क्षयाज्जञानानन्तरमेव मोक्षसद्भावेन स्थित्वाऽस्याम्'इत्यन्तकाले भगवत्स्मृत्यादिविधानं ब्रह्मप्राप्त्यर्थं किमिति क्रियत इत्यत आह ॥ ज्ञानिनामिति ॥ ज्ञानिनामपि यद्यन्तकाले भगवत्स्मरणादि नास्ति तर्~हि जन्मान्तरमेव भवति । न ब्रह्मप्राप्तिरतस्तदर्थमन्तकाले तत्स्मरणादिविधानं युक्तमेव । न च ज्ञानिनः क्षीणकर्मत्वाज्जन्मान्तरायोगः । ज्ञानमात्रेणाप्रारब्धकर्मनाशेऽपि येषामन्तकालेऽपि न भगवत्स्मरणं तेषां प्रारब्धकर्मभावादिति भावः ।
यदि मोक्षार्थं साक्षादन्तकाल एव भगवत्मृत्याद्यपेक्षितं तर्~हि तस्य दुःसम्पादत्वेन कस्यापि मोक्षो न स्यात् । अतः साक्षादन्तकालस्मरणं नात्र भगवतोऽभिप्रेतमित्यत आह ॥ प्रारब्धेति ॥ न मोक्षार्थमन्तकालस्मरणापेक्षायां कस्यापि मोक्षप्रसङ्गः । प्रारब्धकर्मण एवान्तकालस्मरणप्रतिबन्धकत्वेन तन्नाशेऽन्तकाले स्मरणनियमात् । तद्भावे च मोक्षनियमादिति भावः । नन्वन्तकालस्मरणादेव मोक्षो नान्यथेति भगवदभिमतमिति निश्चयो यदि भवेत्तदैवमर्थकल्पना भवेत् । स एव कुत इत्यत आह ॥ यं यमिति ॥ `शान्तिर्मोक्षोऽथ निर्वाणम्'इत्यादेर्निर्वाणशब्दस्य मोक्षेऽपि प्रसिद्धेर्ब्रह्म निर्वाणमिति कथं सामानाधिकरणम् । न च ब्रह्म निर्वाणं चेति योजना । ब्रह्मप्राप्त्यतिरिक्तमोक्षानिरूपणादित्यत आह ॥ बाणमिति ॥ बाणशब्दस्य शरीरवाचित्वान्निर्वाणपदेन कार्यब्रह्मव्यावृत्त्यर्थं ब्रह्मणोऽशरीरत्वमेवोच्यते । न मोक्ष इति भावः । ननु कथमशरीरत्वं ब्रह्मणः । सहस्रशीर्षेत्यादिविरोधादित्याशङ्कां स्मृत्यैव परिहरति ॥ अभावादिति ॥ 72 ॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्य श्रीमद्भगवद्गीतातात्पर्यनिर्णयस्य टीकायां जयतीर्थमुनिविरचितायां न्यायदीपिकायां द्वितीयोऽध्यायः ॥ 2 ॥
॥ श्रीवादिराजगुर्वन्तर्गतमध्वेशाभिन्नहयग्रीवात्मककृष्णार्पणमस्तु ॥
******************************************************************************************************************************************************
॥श्रीगुरुभ्योनमः ॥
श्रीवादिराजगुर्वन्तर्गत श्रीमध्वेशाभिन्न श्रीलक्ष्मीहयग्रीवायनमः ॥
॥ अथ तृतीयोऽध्यायः॥
अर्जुन उवाच--
ज्यायसी चेत् कर्मणस्ते मता बुद्धिर्जनार्दन ।
तत् किं कर्मणि घोरे मां नियोजयसि केशव ॥ 1 ॥
व्यामिश्रेणैव वाक्येन बुद्धिं मोहसीव मे ।
तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम् ॥ 2 ॥
* हरिः ॐ ॥ ज्ञानं योगश्चोक्तौ । तत्र कर्मयोगं विशेषतः प्रपञ्चयत्यनेनाध्यायेन ।
`दूरेण ह्यवरं कर्म' इति प्रश्नबीजम् ॥ 1 ॥ 2 ॥
// पूर्वाध्यायसङ्गतत्वेनैतदध्यायार्थं पूर्वाध्यायप्रतिपाद्यमाह -- ज्ञानमिति ॥ ``एषा तेऽभिहिता" इत्यन्तेन ज्ञायत इति ज्ञानमीश्वरादिस्वरूपं निरूपितम् । ततोऽध्यायपरिसमाप्तिपर्यन्तं तत् स्वरूपज्ञानोपायश्चोक्तः पूर्वाध्याय इत्यर्थः । तत्सङ्गतत्वेनैतदध्यायार्थमाह -- तत्रेति ॥ तयोर्ज्ञानयोगयोर्मध्ये योगोऽपि द्विविधो भवति । कर्मध्यानयोगभेदात् । तत्र प्रागुक्तमेव कर्मयोगं प्रपञ्चयत्यनेनाध्यायेन भगवानित्यर्थः । ननु `कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा' इत्यादिना पूर्वत्रापि कर्मयोगस्य प्रपञ्चितत्वात् किमनेनाध्यायेनेत्यत उक्तम् -- विशेषत इति ॥ नन्वत्रापि `इन्द्रियाणि पराणि' इत्यादिना ज्ञानस्याप्युक्तेः कथं कर्मयोगं प्रपञ्चयतीत्युच्यत इत्यतो वाऽह -- विशेषत इति ॥ प्राचुर्येणेत्यर्थः ।
ननु कर्मणः सकाशाद् बुद्धेर्ज्यायस्त्वं प्राक् कुत्रोक्तम् ? यद् बीजोऽयं ``ज्यायसी चेत् कर्मणः" इत्यर्जुनप्रश्न इत्यत आह -- दूरेणेति ॥ 1-2 ॥
श्रीभगवानुवाच -
लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयाऽनघ ।
ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनाम् ॥ 3 ॥
न कर्मणामनारम्भान्नैष्कर्म्यं पुरुषोऽश्नुते ।
न च संन्यसनादेव सिद्धिं समधिगच्छति ॥ 4 ॥
* ज्ञानप्रचुरो योगो ज्ञानयोगः । कर्मप्रचुरोऽन्यः ।
``साङ्ख्या ज्ञानप्रधानत्वात् देवाश्च यतयस्तथा ।
मुख्यसाङ्ख्यास्तत्र देवा ज्ञानमेषां महद्यतः ॥
बहुकर्मकृतोऽप्येते ततोऽपि बहुवेदनात् ।
मुख्यसाङ्ख्या इति ज्ञेयास्तदन्ये कर्मयोगिनः ॥
ज्ञानिनोऽप्यतिबाहुल्यात् कर्मणः कर्मयोगिनः ।
नोभयं तद्विना कश्चित् पुमान् हि पुरुषार्थभाक् ॥
न हि कश्चित् क्षणमपि जातु तिष्ठत्यकर्मकृत् ।
न च ज्ञानं विना कर्म पुरुषार्थकरं भवेत् ।" इति ब्रह्मवैवर्ते ।
// ``लोकेऽस्मिन्" इति परिहारवाक्ये केषाञ्चिदधिकारिणां ज्ञानमेव केषाञ्चित् कर्मैवानुष्ठेयमुच्यत इत्यन्यथाप्रतीतिनिरासायाह -- ज्ञानेति ॥ नात्र ज्ञानयोगपदेन ज्ञानमात्रं विवक्षितं, कर्मयोगपदेन च कर्ममात्रमुच्यते । किन्तु प्रत्येकमुभयम् । तर्~ह्युभावपि ज्ञानकर्मयोगाविति वक्तव्यौ । कथं कश्चिद् ज्ञानयोगः कश्चित् कर्मयोग उच्यत इति चेन्न । एकैकत्र ज्ञानकर्मणोः प्राचुर्याभिप्रायेणाल्पजलमिश्रेऽपि क्षीरे क्षीरशब्दप्रयोगवत् प्रयोगोपपत्तेरिति भावः ।
साङ्ख्यानां ज्ञानमेव योगिनां कर्मैवेति प्रतीत एवार्थः किं न स्यादिति चेत् तथाऽङ्गीकारे स्मृतिविरोधः स्यादिति भावेनाह -- साङ्ख्या इति ॥ देवानां बहुकर्मसद्भावात् कथं मुख्यसाङ्ख्यत्वमित्यत आह -- बह्विति ॥ ततोऽपि कर्मणोऽपि । गृहस्थादीनामपि किं केवलकर्मैवेत्यपेक्षायामाह -- ज्ञानिनोऽपीति ॥ तर्~हि कथं कर्मयोगिन इत्यत आह -- अतीति ॥ साङ्ख्यानां केवलं ज्ञानमेव योगिनां केवलं कर्मैवेति किं न स्यादित्यत आह -- नोभयमिति ॥ साङ्ख्यानां ज्ञानेन योगिनां कर्मणा पुरुषार्थो भवतीति श्रुत्यादौ श्रूयते । न चैकैकेन पुरुषार्थो युज्यते । अतो नैकैकग्रहणं युक्तमिति भावः । कर्माभावे कुतो न पुरुषार्थ इति चेत् किं कर्मपदेन कर्ममात्रं विवक्ष्यते अथ यज्ञादिकर्म वा । आद्यं दूषयति-- न हीति ॥ द्वितीयं दूषयति -- नचेति ॥ ज्ञानमात्रं कर्म विना संसारनिवृत्तिसाधनमपि न सम्पूर्णपुरुषार्थकरमिति भावः । तर्~ह्यस्तु केवलं कर्मैव पुरुषार्थकरमित्यत आह -- नचेति ॥ `न कर्मणा न प्रजया' इत्यादि श्रुतिविरोधादिति भावः । अनेन ` न कर्मणामनारम्भात्' इत्यादेश्च तात्पर्यमुक्तं भवति ।
* निष्ठा पर्यवसितिर्मुक्तिः ।
``ज्ञानिनो मोक्षनियमस्तथापि शुभकर्मणा ।
आनन्दवृद्धिरन्येन ह्रासो ज्ञानं तु कर्मणा ॥" इति परमश्रुतेः ``न कर्मणा न प्रजया धनेन" इत्यादिविरोधो न ।
अन्यथा `न कर्मणामनारम्भात्' इत्याद्युभयसमवाक्यशेषविरोधश्च । समत्वं च `न हि कश्चित्' इत्यादेः । `नान्यः पन्था' इत्यपि ज्ञानमृते न मोक्ष इत्येवाऽह ॥ 3 ॥ 4 ॥
// भवेदत्र ज्ञानकर्मणोः समुच्चयकल्पनं, यद्यत्र साङ्ख्ययोगादेः पुरुषार्थहेतुत्वमुच्येत । एकैकस्य पुरुषार्थसाधनत्वाभावोक्तेः न च तदत्रोच्यत इत्यत आह -- निष्ठेति ॥ ष्ठा गतिनिवृत्तावित्यतो निष्ठा पर्यवसितिः । गतेरिति शेषः । कथमनेन चोद्यपरिहार इत्यत आह -- मुक्तिरिति ॥ अत्र निष्ठापदेन गतिपर्यवसितिवाचिना संसारगतिपर्यवसानं मुक्तिरभिप्रेतेत्यर्थः । नन्वेवं ज्ञानकर्मभ्यां मोक्ष इत्यङ्गीकारे `न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः" इत्यादिश्रुतिविरोधः स्यादित्यत आह -- ज्ञानिन इति ॥ ज्ञानकर्मभ्यां मोक्षसिद्ध्यङ्गीकारेऽपि न एतद् श्रुतिविरोधः । कर्मरहितज्ञानमात्रस्य मोक्षसाधनत्वाभिधानात् । अस्माभिरपि तदङ्गीकारात् । कर्मणस्तु ज्ञानमात्रेणैव सिद्धे मोक्षे सुखाधिक्यहेतुत्वेनाङ्गीकारात् । ज्ञानादेव मोक्षः कर्मणा आनन्दवृद्धिरित्येतत् कुत इति चेत् ज्ञानिनः इति श्रुतेरेवेति भावः ।
इतश्च ``ज्ञानयोगेन" इत्यत्र कर्मापि संयोज्यम् । न ज्ञानमात्रमित्याह -- अन्यथेति ॥ अन्यथा ज्ञानमात्रेणैव पुरुषार्थाङ्गीकारे । कर्मयोगिनामपि प्रकृतत्वात् तेषां कर्मानारम्भे पुरुषार्थासम्भवाभिधायकमेतद् वाक्यं किं न स्यादित्यत उक्तम् -- उभयेति ॥ न केवलमेतद् कर्मयोगिविषयमपि तूभयविषयमित्यर्थः । कुतोऽस्योभयविषयत्वं ज्ञायत इत्यत आह -- समत्वं चेति ॥ मोक्षे कर्मणा आनन्दवृद्धिर्भवतीत्ययुक्तम् । ``नान्यः पन्था" इति श्रुतौ कर्मणो मोक्षसम्बन्धस्यैव निराकरणादित्यत आह -- नान्य इति ॥ ज्ञानायोगमेवेयं श्रुतिर्व्यवच्छिनत्ति । नतु कर्मसम्बन्धं निराकरोति । तथात्वे `ज्ञानिनो मोक्षनियमः' इति श्रुतिविरोधादिति भावः ॥ 3 ॥ 4 ॥
((नहि कश्चित् क्षणमपि जातु तिष्ठत्यकर्मकृत् ।
कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः ॥ 5 ॥
कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् ।
इन्द्रियार्थान् विमूढात्मा मिथ्याचारः स उच्यते ॥ 6 ॥
यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन ।
कर्मेन्द्रियैः कर्मयोगमनस्कः स विशिष्यते ॥ 7 ॥
नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः ।
शरीरयात्रापि च ते न प्रसिद्ध्येदकर्मणः ॥ 8 ॥
* `कर्तृत्वं द्विविधं प्रोक्तं विकारश्च स्वतन्त्रता ।
विकारः प्रकृतेरेव विष्णोरेव स्वतन्त्रता ॥" इति पैङ्गिश्रुतेः `कार्यते ह्यवशः' इत्यत्रावशो विष्णुवशः । `अः इति ब्रह्म' इत्यादि श्रुतेः ॥ 5-8 ॥
// कार्यत इत्यत्र स्वतन्त्रकर्तुरन्यस्याप्रतीतेः प्रकृतिगुणानामेव स्वतन्त्रकर्तृत्वमुच्यत इत्यन्यथाप्रतीतिनिरासायाह - कर्तृत्वमिति ॥ अत्र गुणानां विकारकर्तृत्वमेवोच्यते । नतु स्वतन्त्रकर्तृत्वम् । अवश इति विष्णोः स्वतन्त्रकर्तृत्वोक्तेः । अवशपदेन स्वानधीनत्वं गृहीत्वा गुणानां स्वतन्त्रकर्तृत्वमेव किं न गृह्यत इति चेन्न । `कर्तृत्वम्' इति श्रुतिविरोधादिति भावः । श्रुतिरिति कुत्रचित् पाठः । तत्रान्यथाप्रतीतिनिरासाय श्रुत्यैव व्याख्यातं विष्णोः स्वतन्त्रकर्तृत्वमात्र न प्रतीयत इत्यत उक्तम् -- अवश इति ॥ अवशपदं कथं विष्णुवशत्वं वक्तीत्यत आह -- अः इति ॥ 5-8 ॥
((यज्ञार्थात् कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः ।
तदर्थं कर्मकौन्तेय मुक्तसङ्गस्समाचर ॥ 9 ॥
* `कर्मणा बध्यते जन्तुः' इत्यादिकमप्यवैष्णवकर्मविषयमित्याह -- यज्ञार्थादिति ॥
`ज्ञो नाम भगवान् विष्णुस्तं यात्युद्देश एष यः ।
स यज्ञ इति सम्प्रोक्तो विहिते कर्मणि स्थितः ॥' बर्कश्रुतिः ॥ 9 ॥
// ननु `कर्मणा बध्यते जन्तुः' इत्यादेः कर्मणो बन्धकत्वात् कथं `कुरु कर्म' इति विधीयत इत्याशङ्कापरिहाराय श्लोकमवतारयति -- कर्मणेति ॥ अयज्ञार्थं कर्म बन्धकमित्येवात्र प्रतीयते, न त्ववैष्णवं कर्म बन्धकमित्यतो यज्ञशब्दार्थं श्रुत्यैवाह - ज्ञ इति ॥ नात्र यज्ञ पदेन प्रसिद्धयज्ञ उच्यते । अपि तु यातो विषयीकृतो ज्ञानरूपत्वात् ज्ञो भगवान् येनोद्देशेन स एवेत्यर्थः । य एष उद्देश इति योजना ॥ 9 ॥
((सहयज्ञाः प्रजास्सृष्ट्वा पुरोवाचप्रजापतिः ।
अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक् ॥ 10 ॥
देवान् भावयतानेन ते देवा भावयन्तु वः ।
परस्परं भावयन्तः श्रेयः परमवाप्स्यथ ॥ 11 ॥
इष्टान् भोगान् हि वो देवा दास्यन्ते यज्ञभाविताः ।
तैर्दत्तानप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः ॥ 12 ॥
यज्ञशिष्टाशिनस्सन्तो मुच्यन्ते सर्वकिल्बिषैः ।
भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात् ॥ 13 ॥
अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसम्भवः ।
यज्ञाद् भवति पर्जन्यो यज्ञः कर्मसमुद्भवः ॥ 14 ॥
कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम् ।
तस्मात् सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् ॥ 15 ॥
एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः ।
अघाऽयुरिन्द्रियारामो मोघं पार्थ स जीवति ॥ 16 ॥
* `जननात् परसस्यादेः पर्जन्यो मेघसन्ततिः ।
स यज्ञात् कर्मणः सोऽपि समस्तं कर्म केशवात् ॥
स नित्योऽप्यक्षरततिरूपाद्वाक्याद्धि गम्यते ।
वाक्यमुच्चार्यते भूतैस्तान्यन्नात् तच्च मेघतः ॥
तस्मात् सर्वगतो विष्णुर्नित्यं यज्ञे प्रतिष्ठितः ।
एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः ।
स पापो विश्वहन्तृत्वात् नरके मज्जति ध्रुवम् ॥
वाचिको मानसो यज्ञो न्यासिनां तु विशेषतः ।
वनस्थस्याक्रतुर्यज्ञः क्रत्वादिर्गृहिणोऽखिलः ॥
शुश्रूषाद्यात्मको यज्ञो विहितो ब्रह्मचारिणः ।
विद्याभयादिदानं च सर्वेषामपि सम्मतम् ॥
गृहिणो वित्तदानं तु वनस्थस्यान्नपूर्वकम् ।
सर्वैः कार्यं तपो घोरमिति सर्वे त्रिकर्मिणः ॥" इति नारदीये ।
ब्रह्माक्षरशब्दार्थयोर्व्यत्यासे `तस्मात् सर्वगतं ब्रह्म' इति प्रत्यभिज्ञाविरोधश्चक्राप्रवेशश्च ॥ 14 ॥ 15 ॥ 16 ॥
// कर्म कर्तव्यमित्यत्र हेत्वन्तरमुच्यते ``अन्नादीति" । अत्र कथमन्नस्य पर्जन्यात् देवविशेषादुत्पत्तिः । कथं च तस्य यज्ञादुत्पत्तिः । कथं चान्नादिति परम्परया एवोक्तत्वात् चक्रमित्युच्यत इत्याशङ्कां परिहर्तुं ब्रह्माक्षरशब्दयोरन्यार्थकल्पनां च निराकर्तुं स्मृत्यैव व्याचष्टे -- जननादिति ॥ परं जन्यं यस्यासौ तथोक्तः -- यज्ञादिति ॥ यज्ञसमाराधितदेवताया भवतीत्यर्थः । यज्ञो देवतोद्देशेन द्रव्यपरित्यागः । कर्म तदितरक्रिया । वाक्यात् जायते । कथं नित्यो जायते ? गम्यते अवगम्यत इत्यर्थः । वेदेन यथावदवगत एवेश्वरः सत्कर्म कारयतीति भावः । यत एवं परम्परया यज्ञाभिव्यङ्ग्यस्तस्मात् । भगवतो यज्ञे प्रतिष्ठितत्वाद्यज्ञानुष्ठानेन चक्रप्रवृत्तौ भगवदभिव्यक्तिनिमित्तं च सुकृतं भवति, न केवलं भूतस्थितिहेतुत्वनिमित्तमिति भावः । चक्रं नानुवर्तयतीति ॥ कर्म न करोतीत्यर्थः ।
विश्वस्य चक्रान्तर्भावात् कर्माकरणेन चक्राप्रवृत्तौ विश्वहंर्तृत्वं चेत् गार्~हस्थ्येतराश्रमाननुष्ठानं प्रसज्येत । कर्मणां यज्ञदानतपोरूपेण त्रैविद्यादाश्रमान्तरे च यज्ञाद्यभावादित्यत आह -- वाचिक इति ॥ वाचिकः स्वाध्यायादिः । मानसो ध्यानादिः । विशेषत इति ॥ सर्वसाधारण्येऽपि अन्येषामन्येऽपि सन्त्येषामयमेवेत्यर्थः । अन्येषां यज्ञान्तरमाह-- वनस्थस्येति ॥ अक्रतुः पश्वालम्भनहीनः । शुश्रूषाद्यात्मक इत्यादिपदेनाग्निपूजा । विद्याभयादीत्यादिपदेन स्वभोक्तव्यान्नदानम् । अन्नपूर्वकं विद्याभयादिदानम् । स्वभोक्तव्यादधिकमापाद्यान्नदानमिह विवक्षितम् । अन्नं तु मूलफलादि ।
`ब्रह्माक्षरसमुद्भवम्' इत्यत्र ब्रह्मपदेन वेदोऽक्षरपदेन ब्रह्मोच्यत इत्यपव्याख्यानं हेत्वन्तरेण प्रत्याख्याति -- ब्रह्मेति ॥ यद्यत्र ब्रह्मपदेन वेदोऽक्षरपदेन ब्रह्मोच्यते तर्~हि उपरि ब्रह्मणः `तस्मात् सर्वगतं ब्रह्म' इति ब्रह्मपदेन प्रत्यभिज्ञा न स्यात् । यत् पदेन यन्न प्रकृतं तस्य तत्पदेन कारणविशेषं विना परामर्शादर्शनात् । नच तत्र वेदपरामर्शः । तस्य यज्ञे प्रतिष्ठितत्वोक्तेरनुपयुक्तत्वादिति भावः । दोषान्तरं चाह -- चक्रेति ॥ वेदात् कर्मणामुत्पत्त्यभावात् ब्रह्मणो वेदस्योत्पत्त्यभावात् भूतेभ्यो ब्रह्मणो जननाभावादर्थान्तरकल्पने वेदादेश्चक्राप्रवेशः स्यात् । व्यक्त्यर्थाङ्गीकारे बहूनां पदानाममुख्यार्थतापात इति भावः ॥ 14 ॥ 15 ॥ 16 ॥
यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः ।
आत्मन्येव च सन्तुष्टस्तस्य कार्यं न विद्यते ॥ 17 ॥
नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन ।
न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः ॥ 18 ॥
* तृप्तिसन्तोषशब्दयोः पर्यायत्वेऽपि परमात्मना तृप्तः, परमात्मनि तृप्त इति विशेषः ।
`विष्णुप्रसादात् रतिमान् तृप्तो विष्णुप्रसादतः ।
विष्णावेवातितृप्तश्च मुक्तोऽसौ विध्यगोचरः ॥' इत्याग्नेये ।
`रतिरानन्द उद्दिष्टस्तृप्तिस्तु कृतकृत्यता ।
प्रीतिस्तु द्विविधः स्नेहः कर्मजो निज एव च ॥' इति शब्दनिर्णये ।
`सन्तोषस्तृप्तिरापूर्तिः प्रीतिः पर्यायवाचकाः ।' इत्यभिधाने ॥ 17 ॥ 18 ॥
// कर्म कर्तव्यमित्यत्र युक्त्यन्तरमुच्यते -- यस्त्विति ॥ तत्र सन्तोषस्तृप्तिरापूर्तिरित्यादेस्तृप्तिसन्तोषशब्दयोरेकार्थत्वात् ``आत्मतृप्तः" इत्युक्तत्वात् ``आत्मन्येव च सन्तुष्टः" इति पुनरुक्तिरित्यत आह-- तृप्तीति ॥ विशेषोऽर्थ इति शेषः । कुत एवमर्थकल्पनेत्यतः श्लोकं स्मृत्यैव व्याचष्टे -- विष्ण्विति ॥ एवं तृप्तिसन्तोषशब्दयोरेकार्थत्वमङ्गीकृत्यविग्रहभेदेनार्थमेव उक्तः । अथ तृप्तिसन्तोषशब्दयोरेवार्थभेदाच्च न पुनरुक्तिरिति भावेन तयोरर्थभेदे प्रमाणमाह-- रतिरिति ॥ आनन्दः स्वरूपभूतः । कर्मज उपकारादिजातः । रतितृप्तिप्रीतिशब्दानां भिन्नार्थत्वे किमायातं तृप्तिसन्तोषशब्दयोरर्थभेदे इत्यतः प्रीतिसन्तोषशब्दयोः पर्यायत्वात् तृप्तिप्रीतिशब्दयोरर्थभेदे तृप्तिसन्तोषयोरर्थभेदः सिद्ध एवेति भावेन तात्पर्यार्थत्वे प्रमाणमाह -- सन्तोष इति ॥ पर्यायवाचकाः पर्यायेण वाचकाः ॥ 17 ॥ 18 ॥
<लन्ग्=कन्>तस्मादसक्तस्सततं कार्यं कर्म समाचर ।
असक्तोह्याचरन् कर्म परमाप्नोति पूरुषः ॥ 19 ॥
* यस्मादमुक्तस्य कार्यमस्त्येव तस्मादसक्तः । असक्त आचरन्नेव यस्मात् परमाप्नोति । मुक्तस्यैव कार्यं नास्तीत्येवकारार्थोऽपि `यस्तु' इति तुशब्देनावगतः । `तस्मात् कर्म समाचर' इत्युपसंहारविरोधश्चान्यथा ।
`ब्रह्मनिष्ठा ब्रह्मरता ब्रह्मज्ञानसुतर्पिताः । पाण्डवानां च मुक्तानामन्तरं किञ्चिदेव हि" इति भविष्यत्पर्ववचनाच्च नार्जुनस्यामुख्याधिकारिता । आत्मरतिरेव स्यादित्येवशब्देन मुक्तानामेभ्यो विशेषो दर्शितः । एषां कदाचित् दुःखाभासस्यपि भावात् ॥ 19 ॥
//ननु मुक्तस्य कार्यं न विद्यत इत्युक्त्वा `तस्मादसक्तः' इत्युच्यते । तत्र कर्मकरणे हेतोरनुक्तत्वात् `तस्मात्' इति किं परामृश्यत इत्यत आह -- यस्मादिति ॥ यथा मुक्तस्य प्रयोजनाभावात् कार्याभावः एवं मुमुक्षोरपि कर्मणा प्रयोजनाभावात् कार्याभावः किं न स्यादित्यत उच्यते -- असक्त इति ॥ तत्र कर्मणैव मोक्षप्राप्तिरुच्यत इत्यन्यथाप्रतीतिनिरासाय तद् व्याचष्टे -- असक्त इति ॥ कर्माऽचरन्नेवेत्येवार्थो न तु कर्मैवाचरन्निति भावः । तस्मादमुक्तस्य कर्मणा फलसद्भावादस्त्येव तस्य कार्यमिति वाक्यशेषः ।
नन्वमुक्तस्य कार्यमस्तीत्यनुक्तत्वात्कथं तस्मादिति तत्परामर्शः स्यादिति चेन्न । मुक्तस्यैव कार्यं नास्तीत्युक्त्वाऽमुक्तस्य कार्यमस्तीति प्राप्तत्वात् । ननु मुक्तस्यैव कार्यं नास्तीत्येवकाराभावात् कथममुक्तस्य कार्यसद्भावप्राप्तिरित्यत आह -- मुक्तस्यैवेति ॥ एवकाराभावेऽपि तदर्थावधारणस्य तु शब्देनावगतत्वात् तेनामुक्तस्य कार्यसद्भावः प्राप्यत इति भावः ।
केचित्तु `यस्तु' इति वाक्यं ज्ञानिमात्रविषयतया व्याकुर्वते । न तद्युक्तम् । `यस्त्वेवात्मरतो मुक्तो' `विष्णूप्रसादात् रतिमान्' इत्यादिस्मृत्या मुक्तिविषयतया गृहीतत्वात् ज्ञानिनामपि कार्यसद्भावस्योक्तत्वाच्चेत्यभिप्रेत्य दोषान्तरं चाह -- तस्मादिति ॥ यद्यत्र ज्ञानिमात्रस्य कार्याभावोऽभिप्रेतः स्यात् तर्~ह्यर्जुनं प्रति `तस्मादसक्तः' इत्युपसंहारवाक्ये कर्मविधानं विरुद्धं स्यात् । तस्यापि ज्ञानित्वादिति भावः ।
अर्जुनस्य ज्ञानित्वे प्रमाणाभावेनाज्ञत्वात् कर्माधिकारित्वमेवातस्तं प्रतिकर्मविधानं न विरुद्धमित्यत आह -- ब्रह्मेति ॥ ये तेषामिति योज्यम् । मुक्तविषयत्वेऽप्यस्यार्जुनं प्रतिकर्मविधानं विरुद्धम् । पाण्डवानामेतद् वचनबलात् ब्रह्मरतत्वादिमुक्तलक्षणवत्तया मुक्तसाम्यादित्यत आह -- आत्मेति ॥ न पाण्डवानां मुक्तानां चातिसाम्यम् । `आत्मरतिरेव' इति मुक्तानामरतिव्यावर्तकैवशब्देन पाण्डवेभ्यो विशेषप्रतीतेरित्यर्थः । मुक्तानां दुःखाभावेऽपि कथं पाण्डवेभ्यो विशेष इत्यत आह -- एषामिति ॥ 19 ॥
कर्मणैव हि संसिद्धिमास्थिता जनकादयः ।
लोकसङ्ग्रहमेवापि सम्पश्यन् कर्तुमर्~हसि ॥ 20 ॥
यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः ।
स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ॥ 21 ॥
* `सहैव कर्मणा सिद्धिमास्थिता जनकादयः ।
ज्ञाननिष्ठा अपि ततः कार्यं वर्णाश्रमोचितम् ॥" इति ।
`अज्ञानां ज्ञानदं कर्म ज्ञानिनां लोकसङ्ग्रहात् ।
अद्धैव तुष्टिदं मह्यं सा मुक्तानन्दपूर्तिदा ॥ 20 ॥ 21 ॥
// ननु ज्ञानादेव मोक्षसिद्धेः कथमसक्तः कर्माऽचरन्नेव परमाप्नोतीत्युक्तमित्यत उच्यते -- कर्मणैवेति ॥ तत्र कर्मणैव मोक्ष उच्यत इत्यन्यथाप्रतीतिनिरासाय तत्स्मृत्यैव व्याचष्टे -- सहैवेति ॥ कार्यं कर्म ज्ञानिनामपीति शेषः । कर्म कर्तव्यमित्यत्र हेत्वन्तरमुच्यते -- लोकेति ॥ तत्र लोकसङ्ग्रहससम्भवेऽपि तेन प्रयोजनाभावात् कथं ज्ञानिनो लोकसङ्ग्रहार्थं कर्म विधीयत इत्यतो लोकेत्यादिश्लोकान् स्मृत्यैव व्याचष्टे -- अज्ञानमिति ॥ सा तुष्टिः ॥ 20 ॥ 21 ॥
न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन ।
नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि ॥ 22 ॥
यदि ह्ययं न वर्तेयं जातु कर्मण्यतन्द्रितः ।
मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥ 23 ॥
उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम् ।
सङ्करस्य च कर्ता स्यामुपहन्यामिमाः प्रजाः ॥ 24 ॥
सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत ।
कुर्याद्विद्वान् तथाऽसक्तश्चिकीर्षुर्लोकसङ्ग्रहम् ॥ 25 ॥
न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम् ।
जोषयेत्सर्वकर्माणि विद्वान् युक्तस्समाचरन् ॥ 26 ॥
*ममैव केवलं नास्ति केनाप्यर्थस्तथाप्यहम् ।
कर्मकृल्लोकरक्षायै तस्मात् कुर्वीत मत्परः ॥" इति कृष्णसंहितायाम् ।
``रक्षया वाऽथ सृष्ट्या वा संहृत्यादेर्न तु क्वचित् ।
अर्थो विष्णोस्तथाप्येष स्वभावात् सर्वकर्मकृत् ॥
मत्तो नृत्तादिकं यद्वत् कुर्यात् सुखविशेषतः ।
परमानन्दस्वरूपत्वात् कुयाद् विष्णुस्तथैव तु ॥" इति बर्कश्रुतिः ॥ 22-26 ॥
// किञ्च प्रयोजनमात्ररहितेनापि मया केवलानुग्रहेण लोकसङ्ग्रहार्थं कर्म क्रियते, अतो मुक्तावानन्दवृद्धिप्रयोजनवता ज्ञानिना तत्कर्तव्यमिति किं वक्तव्यमित्युक्तं `नमे पार्थ' इति । अस्यार्थो --ममैवेति ॥ नन्वीश्वरः प्रयोजनाभावेऽपि लोकरक्षादि करोतीति न युज्यते । प्रयोजनाभावे प्रवृत्त्ययोगादित्याशङ्कां श्रुत्यैव परिहरति -- रक्षयेति ॥ प्रयोजनाभावेऽपीश्वरस्य कर्तृत्वस्वभाववत्त्वात् रक्षादिकर्मकरणं युक्तमित्यर्थः । ननु तादृशस्वभावेन प्रवृत्तिरचेतनेष्वेव दृष्टा । यथा दहनपवनादीनां प्रयोजनं विना स्वभावादेव दहनगमनादिप्रवृत्तिः । चेतनप्रवृत्तेः प्रयोजनहीनाया अदर्शनात् कथमीश्वरस्यापि प्रयोजनानुद्देशेन प्रवृत्तिरित्यत आह -- मत्त इति ॥ 22-26 ॥
प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः ।
अहङ्कारविमूढात्मा कर्ताऽहमिति मन्यते ॥ 27 ॥
तत्त्ववित्तु महाबाहो गुणकर्मविभागयोः ।
गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते ॥ 28 ॥
प्रकृतेर्गुणसम्मूढास्सज्जन्ते गुणकर्मसु ।
तानकृत्स्नविदो मन्दान् कृत्स्नविन्न विचालयेत् ॥ 29 ॥
मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा ।
निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः ॥ 30 ॥
ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवाः ।
श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभिः ॥ 31 ॥
ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् ।
सर्वज्ञानविमूढांस्तान्विद्धि नष्टानचेतसः ॥ 32 ॥
सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि ॥
प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति ॥ 33 ॥
इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ ।
तयोर्न वशमागच्छेत्तौ ह्यस्य परिपन्थिनौ ॥ 34 ॥
श्रेयान् स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् ।
स्वधर्मे निधनं श्रेयः परधर्मो भयावहः ॥ 35 ॥
* ``नाहं कर्ता हरिः कर्ता तत्पूजा कर्म चाखिलम् ।
तथापि मत्कृता पूजा तत्प्रसादेन नान्यथा ॥
तद्भक्तिस्तत्फलं मह्यं तत्प्रसादः पुनः पुनः ।
कर्मन्यासो हरावेवं विष्णोस्तृप्तिकरः सदा ॥
यस्मात् स्वतन्त्रकर्तृत्वं विष्णोरेव च नान्यगम् ।
तदधीनं स्वतन्त्रत्वं स्वावरापेक्षयैव तु ॥
जीवस्य विकृतिर्नाम कर्तृत्वं जडसंश्रयम् ।
पुमान् दोग्धा च गौर्दोग्धी स्तनो दोग्धेतिवत् क्रमात् ॥" इति ब्रह्मतर्कवचनात् ईश्वरजीवप्रकृत्यादीनां कर्तृत्वमकर्तृत्वं च विभागेन ज्ञातव्यं सर्वत्र ।
// अज्ञवदाग्रहेण ज्ञानिनामपि कर्म कार्यं चेत् विद्वदविद्वत्कर्मणोराविशेषप्रसङ्ग इत्यतः `सक्ताः' इति सक्त्यसक्तिपूर्वकत्वविशेष उक्तः प्रपञ्च्यते -- ``प्रकृतेरिति" ॥ विद्वदविद्वत्कर्मविशेषमुक्त्वा विद्वत्कर्मकरणं विधीयते -- `मयि' इति ॥ तत्र कर्माणि संन्यस्य युध्यस्वेति व्याहतमित्यतः तत् स्मृत्यैव व्याचष्टे -- नाहमिति ॥ `नाहं कर्ता' इति निर्ममत्वम् । `हरिः कर्ता तत्पूजा कर्म चाखिलम्' इति हरौ कर्मन्यासः । हरिरेव कर्ता चेत् कथं तत्पूजेत्यादि निरूपणं युक्तमित्यत आह -- तथापीति ॥ यद्यपि हरिरेव कर्ता, तथापि तत्प्रेरणेनैव ममापि कर्तृत्वात् तत्पूजेत्यादिनिरूपणं युक्तमिति भावः । तद्भक्तिरिति निराशीस्त्वम् । तत्फलं पूजाफलम् । कर्मन्यासो निर्ममत्वादियुक्तः विष्णोस्तृप्तिकर इत्यनेन `ये मे मतम्' इत्यादेस्तृप्तिरित्यत आह -- यस्मादिति ॥ यस्मादेवमर्थस्थितिः तस्मात् तथा भावनं विष्णोस्तृप्तिकरं भवत्येव । यथार्थज्ञानप्रियत्वात् विष्णोरिति भावः ।
स्वतन्त्रकर्तृत्वमेव कर्तृत्वम्, अतः कथं जीवादेः कर्तृतोच्यत इत्यतः परतन्त्रादिकर्तरि कर्तृशब्दप्रयोगं दर्शयति -- पुमानिति ॥ ननु क्वचिदीश्वर एव कर्ता न जीवादिरित्युच्यते । क्वचित् जीव एव कर्ता नेश्वरादिरिति । क्वचिच्च प्रकृतिरेव कत्री नेश्वरादिरिति । अतः कथमीश्वर एव कर्ता, नाहम्, अहं तु तदधीनकर्तेति कर्मन्यासाद्युपपद्यत इत्यत आह -- इतीति ॥ यत्रेश्वरादीनां कर्तृत्वमुच्यते तत्रेश्वरस्य स्वतन्त्रकर्तृत्वमित्यादि विभागेनैव ज्ञातव्यम् । यत्रेश्वरादीनामकर्तृत्वमुच्यते तत्रेश्वरस्य परतन्त्रकर्तृत्वमस्वकीयं नास्तीत्यादि विभागेनैव ज्ञातव्यम्, न तु यत्र कर्तृत्वमुच्यते तत्र सर्वेषां स्वतन्त्रकर्तृत्वमेव । यत्राकर्तृत्वमुच्यते तत्र सर्वेषां सर्वथा कर्तृत्वराहित्यं ज्ञातव्यम् । स्वतन्त्रकर्तृत्वं विष्णोरेवेत्यादिवचनादेवेत्यर्थः ।
* ``क्वचित्स्वभावः प्रकृतिः क्वचिच्च त्रिगुणात्मिका ।
क्वचित्प्रकृष्टकर्तृत्वात् भगवान् प्रकृतिर्~हरिः ॥" इति शब्दनिर्णये ।
``स्वभावतस्त्रिधा जीवा उत्तमाधममध्यमाः ।
उत्तमास्तत्र देवाद्या मर्त्यमध्यमास्तु मध्यमाः ॥
अधमा असुराद्याश्च नैषामत्स्यन्यथाभवः ।
शरीरमात्रान्यथात्वे स्वजातिं पुनरेष्यति ॥
उत्तमा मुक्तियोग्यास्तु सृतियोग्यास्तु मध्यमाः ।
अपरेऽन्धतमोयोग्याः प्राप्तिः साधनपूर्तितः ॥
पूर्त्यभावेन सर्वेषामनादिः संसृतिः स्मृता ।
नैव पूर्तिश्च सर्वेषां नित्यकालहरीच्छया ॥
अतोऽनुवर्तते नित्यं संसारोऽयमनादिमान् ।
अतोऽधमानां जीवानां मिथ्याज्ञानादयोऽखिलाः ।
स्वाभाविकगुणा ज्ञेया मध्यमर्त्येषु मिश्रिताः ॥
// `प्रकृतेः' इत्यादि व्याकरिष्यन् तत्रस्थप्रकृतिशब्दादीन् स्वभावादिपरतया व्याख्यातुं तदर्थत्वे प्रमाणं तावदाह -- क्वचिदिति ॥ स्वभावो जीवस्य । मयीत्यादिवाक्यव्याख्यानरूपाया ``यस्मात् स्वतन्त्रकर्तृत्वम्" इत्यादि स्मृतेः `प्रकृतेः' इत्यादिवाक्यव्याख्यानोपयोगित्वात् व्यत्यासेन व्याख्यानम् ।
प्रकृतेरित्यादावीश्वरादित्रयस्य कर्तृत्वाभिधानात् पुनर्जीवस्याकर्तृत्वाभिधानात् कर्तृत्वादिविभागस्य स्मृतावुक्तत्वात् प्रकृतेरित्याद्यन्यथाप्रतीतिनिरासाय स्मृत्यैव व्याचष्टे -- स्वभावत इति ॥ अत्र `स्वभावतः' इत्यादि साक्षाद् व्याख्यानाय पीठिकारचनम् । देवादीनामन्यथाभावसद्भावात् कथं देवत्वादिः स्वभाव इत्यत आह -- नैषामिति ॥ जयादीनामन्यथाभावदर्शनात् कथं नास्तीत्यत आह -- शरीरेति ॥ देवत्वादेः स्वाभाविकत्वेऽपि देवा एवोत्तमा इत्यादि कुत इत्यत आह -- उत्तमा इति ॥ फलस्योत्तमत्वादिना देवादीनामुत्तमत्वादिसिद्धिरिति भावः । देवादीनां मुक्त्यादियोग्यत्वे किमर्थं ते संसारे वर्तन्त इत्यत आह -- प्राप्तिरिति ॥ स्वयोग्यफलस्येति शेषः । पूर्त्यभावेन साधनस्येति शेषः । साधनपूर्तितः प्राप्तिश्चेत् नित्यं संसारानुवृत्तिर्न स्यात् । अनादित्वात् संसारस्येतः पूर्वमेव साधनपूर्तिसम्भवेन सर्वचेतनानां परिसमाप्तेरित्यत आह -- नैवेति ॥ नित्यकाले संसारोऽनुवर्ततामिति हरीच्छया अनादिमान् यद्यपीति शेषः । स्वभावतस्त्रिधा जीवाश्चेत् किं तत इत्यत आह -- अत इति ॥ देवत्वादेः स्वाभाविकत्वात् तदनुसारिगुणाश्च स्वाभाविका इत्यर्थः । मिश्रिताः स्वाभाविका इत्यादि योज्यम् । ततश्च किमित्यत आह -- कार्यत इति ॥ अवशो विष्णुवशः । प्राकृतैः स्वाभाविकैः । किञ्चात इत्यत आह -- स्वाभाविकेति ॥ अनेनाविद्वत्कर्माभिधायकस्य `प्रकृतेः' इत्यस्यार्थ उक्तो भवति । स्वाभाविकगुणान् हेतुं कृत्वेति । यस्योत्तमगुणास्तानपेक्ष्य सत्कर्म कारयतीत्यादि । विष्णुना विष्णोरिच्छादिगुणैः । अनेन प्रकृतैर्गुणैरित्यस्यार्थद्वयमुक्तं भवति ॥ उपादानतया सत्त्वादयः प्रकृतिगुणाश्चात्राभिमतः । कर्ता स्वातन्त्र्येणेति शेषः ।
<लन्ग्=कन्>* तत्त्वज्ञानं विष्णुभक्तिरित्याद्या देवतादिषु ।
कार्यते ह्यवशः कर्म सर्वस्तैः प्राकृतैर्गुणैः ।
स्वाभाविकगुणानेतान् हेतुं कृत्वैव विष्णुना ॥
कर्मसु क्रियमाणेषु कर्ताऽहमिति मूढधीः ।
मन्यते तत्त्वविद्विष्णोर्गुणा इच्छादयस्तु ये ॥
स्वाभाविकेषु जीवस्य कामाद्येषु सदैव तु ।
प्रेरकत्वेन वर्तन्ते स्वातन्त्र्यं मम न क्वचित् ॥
इति मत्वा न सक्तः स्यात्प्रीतोऽस्य भवति प्रभुः ।
स्वभावगुणसम्मूढा ज्ञानादिगुणवत्तरम् ॥
स्वातन्त्र्येणैव कर्तारं चाऽत्मानं प्रतिजानते ।
तान् गुणान् कर्म तच्बैव विष्ण्वधीनं न ते विदुः ।
तेष्वयोग्येषु तत्त्वज्ञस्तत्त्वं नातिप्रकाशयेत् ॥
वदेद्विवादरूपेण नोपदेशात्मना क्वचित् ।
सभ्यरूपेण वा ब्रूयात् पृष्टेऽव्यक्तिकृदेव वा ॥
बुद्ध्वा ऽप्यसौ यतो नित्यं स्वभावानुगचेष्टितः ।
स्वभावं यान्ति भूतानि निग्रहः किं करिष्यति ॥" इत्यादि प्रकाशसंहितायाम् ॥ 35 ॥
// एवमविद्वान् करोति चेत् कथं विद्वानित्यत आह -- तत्त्वेति ॥ अनेन तत्त्वविदित्यस्यार्थ उक्तो भवति । अविदुषामहङ्कारे को हेतुरित्यत आह -- स्वभावेति ॥ स्वभावगुणानामुत्तमत्वे तेष्वपरप्रेरिता एवैत इति सम्मूढाः । मिश्रादित्वे तैः सम्मूढाः । ज्ञानादिगुणसद्भावे ज्ञानादिगुणवत्तरं स्वातन्त्र्येण प्रतिजानत इति योज्यम् । अभावे स एव दोषः । तान् गुणान् विष्ण्वधीनान्न विदुः सद्भावे । अभावे न सन्तीति न विदुरिति ज्ञेयम् । ते ज्ञानिना बोध्यन्तामित्यत आह -- तेष्विति ॥ अयोग्याश्चेन्न प्रकाशयेत्, अन्यथा परीक्ष्य प्रकाशयेदिति भावः ॥ अव्यक्तिकृदिति ॥ स्ववचनं यथा तत्त्वव्यक्तिकृन्न भवेत्तथेत्यर्थः । अनेन प्रकृतेरिति व्याख्यातं भवति । मन्दानित्यस्यार्थोऽयोग्येष्विति । अयोग्येषु तत्वं कुतो न वक्तव्यमित्यत आह -- बुद्ध्वेति ॥ मनोनिग्रहे स्वभावानुगतचेष्टोपरतिः स्यादित्यत आह -- स्वभावमिति ॥ एतेन सदृशमिति व्याख्यातं भवति ॥ 35 ॥
अर्जुन उवाच - -
अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः ।
अनिच्छन्नपि वाष्णॆ #195;#240;य बलादिव नियोजितः ॥ 36 ॥
* परमेश्वराद्देवेभ्यश्चार्वाक्तनं प्रेरकं पृच्छति -- अथ केनेति ॥ 36 ॥
// ``तयोर्न वशमागच्छेत्" इत्युक्ते पृच्छ्यते `अथ' इति । तत्र `प्रकृतेः' इत्यादौ भगवतः प्रेरकत्वस्योक्तत्वात्, स्वयं देवत्वेन देवानां प्रेरकत्वस्यापि ज्ञातत्वात्, `इन्द्रियस्य' इति कामाद्यधमानां प्रेरकाणां च कथितत्वात् सिद्धप्रश्नोऽयमित्यत आह -- परमेश्वरादिति ॥ अर्वाक्तनं बलवन्तमिति शेषः । प्रश्नवाक्ये नैतदुच्यत इत्यत आह -- अथेति ॥ आनन्तर्यवाचिनाऽथशब्देन परमेश्वरात् देवेभ्यश्चानन्तरमित्यर्थो ज्ञायत इति भावः ॥ 36 ॥
श्रीभगवानुवाच --
काम एष क्रोध एष रजोगुणसमुद्भवः ।
महाशनो महापाप्मा विद्ध्येनमिह वैरिणम् ॥ 37 ॥
धूमेनाव्रियते वह्निर्यथाऽऽदर्शो मलेन च ।
यथोल्बेनावृतो गर्भस्तथा तेनेदमावृतम् ॥ 38 ॥
आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा ।
कामरूपेण कौन्तेय दुष्पूरेणानलेन च ॥ 39 ॥
इन्द्रियाणि मनो बुद्धिरस्याधिष्ठानमुच्यते ।
एतैर्विमोहयत्येष ज्ञानमावृत्य देहिनम् ॥ 40 ॥
तस्मात्त्वमिन्द्रियाण्यादौ नियम्य भरतर्षभ ।
पाप्मानं प्रजहि ह्येनं ज्ञानविज्ञाननाशनम् ॥ 41 ॥
* ``अखिलप्रेरको विष्णुर्ब्रह्माद्यास्तदवान्तराः ।
असुरा अशुभेष्वेव कामादेरभिमानिनः ॥
तत्र कामः कालनेमिः सर्वं धूममलोल्बवत् ।
शुभमध्याधमजनं क्रमादावृत्य तिष्ठति ॥
महाशनस्य तस्येदं नालं तेनानलोऽग्निवत् ।
भुञ्जान इन्द्रियाविष्टो ज्ञानास्त्रेणैव दह्यते ॥" इति ब्रह्मतर्के ।
ज्ञानावरणरूपेणेदमावृणोतीत्यावृतं ज्ञानमिति पुनराह । न केवलं दुष्पूरो नालमिति मन्यते चेत्यनलः । ``अग्नेरप्यनलः कामो यन्नालमिति मन्यते" इति च ॥ 38 - 41 ॥
// `कामः एषः' इत्यादिपरिहारवाक्यमुक्तार्थेऽपि संवादरूपस्मृत्यैव व्याचष्टे -- अखिलेति ॥ तत्रेति `कामः' इत्यस्य व्याख्यानम् । कामः प्रबल इति योज्यम् । `अशुभेषु' इत्यनेनैव `वैरिणम्' इत्येतद् व्याख्यातं भवति । कथं कामोऽशुभप्रेरकेषु प्रबल इत्यत आह -- सर्वमिति ॥ अग्न्यादर्शगर्भान् यथा धूमाद्यावृणोति तथेत्यर्थः । क्रमादिति ॥ शुभजनं धूमोऽग्निमिव किञ्चिदावृणोतीत्याद द्रष्टव्यम् । कामश्च दीयतामित्यत आह -- तस्येति ॥ अनेन `धूमेन' इत्यादि व्याख्यातं भवति । तर्~हि कथं जेतव्य इत्यतस्तदधिष्ठानं तावदाह -- भुञ्जान इति ॥ एतेन `इन्द्रियाणि' इत्यस्यार्थ उक्तो भवति । अस्त्विदमधिष्ठानम्, किमायुधं तद् वधायेत्यत आह -- ज्ञानेति ॥ अनेन `इन्द्रियाणि' इत्यादेस्तात्पर्यमुक्तं भवति । ननु `धूमेन' इति कामस्य सर्वावरणत्वमुक्तं, तत्पुनः किमर्थम् ``आवृतं" इत्युच्यत इत्यत आह -- ज्ञानेति ॥ पूर्वं ज्ञानोत्पत्तिप्रतिबन्धकत्वेनाऽवरणत्वं कामस्योक्तम्, इदानीं तूत्पन्नज्ञानस्यापरोक्षज्ञानसाधनत्वप्रतिबन्धकतयाऽऽवरणत्वमुच्यते । अतो न पौनरुक्त्यमिति भावः । `दुष्पूरेणानलेन' इति पुनरुक्तमित्यत आह -- न केवलमिति ॥ कामो नालमिति मन्यते चेति कुत इत्यत आह -- अग्नेरिति ॥ 37-41 ॥
इन्द्रियाणी पराण्याहुरिन्द्रियेभ्यः परं मनः ।
मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः ॥ 42 ॥
एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानमात्मना ।
जहि शत्रुं महाबाहो कामरूपं दुरासदम् ॥ 43 ॥
॥ ॐ तत्सदिति श्रीमद्भगवद् गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे कर्मयोगो नाम तृतीयोऽध्यायः ॥
* ``सर्वेभ्यः प्रवरा देवा इन्द्राद्या इन्द्रियात्मकाः ।
तेभ्यो मनोभिमानी तु रुद्रस्तस्मात् सरस्वती ॥
बुद्ध्यात्मिका ततो ब्रह्मा महानात्मा वरः स्मृतः ।
अव्यक्तरूपा लक्ष्मीश्च वराऽतोऽतो हरिः स्वयम् ॥
न तत्समोऽधिको वेति ह्यानुपूर्वी प्रकीर्तिता ।
यथाक्रमप्रबोधेन नाश्याः कामादिशत्रवः ॥
प्राप्यते च परं स्थानं विष्णोरतुलमञ्जसा ।" इति च ।
// `इन्द्रियाणि' इत्यत्रेन्द्रियादिमात्रात् जीवस्य परमत्वमुच्यते अथवा `इन्द्रियाणि मनो बुद्धिः' इत्यादिना इन्द्रियमनोबुद्धीनामुक्तं प्रपञ्च्यत इत्यन्यथाप्रतीतिनिरासाय तद् स्मृत्यैव व्याचष्टे -- सर्वेभ्य ॥ सर्वेभ्योऽर्थाद्यभिमानिभ्यः । ``ततो ब्रह्मा" इत्यादि तु ``बुद्धेरात्मा महान् परः । महतः परमव्यक्तम् अव्यक्तात् पुरुषः परः । पुरुषान्न परं किञ्चित्" इति श्रुतिव्याख्यानम् । परमात्मनोऽत्र बुद्धिपरत्वमात्रोक्तावप्यन्यत्रोक्तमत्र संयोज्यमिति ज्ञापयितुमुदाहृतम् ।
* नच ``इन्द्रियेभ्यः परा ह्यर्थाः", ``रुद्रोऽहङ्कृतिरूपकः" इत्यादि विरोधः ।
``सर्वाभिमानिनो देवाः सर्वेऽपि ह्युत्तरोत्तरम् ।
आधिक्यं वक्तुमेवैषां पृथक् स्थानमुदीर्यते ॥
आधिक्यक्रम एवात्र शास्त्रतात्पर्यमिष्यते ।
स्थानेषु त्ववरेषां च परे सन्ति न चेतरे ॥
तथापि पितुरर्थो यः पुत्रस्याप्युपचर्यते ।
अव्यक्तादिपदार्थानां सर्वे तदभिमानिनः ॥" इति च ।
// यदुक्तमर्थाभिमानिभ्योऽपीन्द्रियाभिमानिनामुत्तमत्वं न तद्युक्तम् । `इन्द्रियेभ्यः परा ह्यर्थाः' इति श्रुतिविरोधात् । नापि रुद्रस्य मनोऽभिमानित्वं युक्तम् । `रुद्रोऽहङ्कृतिरूपकः' इति वाक्यविरोधात् । एवं सरस्वत्या बुद्ध्यभिमानित्वं च न युक्तम् । विज्ञानाभिमानित्वोक्तिविरोधादित्यत आह -- न चेति ॥ कुतो न विरोध इत्यत आह -- सर्वेति ॥ तर्~हि श्रीरव्यक्तस्य, ब्रह्मा महत इत्यादिपृथगभिमन्यमानस्थानोक्तिः लक्ष्म्यादीनां शास्त्रेषु कथमित्यत आह -- उत्तरेति ॥ अव्यक्तादीनां क्रमेणाधिकत्वात् तदभिमानित्वोक्त्याभिमानिनामप्युत्तरोत्तराधिक्यं ज्ञापयितुं पृथगभिमानिस्थानान्युच्यन्त इत्यर्थः । किमर्थमुत्तरोत्तराधिक्यं ज्ञाप्यमित्यत आह -- आधिक्येति ॥ अधमानामुक्तेष्वभिमन्यमानस्थानेष्वभिमानित्वेनोत्तमा वर्तन्ते । न तूत्तमाभिमन्यमानत्वेनोक्तस्थानेष्वधमा इत्यर्थः । एवं चेदव्यक्ताभिमानित्वं सरस्वत्यादीनां पुराणादौ कथमुच्यत इत्यत आह -- तथापीति ॥ उपचर्यते, यस्मादिति शेषः ।
* ``यत्र ह क्व च पुत्रस्य तत्पितुर्यत्र वा पितुस्तत् पुत्रस्येत्येतत्तदुक्तं भवति" इत्यादिश्रुतेश्च ।
`बहुवाचिनां तु शब्दानां लिङ्गप्रकरणादिभिः ।
प्रवृत्तिहेतोश्चाधिक्यान्निर्णयोऽर्थेषु गम्यते ॥' इति शब्दनिर्णये ।
`लिङ्गादिसाम्यं यत्र स्यात् प्रयोगाधिक्यमेव तु ।
निर्णायकं भवेत्तत्र तेन स्यात्सुबहुश्रुतः ॥" इति ब्रह्मतर्के ॥ 42 ॥ 43 ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीतातात्पर्यनिर्णये तृतीयोऽध्यायः ॥
// अत्र श्रुतिं चाह -- यत्रेति ॥ यस्मिन् वस्तुनि पुत्रस्य स्वाम्यमस्ति तस्मिन् वस्तुनि पितुः स्वाम्यमस्त्येव । यस्मिन् वस्तुनि पितुः स्वाम्यमस्ति तस्मिन् पुत्रस्य स्वाम्यमुपचारेणास्तीत्येतत् तत्र आपा इति चोद्ये समाधानमुक्तं भवतीत्यर्थः । अनेनेन्द्रादिभ्य इन्द्रियाभिमानिभ्योऽधमानां उत्तमानां सौपर्ण्यादीनां चार्थाभिमानित्वात् सौपर्ण्यादिविवक्षया इन्द्रियेभ्योऽर्थानामुत्तमत्वं श्रुतिराह । इदं तु वाक्यं शिवसुतविवक्षयाऽर्थेभ्य इन्द्रियाणामुत्तमत्वं वक्तीत्यविरोधः । रुद्रादीनां च मनोऽहङ्काराद्यभिमानित्वादुभयोक्तेरविरोध इत्युक्तं भवति ।
ननु सर्वेऽपि सर्वाभिमानिनश्चेदव्यक्तादिशब्दार्थनिर्णयो न युज्यते । सर्वेषामप्यर्थतयाऽन्यतरापोहानुपपत्तेरित्याशङ्कां स्मृत्यैव परिहरति -- बह्विति ॥ क्वचिल्लिङ्गप्रकरणादिसाम्ये कथं निर्णय इत्याशङ्कां च स्मृत्यैव परिहरति -- लिङ्गेति ॥ 42 ॥ 43 ॥
इति श्रीमदानन्दतीर्थविरचितगीतातात्पर्यस्य टीकायां जयतीर्थमुनिविरचितायां न्यायदीपिकायां तृतीयोऽध्यायः ॥ 3 ॥
॥ श्रीवादिराजगुर्वन्तर्गतश्रीमध्वेशाभिन्नश्रीकृष्णार्पणमस्तु ॥
***********************************************************************************************************************************************
॥श्रीगुरुभ्योनमः ॥
श्रीवादिराजगुर्वन्तर्गत श्रीमध्वेशाभिन्न श्रीलक्ष्मीहयग्रीवायनमः ॥
अथ चतुर्थोऽध्यायः
श्रीभगवानुवाच ॥
इमं विवस्वते योगं प्रोक्तवानयमव्यम् ।
विवस्वान्मनवे प्राह मनुरिक्ष्वाकवेब्रवीत् ॥1 ॥
एवं परम्पराप्राप्तमिमं राजर्षयोविदुः ।
सकालेनेह महता योगो नष्टः परन्तप ॥2 ॥
स एवायं मया तेऽद्य योगः प्रोक्तः पुरातनः ।
भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम् ॥3 ॥
* हरिः ॐ ॥ उक्तयोर्ज्ञानकर्मणोरुभयोर्विशेषविस्तरात्मकोऽयमध्यायः ॥
``ब्रह्मरुद्रेन्द्रसूर्याणां यद्दत्तं विष्णुना पुरा ।
पञ्चरात्रात्मकं ज्ञानं व्यासोऽदात् पाण्डवेषु तत् ॥
तेषामेवावतारेषु सेनामध्येऽर्जुनाय च ।
प्रादात् गीतेति निर्दिष्टं सङ्क्षेपेणायुयुत्सवे ॥
यथा कुर्वन्ति कर्माणि यथा जानन्ति देवताः ।
सर्वे कार्तयुगाश्बैव नृपाश्च मनुपूर्वकाः ॥
ज्ञातव्यं चैव कर्तव्यं यथा सर्वैर्मुमुक्षुभिः ।
त्रेतादित्रिषु जातैश्च गीतायां तदुदाहृतम् ॥
पाण्डवाद्याः क्षेमकान्ताः करिष्यन्ति च जानते ।
तथैव तेन गीतायाः नास्ति शास्त्रं समं क्वचित् ॥
वेदार्थपूरकं ज्ञेयं पञ्चरात्रं यतोऽखिलम् ।
तत्सङ्क्षेपश्च गीतेयं तस्मान्नास्याः समं क्वचित् ॥" इति ब्रह्मवैवर्ते ॥ 1 ॥ 3 ॥
// श्री हरिः ॐ ॥ उक्तार्थसङ्गतत्वेन एतदध्यायप्रतिपाद्यमर्थं दर्शयति -- उक्तयोरिति ॥ ज्ञानकर्मणोर्मध्येऽन्यतरस्येति प्रतीतिनिरासाय उभयोरित्युक्तम् । कर्मणोऽतीताध्याये विवृतत्वात् किमनेनेत्यतो विशेषेत्युक्तम् । उक्तकर्मयोगे रुचिजननाय पूर्वनिष्ठितोऽयं धर्म इत्युच्यते -- इममिति ॥ तत्तात्पर्यं स्मृत्यैवाह -- ब्रह्मेति ॥ गीता पञ्चरात्रसङ्क्षेपश्चेत्तर्~हि तस्याः सर्वोत्तमशास्त्रत्वहानिरित्यतः शब्दत एव सङ्क्षेपो नार्थत इत्याह -- यथेति ॥ सर्वपञ्चरात्रार्थत्वे गीतायाः पञ्चरात्रादधमत्वमात्रं मास्तु । तावता सर्वशास्त्रोत्तमत्वं कथमित्यत आह -- वेदेति ॥ सर्वशास्त्रेभ्योऽतिशयेन वेदार्थपूरकपञ्चरात्राशेषार्थत्वेन गीतायाः सर्वशास्त्रोत्तमत्वं युक्तमिति भावः ॥ 1 ॥ 3 ॥
((अर्जुन उवाच ॥
अपरं भवतो जन्मपरं जन्म विविस्वतः ।
कथमेतद्विजानीयां त्वमादौ प्रोक्तवानिति ॥4 ॥
श्रीभगवानुवाच-
बहूनि मे व्यतीतानि जन्मानि तव चार्जुन ।
तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप ॥5 ॥
*``जानन्तोऽपि विशेषार्थज्ञानाय स्थापनाय वा ।
पृच्छन्ति साधवो यस्मात् तेन पृच्छसि पार्थिव ॥" इत्याग्नेयवचनान्नार्जुनो भगवन्तं न जानाति ॥ 4 ॥ 5 ॥
// इदानीन्तनत्वाद् भगवतो विवस्वतः प्राचीनत्वात् कथं तदुपदेष्ट्रत्वमिति पृच्छति -- `अपरमिति' ॥ तत्रार्जुनस्य भगवदज्ञानित्वप्रतीतेः प्रागुक्तानुपपत्तिरित्यत आह-- जानन्तोऽपीति ॥ नैवं प्रश्नेनार्जुनो भगवन्तमनादिनित्यं न जानातीति कल्प्यम् । जानन्तोऽपीति वचनात् प्रश्नस्य विशेषज्ञानाद्यर्थत्वोपपत्तेरिति भावः । स्थापनाय ज्ञातस्य दृढीकरणाय ॥ 4 ॥ 5 ॥
अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन् ।
प्रकृतिं स्वामधिष्ठाय सम्भवाम्यात्ममायया ॥6 ॥
यदा यदा हि धर्मस्य ग्लानिर्भवति भारत ।
अभ्युत्थानमधर्मस्य तदाऽऽत्मानं सृXृजाम्यहम् ॥7 ॥
परित्राणाय साधूनां विनाशाय च दुष्कृताम् ।
धर्मसंस्थापनार्थाय सम्भवामि युगेयुगे ॥8 ॥
* आत्ममायया आत्मेच्छया । प्रकृतिं स्वामधिष्ठाय स्वभावम् । ``देवस्यैष स्वभावोऽयम्" इत्यादि श्रुतेश्च । अत एव स्वशब्देन विशेषणम्-- ``प्रकृतिं स्वामवष्टम्भ" इत्यादिषु । ``मयाऽध्यक्षेण प्रकृतिः" इत्यादिषु तु न स्वशब्दः । ``प्रकृतिं विद्धि मे पराम्" इत्यादिषु सम्बन्धित्वेन प्रतीतेरन्या । अत्र तु स्वशब्दः स्वरूपवाची । स्वभाव इत्यत्रापि स्वाख्यो भावः स्वभावः । भावशब्दस्तु सम्बन्ध्याशङ्कानिवृत्तये । स्वस्वभाव इति तु स्वस्वरूपमितिवदुपचारत्वाशङ्कां निवर्तयति ।
``स्रष्ट्रत्वादिस्वभावत्वात् स्वेच्छया विष्णुरव्ययः ।
सृष्ट्यिदिकं करोत्यद्धा स्वयं च बहुधा भवेत् ॥" इति नारायणश्रुतिः ॥ 6 ॥ 7 ॥ 8 ॥
// जन्मान्यतीतानि चेत्तर्~हि न जननमरणराहित्यं भवतः । तथाच ``अविनाशि तु" इत्युक्तविरोध इत्यत उच्यते ``अजोऽपि" इति । तत्र ``आत्ममायया" इत्येतदज्ञानवशादित्यन्यथाप्रतीतिनिरासाय व्याचष्टे -- आत्मेति ॥ नात्रात्ममाययेत्यज्ञानवशादित्युच्यते । सर्वमानविरोधात् । अपि तु अवतारे परप्रेरणानिवारणाय महामायेत्यादिना मायापदोदितस्वेच्छानिबन्धनमेवोच्यत इत्यर्थः । ``प्रकृतिं स्वामधिष्ठाय" इत्येतत् प्राकृतशरीरलाभेनेत्यन्यथाप्रतीतिनिरासायानूद्य प्रकृतिपदं व्याचष्टे-- प्रकृतिमिति ॥ नात्र प्राकृतशरीरलाभोऽभिधीयते । श्रुत्यादिविरोधस्योक्तत्वात् । किन्तु `अवतरसि चेत् प्रयोजनेन भाव्यम्' । तथा च नानावाप्तमित्युक्तविरोधः ।' इत्याशङ्कापरिहाराय प्रयोजनाभावेऽप्यवतारादिकं तादृशस्वभावत्वाद्युज्यत इत्येवोच्यत इति भावः । भवेदयमर्थो यदि हरेरवतारादि प्रयोजनं विना स्वभावादेवेति सिद्धं स्यात् तदेव कुत इत्यत आह -- देवस्येति ॥ स स्वभावश्च अयं देव एव न तु ततो भिन्न इत्यर्थः ।
अस्तु विष्णोः स्वभावादेव व्यापारः । तथाप्यत्र प्रकृतिपदं कुतः स्वभाववाचीत्यत आह -- अत एवेति ॥ यतोऽत्र प्रकृतिपदं स्वभाववाच्यत एव स्वामिति विशेषणं प्रयुक्तम् । केवलमन्यार्थत्वे स्वाधीनत्वस्य ममेत्यसाधारणशब्देनाभिधानं विनोभयसाधारणमेतन्न स्यादित्यर्थः । एतमेव न्यायमन्यत्राप्यतिदिशति -- प्रकृतिमिति ॥ इत्यादिषु च स्वशब्देन विशेषणमत एवेत्यर्थः । यदि प्रकृतिपदं स्वभाववाचि तर्~हि `मयाऽध्यक्षेण प्रकृतिः', ``प्रकृतिं विद्धि" इत्यत्रापि किं स्वभाववाचीत्यपेक्षायामाह- मयेति ॥ अतः स्वभावादन्यैव तत्र प्रकृतिरिति शेषः । अन्यत्वे हेत्वन्तरं चाह -- प्रकृतिमिति ॥ अत्राऽदिपदेन `मया' इत्यस्य सङ्ग्रहः । `मयाऽध्यक्षेण' इत्यत्राधीनतया सम्बन्धित्वप्रतीतेः `प्रकृतिं' इत्यत्र `मे' इति षष्ठ्या सम्बन्धित्वप्रतीतेश्चेति योज्यम् । सम्बन्धित्वेन प्रतीतेरन्या चेदत्रापि स्वामिति सम्बन्धित्वेन प्रतीतेरन्या स्यादित्यत आह -- अत्रेति ॥ भवेदिदं यदि स्वशब्दः सम्बन्धवाच्येव स्यात् । न चैवम् । अत्र स्वशब्दस्य मुख्यतः स्वरूपवाचित्वादिति । बाधकाभावात् स्वरूपवाच्येव न तु सम्बन्धवाचीति भावः । स्वशब्दस्य स्वरूपवाचित्वं कुत्र दृष्टमित्यतः स्वभावपदगतस्वशब्दस्य तद्दृष्टमिति भावेनाह -- स्वभाव इति ॥ स्वभावपदगतस्य स्वेति शब्दस्यान्यत्वमात्रापादने नानिष्टम् । अर्थद्वयाङ्गीकारात् । अन्यैवेत्यापादनमयुक्तम् । स्वशब्दस्य स्वरूपवाचित्वस्यापि भावेन `मे' इतिवदितराव्यावर्तकत्वादिति भावः । ननु स्वभावस्य स्वरूपत्वमयुक्तम् । स्वस्य भावो हि स्वभाव इत्यत आह -- स्वभाव इति ॥ रूढिबलेनेदमेव निर्वचनम्, नान्यदिति भावः । स्वभावपदगतस्वशब्दस्य स्वरूपवाचित्वे तेनैव पूर्तेः भावशब्दो व्यर्थ इत्यत आह -- भावेति ॥ यदि स्वशब्दमात्रं प्रयुज्यते तदा स्वशब्दस्य स्वीयेऽपि प्रयोगात् तदाशङ्का स्यात् । तां निवारयितुं भावशब्दः प्रयुज्यते । भावशब्दयुक्तस्वशब्दस्य स्वरूप एव प्रतीतिजनकत्वादिति भावः ।
नन्वत्र प्रकृतिपदं स्वभाववाचकं चेत्तर्~हि स्वां प्रकृतिमित्युक्ते स्वस्वभावमित्युक्तं भवति । स्वशब्दद्वयं च स्वरूपवाचीत्युक्तम् । तथाच पुनरुक्तिरित्यत आह -- स्वेति ॥ यथा अस्वरूपत्वेऽप्युपचारेण स्वभावपदप्रवृत्तेस्तत्परिहाराय स्वस्वरूपमित्युच्यते । नच तत्र स्वरूपवाचिस्वशब्दद्वयसद्भावेऽपि पुनरुक्तिदोषः । एवमस्वभावेऽप्युपचारेण स्वभावपदप्रवृत्तेस्तदाशङ्कानिवारणाय स्वस्वभाव इत्युच्यते । अतो न पुनरुक्ति दोष इत्यर्थः ।
अजोऽपीति श्लोकत्रयं श्रुत्यैव व्याचष्टे -- स्रष्ट्रत्वादीति ॥ 6॥7॥8॥
((जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वतः ।
त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन ॥9 ॥
* ``येषां गुणानां ज्ञानेन मुक्तिरुक्ता पृथक् पृथक् ।
वेदेषु चेतिहासेषु सा तु तेषां समुच्चयात् ॥
एवमेव शमादीनां नान्यथा तु कथञ्चन ॥"
इति ब्रह्मवैवर्तवचनात् ``जन्म कर्म च" इत्यादिषु न तावन्मात्रेण मोक्षः ॥ 9 ॥
// एवं स्वभावादेवावतारादिव्यापारमुक्त्वा तद् ज्ञानफलमुच्यते ``जन्मेति" । तत्रेश्वरजन्मकर्मज्ञानमात्रेण मोक्षो भवतीत्यन्यथाप्रतीतिं निराचष्टे -- येषामिति ॥ समुच्चयादेव भवतीति ज्ञातव्यमिति शेषः । शमादीनां समुच्चयादेव ज्ञानं भवतीति ज्ञातव्यम् । पृथक् पृथग् ज्ञानसाधनत्वोक्तावपीत्यर्थः । उक्तो ग्राह्य इति शेषः ॥ 9 ॥
वीतरागभयक्रोधा मन्मया मामुपाश्रिताः ।
बहवो #101;XञXानतपसा पूता मद्भावमागताः ॥10 ॥
* ``मयं प्रधानमुद्दिष्टं प्राधान्यं यैर्~हरेर्मतम् ।
भगवन्ममास्ते विज्ञेयास्ते मुच्यन्ते न चापरे ॥" इति च । मयि भावो मद्भावः ॥ 10 ॥
// एतद् ज्ञानस्य मोक्षसाधनत्वं कुत इत्यत उच्यते -- ``वीतेति" । तत्र `मन्मयाः', `मद्भावमागताः' इत्येतदन्यथाप्रतीति निरासाय स्मृत्यैव व्याचष्टे-- मयमिति ॥ यद्यपि भगवान् प्रधानो येषां ते भगवन्मया इति साक्षादर्थः तथापि सर्वेषां भगवान् प्रधानो भवति । ज्ञानिनां को विशेष इत्यतः ``प्राधान्यं यैर्~हरेर्मतम्" इत्युक्तम् । `मद्भावमागताः' इत्यस्यार्थः `ते मुच्यन्ते' इति । मद्भावपदं कथं मोक्षवाचकमित्यत आह -- मयीति ॥ मयि भावः सायुज्यादिः ॥ 10 ॥
ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् ।
मम वर्त्मानुवर्तते मनुष्याः पार्थ सर्वशः ॥11 ॥
काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः ।
क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा ॥12 ॥
* तथैव भजामि तदनुसारिफलदानरूपेण । अन्यदेवतायाजिनामपि मत्समर्पणेन वैष्णवमार्गानुवर्तनेनैव सम्यक् फलं भवति ।
``अन्यदैवतपूजाऽपि यस्मिन्नन्ते समर्पिता । स्वर्गादि फलहेतुः स्यान्नान्यथा तं भजेद्धरिम् ॥" इत्याग्नेये ॥ 11॥12॥
// त्रैविद्यानामपि मोक्षसद्भावात् को विशेषस्त्वामुपाश्रितानामित्यत उच्यते `ये यथा' इति । तत्र नमन्तं नमतीत्याद्यन्यथाप्रतीतिनिरासायाऽह-- तथैवेति ॥ न ज्ञानिनां त्रैविद्यानां च फलसाम्यम् । सेवानुसारेणैव मम फलदत्वात् । सेवायाश्च वैषम्यादिति भावः । त्रैविद्यानामन्यदेवतायाजित्वात् कथमुच्यते तां प्रपद्यन्त इतीत्यतो देवता यजन्तो यदि कर्मणां सिद्धिमाकाङ्क्षन्तो भवन्ति तर्~हि मम वर्त्मानुवर्तन्त एव । अन्यथा कर्मफलाभावादित्युच्यते `मम' इति । तत्र त्रैविद्या अपि चेद् भगवद्धर्मानुवर्तन्ते तर्~हि भागवत्रैविद्यभेदो न स्यादित्यतः श्लोकं व्याचष्टे -- अन्येति ॥ मत्समर्पणेन अन्त इति शेषः । अत्र स्मृति सम्मतिं चाह-- अन्येति ॥ 11॥12॥
चातुर्वण्यं मया सृXृष्टं गुणकर्मविभागशः ।
तस्य कर्तारमपि मां विद्ध्यकर्तारमव्ययम् ॥13 ॥
न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृXृहा ।
इति मां योऽभिजानाति कर्मभिर्न स बध्यते ॥14 ॥
एवं #101;XञXात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः ।
कुरु कर्मैव तस्मात्वं पूवैः#240; पूर्वतरं कृतम् ॥15 ॥
किं कर्म किमकर्मेति कवयोऽप्यत्र मोहिताः ।
तत्ते कर्म प्रवक्षामि यद् ज्ञात्वा मोक्ष्यसेऽशुभात् ॥16 ॥
* ``सत्त्वसत्त्वाधिकरजोरजोभिस्तमसा तथा ।
वर्णा विभक्ताश्चत्वारः सात्त्विका एव वैष्णवाः ॥" इति च । कर्मविभागं ``शमो दमः" इत्यादिना वक्ष्यति । ``वैष्णवाः सात्त्विका एव तामसा एव चापरे। दौर्लभ्यसुलभत्वेन तेषां वर्णादिभिन्नता ॥" इति च ।
``स्वाभाविको ब्राह्मणादिः शमाद्यैरेव भिद्यते ।
योनिभेदकृतो भेदो ज्ञेयो ौपाधिकस्त्वयम् ॥
विष्णूभक्तिश्चानुगता सर्ववर्णेषु विश्पतिम् ।
आरभ्य हीयतेऽथापि भेदः स्वाभाविकस्ततः ॥" इति नारदीये ॥
``कताऽपि भगवान् विष्णुरकर्तेति च कथ्यते ।'
तस्य कर्ता यतो नान्यः स्वतन्त्रत्वात् परात्मनः ॥" इति च । अपिशब्दो गुणसमुच्चयार्थः । कर्ता मे नास्तीत्यपि विद्धीति । जीवाभेदनिवृत्त्यर्थं मामिति विशेषणम् ॥ 13-16॥
// सर्वकर्तृत्वे भगवतः कर्मलेपः स्यादित्यत उच्यते ``न मामिति"। तत्र मामित्यस्य सिद्धत्वात् `इति माम्' इति पुनरस्मच्छब्दः किमर्थ इत्यत आह -- जीवेति ॥ स्वस्येश्वराभेदाभिप्रायेण स्वात्मानमुद्दिश्य ``न मां कर्माणि लिम्पन्ति" इत्यादि यो जानातीत्यन्यथाप्रतीतिः स्यात् । तन्निराकरणार्थम् इति मां योऽभिजानाति, न स्वात्मानमिति भावेन मामिति विशेषणं प्रयुक्तमित्यर्थः ॥ 13-16॥
कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः ।
अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः ॥17 ॥
* कर्मापि न मत्तः इति बोद्धव्यमित्यादि ॥ 17 ॥
// ``तत्ते कर्म प्रवक्ष्यामि" इति प्रतिज्ञातमुच्यते `कर्मणः' इति । तद्दुर्गमार्थत्वाद् व्याचष्टे -- कर्मेति ॥ मत्त एव भवतीति बोद्धव्यम् । असमानपदस्थस्य रेफोत्तरस्य नस्य णत्वं दृष्टं ``ब्रह्मण इन्द्र उपयाहि विद्वान्" इत्यादौ । आदिपदेन `बोद्धव्यं च' इत्यादेरपि पूर्ववद्योजनां सूचयति ॥ 17 ॥
कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः ।
स बुद्धिमान्मनुष्येषु स युक्तः कृत्स्नकर्मकृत् ॥18 ॥
* कर्मणि जीवे । अस्वातन्त्र्यादकर्म । कर्मविधिफलयोरभावात् अकर्मणि विष्णौ स्वातन्त्र्यात्सर्वकर्मकर्तृत्वम् ।
``करोऽस्मिन् मीयत इति कर्म जीव उदाहृतः ।
विधिशब्देनामितत्वात् अकर्म भगवान् हरिः ॥" इति नारदीये । कर इति सकारान्तोऽदृष्टवाची । क्रियावाची वा । तदधीनत्वात् । प्रसिद्धश्च जीवे कर्मशब्दः पञ्चरात्रे । कृत्स्नकर्मफलवत्त्वात्
// एतद् बोधनं स्तूयते । ``कर्मणि" इति । तत्र पूर्वार्धं दुर्गमार्थत्वाद् व्याचष्टे -- कर्मणीति ॥ कर्मविधिफलयोरभावात् अकर्मेत्यनेन तद्भाज्जीवः कर्मेति सूचितम् । जीवेश्वरयोरेवं व्युत्पत्त्या कर्माकर्मपदवाच्यत्वं कुत इत्यत आह -- कर इति ॥ अमितत्वादविषयीकृतत्वादित्यर्थः । कोऽयं करो नामेत्यत आह -- कर इति ॥ करशब्दस्य हस्तादिवाचित्वमेव दृष्टं, नादृष्टादिवाचित्वमित्यत उक्तम् -- सकारान्त इति ॥ हस्तादिवाचिनोऽयं सकारान्तोऽन्य एवेति भावः । कर्मविधिवाची चेति द्रष्टव्यम् । अत एव कर्मविधीत्याद्युक्तम् । अनेन विधिशब्देनामितत्वम् अकर्मपदेन कथमुच्यत इति परास्तम् । अकर्तरि जीवे कथं करोमीत्यत आह -- तदिति ॥ नाकर्तरि क्रियादर्शनं विरुद्धं, स्वातन्त्र्येणाकर्तृत्वेऽपि भगवदधीनकर्तृत्वादिति भावः । अत एव पूर्वमस्वातन्त्र्यादित्याद्युक्तम् । कर्मशब्दस्य जीवे विद्वद्रूढिं च दर्शयति -- प्रसिद्धश्चेति ॥ ननु ज्ञानिनः स्वातन्त्र्येण पारतन्त्र्येण वा कृत्स्नकर्माकरणात् कथं कृत्स्नकर्मकृत्त्वमुच्यत इत्यत आह -- कृत्स्नेति ॥ स्वयोग्याशेषकर्मफलमोक्षस्य नियतत्वादिति भावः ॥ 18 ॥
<लन्ग्=कन्>यस्य सर्वे समारम्भाः कामसङ्कल्पवर्जिताः ।
#101;X~JaXAnAgnidagdhakarmANaM tamAhuH paMDitaM budhAH ||19 ||
त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः ।
कर्मण्यभिप्रवृत्तोऽपि नैव किञ्चित्करोति सः ॥20 ॥
निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः ।
शारीरं केवलं कर्म कुर्वन्नाऽप्नोति किल्बिषम् ॥21 ॥
यदृच्छालाभसन्तुष्टो द्वन्द्वातीतो विमत्सरः ।
समः सिद्धावसिद्धौ च कृत्वापि न निबद्ध्यते ॥22 ॥
गतसङ्गस्य मुक्तस्य #101;XञXानावस्थितचेतसः ।
य#101;XञXायाचरतःकर्म समग्रं प्रविलीयते ॥23 ॥
*अनिराश्रयो भगवादाश्रयत्वात् । मुक्तस्य स्वातन्त्र्याभिमानात् ॥ 19-23॥
// न केवलं कर्तृत्वाभिमानपरित्यागेन कृत्स्नकर्मकृत्त्वादि । अपि तु कामादिपरित्यागेनापि भाव्यमित्युच्यते - यस्येत्यादिश्लोकपञ्चकेन ॥ तत्र निराश्रय इत्यन्यथा पदविभागप्रतीतिनिरासायाह-- अनिराश्रय इति ॥ प्रतीतप्रकारेणैव पदविभागः किं न स्यादित्यत आह -- भगवदिति ॥ ज्ञानिनोऽपि भगवदाश्रयत्वेन ``अज्ञानां ज्ञानिनां चैव" इत्याद्यावुक्तत्वात् निराश्रयत्वानुपपत्तेर्न प्रतीतप्रकारेण पदविभाग इत्यर्थः । नन्वत्र ज्ञानिनः शरीरसम्बन्धसद्भावात् कथं मुक्तत्वमुच्यत इत्यत आह -- मुक्तस्येति ॥ 19-23॥
ब्रह्मार्पणं ब्रह्महविब्रह्मणाग्नौ ब्रह्मणाहुतं ।
ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्म समाधिना ॥24 ॥
* कथमभिमानत्यागः । ब्रह्मार्पणमित्यादि । ब्रह्मण्यर्पणं ब्रह्मार्पणम् । ब्रह्मणो हविः । ब्रह्मणोऽग्नौ । ब्रह्मणः कर्म । समाधिना सह । समाधिरपि तदधीन इत्यर्थः ।
`एकः स्वतन्त्रो भगवांस्तदीयं त्वन्यदुच्यते' इति भारते ॥ 24 ॥
// ननु कुत्र स्वातन्त्र्याभिमानत्यागो विवक्षितः ? तस्य चार्थस्य स्वातन्त्र्यायोगात् किमधीनत्वं ज्ञातव्यम् ? किञ्च यज्ञार्थत्वमिति पृच्छति -- ``कथमिति" । तत्परिहारायोत्तरप्रघट्टकमवतारयति -- ब्रह्मेति ॥ अत्रार्पणादीनां ब्रह्मैक्यमुच्यते, नाभिमानपरित्यागप्रकार इत्यन्यथाप्रतीति निरासायाह -- ब्रह्मणीति ॥ प्रतीतार्थ एव किं न स्यादित्यतः स्वोक्तार्थे स्मृतिसम्मतिमाह -- एक इति ॥ अनेन हविरादिषु स्वस्य स्वातन्त्र्यमनिरूप्य ब्रह्माधीनतां ज्ञात्वा होमादिकारणं स्वातन्त्र्याभिमानपरित्यागः । ब्रह्मार्पणं तु यज्ञार्थत्वमित्युक्तं भवति ॥ 24 ॥
दैवमेवापरे यज्ञं योगिनः पर्युपासते ।
ब्रह्माग्नावपरे यज्ञं य#101;XञXेनैवोपजुह्वति ॥25 ॥
* दैवं विष्णुमेव यज्ञ इत्युपासते । स्वभोग्यत्वात् स्वयमेव यज्ञः । ब्रह्माख्याग्नौ क्रियायज्ञं तेनैव यज्ञाख्येन विष्णुना समर्पयन्ति ॥ 25 ॥
// तत् प्रपञ्चयते -- ``दैवम्"इत्यादिना ॥ तत्र पूर्वार्धे कस्यचित् देवस्योपासनमेवोच्यते न तु ब्रह्मार्पणबुद्ध्या यजनम् । अतो नायमर्धः पूर्वसङ्गत इत्यत आह -- दैवमिति ॥ भगवन्तं ब्रह्म इत्युपासत इत्यनेन भगवानेव यज्ञ, तस्य तथोपासनमेव यज्ञकरणमित्युक्तं भवति । कथं भगवतो यज्ञत्वम् ? येन तथोपासनं यज्ञकरणं स्यादित्यत आह-- स्वेति ॥ स्वरूपमेवानन्दादिहविः स्वयमेवाग्निर्भगवान् भुङ्क्ते, अतोऽयं यज्ञ इत्यर्थः । ``ब्रह्माग्नौ" इत्येतद् दुर्गमार्थत्वात् पूर्व सङ्गतत्वेन व्याचष्टे -- ब्रह्मेति ॥ यज्ञाख्येनेत्यस्य सर्वं तदधीनं ज्ञात्वेत्यर्थः ॥ 25 ॥
श्रोत्रादीनीन्द्रियाण्यन्ये संयमाग्निषु जुह्वति ।
शब्दादीन् विषयानन्ये इन्द्रियाग्निषु जुह्वति ॥26 ॥
* तत्पूजात्वेन श्रोत्रादिसंयमं कुर्वन्ति । तत्पूजात्वेन विषयान् भुञ्जते ॥ 26 ॥
// ननु ``श्रोत्रादीनि" इत्यादौ श्रोत्रादिहविषः संयमाख्याग्न्यादौ होम एवोच्यते, नतु तस्य ब्रह्मार्पणम् । अतो नैतत्पूर्वसङ्गतमित्यत आह -- तदिति ॥ अत्रापि ब्रह्मार्पणस्य ``एवं बहुविधाः" इति वक्ष्यमाणपर्यालोचनया विवक्षितत्वावगमात् नासङ्गतिरिति भावः ॥ 26 ॥
सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे ।
आत्मसंयमयोगाग्नौ जुह्वति ज्ञानदीपिते ॥27 ॥
द्रव्यय#101;XञXास्तपोय#101;XञXा योगय#101;XञXास्तथाऽपरे ।
स्वाध्याय#101;XञXानय#101;XञXाश्च यतयः संशितव्रताः ॥28 ॥
अपाने जुह्वति प्राणं प्राणेऽपानं तथाऽपरे ।
प्राणापानागती रुद् ध्वा प्राणायामपरायणाः ॥29 ॥
अपरे नियताहाराः प्राणान्प्राणेषु जुह्वति ।
सर्वेऽप्येते यज्ञविदो यज्ञक्षपितकल्मषाः ॥30 ॥
यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम् ।
नायं लोकोऽस्त्ययज्ञस्य कुतोऽन्यः कुरुसत्तम ॥31 ॥
* तत्पूजात्वेनेन्द्रियसंयमं कुर्वन्ति । यज्ञेनैवेति सर्वत्राप्यन्वीयते ।
``तेनैव तं पूजयेद्वा विहितैर्वाऽन्यसाधनैः ।
स एव विष्णोर्यज्ञः स्यान्मानसो वा सबाह्यकः ॥" इति ब्रह्मवैवर्ते ॥ 27-31 ॥
// ॥ इन्द्रियादिसंयममिति ॥ कर्मेन्द्रियाणां प्राणापानादीनां च संयममित्यर्थः । नन्वत्र क्रियायज्ञ एव यज्ञेनैवेत्यभिमानत्यागोक्तेः कथं दैवमित्यादि पूर्वसङ्गतमित्यत आह -- यज्ञेनैवेति ॥ स्वयमेव यज्ञ इत्याद्यपूर्वार्थोऽयं कुत इत्यत आह -- तेनैवेति ॥ 27-31 ॥
एवं बहुविधा य#101;XञXा वितता ब्रह्मणो मुखे ।
कर्मजान्विद्धि तान्सर्वानेवं #101;XञXात्वा विमोक्ष्यसे ॥32 ॥
* ``श्रोत्रादीनि" इत्यादिषु इज्यानुक्तेरिज्योऽन्य इति शङ्कां निवारयति -- ``वितता ब्रह्मणो मुखे" इति ।
``सर्वयज्ञैः परं ब्रह्म याज्यं विष्ण्वाख्यमव्ययम्" इति च ॥ 32 ॥
// ``ब्रह्मणो मुखे" इत्यस्य वेदादावित्यन्यथाप्रतीतिनिरासायाह -- श्रोत्रेति ॥ इति शङ्का स्यात् तामिति शेषः । प्रतीत एवार्थः किं न स्यादित्यत उक्तार्थे स्मृतिसम्मतिमाह-- सर्वेति ॥ 32 ॥
श्रेयान् द्रव्यमयाद्य#101;XञXाजानयज्ञः परन्तप ।
सर्वं कर्माखिलं पार्थ #101;XञXाने परिसमाप्यते ॥33 ॥
*सर्वं कर्म आखिलम् आ समन्तादल्पं ज्ञाने परिसमाप्यते । ज्ञाने ज्ञाते पूर्यते ।
``समाप्तविद्यान् धनुषि श्रेष्ठान् यान् सप्त मन्यसे" इतिवत् समाप्तिशब्दोऽत्र पूर्तिवाची । ``ज्ञानसिनाऽत्मनः । छित्वैनं संशयं योगमातिष्ठ ॥" इति पुनर्योगकथनात् ॥33॥
// द्रव्यमयाद्यज्ञात् ज्ञानयज्ञस्योत्तमत्वे हेतुरुच्यते `सर्वमिति' । तत्र सर्वाखिलशब्दयोरेकार्थत्वप्रतीतेः ज्ञानानन्तरं कर्म नास्तीन्यथाप्रतीतेश्च निरासायाह-- सर्वमिति ॥ पूर्यते सफलं भवतीत्याशयः । समाप्तिशब्दस्य पूर्तिवाचित्वादर्शनात् कथमत्र पूर्तिवाचित्वमित्यत आह -- समाप्तेति ॥ धनुर्विद्याविषये सम्पूर्णविद्यान् कृष्णसात्यकियुक्तपञ्चपाण्डवान् सप्त श्रेष्ठान् मन्यस इत्युद्योगपर्वणि धृतराष्ट्रं प्रति सञ्जयवचनम् । अस्तु पूर्तावपि समाप्तिशब्दप्रयोगः । तथाप्यत्र पूर्तिवाचित्वं कुतः ? प्रतीतार्थ एव किं न स्यादित्यत आह -- ज्ञानेति ॥ पुनर्योगकथनात् ज्ञानानन्तरमपि कर्मानुष्ठानकथनात् ॥ 33 ॥
तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया ।
उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्वदर्शिनः ॥ ॥34 ॥
* `ज्ञानं तेऽहं सविज्ञानम्' इति वक्ष्यमाणत्वात् स्वयमेवोपदेक्ष्यति ॥ 34 ॥
// ज्ञानस्य कर्मणोऽधिकत्वमुक्त्वा तदापादानं विधीयते -- `तदिति' । तत्र स्वयं ज्ञानोपदेशायैव प्रवृत्तत्वात् `न त्वेवाहम्' इति ज्ञानस्योपदिष्टत्वाच्च कथम् ``उपदेक्ष्यन्ति ते ज्ञानम्" इत्युच्यत इत्यत आह -- ज्ञानमिति ॥ उपदेक्ष्यन्तीति निश्चितत्वाभिप्रायेण । परोक्षतयोपदेक्ष्याम इत्येवोच्यमानत्वात् न ज्ञानोपदेशार्थं प्रवृत्तत्वविरोधः । नच ज्ञानस्योपदिष्टत्वविरोधः । सङ्क्षेपेणोपदिष्टत्वेऽपि ``Xञनं तेऽहं" इत्यादिना पुनरुपदेक्ष्यमाणत्वादिति भावः ॥ 34 ॥
यज्जञात्वा न पुनर्मोहमेवं यास्यसि पाण्डव ।
येन भूतान्यशेषेण द्रक्ष्यस्यात्मन्यथो मयि ॥35 ॥
अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः ।
सर्वं #101;XञXानल्पवेनैव वृजिनं सन्तरिष्यसि ॥36 ॥
यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन ।
#101;X~JaXAnAgniH sarvakarmANi BasmasAtkurutE tathA ||37 ||
न हि #101;XञXानेन सदृशं पवित्रमिह विद्यते ।
तत्स्वयं योगसंसिद्धिः कालेनात्मनि विन्दति ॥38 ॥
श्रद्धावान् लभते #101;XञXानं मत्परः संयतेन्द्रियः ।
#101;X~JaXAnaM labdhvA parAM SAMtimacirENAdhigacCati ||39 ||
अज्ञश्चश्रद्दधानश्च संशयात्मा विनश्यति ।
नायं लोकोऽस्ति न परो न सुखं संशयात्मनः ॥40 ॥
*आत्मनि व्याप्ते मयि । अथो तस्मात् व्याप्तत्वादेव । ।35-40॥
// ज्ञानं स्तूयते ``यत्"इति । तत्र स्वस्मिन्, मयि चेत्यन्यथाप्रतीतिनिरासायाह- आत्मनीति ॥ ईश्वरमन्तरेण सर्वभूताधारत्वस्यान्यत्रानुपपत्तेर्न प्रतीत एवार्थ इत्यर्थः । एवं चेत् ``अथो" इति समुच्चयवाची शब्दो व्यर्थ इत्यत आह -- अथो इति ॥35-40॥
योगसंन्यस्तकर्माणं #101;XञXानसञ्छिन्नसंशयम् ।
आत्मवन्तं न कर्माणि निबध्नन्ति धनञ्जय ॥41 ॥
तस्माद#101;XञXानसम्भूतं हृत्स्थं #101;XञXानासिनाऽऽत्मनः ।
छित्वैनं संशयं योगमातिष्ठोत्तिष्ठ भारत ॥42 ॥
तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु योगशास्त्रे श्रीकृष्णार्जुनसंवादे #101;XञXानयोगो नाम चतुर्थोऽध्यायः ॥
* आत्मवन्तं परमात्मभक्तम् ॥ 41॥42॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीतातात्पर्यनिर्णये चतुर्थोऽध्यायः ॥
// ज्ञानफलमुच्यते ``योग" इति । तत्र ``आत्मवन्तं" इत्यात्मा जीवश्चेत् स्वसम्बन्धोक्तिरयुक्ताऽनुपयुक्ता च । परमात्मा चेत्सर्वेषामपि तद्वत्त्वसाम्यात् को विशेषो ज्ञानिन इत्यत आह -- आत्मेति ॥ 41-42 ॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्य श्रीमद्भगवद्गीतातात्पर्यनिर्णयस्य टीकायां जयतीर्थमुनिविरचितायां न्यायदीपिकायां चतुर्थोऽध्यायः ॥ 4 ॥
॥ श्रीवादिराजगुर्वन्तर्गतमध्वेशाभिन्नहयग्रीवात्मककृष्णार्पणमस्तु ॥
*******************************************************************************
॥श्रीगुरुभ्योनमः ॥
श्रीवादिराजगुर्वन्तर्गत श्रीमध्वेशाभिन्न श्रीलक्ष्मीहयग्रीवायनमः ॥
अथ पञ्चमोऽध्यायः ॥
हरिः ॐ श्री अर्जुन उवाच --
संन्यासं कर्मणां कृष्ण पुनर्योगं च शंससि ।
यच्छ्रेयः एतयोरेकं तन्मे ब्रूहि सुनिश्चितम् ॥ 1 ॥
* ॥ हरिः ॐ ॥ योगसंन्यासयोर्लक्षणं स्पष्टयत्यनेनाध्यायेन । ``योगसंन्यस्तकर्माणं" इत्यादौ न्यासशब्दः सर्वकर्मत्यागविषय इत्याशङ्क्य योगसंन्यासयोर्भिन्नषुनिष्ठत्वाभिप्रायेण पृच्छति -- संन्यासमिति ॥ 1 ॥
// ॥हरिः ॐ॥ एतदध्यायप्रतिपाद्यमर्थं दर्शयति -- योगेति ॥ पूर्वं समुच्चितः कर्मयोगो निरूपितः । स च योगसंन्यासभेदेन द्विविधः । द्विविधयोश्च स्वरूपं सङ्क्षेपेण ``कुरु कर्माणि", ``सङ्गं त्यक्त्वा" इत्यादावुक्तम् । तदेवानेनाध्यायेन स्पष्टयतीत्यर्थः ।
प्रश्नवाक्यं साभिप्रायमवतारयति -- योगेति ॥ ``योगसंन्यस्तकर्माणम्" इत्यादौ पठितो न्यासशब्दो यत्याश्रमविषयो ``योगमातिष्ठ" इत्यादौ श्रुतो योगशब्दो गृहस्थाश्रमविषय इति कल्पयित्वा यतीनां सर्वकर्मत्यागेन ज्ञानमात्राधिकारित्वात् गृहिणां ज्ञानपरित्यागेन कर्ममात्राधिकारित्वात् तयोरेकपुन्निष्ठत्वं न युज्यत इति भावेन योगसंन्यासयोर्मध्ये श्रेयः पृच्छति ॥ उभयस्यापि कर्तव्यतया विहितत्वादेकेनैवानुष्ठातुमशक्यत्वात् अन्यतरपरित्यागेनान्यतरग्रहणे श्रेयस एव ग्राह्यत्वादिति भावः ॥ 1 ॥
श्रीभगवानुवाच --
संन्यासः कर्मयोगश्च निश्शरेयसकरावुभौ
तयोस्तु कर्मसंन्यासात् कर्मयोगो विशिष्यते ॥ 2 ॥
* एकपुंयोग्यावेतौ, तयोर्मध्ये योग एव विशिष्ट इति परिहाराभिप्रायः । उभौ समुच्चितौ । ``संन्यासस्तु महाबाहो दुःखमाप्तुमयोगतः ॥" इति वक्ष्यमाणत्वात् ॥2॥
// ननु योगसंन्यासयोर्मध्ये श्रेयोमात्र एवायं प्रश्नो, न तूक्तरीत्या विरोधाभिप्रायेण । तथात्वे परिहाराभावादित्यतः परिहारवाक्याभिप्रायमाह -- एकेति ॥ उभयोरेकपुंयोग्यत्वात् निःश्रेयसकरत्वाच्च अनुष्ठेयत्वादन्यतरस्य श्रेष्ठत्वे प्रश्नोव्यर्थ एव । अथ स्वरूपज्ञानमात्रार्थः प्रश्नश्चेद्योग एव विशिष्ट इति भावः । योगसंन्यासयोरेकपुंयोग्यत्वाभिधायकं पदमत्र न श्रूयत इत्यतस्तत्पठित्वा व्याचष्टे -- उभाविति ॥ द्वावपि प्रत्येकं श्रेयस्करावित्यर्थः किं न स्यादित्यत आह -- संन्यासस्त्विति ॥ योगरहितसंन्यासस्य अनर्थकरत्वोक्तेः संन्यासरहितयोगस्यैवासम्भवात् समुच्चितयोरेव निःश्रेयसकरत्वमुच्यते न प्रत्येकमिति भावः ॥ 2 ॥
ज्ञेयस्य नित्य संन्यासी योनद्वेष्टी न काङ्क्षति ।
निर्द्वन्द्वो हि महाबाहो सुखं बन्धात् प्रमुच्यते ॥ 3 ॥
* द्वेषादिवर्जनमेव संन्यासशब्दो न यत्याश्रमोऽत्राभिप्रेत इत्याह -- ज्ञेय इति ॥ नच ``काम्यानां कर्मणां न्यासं" इत्यनेन विरोधः तेनापि सहितस्य न्यासत्वात् । नच त्यागस्य पृथग्वचनाद् विरोधः । कुरुपाण्डववत् न्यासावान्तरभेदत्वात्त्यागस्य ॥ 3 ॥
// कथं योगसंन्यासयोः समुच्चयो युज्यते ? यतिगृहस्थयोरधिकारभेदादित्याशङ्कापरिहाराय श्लोकमवतारयति -- द्वेषादिति ॥ अत्र ``संन्यस्तकर्माणम्" इत्यादौ । एवं ``योगमातिष्ठ" इत्यादौ भगवदर्पणादियोग एवाभिप्रेतो न गृहस्थाश्रम इत्यपि द्रष्टव्यम् । ननु कथं द्वेषादिवर्जनस्य संन्यसत्वमत्रोच्यते ? ``काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः ॥" इति काम्यकर्मपरित्यागस्य संन्यासत्वाभिधायकवाक्यविरोधादित्यत आह -- नचेति ॥ भवेत्तद्विरोधो यद्यत्र द्वेषादिवर्जनमात्रं संन्यासत्वेन विवक्षितं स्यात् । नैतदस्ति । काम्यकर्मपरित्यागेनापि सहितस्य द्वेषादिवर्जनस्य संन्यासत्वेनाभिप्रेतत्वादित्यर्थः । कथमत्र काङ्क्षादिवर्जनस्य संन्यासत्वमुच्यते ? ``सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः" इति तस्य त्यागत्वेनोक्तत्वात् । न च संन्यासत्यागयोरैक्यादविरोधः । ``काम्यानां" इति श्लोके न्यासात्त्यागस्य पृथक्त्वेनोक्तेस्तद्विरोधादित्यत आह -- नचेति ॥ भवत्येवाकाङ्क्षादिवर्जनं न्यासः । नच तस्य त्यागत्वोक्तिविरोधः । न्यासत्यागयोरैक्यात् । नच पृथक्त्वोक्तिविरोधः । यथा खलु पाण्डवानां कुरुत्वेऽपि ``सन्तानबीजं कुरुपाण्डवानाम्" इति पृथगुक्तिर्युज्यते, पाण्डवानां कुर्ववान्तरभेदत्वेन कुरुपाण्डवानां साक्षादैक्याभावात्, एवं त्यागस्य न्यासत्त्वेऽपि न्यासावान्तरभेदत्वेन त्यागन्यासयोः साक्षादैक्याभावात् पृथग् वचनोपपत्तेरिति भावः । न्यासादिशब्दस्य यत्याद्याश्रमार्थत्वं गृहीत्वा तयोरधिकारभेदात् समावेशायोगो यश्चोदितोऽसौ न्यासादिशब्दस्य तदर्थत्वानङ्गीकारेण परिहृतः ॥ 3 ॥
साङ्ख्ययोगौ पृथग्बालाः प्रवदन्ति न पण्डिताः ।
एक मप्यास्थितस्सम्यगुभयोर्विन्दते फलम् ॥ 4 ॥
यत्साङ्ख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते ।
एकं साङ्ख्यं च योगं च यः पश्यति स पश्यति ॥ 5 ॥
* बालास्तु न्यासशब्देन यत्याश्रममेव स्वीकृत्य तत्स्थानामेव साङ्ख्यशब्दोदितज्ञानाधिकारः; गृहस्थानामेव योगशब्दोदितकर्माधिकार इति मन्यन्ते । तन्न पण्डिता मन्यन्ते । कुतः ? यस्मात् ज्ञानमार्गं कर्ममार्गं वा सम्यगास्थित उभयोरपि फलं प्राप्नोति तस्मात् ज्ञानिनां कर्माप्यनुष्ठेयम् । कर्मिणामपि गृहस्थानां ज्ञातव्यो भगवान् । न हि ज्ञानं विना कर्मणः सम्यगनुष्ठानं भवति ।
``निष्कामं ज्ञानपूर्वं च निवृत्तमिह चोच्यते ।
निवृत्तं सेवमानस्तु ब्रह्माभ्येति सनातनम् ॥
बुद्ध्याऽविहिंसन् पुष्पैर्वा प्रणवेन समर्चयेत् ।
वासुदेवात्मकं ब्रह्म मूलमन्त्रेण वा यतिः ॥
मुक्तिरस्तीति नियमो ब्रह्मदृग् यस्य विद्यते ।
तस्याप्यानन्दवृद्धिः स्याद् वैष्णवं कर्म कुर्वतः ॥
कर्म ब्रह्मदृशा हीनं न मुख्यमिति कीर्तितम् ।
तस्मात् कर्मेति तत् प्राहुः यत् कृतं ब्रह्मदर्शिना ॥
एतस्मात् न्यासिनां लोकं संयाति गृहिणोऽपि हि ।
ज्ञानमार्गः कर्ममार्ग इति भेदस्ततो न हि ।
तस्मादाश्रयमभेदोऽयं कर्मसङ्कोचसम्भवः ॥" इति व्यासस्मृतेः ॥ 4 ॥ 5 ॥
// अथासावाधिकारभेदोऽपि न युज्यत इत्युच्यते ``साङ्ख्य" इति । दुर्गमार्थत्वात् श्लोकं व्याचष्टे -- बाला इति ॥ ज्ञानमार्गं सम्यगास्थित एव ज्ञानफलं प्राप्नोति । कर्ममार्गं च सम्यगास्थित एव कर्मफलं प्राप्नोतीत्यर्थः ।
ज्ञानैकगम्ययतिप्राप्यस्थानप्राप्तिसद्भावाच्च गृहिणां ज्ञानाधिकारोऽस्तीत्युक्त्वा उपसंह्रियते `यत्' इति ॥ तत्र ``एकं साङ्ख्यं" इत्युपसंहारवाक्ये ज्ञानकर्मयोरैक्यं किमर्थमुच्यत इत्यतो यथावद्व्याचष्टे -- तस्मादिति ॥ ज्ञानिनां यतीनामिति शेषः । सम्यक्कर्मानुष्ठानेनैव कर्मी कर्मफलं प्राप्नोति चेत्तथापि कुतस्तस्य ज्ञानमित्यत आह -- न हीति ॥ एवं सम्यग् ज्ञानमार्गानुष्ठानेनैव ज्ञानफलं प्राप्नोति चेत्तथापि कुतो ज्ञानिनः कर्मेति शङ्कायां न हि कर्म विना ज्ञानमार्गस्य सम्यग् अनुष्ठानं भवति । सम्पूर्णफलसाधनत्वाभावादिति परिहारो द्रष्टव्यः । अत्र श्रुतिसम्मतिं चाह -- निष्काममिति ॥ अनेन कर्मिणां ज्ञानमुच्यते । ``बुद्ध्या" इति ज्ञानिनां कर्म । ``मुक्तिः" इत्युभयम् ।
कर्मिणां ज्ञानसद्भावे हेत्वन्तरमाह -- एतस्मादिति ॥ गृहिणामपि ज्ञानसद्भावादेव इत्यर्थः । अनेन ``यत्साङ्ख्यैः" इति व्याख्यातं भवति । उभयोरपि ज्ञानकर्मसद्भा वे कथमाश्रमभेद इत्यत आह -- तस्मादिति ॥ उभयोरप्युभयसद्भावस्य युक्त्यादिसिद्धत्वादिति भावः । सङ्कोचविकास सम्भवः ॥4॥5॥
संन्यासस्तु महाबाहो दुःखमाप्तुमयोगतः ।
योगयुक्तो मुनिर्ब्रह्म न चिरेणाधिगच्छति ॥ 6 ॥
* ``मोक्षोपायो योग इति तद्रूपो न्यास एव तु ।
विष्ण्वर्पिततया भद्रो नान्यो न्यासः कथञ्चन ॥" इत्याग्नेये । विष्ण्वर्पितत्वादियोगरूपत्वं विना केवलकर्मत्यागो नरकफल एव । ``यं संन्यासमिति प्राहुर्योगं तं विद्धि पाण्डव ।" इति वक्ष्यमाणत्वात् । योगविशेषत्वान्नयासस्य पृथगुक्तिः ॥6॥
// समुच्चितयोरेव योगसंन्यासयोर्निःश्रेयसकरत्वमुक्तम् । असमुच्चये बाधकमुच्यते ``संन्यासस्तु" इति । तत्स्मृत्यैव व्याचष्टे -- मोक्षेति ॥ योग इति ॥ उच्यत इति शेषः । विष्ण्वर्पिततया तद्रूप इति सम्बन्धः । पादत्रयम् उत्तरार्धव्याख्यानम् । ``नान्यः" इति पूर्वार्धस्य । तद्विवृणोति -- विष्ण्विति ॥ आदिपदेन स्वोचितकर्मणां विष्ण्वर्पणादिकं न कार्यमिति बुद्ध्या कृतो नरकफल इति ज्ञातव्यम् । ``अयोगतः" इति योगरूपत्वं विनेति किमर्थमुच्यते । योगं विनेत्येव किं न स्यादित्यत आह -- यमिति ॥ ``यं संन्यासम्" इति योगसंन्यासयोरैक्यस्य वक्ष्यमाणत्वात् संन्यासस्य योगरूपत्वमेव वाच्यमित्यर्थः । योगसंन्यासयोरैक्ये ``संन्यासः कर्मयोगश्च" इति पृथगुक्तिः कथमित्यत आह -- योगेति ॥ योगो न्यासश्चेत्येक एवार्थः । अपि तु न्यासो योगावान्तरभेदः । अतः कुरुपाण्डववत् पृथगुक्तिरुपपन्नेत्यर्थः ॥6॥
योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः ।
सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते ॥ 7 ॥
* सर्वभूतात्मभूतात्मेति मुख्यो योगः ।
``आदानात्सर्वभूतानां विष्णुरात्मा प्रकीर्तितः ।
सर्वभूतात्मभूतात्मा तत्र भूतमनाः पुमान् ॥" इति च ॥7॥
// योगरूपतां विना न्यासस्यानर्थसाधनत्वमुक्त्वा ``योगयुक्तः" इत्यनेन योगरूपसंन्यासस्योक्तं मोक्षसाधनत्वं प्रपञ्च्यते -- योगयुक्त इति ॥ तत्र योगसंन्यासयोरेव वक्तव्यत्वात् तयोश्च योगयुक्तादिपदैरुक्तत्वात् ``सर्वभूतात्मभूतात्मा" इति किमुच्यत इत्यत आह -- सर्वेति ॥ अनेनापि योग एवोच्यत इति नासङ्गतिः । नापि योगयुक्तपदेन योगस्योक्तत्वात् वैयर्थ्यम् । योगयुक्तपदेन कर्मयोगस्योक्तत्वात्, अनेन ध्यानयोगस्योक्तत्वादिति भावः ।
अत्राधिकारिणः सर्वभूतैक्यमुच्यते । अतः कथमियं ध्यानयोगोक्तिरित्युच्यत इत्यतः स्मृत्यैव व्याचष्टे -- आदानादिति ॥ भूतमनाः स्थितमनाः ॥7॥
नैव किञ्चित्करोमीति युक्तो मन्येत तत्त्ववित् ।
पश्यन् शृण्वन् स्पृशन् जिघ्रन्नश्नन्गच्छन्स्वपन् श्वसन् ॥ 8 ॥
प्रलपन्विसृजन् गृह्णन्नुन्मिषन्निमिषन्नपि ।
इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् ॥ 9 ॥
* यथा न्यासस्य योगरूपत्वं तथाऽऽह-- नैव किञ्चिदित्यादिना ॥
``विष्णुनाऽर्थेष्वीरितानि मन आदीनि सर्वशः ।
वर्तन्तेऽन्यो न स्वतन्त्र इति जानन् हि तत्त्ववित् ॥" इति च ॥8॥9॥
// योगरूपसंन्यासस्य मोक्षहेतुत्वमुक्तम् । तत्र संन्यासस्य योगरूपत्वं केन प्रकारेणेत्यतस्तत्परिहारत्वेन श्लोकद्वयमवतारयति -- यथेति ॥ तत्रेन्द्रियाणामेव स्वातन्त्र्येण कर्तृत्वमुच्यत इत्यन्यथा प्रतीतिनिरासाय स्मृत्यैव व्याचष्टे -- विष्णुनेति ॥8॥9॥
ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः ।
लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ॥ 10 ॥
कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि ।
योगिनः कर्मकुर्वन्ति सङ्गं त्यक्त्वाऽऽत्मशुद्धये ॥ 11 ॥
युक्तः कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम् ।
अयुक्तः कामकारेण फले सक्तो निबध्यते ॥ 12 ॥
* तत्पूजात्मकानि तत्कृतानि मम शुभार्थमिति ब्रह्मण्याधानम् । स्वातन्त्र्याभावापेक्षयैव जीवस्याकर्तृत्वम् ।
``स्ववन्दनं यथा पित्रा कारितं शिशुकर्तृकम् ।
एवं पूजा विष्ण्वधीना भवेज्जीवकृतेत्यपि ॥" ॥10-12॥
// योगरूपसंन्यासवतो मुक्तिर्भवतीति नोपचारमात्रमिति भावेन पुनः फलमुच्यते ``ब्रह्मणि" इति । तत्र कर्मणां ब्रह्मण्याधानं नामाकरणमेवेत्यन्यथाप्रतीतिनिरासायाह -- तत्पूजेति ॥ आधानं कर्मणामिति शेषः । अन्यथा करोतीत्यस्य व्याघातादिति भावः । भवत्पक्षेऽपि यदि कर्माणि भगवत्कृतानि तर्~हि जीवस्याकर्तृत्वं स्यात् । तथाच करोतीति व्याहतं स्यात् । मम शुभार्थमिति चासम्भवीत्यत आह -- स्वातन्त्र्येति ॥ कर्मणां भगवत्कृतत्वे जीवस्याकर्तृत्वं स्यादिति सत्यमेव । नच तावता जीवस्य कर्तृत्वफलसम्बन्धानुपपत्तिः । स्वातन्त्र्याभावविवक्षयैव अकर्तृत्वस्याभ्युपगतत्वेन भगवदधीनतया कर्तृत्वोपपत्तेरिति भावः । अस्वतन्त्रत्वे च जीवस्य भगवत्पूजाकर्तृत्वं शुभयोगश्च न युज्यते । अस्वतन्त्रे कर्तृशब्दप्रयोगस्य फलसम्बन्धस्य चादर्शनादित्याशङ्कां स्मृत्यैव परिहरति -- स्ववन्दनमिति ॥
सर्वकर्माणि मनसा संन्यस्यास्ते सुखं वशी ।
नवद्वारे पुरे देही नैव कुर्वन्न कारयन् ॥ 13 ॥
* अतो मनस्यैव कर्मन्यासोऽस्वातन्त्र्यापेक्षया ॥ 13 ॥
// इतश्च कर्मणां ब्रह्मण्याधानं नाम तत्र स्वस्य स्वातन्त्र्याभिमानत्याग एव । नतु स्वरूपपरित्याग इत्याह -- अत इति ॥ ``ब्रह्मण्याधाय कर्माणि" इति संन्यासो ह्युच्यते । तल्लक्षणं च `'सर्वकर्माणि" इत्यनेन प्रपञ्च्यते । तत्र कर्मणां स्वरूपपरित्यागाभावादेव हि मनसैव त्यागोऽभिहितः । अतश्च नात्रापि कर्मणां स्वरूपत्यागोऽर्थ इति भावः । मनसैव त्यागाभिधाने कथं स्वरूपत्यागाभाव इत्यत आह -- अस्वातन्त्र्येति ॥ मनसैव कर्मन्यासो नाम स्वातन्त्र्याभिमानपरित्याग एव । नतु स्वरूपत्यागः । तथात्वे मनसेति विशेषणवैयर्थ्यादिति भावः ॥ 13 ॥
न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः ।
न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते ॥ 14 ॥
नादत्ते कस्यचित्पापं न चैव सुकृतं विभुः ।
अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः ॥ 15 ॥
ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः ।
तेषामादित्यवद् ज्ञानं प्रकाशयति तत्परम् ॥ 16 ॥
तद् बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणाः ।
गच्छन्त्यपुनरावृत्तिं ज्ञाननिर्धूतकल्मषाः ॥ 17 ॥
* यथा पितृदत्तं पालकत्वं राजपुत्राणामेवं परमात्मदत्तं क्रियास्वातन्त्र्यलक्षणं कर्तृत्वं क्रियानिष्पन्नधर्मादिरूपकर्मणि स्वातन्त्र्यं च जीवानामप्यस्तीत्याशङ्कां परिहरति -- न कर्तृत्वमित्यादिना ॥ क्रियानिष्पन्नधर्मादिरूपकर्मणि स्वातन्त्र्यं च जीवानामप्यस्तीत्याशङ्कां परिहरति -- न कर्तृत्वमित्यादिना ॥ क्रियायामदृष्टोत्पादने फले च स्वातन्त्र्यं लोकस्य न सृजतीश्वर इत्यर्थः । अन्यथा लोकस्येति विशेषणं व्यर्थम् । जनपदे निवसतां तद्वित्तभोजिनामप्याधिपत्यादानान्न दत्ता जनपदा राज्ञा स्वपुत्राणामितिवत् स्वयमेव भवति भावयति चेति स्वभावो भगवान् । स्वभावत्वात् स्वयमेव कर्तृत्वादिषु प्रवर्तते ।
<लन्ग्=कन्>// यदुक्तं जीवानां स्वातन्त्र्याभावापेक्षयैवाकर्तृत्वं, परतन्त्रकर्तृत्वं त्वस्त्येवेति न तद्युक्तम् । ``न कर्तृत्वं" इत्युत्तरवाक्यविरोधादित्यत आह -- यथेति ॥ स्वतो जीवानां स्वतन्त्रकर्तृत्वाद्यभावेऽपि परमात्मदत्तं तदस्ति । अतः कथं ब्रह्मण्याधानमुच्यत इत्याशङ्कामेवात्र परिहरति । नतु जीवानां सर्वात्मना कर्तृत्वाभावं वक्तीति भावः । कर्मफलसंयोगे च स्वातन्त्र्यमित्यपि संयोज्यम् । अनेन ``न कर्तृत्वं न कर्माणि" इति पौनरुक्त्यं च परिहृतम् । नन्वत्र कर्तृत्वाद्यभाव एवोच्यते, नतु तत्रास्वातन्त्र्यम् । अतः कथमनेनैषा शङ्का परिह्रियत इत्यत आह -- क्रियायामिति ॥ कर्तृत्वादिकं न सृजतीत्यस्य तत्र स्वातन्त्र्यं न सृजतीत्येवार्थः । अतो भवत्येतदाशङ्कापरिहार इत्यर्थः । नन्वत्रेश्वरस्यैव कर्तृत्वाद्यभाव उच्यत इति किं न स्यादित्यत आह -- अन्यथेति ॥ यद्यत्रेश्वरस्यैव कर्तृत्वाद्यभाव उच्यते तदा लोकस्य कर्तृत्वादिकं न सृजतीति व्यर्थं स्यादित्यर्थः ।
यदुक्तं जीवस्य पारतन्त्र्येण कर्तृत्वाद्यस्तीति न तद्युक्तम् । कर्तृत्वादि ईश्वरो लोकस्य न सृजतीत्युक्तत्वात् । नच तत्र तस्य स्वातन्त्र्यं न सृजतीत्यर्थः । कर्तृत्वादिसद्भावेऽपि स्वातन्त्र्याप्रदानाभिप्रायेण कर्तृत्वादिकं न सृजतीत्येवं जातीयप्रयोगादर्शनादित्यत आह -- जनपद इति ॥ यद्यत्र जीवानां सर्वात्मनेश्वरस्य च कर्तृत्वं न निषिध्यते तर्~हि ``स्वभावस्तु प्रवर्तते" इति स्वभावादेव प्रवृत्तिकथनं न युज्यत इत्यत आह -- स्वयमेवेति ॥ नात्र स्वभावपदेन प्रसिद्धस्वभावोऽ- भिधीयते । येनोक्तविरोधः । किन्तु स्वस्थितावन्यकरणे च परनिरपेक्षत्वाद्भगवानेवेत्यर्थः । प्रसिद्धपदपरित्यागेनाप्रसिद्धपदप्रयोगः किमर्थमित्यतो हेतुसूचनार्थमिति भावेन वाक्यार्थमाह -- स्वभावत्वादिति ॥
*``स्वातन्त्र्याद् भगवान् विष्णुः स्वभाव इति कीर्तितः ।
तत् स्वातन्त्र्यं कदाप्येष नान्यस्य सृजति क्वचित् ॥
स्वातन्त्र्यादेव पापादिसम्बन्धः कुर्वतोऽपि न ।
अज्ञानावृतबुद्धित्वादीदृशं तं न जानते ॥" इति महावाराहे । ``अहं सर्वस्य प्रभवः", ``तपाम्यहमहं वर्षम्", ``पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च", ``न ऋते त्वत्क्रियते किञ्चनारे", ``देवस्यैष स्वभावोऽयम्", ``लोकवत्तु लीलाकैवल्यम्" इत्यादेर्नास्यास्वाभाविकं कर्तृत्वमकर्तृत्वं वा । विपरीतप्रमाणाभावाच्च । अनिर्वाच्यनिरासादेव च निरस्तोऽयं पक्षः । नच सर्वविशेषराहित्यवादिनां शून्यवादात्कश्चिद् विशेषः । नहि सर्व विशेषरहितमित्युक्ते तदस्तीति सिद्ध्यति । वाच्यत्वलक्ष्यत्वास्तित्वादीनामपि तद्विशेषत्वात् ।
// ननु किमर्थमेवमर्थान्तरं कल्पनीयम् ? जीवस्येवेश्वरस्य च कर्तृत्वादिकं नास्त्येव । विश्वप्रवृत्तिस्तु स्वभावादेवेत्यर्थः किं न स्यात्? लोकस्येत्यस्य लोकविषय इत्यर्थोपपत्तेरित्यतः स्वोक्तार्थे स्मृतिसम्मतिमाह -- स्वातन्त्र्यादिति ॥ नान्यस्य सृजति । अपितु स्वयमेव प्रवर्तत इति शेषः । ईश्वरस्यैव कर्तृत्वे कर्मलेपः स्यादित्यत आह -- स्वातन्त्र्यादेवेति ॥ अनेन `नादत्ते' इत्यस्यार्थोऽप्युक्तो भवति । एवं सर्वेषु स्थित्वा स्वातन्त्र्येण कर्ता ईश्वरोऽस्ति चेत् कथं न दृश्यत इत्यत आह -- अज्ञानेति ॥ एतेनाज्ञानेति व्याख्यातं भवति ।
यदुक्तमीश्वरः स्वयमेव भावयतीति न तद्युक्तम् । तस्य कर्तृत्वाभावात् । तस्य कर्तृत्वसद्भावेऽपि तस्यास्वाभाविकत्वादित्यत आह-- अहमिति ॥ अहं सर्वस्येति वचनद्वयं कर्तृत्वसद्भावे मानम् । परास्येत्यादिकं कर्तृत्वस्य स्वाभाविकत्वे । त्वदृते दूरे समीपे वा किञ्चन केनापि न क्रियत इत्यर्थः । अत्र भगवदितरस्य कर्तृत्वाभावोक्त्या ईश्वरकर्तृत्वस्यापराधीनत्वसम्भवेन स्वाभाविकत्वमेवोच्यते । लोकवदित्यत्रापि फलाद्यपेक्षाऽभावेन कर्तृत्वोक्त्या तस्य स्वाभाविकत्वमेवोच्यते । इतश्च नेश्वरस्य अकर्तृत्वमस्वाभाविकं कर्तृत्वं चेत्याह -- विपरीतेति ॥ नन्वस्माभिरीश्वरस्य कर्तृत्वमस्वाभाविकपदेनानिर्वाच्यत्वमभिप्रेयते । नतु फलापेक्षं पराधीनं वा । अतो नोदाहृतवचनविरोध इत्यत आह -- अनिर्वाच्येति ॥ ईश्वरस्य कर्तृत्वमनिर्वचनीयमिति पक्षो द्वितीयाध्यायेऽनिर्वाच्यवस्तुनो निरस्तत्वादेव निरस्तः । अतो न पुनरत्र निरसनीय इति भावः ।
ननु ब्रह्मणः सर्वविशेषरहितत्वात् कथं परमार्थतः कर्तृत्वं स्यादित्यत आह -- नचेति ॥ भवेद् ब्रह्मणः कर्तृत्वस्यापारमार्थिकत्वं, यदि तस्य सर्वविशेषराहित्यं स्यात् । नच तद्युक्तम् । तथात्वे ब्रह्मणः शून्यत्वापत्त्या तदभ्युपगन्तरूणां शून्यवादित्वापातादिति भावः । सर्वविशेषरहितत्वेऽपि न ब्रह्मणः शून्यत्वापत्तिः, अस्तित्वादित्यत आह -- न हीति ॥ न भवेद् ब्रह्मणः शून्यत्वापत्तिः, यदि तस्यास्तित्वं सिद्ध्येत् । नच तत्सिद्धिः । सर्वविशेषरहितमित्यङ्गीकारादिति भावः । सर्वविशेषरहितत्वेऽपि कुतोऽस्तित्वं न सिद्ध्यतीत्यत आह -- वाच्यत्वेति ॥ अस्तित्वे ब्रह्मणः अस्तित्वमस्तिशब्दवाच्यत्वं वा स्यात् । तस्य च विशेषत्वात् न तत्सर्वविशेषरहितस्य युज्यत इति भावः ।
भवेन्निर्विशेषत्वेऽस्तित्वासिद्धिः, यद्यस्तित्वं ब्रह्मणो विशेषतया अङ्गीक्रियते । नैतदस्ति । तस्य ब्रह्मस्वरूपमात्रत्वादित्यत आह -- अन्यथेति ॥ यद्यस्तित्वादिकं ब्रह्मणः स्वरूपमात्रं न तद् विशेषस्तर्~हि ब्रह्म ब्रह्मेतिवदस्ति ब्रह्मेत्यादिशब्दानां पर्यायत्वं स्यात् । ततश्च ``अस्ति ब्रह्मेति चेद्वेद" इत्यादि सहप्रयोगानुपपत्तिः स्यात् । तथा चोपनिषदां पुनरुक्तिदोषेण उन्मत्तवाक्यवदनादरणीयत्वं स्यादिति भावः । ब्रह्मण्यस्तित्वादिविशेषाभावेऽपि आरोपितासत्त्वादिविशेषव्यावृत्तिकथन- द्वारा अस्त्यादिपदानि तल्लक्षयन्ति । अतो न शब्दानां पर्यायत्वादीत्यत आह -- व्यावर्त्येति ॥ भवेदस्त्यादिपदानामपर्यायत्वं, यद्यस्त्यादिपदानि ब्रह्मणोऽसत्त्वादि व्यावर्तयन्ति । नच तद्युक्तम् । व्यावर्त्यासत्त्वादिविशेषव्यावृत्तेः व्यावृत्ततयाऽङ्गीकृतब्रह्मगतास्तित्वादि- विशेषनिबन्धनत्वात् । तेषां चानङ्गीकारात् । ब्रह्मण्यस्तित्वादिविशेषाभावेऽपि तद् व्यावृत्तिप्रसङ्गात् । गङ्गापदलक्ष्येऽपि तीरे गङ्गात्वाभावेऽपि अगङ्गात्वव्यावृत्तिप्रसङ्गादिति भावः ।
* अन्यथा `अस्ति ब्रह्म' इत्यादीनां शब्दानामपि पर्यायत्वादयो दोषाः । व्यावर्त्यविशेषश्च व्यावृत्तविशेषनिबन्धन एव । अन्यथा वैय्यर्थ्यमेव स्यात् । नच सर्वशब्दावाच्यस्य लक्ष्यत्वम् । नच सर्वप्रमाणागोचरमस्तीत्यत्र किञ्चिन्मानम् । नास्तित्वं तु सप्तमरसादिवददर्शनात् सिध्यति । स्वप्रकाशत्वं च नामानं सिद्ध्यति । स्वयम्प्रकाशत्वं च ततोऽतिरिक्तं चेद् विशेषाङ्गीकारः । न चेत्तदेव प्रमाणगोचरम् । तत्प्रमाणाभावे परप्रकाशत्वमात्रनिरासे स्वप्रकाशत्वे प्रमाणाभावादप्रकाशत्वमेव स्यात् । अर्थतः सिद्धिरित्यर्थापत्तितः सिद्धिस्तत्प्रमाणतः सिद्धिर्वा । उभयथाऽपि प्रमेयत्वमेव स्यात् । स्वप्रकाशशब्देन स्वमितत्वानङ्गीकारात् परमितत्वानङ्गीकाराच्चासिद्धिरेव । प्रकाश इत्युक्तेऽपि स्वमन्यं वा किञ्चित् प्रकाश्यं विना न दृष्ट एव भोजनादिवत् । कर्तृकर्मविरोधश्चानुभवविरुद्धः । ज्ञानं च ज्ञेयं ज्ञातारं च विना न दृष्टम् । अतः शून्यवादान्न कश्चित् विशेषः । अतोऽनन्तदोषत्वादुपरम्यते ।
``हरिः स्वभावतः कर्ता सर्वमन्यत्तदीरितम् ।
अतः सा कर्तृता तस्य न कदाचिद्विनश्यति ॥" इति पैङ्गिश्रुतिः ॥14-17 ॥
// इतोऽप्यस्त्यादिपदानि अस्तित्वादिविशेषबोधकानि नेति न युक्तमित्यत आह -- अन्यथेति ॥ यद्यस्त्यादिपदानि न अस्तित्वादिब्रह्मविशेषबोधकानि तर्~हि तेषां वैयर्थ्यमेव स्यात् । ब्रह्मजिज्ञासुं प्रति ब्रह्मकथनस्यैव सार्थक्यात् । ब्रह्मणश्च ब्रह्मपदादेवावगतत्वात् । न चासत्त्वादिव्यावृत्तिः प्रयोजनम् । तदसम्भवस्योक्तत्वात् । ब्रह्मकुतो व्यावृत्तमित्यजिज्ञासितत्वाच्च । अजिज्ञासितत्वेऽपि ब्रह्मण्यसत्त्वादिभ्रान्तिः निवार्यत इति चेन्न । विकल्पासहत्वात् । भ्रान्तिः किं प्रतीतेऽप्रतीते वा ब्रह्मणि भवेत् ? नाद्यः । ब्रह्मप्रतीतौ तन्मात्रस्य सत्त्वादेरपि प्रतीतत्वेन भ्रान्त्यनवकाशात् । ब्रह्मप्रतीतावपि सत्त्वाद्यप्रतीतौ तन्मात्रत्वानुपपत्तेः । न द्वितीयः । अदृष्टकल्पनाप्रसङ्गादिति भावः ।
इतश्च न अस्त्यादिपदैरसत्त्वादिव्यावृत्तिद्वारा ब्रह्म लक्ष्यम् । तस्य सर्वशब्दावाच्यत्वाङ्गीकारात् । शब्दवाच्यस्यैव लक्ष्यत्वदर्शनादित्याह-- नचेति ॥ नच तत्पक्षे ब्रह्मणोऽस्तित्वं सिद्ध्यति । तत्प्रमाणाभावात् । प्रमाणं विनाऽर्थसिद्धेः क्वाप्यदर्शनात् । प्रमाणकथने च सर्वप्रमाणागोचरत्वाङ्गीकारभङ्ग इति भावः । यद्यस्तित्वे प्रमाणाभावात् न तत्सिद्ध्यतीत्युच्यते तर्~हि ब्रह्मणो नास्तित्वमपि न सिद्ध्यति । तत्र प्रमाणाभावात् । तथाच न शून्यवादाविशेषापादनं ब्रह्मवादस्य युज्यत इत्यत आह-- नास्तित्वमिति ॥ ब्रह्मणो न नास्तित्वेऽस्माभिः पृथक् प्रमाणं वक्तव्यम् । तस्यास्तित्वप्रमाणभावेनैव सिद्धेः । यथा खलु सप्तमरसाद्यस्तित्वे प्रमाणाभावात् नास्तित्वं सिद्ध्यति तथैवेत्यर्थः । अनेनानुपलब्धिलिङ्गकमनुमानं सूचितं भवति ।
ननु प्रमाणावेद्यत्वेऽपि ब्रह्मणो न नास्तित्वं वाच्यम् । स्वप्रकाशतयैव तत्सिद्धेरिति चेन्न, विकल्पानुपपत्तेः । तथाहि-- स्वप्रकाशत्वे ब्रह्मणः प्रमाणमस्ति न वा ? न तावद्दवितीयः । प्रमाणाभावे तदसिद्धेरित्याह -- स्वप्रकाशं चेति ॥ आद्ये स्वप्रकाशत्वं ब्रह्मातिरिक्तं तत्स्वरूपमेव वा ? प्रथमं दूषयति -- स्वयम्प्रकाशत्वमिति ॥ यदि ब्रह्मणः स्वातिरिक्तं स्वयम्प्रकाशत्वं प्रामाणिकं स्यात्तदा तस्य सविशेषत्वं प्रसज्यत इत्यर्थः । द्वितीयं दूषयति -- नचेदिति ॥ यदि स्वयम्प्रकाशत्वं न ब्रह्मातिरिक्तं, किन्तु तत्स्वरूपमेव तर्~हि स्वयम्प्रकाशत्वे प्रमाणसद्भावाङ्गीकारे ब्रह्मैव प्रमाणगम्यमङ्गीकृतं स्यात् । तथाचाप्रमेयत्वभङ्ग इत्यर्थः ।
न स्वप्रकाशपदेन स्वविषयप्रकाशत्वमुच्यते । तेन तस्य ब्रह्मातिरिक्तत्वे ब्रह्मणः सविशेषत्वं स्यात् । किन्तु परप्रकाशत्वाभाव एवेत्यत आह -- परेति ॥ यदि स्वप्रकाशपदेन परप्रकाशनिरासमात्रमभिप्रेयते तर्~हि ब्रह्मणः प्रकाशराहित्यमेव स्यात् । परप्रकाशस्यानभिमतत्वात् । स्वविषयप्रकाशत्वाख्यस्य स्वप्रकाशत्वस्योक्तरीत्या प्रमाणाभावेन, भावे च सविशेषत्वप्रमेयत्वप्राप्त्या निरस्तत्वादिति भावः ।
तथापि न नास्तित्वं ब्रह्मणो वक्तुं शक्यते । ``अस्ति ब्रह्म" इत्यादि श्रुत्या असत्त्वादिव्यावृत्तिद्वारा ब्रह्मणि लक्षितेऽर्थतस्तस्यास्तित्वसिद्धेरिति चेन्न । दूषितत्वात् । अभ्युपगम्याप्याह -- अर्थत इति ॥ तत्प्रमाणत इति ॥ अस्ति ब्रह्मेति श्रुतिप्रमाणत इत्यर्थः । यदुक्तं स्वप्रकाशत्वेन ब्रह्म सिद्ध्यतीति तद्व्याहतं चेत्याह -- स्वप्रकाशेति ॥ न स्वप्रकाशपदेन स्वविषयप्रकाशत्वमङ्गीक्रियते । किन्तु परप्रकाशत्वानङ्गीकारमात्रमेव । अतः स्वपरप्रकाशशून्यतया स्वप्रकाशत्वेन ब्रह्मणोऽसिद्धिरेव स्यान्न तु तेन तत्सिद्धिरित्यर्थः ।
किञ्च भवेद् ब्रह्मणः स्वप्रकाशता यदि प्रकाशत्वमेव सम्भवेत् । नच तत्सम्भवति । ब्रह्माख्यप्रकाशस्य प्रकाश्यरहितत्वात् । न तावत् स्वयं प्रकाश्यम् । अनङ्गीकारात् । नाप्यन्यत् । तदभावात् । नच प्रकाश्यरहितप्रकाशरूपं ब्रह्मेति वाच्यम् । स्वमन्यं वा प्रकाश्यं विना प्रकाशस्यादृष्टत्वात् । यथा भोज्यरहितं भोजनं न दृष्टं तथैवेत्याह -- प्रकाश इति ॥ नन्वेकस्यां क्रियायामेकस्यैव कर्तृत्वं कर्मत्वं च विरुद्धम् । अतः कथं प्रकाश्यं विना प्रकाशो न दृष्ट इत्युच्यते । स्वस्यैव प्रकाश्यत्वे स्वयमेव प्रकाशयति प्रकाशते चेत्येकस्यैव कर्तृत्वकर्मत्वापत्तेरित्यत आह -- कर्तृकर्मेति ॥ मामहं जानामीत्येकस्यैवैकस्यां क्रियायां कर्तृत्वकर्मत्वानुभवात् नैकस्यां क्रियायां कर्तृकर्मणोरैक्यं विरुद्धमिति भावः ।
ननु प्रकाशो नाम द्रव्यम् । अतः कथं तस्य भोजनादिवत् कर्मापेक्षेत्याशङ्कां परिहरन् अधिकं च दोषमाह -- ज्ञानं चेति ॥ ब्रह्मणः प्रकाशत्वं नाम ज्ञानत्वमभ्युपगतम् । नच ज्ञानत्वं ब्रह्मणो युक्तम् । ज्ञातृज्ञेयरहितत्वात् । तद्रहितज्ञानस्यादृष्टत्वादित्यर्थः । उपसंहरति -- अत इति ॥ दुष्टत्वात् ॥ कर्तृत्वं नास्ति, सद्भावे वाऽस्वाभाविकमिति मतस्य । पुनरीश्वरस्य स्वभावतः कर्तृत्वे श्रुतिं चाह -- हरिरिति ॥ 14-17 ॥
विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि ।
शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ॥ 18 ॥
इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः ।
निर्दोषं हि समं ब्रह्म तस्माद् ब्रह्मणि ते स्थिताः ॥ 19 ॥
न प्रहृष्येत्प्रियं प्राप्य नोद्विजेत् प्राप्य चाप्रियम् ।
स्थिरबुद्धिरसम्मूढो ब्रह्मविद् ब्रह्मणि स्थितः ॥ 20 ॥
* ``विषमेष्वपि जीवेषु समो विष्णुः सदैव तु ।
यत्तृणादिगतस्यापि गुणाः पूर्णा हरेः सदा ॥" इति च ॥18-20 ॥
// ``ज्ञानेन" इति प्रकृतज्ञानस्य साधनान्तरमुच्यते ``विद्या" इति । तत्र न ब्राह्मणादिविषये समबुद्धित्वं विवक्षितम् । किन्तु तद्गतपरब्रह्मविषय एव । ब्राह्मणादीनां विषमत्वात् तद्गतब्रह्मण एव समत्वात् विपरीतज्ञानस्य च ज्ञानसाधनत्वादिति भावेन जीवानां वैषम्ये ब्रह्मणः साम्ये च प्रमाणमाह -- विषमेष्विति ॥ अनेन ``निर्दोषं हि समं ब्रह्म" इत्येतदपि व्याख्यातं भवति ॥ 18-20 ॥
बाह्यस्पर्शेष्वसक्तात्मा विन्दत्यात्मनि यत्सुखम् ।
स ब्रह्मयोगयुक्तात्मा सुखमक्षय्यमश्नुते ॥ 21 ॥
ये हि संस्पर्शजा भोगा दुःखयोनय एव ते ॥
आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः ॥ 22 ॥
शक्नोतीहैव यः सोढुं प्राक् शरीरविमोक्षणात् ।
कामक्रोधोद्भवं वेगं स युक्तः स सुखी नरः ॥ 23 ॥
* इदानीमपि परमात्मनि स्मृतमात्रे सुखं विन्दतीति यत्तदा स एव सम्यग्युक्तः किमु ? ॥21-23 ॥
// यदुक्तं योगरूपसंन्यासस्य निःश्रेयसकरत्वं तदुपपाद्यते ``बाह्य" इति । तद्दुर्गमार्थत्वात् व्याचष्टे -- इदानीमिति ॥ संसारेऽपि परमात्मस्मरणाद्यल्पयोगयुक्तः संन्यासी सुखं विन्दति यदा तदा ध्यानादिमहायोगयुक्तो मोक्षादिनिःश्रेयसं विन्दतीति किमु वाच्यमित्यर्थः ॥21-23॥
योऽन्तः सुखोऽन्तरारामस्तथाऽंतर्ज्योतिरेव यः ।
स योगी ब्रह्मनिर्वाणं ब्रह्मभूतोऽधिगच्छति ॥ 24 ॥
लभन्ते ब्रह्मनिर्वाणमृषयः क्षीणकल्मषाः ।
छिन्नद्वैधाऽऽयतात्मानः सर्वभूतहिते रताः ॥ 25 ॥
कामक्रोधवियुक्तानां यतीनां यतचेतसाम् ।
अभितो ब्रह्मनिर्वाणं वर्तते विदितात्मनाम् ॥ 26 ॥
स्पर्शान्कृत्वा बहिर्बाह्यांश्चक्षुश्बैवान्तरे भ्रुवोः ।
प्राणापानौ समौ कृत्वा नासाभ्यान्तरचारिणौ ॥ 27 ॥
* ब्रह्मणि भूतः । अन्यथा पुनर्ब्रह्म गच्छतीति विरोधाच्च । अन्तः सुखादिकं च ब्रह्मदर्शनात् ॥ 24-27॥
// ज्ञानिलक्षणमुच्यते ``योऽन्तः सुखः" इति । तत्र ब्रह्मभूतपदं ब्रह्मणैकीभूत इत्यन्यथा प्रतीति निरासाय व्याचष्टे -- ब्रह्मणीति ॥ मनसेति शेषः । प्रतीत एवार्थः किं न स्यादिति चेन्न । ज्ञानिनोऽपि ब्रह्मभेदस्य साधितत्वात् । दोषान्तरं चाह -- अन्यथेति ॥ यद्यत्र ज्ञानिनो ब्रह्मभावोऽभिधीयते तर्~हि ब्रह्माधिगच्छतीत्यर्थः । नन्वत्र अन्तःसुखत्वादिकं भवतु ज्ञानिलक्षणम् । अन्तर्ज्योतिष्ट्वं कथं ब्रह्मदर्शिनो लक्षणं स्यात् । यावता ब्रह्मदर्शित्वमेव तदित्यत आह -- अन्तः सुखत्वादिकमिति ॥ नात्रान्तर्ज्योतिष्ट्वं ज्ञानिलक्षणमुच्यते । किन्तु अन्तः सुखत्वाद्येव । तत्र कारणत्वेनान्तर्ज्योतिष्ट्वमुच्यत इति भावः ॥24-27॥
यतेन्द्रियमनोबुद्धिर्मुनिर्मोक्षपरायणः ।
विगतेच्छाभयक्रोधो यः सदा मुक्त एव सः ॥ 28 ॥
भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् ।
सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति ॥ 29 ॥
॥ ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे कृष्णार्जुनसंवादे संन्यासयोगो नाम पञ्चमोऽध्यायः ॥ 5 ॥
*``अमुक्तो मुक्तसादृश्यान्मुक्त एव हि तत्त्वदृक् ।
किमु मुक्तिगतस्तस्मात् ज्ञानमेवाधिकं नरे ॥" इति नारदीये ॥ 28 ॥ 29 ॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीतातात्पर्यनिर्णये पञ्चमोऽध्यायः ॥ 5 ॥
// ब्रह्मयोगादिपदेन प्राकृतध्यानप्रकार उच्यते ``स्पर्शन्" इति । तत्र ध्यानिनोऽमुक्तस्य कथं ``मुक्तः एव सः" इति मुक्तत्वमुच्यत इत्याशङ्कां स्मृत्यैव परिहरति -- अमुक्त इति ॥ मुक्तसादृश्यमभिमानादि परित्यागः । मुक्त एवोच्यत इति शेषः । यस्मात् ज्ञानसामर्थ्येन एवं फलं भवति तस्मात् ॥ 28-29 ॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्य श्रीमद्भगवद्गीतातात्पर्यनिर्णयस्य टीकायां जयतीर्थमुनिविरचितायां न्यायदीपिकायां पञ्चमोऽध्यायः ॥
श्रीवादिराजगुर्वन्तर्गतमध्वेशाभिन्नलक्ष्मीहयग्रीवात्मककृष्णार्पणमस्तु ॥
***********************************************************************************
॥श्रीगुरुभ्योनमः ॥
श्रीवादिराजगुर्वन्तर्गत श्रीमध्वेशाभिन्न श्रीलक्ष्मीहयग्रीवायनमः ॥
अथ षष्ठोऽध्यायः
श्रीभगवानुवाच -
अनाश्रितः कर्मफलं कार्यं कर्म करोति यः ।
स संन्यासी च योगी च न निरग्निर्न चाक्रियः ॥ 1 ॥
* ॥हरिः ॐ ॥ ध्यानमत्रोच्यते । ``स ब्रह्मनिष्ठस्तु यतिर्महात्मा शरीरमग्निं च मुखे जुहोति" इत्यादेर्न यतेरप्यनग्नित्वम् । आत्मसमारोपणाच्च ॥ 1 ॥
// ॥हरिः ॐ ॥ एतदध्यायप्रतिपाद्यमर्थं दर्शयति -- ध्यानमिति ॥ ``योगे त्विमां श्रुणु" इति प्रतिज्ञातम् । योगश्च कर्मयोगो ध्यानयोगश्चेति द्वेधा भवति । तत्र सङ्क्षेपविस्तराभ्यां कर्मयोगो निरूपितः । ध्यानयोगप्रकारश्च सङ्क्षेपेण पञ्चमान्ते निरूपितो विस्तरेणास्मिन्नध्याये उच्यत इति भावः ।
प्रकृतं ध्यानमग्न्यादिपरित्यागेन निस्सङ्गतया वर्तमानस्य भवतीत्याशङ्का निरस्यते ``अनाश्रित" इति । तत्र निरग्नेः संन्यासित्वं योगित्वं च नास्तीत्युक्तं नोपपद्यते । तथा सति यत्याश्रमस्याननुष्ठेयत्वप्रसङ्गात् । यतेर्निरग्नित्वेन योगसंन्यासाभावप्राप्तेः । तयोरेव श्रेयसाधनत्वादित्यत आह -- स इति ॥ भवेदनेन यत्याश्रमस्याननुष्ठेयत्वप्रसङ्गो यदि यतेर्निरग्नित्वं स्यात् । नच तदस्ति । स ब्रह्मनिष्ठ इति तस्याप्यग्निश्रवणादिति भावः । इतश्च न यतेरग्नित्वमित्याह -- आत्मेति ॥ यत्याश्रमस्वीकारकाले पूर्वाश्रमस्वीकृताग्नेरात्मनि समारोपणाच्च न यतेरनग्नित्वमित्यर्थः । अनेन न केवलं निरग्निरक्रियो यतिरेव संन्यासी योगी च । किन्त्वनाश्रितः कर्मफलं कार्यं कर्म करोति यः सोऽपीत्यपव्याख्यानं च निराकृतं भवति ॥ 1 ॥
यं संन्यासमिति प्राहुर्योगं तं विद्धि पाण्डव ।
न ह्यसंन्यस्तसङ्कल्पो योगी भवति कश्चन ॥ 2 ॥
* योगविशेष एव संन्यास इत्यर्थः ॥2॥
// संन्यासी योगी चेत्युक्त्या प्राप्ता संन्यासयोगयोः पृथक्त्वाशङ्का निवार्यते ``संन्यासम्" इति । तत्र संन्यासयोगयोरैक्ये कथं पृथगुक्तिरित्यत आह -- योगेति ॥ 2 ॥
अरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते ।
योगारूढस्य तस्यैव शमः कारणमुच्यते ॥ 3 ॥
* सम्पूर्णोपायो योगारूढः ।
``नानाजनस्य शुश्रूषा कर्तव्या करवन्मितेः ।
योगार्थिना तु सा कार्या योगस्थेन हरौ स्थितिः ॥
तेनापि स्वोत्तमानां तु कार्याऽन्यैरखिलेष्वपि ।
शक्तितः करणीयेति विशेषोऽसिद्धसिद्धयोः ॥
प्राप्तोपायस्तु सिद्धः स्यात् प्रेप्सुः साधक उच्यते ।
तस्य प्राण्युपकारेण सन्तुष्टो भवतीश्वरः ॥
सिद्धोपायेन विष्णोस्तु ध्यानव्याख्यार्चनादिकम् ।
कार्यं नान्यत्तस्य तेन तुष्टो भवति केशवः ॥" इति प्रवृत्तवचनान्न विरोधः ।
``शमो मन्निष्ठता बुद्धेर्दम इन्द्रिय निग्रहः ॥" इति भागवते ॥3॥
// कर्मयोगमध्ये कीदृशो योगो ज्ञानार्थिनोऽवश्यापेक्षित इत्यत उच्यते ``अरुरुक्षोः" इति । तत्र योगारूढपदस्य दुर्गमार्थत्वादर्थमाह -- सम्पूर्णेति ॥ अत्र ज्ञानार्थिनः कर्म अपेक्षितमित्युक्त्वा ज्ञानिनः कर्मोपशमोऽपेक्षित इत्युच्यते । तथा च न निरग्निर्न चाक्रिय इत्यादिविरोध इत्यत आह -- नानेति ॥ नानाजनस्य उत्तमाधममध्यमस्य ॥ करवन्मितेरिति ॥ राजादिकरवदावश्यकतया प्रमितत्वादित्यर्थः । योगस्थेनापि शुश्रूषायाः कार्यत्वे को विशेषो योगार्थियोगस्थयोरित्यत आह -- तेनापीति ॥ अन्यैर्योगार्थिभिः । योगार्थियोगस्थयोर्विशेषे वक्तव्ये असिद्धसिद्धयोर्विशेषः किमर्थमुच्यत इत्यत आह -- प्राप्तेति ॥ नानाजनस्य शुश्रूषां कथं ज्ञानस्य साधनमित्यतो भगवत्प्रसादद्वारेत्याह -- तस्येति ॥ नन्वज्ञानामपि हरौ स्थितत्वाद्योगस्थेन हरौ स्थितिः कार्येति किमुच्यत इत्यत उक्तं विवृणोति -- सिद्धेति ॥ अन्यत् नानाजनशुश्रूषादि । ज्ञानिनो मोक्षनियमात् किं ध्यानादिनेत्यत आह -- तस्येति ॥ ततश्च मुक्तावानन्दपूर्तिरिति भावः । अत्र कर्मपदेन नानाजनशुश्रूषैवोच्यते नतु सन्ध्यावन्दनादि । शमपदेन च नानाजनशुश्रूषोपशम एवोच्यते । भगवद्ध्यानादिकं च । न सन्ध्यावन्दनादिकर्मोपशमः । नानाजनस्येति स्मृतिसमाख्यानात् । अतो नास्य पूर्वोक्तिविरोध इति भावः । शमपदस्य विष्णुध्यानादिवाचित्वे स्पष्टार्था स्मृतिं चाह -- शम इति ॥ 3 ॥
यदि हि नेन्द्रियार्थेषु न कर्मस्वनुषज्जते ।
सर्वसङ्कल्पसंन्यासी योगारूढस्तदोच्यते ॥ 4 ॥
* कथं नानुषज्यते । सर्वसङ्कल्पसंन्यासी । ``मयि सर्वाणि कर्माणि" इत्युक्तत्वात् । ``मदधीनमिदं ज्ञात्वा मत्संन्यासीति चोच्यते ।" इति च ॥4॥
// योगारूढलक्षणमुच्यते ``यदा हि" इति ॥ तत्र न कर्मस्वनुषज्यत इति ज्ञानिनः कर्माभावकथनान्न चाक्रिय इत्यादिविरोध इत्यत आह -- कथमिति ॥ नात्र ज्ञानिनः स्वरूपतः कर्मानुषङ्गोऽभिधीयते । किन्तु सर्वकर्मसु सङ्कल्पन्यासेनैव । तथा स्वयमेव व्याख्यातत्वादिति भावः । यदि सर्वकर्मसु सङ्कल्पन्यासस्तर्~हि कर्मस्वरूपन्यास एव प्राप्नोति । स्वरूपत्यागे सङ्कल्पत्यागायोगादित्यत आह -- मयीति ॥ भवेत्कर्मस्वरूपत्यागप्राप्तिर्यदि सङ्कल्पस्वरूपत्यागोऽभिप्रेतः स्यात् । न चासावस्ति । सङ्कल्पसंन्यासपदेन सङ्कल्पादेर्भगवदधीनताज्ञानस्यैवाभिप्रेतत्वात् । ``मयि सर्वाणि कर्माणि संन्यस्य"इत्यत्र संन्यासपदस्य भगवदधीनताज्ञानार्थतायाः समर्थितत्वादिति भावः । प्रमाणान्तरं चाह -- मदधीनमिति ॥4॥
उद्धरेदात्मनाऽऽत्मानं नात्मानमवसादयेत् ।
आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः ॥ 5 ॥
बन्धुरात्माऽऽत्मनस्तस्य येनात्मैवात्मना जितः ।
अनात्मनस्तु शत्रुत्वे वर्तेतात्मैव शत्रुवत् ॥ 6 ॥
* ``उद्धरेतैव संसारात् जीवात्मानं परात्मना ।
विष्णुर्बन्धुः सतां नित्यं परात्मा ह्यसतामरिः ॥
तत्प्रसादजया भक्त्या जितो यस्य वशे त्विव ।
वर्तते तस्य मित्रं स तदन्यस्य च शत्रुवत् ॥" इति च । परमात्मा समाहित इति वाक्यशेषात् ॥5॥6॥
// योगारोहस्य भगवत्प्रसादो मुख्यसाधनमित्युच्यते ``उद्धरेत्" इति । तत्राऽत्मपदं जीवादिमात्रविषयं न परमात्मविषयमित्यन्यथाप्रतीतिनिरासाय स्मृत्यैव व्याचष्टे -- उद्धरेतेति ॥ कुतः ? परमात्मना स्वात्मानमुद्धरेदित्यत आह -- विष्णुरिति ॥ कीदृशाः सन्तः कीदृशाः असन्त इत्यत उक्तं विवृणोति -- तदिति ॥ तदन्यस्य भक्त्याऽवशीकृतपरमात्मनः पुरुषस्य । इतोऽप्यत्र आत्मपदेन परमात्मग्रहणं युक्तमित्याह -- परमात्मेति ॥ येन आत्मा वशीकृतस्तस्यासौ बन्धुतया किं करोतीत्यपेक्षायां वाक्यशेषे वशीकृतोऽसौ परमात्मा तस्य हृदि सम्यगाहितो भवतीत्युक्तत्वात् पूर्वमप्यात्मपदेन परमात्मैवोच्यत इति ज्ञायत इति भावः ॥5॥6॥
जितात्मनः प्रशान्तस्य परमात्मा समाहितः ।
शीतोष्णसुखदुःखेषु तथा मानापमानयोः ॥ 7 ॥
ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रियः ।
युक्त इत्युच्यते योगी समलोष्टाश्मकाञ्चनः ॥ 8 ॥
* ``सर्वत्र विष्णोरुत्कर्षज्ञानं ज्ञानमितीर्यते ।
तद्विशेषपरिज्ञानं विज्ञानमिति गीयते ॥" इति च ॥7॥8॥
<लन्ग्=कन्>// योगारूढलक्षणं प्रपञ्च्यते ``शीतोष्ण" इति ॥ तत्र ज्ञानविज्ञानशब्दयोरर्थभेदं स्मृत्यैवाह -- सर्वत्रेति ॥ सर्वत्र वेदादौ ॥7॥8॥
सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु ॥
साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते ॥ 9 ॥
योगी युञ्जीत सततमात्मानं रहसि स्थितः ।
एकाकी यतचित्तात्मा निराशीरपरिग्रहः ॥ 10 ॥
शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः ।
नात्युच्छ्रितं नातिनीचं चेलाजिनकुशोत्तरम् ॥ 11 ॥
तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः ।
उपविश्यासने युञ्ज्याद्योगमात्मविशुद्धये ॥ 12 ॥
समं कायशिरोग्रीवं धारयन्नचलं स्थिरः ।
सम्प्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयत् ॥ 13 ॥
प्रशान्तात्मा विगतभीर्ब्रह्मचारीव्रते स्थितः ।
मनः संयम्य मच्चित्तो युक्त आसीत मत्परः ॥ 14 ॥
युञ्जन्नेव सदाऽऽत्मानं योगी नियतमानसः ।
शान्तिं निर्वाणपरमां मत्संस्थामधिगच्छति ॥ 15 ॥
नात्यश्नतस्तु योगोऽस्ति न चैकान्तमनश्नतः ।
न चातिस्वप्नशीलस्य जाग्रतो नैव चार्जुन ॥ 16 ॥
युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु ।
युक्तस्वप्नावबोधस्य योगो भवति दुःखदा ॥ 17 ॥
यदा विनियतं चित्तमात्मन्येवावतिष्ठते ।
निःस्पृहः सर्वकामेभ्यो युक्त इत्युच्यते तदा ॥ 18 ॥
यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता ।
योगिनो यतचित्तस्य युञ्जतो योगमात्मनः ॥ 19 ॥
*``यस्य यत्र यथा वृत्तिर्विहिता वर्तनं यथा ।
ज्ञानं वाऽपि समत्वं तद्विषमत्वमतोऽन्यथा ॥" इति महाविष्णुपुराणे ।
``अनिमित्तस्नेहवांस्तु सुहृज्जञात्वोपकारकृत् ।
मित्रं वधादिकृदरिर्द्वेष्यस्त्वप्रियमात्रकृत् ॥
उदासीनः स्नेहवतोऽप्यस्नेही तत्कृतानुकृत् ।
मध्यस्थ इति विज्ञेयः सुहृदेषु विशिष्यते ॥" इति नारदीये ॥9-19॥
// ननु सुहृदादीनां विषमत्वात् कथं तेषु ज्ञानिनः समबुद्धित्वमुच्यत इत्याशङ्कां स्मृत्यैव परिहरति -- यस्येति ॥ सुहृन्मित्रपदयोः अरिद्वेष्यपदयोः उदासीनमध्यस्थपदयोश्च एकार्थत्वप्रतीतिनिरासाय स्मृत्यैव तदर्थमाह -- अनिमित्तेति ॥ ज्ञात्वोपकारकृदिति ॥ स्वयमेव तस्य क्लेशस्थानं निरूप्योपकारकर्तेत्यर्थः ॥ 9-19 ॥
यत्रोपरमते चित्तं निरुद्धं योगसेवया ।
यत्र चैवात्मनाऽऽत्मानं पश्यन्नात्मनि तुष्यति ॥ 20 ॥
सुखमात्यन्तिकं यत्तद् बुद्धिग्राह्यमतीन्द्रियम् ।
वेत्ति यत्र न चैवायं स्थितश्चलति तत्त्वतः ॥ 21 ॥
यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः ।
यस्मिन् स्थितो न दुःखेन गुरुणाऽपि विचाल्यते ॥ 22 ॥
तं विद्याद् दुःखसंयोगवियोगं योगसञ्ज्ञितम् ।
स निश्चयेन योक्तव्यो योगोऽनिर्विण्ण चेतसा ॥ 23 ॥
सङ्कल्पप्रभावान् कामांस्त्यक्त्वा सर्वानशेषतः ।
मनसैवेन्द्रियग्रामं विनियम्य समन्ततः ॥ 24 ॥
शनैः शनैरुपरमेद् बुद्ध्या धृतिगृहीतया ।
आत्मसंस्थं मनः कृत्वा न किञ्चिदपि चिन्तयेत् ॥ 25 ॥
यतो यतो निश्चरति मनश्चञ्चलमस्थिरम् ।
ततस्ततो नियम्यैतदात्मन्येव वशं नयेत् ॥ 26 ॥
* आत्मानं विष्णुम् । आत्मना तत्प्रसादेन ॥20-26 ॥
// योगसम्पूर्तिस्वरूपमुच्यते ``यदा" इत्यादिना । तत्र आत्मनाऽऽत्मानमित्यात्मशब्दयोर्जीवादिविषयत्वप्रतीतिनिरासायाह- आत्मानमिति ॥ अन्यथा तोषायोगादिति भावः ॥20-26॥
प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमम् ।
उपैति शान्तरजसं ब्रह्मभूतमकल्मषम् ॥ 27 ॥
युञ्जन्नेवं सदाऽऽत्मानं योगी विगतकल्मषः ।
सुखेन ब्रह्मसंस्पर्शमत्यन्तं सुखमश्नुते ॥ 28 ॥
* ब्रह्मणि भूतम् ॥27-28॥
// योगफलमुच्यते ``प्रशान्त" इति । तत्र ब्रह्मभूतपदस्य अन्यार्थप्रतीतिनिरासायार्थमाह -- ब्रह्मणीति ॥ अन्यथा बहुप्रमाणविरोधादिति भावः । अनेन पूर्वोक्तं मत्संस्थापदमपि व्याख्यातं भवति ॥27-28॥
सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि ।
ईक्ष्यते योगयुक्तात्मा सर्वत्र समदर्शनः ॥ 29 ॥
यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति ।
तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ॥ 30 ॥
*सर्वभूतेषु स्थितं परमात्मानम् ॥29-30॥
// ध्येयमुच्यते -- ``सर्वभूतस्थम्" इति । तत्रात्मपदेन जीव उच्यत इत्यन्यथाप्रतीतिनिरासायाह -- सर्वेति ॥ भोक्तारमिति सङ्क्षेपोक्तौ परमात्मन एव ध्येयत्वोक्तेः, यो मामित्यनुवादाच्चेति भावः ॥29-30॥
सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः ।
सर्वथा वर्तमानोऽपि स योगी मयि वर्तते ॥ 31 ॥
*सर्वत्र विष्णुरेक इति स्थितः ॥31॥
// परमात्मध्यानफलमुच्यते -- `सर्व' इति । तत्र ``एकत्वमास्थितः" इत्येतदन्यथाप्रतीतिनिरासाय व्याचष्टे -- सर्वत्रेति ॥ अन्यथा सर्वभूतस्थितमिति स्ववचनविरोधादिति भावः ॥31॥
आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन ।
सुखं वा यदि वा दुःखं स योगी परमो मतः ॥ 32 ॥
अर्जुन उवाच --
योऽयं योगस्त्वया प्रोक्तः साम्येन मधुसूदन ।
एतस्याहं न पश्यामि चञ्चलत्वात् स्थितिं स्थिराम् ॥ 33 ॥
चञ्चलं हि मनः कृष्ण प्रमाथि बलवद् दृढम् ।
तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम् ॥ 34 ॥
श्रीभगवानुवाच -
असंशयं महाबाहो मनो दुर्निग्रहं चलम् ।
अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते ॥ 35 ॥
असंयतात्मना योगो दुष्प्राप्य इति मे मतिः ।
वश्यात्मना तु यतता शक्योऽवाप्तुमुपायतः ॥ 36 ॥
* अतो विष्ण्वनुवर्तिषु स्ववत् स्नेहः कर्तव्यः ॥32-36॥
// योगिन एव इत्थम्भावान्तरमुच्यते ``आत्मा" इति । तत्सर्वप्राणिविषयमित्यन्यथाप्रतीतिनिरासाय व्याचष्टे -- अत इति ॥ अत्र भगवदीयेष्वेव स्वस्मिन्निव स्नेहो विधीयते, न त्ववैष्णवेषु । बन्धुरात्मेति वैष्णवानामेव भगवत्प्रियत्वस्योक्तत्वात्, अनात्मन इत्यवैष्णवानां भगवदप्रियत्वस्योक्तत्वादिति भावः ॥32-36॥
अर्जुन उवाच
अयतिः श्रद्धयोपेतो योगाच्चलितमानसः ।
अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण गच्छति ॥ 37 ॥
कच्चिन्नोभयविभ्रष्टश्छिन्नाभ्रमिव नश्यति ।
अप्रतिष्ठो महाबाहो विमूढो ब्रह्मणः पथि ॥ 38 ॥
एतन्मे संशयं कृष्ण छेत्तुमर्~हस्यशेषतः ।
त्वदन्यः संशयस्यास्य छेत्ता न ह्युपपद्यते ॥ 39 ॥
श्रीभगवानुवाच --
पार्थ नैवेह नामुत्र विनाशस्तस्य विद्यते ।
न हि कल्याणकृत्कश्चिद्दुर्गतिं तात गच्छति ॥ 40 ॥
प्राप्य पुण्यकृतां लोकानुषित्वा शाश्वतीः समाः ।
शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते ॥ 41 ॥
अथवा योगिनामेव कुले भवति धीमताम् ।
एतद्धि दुर्लभतरं लोके जन्म यदीदृशम् ॥ 42 ॥
तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम् ।
यतते च ततो भूयः संसिद्धौ कुरुनन्दन ॥ 43 ॥
* अयतिरप्रयत्नः । प्रयत्नाद्यतमानस्त्विति वाक्यशेषात् । योगशब्दस्योपायार्थत्वेऽप्यत्रोपायविशेष एव ध्यानयोगादिर्विवक्षित इति न विरोधः ॥37-38॥
// अयतिरित्यर्जुनप्रश्नवाक्यगतायतिपदस्य गृहस्थादिरित्यन्यथाप्रतीतिनिरासायार्थमाह -- अयतिरिति ॥ गृहस्थादिरेवार्थः किं न स्यादित्यत आह -- प्रयत्नादिति ॥ अयतेस्तत्र श्रद्धावतः का गतिरिति प्रश्ने जन्मान्तरे प्रयत्नवान् भवतीति परिहारस्योक्तत्वादप्रयत्न एवायतिरवगम्यते । अन्यथा जन्मान्तरे श्रद्धावशात् चतुर्थाश्रमी भवतीति परिहारप्रसङ्गादिति भावः । ननु योगशब्दस्य ज्ञानोपायार्थत्वात् श्रद्धावान् लभते ज्ञानमित्यादेः श्रद्धाया अपि ज्ञानोपायत्वात् श्रद्धयोपेतो योगाच्चलितमानस इति परस्परविरोध इत्यत आह -- योगेति ॥ भवेदयं विरोधो यदि योगशब्देनात्र सामान्यतो ज्ञानोपायोऽभिधीयते । नच तदस्ति । ध्यानस्यैव विवक्षितत्वात् । नच योगशब्दस्य ज्ञानोपायवाचित्वविरोधः । ध्यानस्यापि ज्ञानोपायविशेषत्वादिति भावः ॥
पूर्वाभ्यासेन तेनैव ह्रियते ह्यवशोऽपि सः ।
जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्तते ॥ 44 ॥
प्रयत्नाद्यतमानस्तु योगी संशुद्धकिल्बिषः ।
अनेकजन्मसंसिद्धस्ततो याति परां गतिम् ॥ 45 ॥
* ``मोक्षोपायस्य जिज्ञासुरपि केवलपाठकात् ।
विशिष्टः किमु तद्विद्वान् किं पुनर्यस्तदास्थितः ॥" इति परमयोगे ॥44-45॥
योगाच्चलितमानसस्य ``प्राप्य पुण्यकृतान् लोकान्" इत्यादि फलमुपपाद्यते ``जिज्ञासुः" इति । तत्र योगजिज्ञासोः विधिनिषेधाभावप्रतीतिनिरासाय तत् स्मृत्यैव व्याचष्टे -- मोक्षेति ॥ तदास्थित इति ॥ तत्राल्पप्रवृत्तिमानित्यर्थः ॥44-45॥
तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिकः ।
कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन ॥ 46 ॥
योगिनामपि सर्वेषां मद्गतेनान्तरात्मना ।
श्रद्धावान् भजते यो मां स मे युक्ततमो मतः ॥ 47 ॥
॥ओं तत्सदिति श्रीमद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे अभ्यासयोगोनाम षष्ठोऽध्यायः ॥
*``तपसश्बैव यज्ञादेर्ध्यानमेव विशिष्यते ।
अज्ञानिध्यानतो ज्ञानं ध्यानं सज्ञानमप्यतः ॥
तत्रापि मय्यभक्तस्य नान्यध्यानं प्रयोजकम् ।
अन्यसामान्यविद् यो मे यश्चान्यं नेति पश्यति ॥
अवरत्वदृगुदासीनो विद्वेषी चेत्यभक्तयः ।
मद्भक्तोऽपि हि कार्यार्थं यो ध्यायेदन्यदेवताम् ॥
परिवारतामृते तस्मात् केवलं मदुपासकः ।
वरोऽन्यान् मदधीनांश्च सर्वान् जानन् विशुद्धधीः ॥" इति दत्तात्रेयवचनम् ॥46-47॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीतातात्पर्यनिर्णये षष्ठोऽध्यायः ॥6॥
// योगः स्तूयते ``तपस्विभ्य" इति । तत्र योगस्य ज्ञानार्थत्वात् कथं ज्ञानादुत्तमत्वमुक्तमित्यतः तत् स्मृत्यैव व्याचष्टे -- तपस इति ॥ अज्ञानिध्यानत इति ॥ सम्यग् ध्यानप्रकाराज्ञस्य ध्यानतो ध्यानप्रकारज्ञानमेवोत्तमम् । ध्यानप्रकारज्ञानसहितं ध्यानं ध्यानप्रकारज्ञानमात्रतोऽधिकमित्यर्थः । ध्यानिष्वपि तारतम्यमाह-- तत्रापीति ॥ कीदृशोऽभक्त इत्यत आह -- आन्येति ॥ न भक्तिर्येषु तेऽभक्तयः । अन्यान् मदधीनान् जानन्नित्यनेन परिवारतया अन्योपासनमुच्यते । मदुपासकेष्वपि विशुद्धधीः निष्कामो वर इत्यर्थः । अनेन योगिनामिति श्लोको व्याख्यातो भवति । तथाहि -- सर्वेषां योगिनां मध्ये यः श्रद्धाशब्दोदित मद्भक्तिमान् स एव युक्तो मतः । तत्रापि यो मां भजते स एव युक्ततरो मतः । तत्रापि फलकामनां विना यो मां भजते स युक्ततमो मत इति ॥46-47॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्य श्रीमद्भगवद्गीतातात्पर्यनिर्णयस्य टीकायां जयतीर्थमुनिविरचितायां न्यायदीपिकायां षष्ठोऽध्यायः ॥ 6 ॥
श्रीवादिराजगुर्वन्तर्गत श्रीमध्वेशाभिन्न श्रीलक्ष्मीहयग्रीवायनमः ॥
****************************************************************************
॥श्रीगुरुभ्योनमः ॥
श्रीवादिराजगुर्वन्तर्गत श्रीमध्वेशाभिन्न श्रीलक्ष्मीहयग्रीवायनमः ॥
॥अथ सप्तमोध्यायः ॥
श्रीभगवानुवाच--
मय्यासक्तमनाः पार्थ योगं युञ्जन्मदाश्रयः ।
असंशयं समग्रं मां यथा ज्ञास्यसि तच्छ्रुणु ॥ 1 ॥
ज्ञानं तऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः ।
यद् ज्ञात्वा नेह भूयोऽन्यज्जञातव्यमवशिष्यते ॥ 2 ॥
मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये ।
यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः ॥ 3 ॥
* ॥हरिः ॐ ॥ भगवन्महिमा विशेषत उच्यते ॥1-2 ॥
``अनन्तानां तु जीवानां यतन्ते केचिदेव तु ।
मुक्त्यै तेषु च मुच्यन्ते केचिन्मुक्तेषु च स्फुटम् ॥
केचनैव हरिं सम्यग् ब्रह्मरुद्रादयो विदुः ।
अन्येषां यावता मुक्तिस्तावज्जञानं हरौ परम् ॥" इति पाद्मे ।
``मुक्तानामपि सिद्धानां नारायणपरायणः ।
सुदुर्लभः प्रशान्तात्मा कोटिष्वपि महामते ॥" इति भागवते ।
``सर्वे मुक्ता हरौ भक्तास्तेषु ब्रह्मैव मुख्यतः ।
विष्णोः परमभक्तस्तु तस्माज्जीवघनो मतः ॥" इति सत्तत्वे ॥3॥
// ॥हरिः ॐ ॥ एतदध्यायप्रतिपाद्यमर्थं दर्शयति -- भगवदिति ॥ यत्पूर्वोक्तं ध्यानं तद्भक्तिपूर्वकमेव ज्ञानसाधनं, नान्यथा । अतो भक्त्यर्थं भगवन्महिमाऽस्मिन्नध्यायेऽभिधीयत इत्यर्थः । न त्वेवाहमित्यादिना प्रागपि भगवन्महिम्नो वर्णितत्वात् किमनेनेत्यत उक्तम् -- विशेषत इति ॥ प्राक् सङ्क्षेपेणोक्तोऽत्र विस्तरेणोच्यत इत्यर्थः । उपरितनाध्यायानामपि भगवन्महिमाभिधायकत्वादत्रेत्यादिनोक्तम् ।
प्रतिज्ञाते ज्ञाने लिप्सामुत्पादयितुं दौर्लभ्यं तस्योच्यते ``मनुष्याणाम्" इति । तत्स्मृतिभिर्व्याचष्टे -- अनन्तानामिति ॥ केचनैव चेत् सम्यग् विदुस्तर्~हि कथमितरेषां मोक्ष इत्यत आह -- अन्येषामिति ॥ अनेन यततामपि केचित् सिद्धा भवन्तीति व्याख्यातं भवति । जीवन्मुक्तानां सर्वेषामपि सिद्धिपदोदिता मुक्तिर्भवति । सिद्धिं गताः सर्वेपि नारायणायनाः, तज्जञानादिमत्त्वात् । नारायणपरायणस्तु सुदुर्लभ इत्यर्थः । जीवघनो जीवसारः । अनेन न केवलं महाज्ञानिनो दौर्लभ्यमपि तु महाभक्त्यादिमानपि दुर्लभ इत्युक्तं भवति ॥ 3 ॥
भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च ।
अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा ॥ 4 ॥
अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् ।
जीवभूतां महाबाहो ययेदं धार्यते जगत् ॥ 5 ॥
एतद्योनीनि भूतानि सर्वाणीत्युपधारय ।
अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा ॥ 6 ॥
* ``अचेतना चेतनेति द्विविधा प्रकृतिर्मता ।
त्रिगुणाऽचेतना तत्र चेतना श्रीर्~हरिप्रिया ॥
ते उभे विष्णुवशगे जगतः कारणे मते ।
पिता विष्णुः स जगतो माता श्रीर्या त्वचेतना ॥
उपादानं तु जगतः सैव विष्णुबलेरिता ॥" इति च ॥ 4-6 ॥
// प्रतिज्ञातं ज्ञानमुच्यते ``भूमिः" इत्यादिना । तत् स्मृत्यैव व्याचष्टे -- अचेतनेति ॥ चेतना श्रीरित्यनेन जीवभूतामिति व्याख्यातं भवति । ते उभे इत्यनेन मे प्रकृतिरित्यस्यार्थ उक्तो भवति । एतद्योनीत्यस्यार्थो जगत इति । विष्णोरेव जगत्कारणत्वात् कथमेतदित्यत आह -- पितेति ॥ पितृत्वेनैव विष्णुः कारणमित्यर्थः । अनेनाहं कृत्स्नस्येति व्याख्यातं भवति । तर्~हि प्रकृत्योः कीदृशं कारणत्वमित्यत्र आह -- मातेति ॥ अचेतनप्रकृतेरुपादानत्वशक्तिरपि भगवदधीनेत्युच्यते -- विष्णुबलेरितेति ॥ 4-6 ॥
मत्तः परतरं नान्यत्किञ्चिदस्ति धनञ्जय ।
मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव ॥ 7 ॥
* मत्तोऽन्यत् परतरं नास्ति परतरस्त्वहमेवेत्यर्थः । अन्यथा अन्यदिति व्यर्थम् ।
``अवरा दुःखसम्बन्धाज्जीवा एव प्रकीर्तिताः ।
नित्यनिर्दुःखरूपत्वात् परा श्रीरेकलैव तु ॥
दुःखासम्पीडितत्वात्तु मध्यमो वायुरुच्यते ।
अनन्याधीनरूपत्वात् असमाधिकसौख्यतः ॥
तत्तन्त्रत्वाच्च सर्वस्य विष्णुः परतरो मतः ।
अभावादन्तराऽन्यस्य त्विहैकार्थौ तरप्तमौ ॥
यस्याः सम्बन्धयोग्यत्वाज्जीवा अप्यवरा मताः ।
तस्या जडायाः प्रकृतेरवरत्वे क्व संशयः ॥
अथावरतरा ये तु विमुखाश्चेतना हरेः ।
नित्यदुःखैकयोग्यत्वान्न ह्येतत्सादचेतने ॥
अतः परतरं विष्णुं यो वेत्ति स विमुच्यते ।
मुक्तस्तु स्यात्पराभासः सुनित्यसुखभोजनात् ॥
तत्रापि तारतम्यं स्यात्तेषु ब्रह्माऽधिको मतः ।
विष्णोराधिक्यसंवित्तिः सर्वस्माज्जञानमुच्यते ॥
एवं विविच्य तज्जञानं विज्ञानमिति कीर्तितम् ।
एतच्च तारतम्येन वर्तते केशवादिषु ॥
मुख्यविज्ञान्यतो विष्णुः किञ्चिद्विज्ञानिनो परे" ॥ 7 ॥
// त्वद्वत्सर्वोत्तमान्तरस्यापि पितृत्वाद्युपपत्तेः कथं कृत्स्नस्येत्याद्युक्तमित्यत उच्यते ``मत्त" इति । तत्र स्वव्यतिरिक्तमात्रं निषिध्यत इत्यन्यथाप्रतीतिनिरासायाऽह -- मत्त इति ॥ नात्र स्वव्यतिरिक्तनिषेधः, किन्तु मत्तोऽन्यद्वस्तु परतरं न भवति । किन्त्वहमेव परतरः । अतः ``अहं कृत्स्नस्य" इत्यादि युक्तमेवोच्यत इति भावः । स्वातिरिक्तनिषेधोऽयं किं न स्यादित्यत आह -- अन्यथेति ॥ यद्यत्र स्वातिरिक्तनिषेधस्तर्~हि परतरपदेनैव स्वातिरिक्तस्योक्तत्वादन्यदिति व्यर्थं स्यात् । अन्यदिति पदस्य स्वातिरिक्तार्थताभ्युपगमे च परतरमिति व्यर्थं स्यादित्यर्थः । यदि विष्णुरेव परतरस्तर्~हि परावरादिना भाव्यम् । तत्किमित्यत उक्तार्थे स्मृतिमाह -- अवरा इति ॥ दुःखसम्बन्धित्वान्न परो, दुःखेन सम्यगपीडितत्वाच्च नावरः । अतो मध्यम इत्यर्थः । विष्णुः परतरश्चेत् कः परतम इत्यत आह -- अभावादिति ॥ अत्र परतरपरतमपदाभ्यां विष्णुरेक एवोच्यते । न त्वसौ परतम एव । परभूतश्रीतत्त्वस्य परतमभूतविष्णोश्च मध्ये परतरस्यान्यस्याभावात्। नापि विष्णुः परतर एव । परतमस्यान्यस्याभावादिति भावः । ननु जडप्रकृतेरपि नित्यनिर्दुखत्वात् कथं श्रीरेकैव परेत्यत आह -- यस्या इति ॥ निर्दुःखत्वेऽपि दुःखकारणत्वेन जडप्रकृतेरसन्दिग्धमवरत्वमेवेत्यर्थः ।
यदुक्तं जीवा अवरा इति तस्यापवाद माह -- अथेति ॥ अत्रापि तरप्तमपावेकार्थौ । नन्वचेतनादपि चेतनस्योत्तमत्वात् ईश्वरविमुखानामवरतरत्वे कथं प्रकृतेरवरत्वमित्यत आह -- न हीति ॥ जीवानां दुःखसम्बन्ध उक्तस्तर्~हि मोक्षः कथं स्यादित्यत आह -- अत इति ॥ उक्तप्रकारेणेत्यर्थः । ननु भगवद् ज्ञानेन दुःखमोक्षो भवति चेत् मुक्तस्य परत्वं स्यात् । तथा च श्रीरेकैव परेत्युक्तमित्यत आह -- मुक्त इति ॥ सुनित्यसुखभोजनादवरत्वाभावेऽपि प्राक् दुःखाभावसाम्येऽपि न सुखादावपि साम्यमित्याह -- तत्रापीति ॥ ननु श्रुत्यादौ ज्ञानविज्ञानाभ्यां मोक्षोक्तेः कथं विष्णोः परतरत्वज्ञानेन मोक्षोऽभिहित इत्यत आह -- विष्णोरिति ॥ उच्यते श्रुत्यादाविति शेषः । एवं श्रा Xयदीनां परत्वादिज्ञानेन । अनेन ``ज्ञानं तेऽहं सविज्ञानम्" इत्यस्याप्यर्थ उक्तो भवति । ज्ञानविज्ञानयोर्द्यौलभ्यं लिप्सोत्पादनायाऽह -- एतच्चेति ॥ मुक्तानां तारतम्ये वाऽनेन हेतुरुच्यते । अनेन मनुष्याणामित्येतदपि व्याख्यातं भवति ॥7॥
रसोऽहमप्सु कौन्तेय प्रभाऽस्मि शशिसूर्ययोः ।
प्रणवः सर्ववेदेषु शब्दः खे पौरुषं नृषु ॥ 8 ॥
* सोऽप्सु स्थित्वा रसयति रसनामा ततः स्मृतः ।
सूर्यचन्द्रादिषु स्थित्वा प्रभानामा प्रभासनात् ॥
वेदस्थः प्रणवाख्योऽसावात्मानं यत्प्रणौत्यतः ।
खे स्थितः शब्दनामाऽसौ यच्छब्दयति केशवः ॥8॥
// विष्णुतन्त्रत्वात् सर्वस्यासौ परतर इति विविच्य परतरत्वज्ञानं विज्ञानमित्युक्तम् । तद्विज्ञानमेव सर्वस्य तदधीनत्वप्रदर्शनेनाह -- स इति ॥ अनेन विज्ञानप्रदर्शकं रसोऽहमित्यादि व्याख्यातं भवति । रसयति रसमादत्ते रसं प्रेरयति । प्रभासनात् स्वयं प्रभासमानत्वात्, प्रभाप्रेरणाच्च । प्रणौति स्तौति स्तावकत्वं प्रेरयति च । शब्दयति वक्ति शब्दं प्रेरयति च ॥8॥
पुण्योगन्धः पृथिव्यां च तेजश्चास्मि विभावसौ ।
जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु ॥ 9 ॥
* पुण्यापुण्यं गन्धयति स्वयं पुण्यो धरास्थितः ।
तेजयत्यग्निसंस्थः सन् भूतस्थो जीवन प्रदः ॥
तपस्विस्थस्तपयति .................. ॥9॥
// सुरभ्यसुरभितया गन्धं प्रेरयति, स्वयं सुरभिश्चेति पुण्यगन्धः । स्वयं पुण्यगन्धप्रदत्वाच्च । तेजयति तेजस्वी वर्तते, तेजः प्रेरयति चेति तेजः । जीवनप्रदः तस्माज्जीवनम् । तपयति तपः कुरुते प्रेरयति चेति तपः ॥9॥
बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम् ।
बुद्धिर्बुद्धिमतामस्मि तेजस्तेजस्विनामहम् ॥ 10 ॥
* `` ............ ........ व्यञ्जनाद्बीजसञ्ज्ञितः ।
बोधनाद् बुद्धिनामाऽसौ बुद्धिमत्सु व्यवस्थितः ॥10॥
// व्यञ्जनाद् व्यञ्जकत्वात् प्रेरकत्वाच्च । बोधनात् बोद्धृत्वाद् बुद्धिप्रेरकत्वाच्च ॥10॥
बलं बलवतां चाहं कामरागविवर्जितम् ।
धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ ॥ 11 ॥
* ``नित्यपूर्णबलवत्वात्तु बलं कामविवर्जितम् ।
अराजसबलश्बैव स्थानेभ्योऽन्येष्वयोजनात् ।
एतादृशबलात्माऽसौ बलिनां बलदः स्वयम् ॥
वेति पूर्णत्ववाची स्यात्तद्रतेर्बलमुच्यते ।
प्रायो हि कामिता अर्था धर्मं हन्युर्~हरिः पुनः ॥
न धर्महानिकृत् किन्तु कामितो धर्मवृद्धिकृत् ।
धर्माविरुद्धकामोऽतो विष्णुर्भूतेषु संस्थितः ॥
एवं स सर्वतश्चान्यः स्वतन्त्रश्बैव सर्वगः ।
व्यवस्थयैव सर्वेषां सर्वदा सर्वदः प्रभुः ॥11॥
// विषयभोगनिरपेक्षतया नित्यपूर्णबलत्वात् कामवर्जितं बलम् । अस्थानेऽप्रयुज्यमानत्वाद् रागविवर्जितं बलम् । रागिणो ह्यस्थानेऽपि बलं प्रयुज्यते । कामरागविवर्जितबलदश्चेति वा । अर्थान्तरमुच्यते -- एतादृशेति ॥ एतादृशबलात्मेत्यनुवादः । अर्थान्तरं चोच्यते -- वेति ॥ तद्रतेः पूर्णरतित्वात् । अत्रापि कामरागराहित्यं पूर्ववत् । धर्माविरुद्धेच्छाप्रेरकत्वाच्चेति ज्ञातव्यम् । अप्सु रस इत्यादिव्यवस्थयाऽबादिसर्वेषां रसादिसर्वदोऽतो रसादिनामेत्यर्थः । रसाद्यभेदात्तन्नामा किं न स्यादित्यत आह -- सर्वत इति ॥ तत्र स्वातन्त्र्यं हेतुः । रसादेरस्वातन्त्र्यं प्रसिद्धमिति भावः ॥11॥
ये चैव सात्त्विका भावा राजसास्तामसाश्च ये ।
मत्त एवेति तान्विद्धि न त्वहं तेषु ते मयि ॥ 12 ॥
* ये चैव सात्त्विका भावा राजसास्तामसाश्च ये ।
तत एव न चान्यस्मात्तदायत्तमिदं न सः ॥
अन्यायत्तो ............... ॥12 ॥
<लन्ग्=कन्>// न केवलं रसादिधर्मप्रेरकः, किन्नामाऽबादिप्रेरकश्चेत्याह -- ये चेति ॥ यथा भगवदधीनमिदमेवं भगवानेतदधीनोस्तु, भूभूधरादिवदित्यत आह -- तदायत्तमिति ॥ इदमेव तदायत्तं न त्वसावेतदायत्त इति भावः । अनेन ``न त्वहं तेषु ते मयि" इत्यस्य वैलोम्येनार्थ उक्तो भवति ॥12॥
त्रिभिर्गुणमयैर्भावैरेभिः सर्वमिदं जगत् ।
मोहितं नाभिजानाति मामेभ्यः परमव्ययम् ॥ 13 ॥
दैवी ह्येषा गुणमयी मम माया दुरत्यया ।
मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ॥ 14 ॥
न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः ।
माययाऽपहृतज्ञाना आसुरं भावमाश्रिताः ॥ 15 ॥
चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन ।
आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ॥ 16 ॥
तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते ।
प्रियो हि ज्ञानिनोऽत्यर्थमहं सच मम प्रियः ॥ 17 ॥
उदाराः सर्व एवैते ज्ञानी त्वात्मैव मे मतम् ।
आस्थितः स हि युक्तात्मा मामेवानुत्तमां गतिम् ॥ 18 ॥
बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते ।
वासुदेवः सर्वमिति स महात्मा सुदुर्लभः ॥ 19 ॥
कामैस्तैस्तैर्~हृतज्ञानाः प्रपद्यन्तेऽन्यदेवताः ।
तं तं नियममास्थाय प्रकृत्या नियताः स्वया ॥ 20 ॥
यो यो यां यां तनुं भक्तः श्रद्धयाऽर्चितुमिच्छति ।
तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् ॥ 21 ॥
स तया श्रद्धया युक्तस्तस्याराधनमीहते ।
लभते च ततः कामान्मयैव विहितान् हि तान् ॥ 22 ॥
* .............ऽचेतनया तन्मेयत्वात्तु मायया ।
लक्ष्म्या वशग या लोको विष्णुनैव विमोहितः ।
ये तु विष्णुं प्रपद्यन्ते ते मायां तां तरन्ति हि ॥
लक्ष्मीः सा जडमाया या देवता ते उभे अपि ।
विष्णोर्वशे ततोऽनन्यभक्त्या तं शरणं व्रजेत् ॥
यादृशी तत्र भक्तिः स्यात्तादृश्यन्यत्र नैव चेत् ।
अनन्यभक्तिः सा ज्ञेया विष्णावेव तु सा भवेत् ॥
अन्येषु वैष्णवत्वेन लक्ष्मी ब्रह्महरादिषु ।
कुर्याद्भक्तिं नान्यथा तु तद्वशा एव ते यतः ॥
// एवं सर्वप्रेरकः परमात्मा कुतो लोकेन न ज्ञायत इत्यत आह -- अचेतनतयेति ॥ प्रकृत्येति शेषः । तन्मेयत्वादिति ॥ विष्णुनैव सम्यक् ज्ञातत्वात् । लक्ष्म्या चेत्यर्थः । अनेन त्रिभिरित्यादेरर्थ उक्तो भवति । ममेत्यस्यार्थो वशगयेति । विष्णुनैवेत्यनेनाचेतनप्रकृत्याद्याहितं स्वविषयमोहं भगवान् कुतो न वारयतीत्याशङ्कानिवारकस्य नाहं प्रकाश इत्यस्यार्थ उक्तो भवति । यदि साक्षाद्भवत्या लोको मोहितस्तर्~हि न कस्यापि ज्ञानमित्यत आह -- ये त्विति ॥ आनेन मामेवेत्येतद् व्याख्यातं भवति । भगवत्प्रपत्त्या कथं मायातरणमित्यत आह -- लक्ष्मीरिति ॥ ननु पूर्वं लक्ष्म्या एव भगवद्वशत्वस्योक्तत्वात् कथं ते उभे अपि विष्णोर्वशे उच्येते इत्यत उक्तम् । लक्ष्मीः सा जडमाया या देवतेति ॥ लक्ष्म्या भगवद्वशत्वे उभयोरपि भगवद्वशत्वं भवति । अचेतनप्रकृतेर्लक्ष्मीवशत्वात् । अतो मोहकप्रकृत्योर्भगवद्वशत्वात् तत्प्रपत्त्या मायातरणं युक्तमेवातस्तं प्रपद्येतेत्यर्थः । अनेन गुणमयीत्येतद् व्याख्यातं भवति । ततोऽनन्यभक्त्येत्यनेनैकभक्तिरित्यादेः तात्पर्यमुक्तं भवति । अनन्यभक्तिर्नाम कीदृशीत्यत आह -- यादृशीति ॥ तत्र भक्तिविषये । अनेनैकस्मिन् भक्तिर्यस्येति विग्रहः सूचितः । तेन सामानाधिकरण्याङ्गीकारे भक्तिशब्दस्य प्रियादित्वेन पुंवद्भावाप्राप्तिश्च परिहृता ।
* एवं जानंस्तमाप्नोति नान्यथा तु कथञ्चन ।
पूर्णं वस्तु यतो ह्येको वासुदेवो न चापरः ॥
एवं विद् दुर्लभो लोके यत्सर्वे मिश्रयाजिनः ।
विष्णुं तत्परमज्ञात्वा रमाब्रह्महरादिकान् ॥
यजन्नपि तमो घोरं नित्यदुःखं प्रयाति हि ।
अज्ञानां तु कुले जातो यावद्विष्णोः समर्चनम् ।
विष्णुतत्त्वं च जानीयात्तावत्सेवा पृथक् कृता ॥
// विष्णोः सर्वोत्तमत्वमन्येषां तद्वशत्वं च ज्ञात्वा भक्तिं कुर्वतां किं फलमित्यत आह-- एवमिति ॥ एवं जानन्निति ॥ ज्ञात्वा भजन्नित्यर्थः । अनेन ``ज्ञानी त्वात्मैव मे मतम्" इत्याद्युक्तार्थे भवति । अवधारणार्थतुशब्दस्यार्थो नान्यथेति । भगवज्जञानिनामेव मोक्षो नान्येषामिति कुत इत्यत आह -- पूर्णमिति ॥ भगवत एव पूर्णत्वेन मोक्षदानशक्तिर्नान्येषामित्यर्थः । अनेन वासुदेव इत्यस्यार्थ उक्तो भवति । यदि भगवद् ज्ञानेन मोक्षस्तर्~हि सर्वेषां स्यादित्यत आह -- एवं विदिति ॥ वासुदेवज्ञानेन मोक्षसद्भावेऽपि तद् ज्ञानिनो न सर्व इति न सर्वेषां मोक्ष इत्यर्थः । एतेन स इति व्याकृतं भवति । लोके भगवद् ज्ञानिनां बहूनां दृश्यमानत्वात् कथं दौर्लभ्यमित्यत आह -- यदिति ॥ मिश्रयाजिन इति ॥ वैपरीत्येन यजन्त इत्यर्थः । एतेन कामैरित्यादेस्तात्पर्यमुक्तं भवति । किं तेषां फलमित्यत आह -- विष्णुमिति ॥ तत्परं रमादिभ्यः परम् । अज्ञात्वा विपरीतं ज्ञात्वा च । कारणविशेषाद् ज्ञानरहितस्य विपरीतज्ञानाभावेनान्यदेवताराधनेन किं स्यादित्यत आह -- अज्ञानमिति ॥ उपलक्षणं चैतत् । निर्णेत्रभावादिकारणान्तरं च द्रष्टव्यम् । समर्चनं कर्तव्यमितीति शेषः । पृथक् सेवा परिवारतां विनैव अन्यदेवतायजनं विद्यादि तद्विषयज्ञानं स्तवनादि चेत्यर्थः ॥ एतच्च फलं नाज्ञानिमात्रस्य, अपि तु ज्ञानानन्तरं यः पूर्वमार्गं त्यक्त्वा भगवद्भजनमेव कुर्यात्तस्यैव ।
* विद्याद्यैहिकभोगाय यदि बुद्ध्वा पुनर्न तु ।
परिवारतामृते कुर्यादन्यदेवार्चनं क्वचित् ॥
अजानता कृतं त्यक्तं न दोषाय भविष्यति ।
जन्मादिप्रदमेव स्यादत्यागे पुनरेव तु ॥
क्षिप्रं च ज्ञापयत्येव भगवान् स्वयमेव तु ।
यदि जन्मान्तरे स्वीयो निमित्तीकृत्य कञ्चन ॥" इत्यादि च ।
मत्त एवेति, तान् विद्धीत्युपसंहाराच्च तत्तत्कारणत्वात् तत्तन्नामेत्यवसीयते ॥ ``मयि सर्वमिदं प्रोतम्" इति भेदेनैवोपक्रमाच्च । आप्नोति विष्णुमित्येवाऽत्मशब्दो ज्ञानिनि । ``यच्चाप्नोति यदादत्ते" इत्यादेः । ``आस्थितः स हि", ``मां प्रपद्यते" इत्यादिवाक्यशेषाच्च । बहूनां जन्मनामन्ते ज्ञानवान् भवति । ततो मां प्रपद्यते । वासुदेवः सर्वमिति पूर्णमिति जानन् । ``प्रपद्यन्तेऽन्यदेवताः" इति वाक्यशेषे भेददर्शनाच्च । ``देवान् देवयजो यान्ति मद्भक्ता यान्ति मामपि" इति च ॥ 21-22 ॥
// केषाञ्चित् तमोयोग्यानामपि कदाचिदज्ञत्वसम्भवादिति भावेनाह -- यदीति ॥ इदं च तमोयोग्यव्यावृत्तिमात्रम् । नित्यत्रैविद्यानामपि फलसद्भावात् । प्राचीनापराधसद्भावात् कथमुत्तरापेक्षया फलमित्यत आह -- अजानतेति ॥ स्वतो भागवत एव यदि विष्णुतत्त्वं ज्ञात्वाऽपि कारणविशेषात् पूर्वमार्गं न जहाति तस्य किं स्यादित्यत आह -- अत्याग इति ॥ ज्ञापयति त्यक्तुमिति शेषः । जन्मान्तर इत्युपलक्षणम् । यदि स्वीय इति सम्बन्धः । केचन गुर्वादिकं निमित्तीकृत्य, नतु साक्षात् । अनेन लभते चेत्यादेर्विषय उक्तो भवति । एवं रसादिकारणत्वात् रसादि नामकत्वं विष्णोर्नाभेदेन प्रमाणवचनेनोक्तम् । उपक्रमोपसंहारयोः सर्वस्य भगवदधीनत्वोक्तेश्च तद् ज्ञायत इत्याह -- मत्त एवेति ॥ ``ज्ञानी त्वात्मैव मे मतम्" इत्येतत् ``एवं ज्ञानंस्तमाप्नोति" इति प्रमाणवचनेन व्याख्यातम् । युक्त्या च तदुक्तार्थमेव न त्वभेदार्थमिति साधयितुमाह -- आप्नोतीति ॥ आत्मशब्दस्याप्तिवाचित्वं कुत इत्यत आह -- यच्चेति ॥
``यच्चाप्नोति यदादत्ते यच्चात्ति विषयानिह ।
यच्चास्य सन्ततो भावस्तस्मादात्मेति भण्यते ॥" इति भारतवाक्यात् । कुतोऽयमात्मशब्द आप्त्यर्थः, स्वरूपार्थः किं न स्यादित्यत आह -- आस्थित इति ॥ एतदर्थविवरणात्मके वाक्यशेषे परमां गतिमुद्दिश्य भगवन्तमुपासीनस्य ज्ञानिनस्तत्प्राप्तेरुक्तत्वात् अत्रापि प्राप्यर्थ एवाऽत्म शब्दो न स्वरूपार्थ इत्यर्थः । ननु ज्ञानानन्तरं मोक्षस्य कर्मक्षयमात्रावधित्वात् ``बहूनां जन्मनाम्" इति बहुजन्मनियतिः कथमुच्यत इत्यत आह -- बहूनामिति ॥ वासुदेव इत्येतत् पूर्णं वस्त्विति प्रमाणवचनेन व्याख्यातम् । युक्त्या चैतमर्थं साधयितुमाह -- वासुदेव इति ॥ अत्र वासुदेवस्य पूर्णत्वमेवोच्यते, नतु सर्वाभेद इत्यर्थः । प्रमाणवचनेन भगवद् ज्ञानिनामेवानुत्तमगतिर्भवतीत्यत्र हेत्वभिधायकतयैव एतद्योजितम् । अथ बहूनां जन्मनामन्ते वासुदेवः सर्वमिति ज्ञानवान् भवतीत्यपि योजनां सूचयति -- जानन्निति ॥ अभेदार्थमेवेदं वाक्यं किं न स्यादित्यत आह -- प्रपद्यन्त इति ॥ ``देवान् देवयजो यान्ति" इत्येतद् ``विष्णुं तत्परमज्ञात्वा" इत्यादिना विवृतम् ॥21-22 ॥
अन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसाम् ।
देवान् देवयजो यान्ति मद्भक्ता यान्ति मामपि ॥ 23 ॥
* ``ज्ञात्वा परत्वं विष्णोस्तु पृथग् देवान् यजन्नरः ।
याति देवांस्तदज्ञात्वा तम एव प्रपद्यते ॥
तथापि यावदन्यैस्तु साम्यं हीनत्वमेकताम् ।
न निश्चित्वन्ति जायन्ते संसारे ते पुनः पुनः ॥" इति च ॥ 23 ॥
// वाक्यान्तरेणापि विवृणोति -- ज्ञात्वेति ॥ किमज्ञानमात्रेण तम इति, नेत्याह -- तथापीति ॥ यद्यप्येवमुच्यते तथापीत्यर्थः । तावदिति संयोज्यम् । केचन भागवताः पुरुषाः । केचन त्रैविद्याः सन्ति । तेषां च मोक्षादिकं फलमित्युक्तम् ॥ 23 ॥
अव्यक्तं व्यक्तिमापन्नं मन्यन्ते मामबुद्धयः ।
परं भावमजानन्तो ममाव्ययमनुत्तमम् ॥ 24 ॥
नाहं प्रकाशः सर्वस्य योगमायासमावृतः ।
मूढोऽयं नाभिजानाति लोको मामजमव्ययम् ॥ 25 ॥
* ``अव्यक्तः परमात्माऽसौ व्यक्तो जीव उदाहृतः ।
मन्यते यस्तयौरैक्यं स तु यात्यधरं तमः ॥" इति च ॥24-25॥
// अथ केचन द्वेषिणोऽपि सन्तीत्युच्यते ``अव्यक्तम्" इति । तदर्थे पूर्ववदेषां फलस्यानुक्तत्वात् फलं च स्मृत्यैवाह -- अव्यक्त इति ॥ एवं सर्वप्रेरकत्वादिमहिमवांश्चेद् भगवान् तत्कथं भगवतः केचिज्जीवाभेदं मन्यन्त इत्यतो वैतदुच्यते । सर्वात्मना ज्ञेयत्वाज्ञेयत्वाभ्यां जीवेश्वरयोर्व्यक्ताव्यक्तत्वम् ॥ 24-25॥
वेदाहं समतीतानि वर्तमानानि चार्जुन ।
भविष्याणि च भूतानि मां तु वेद न कश्चन ॥ 26 ॥
<लन्ग्=कन्>* ``यथाऽऽत्मानं हरिर्वेत्ति तथाऽन्ये नैव तं विदुः ।
जानन्ति किञ्चित् क्रमशो रमाद्यास्तत्प्रसादतः ॥" इति च ॥26॥
// यदि मायावशादज्ञानं लोकस्य भगवद्विषयं तर्~हि भवतोऽपि लोकविषयं तदस्ति किं, कुड्योभयभागावस्थितयोरन्योन्यादर्शनवदित्यत उच्यते -- वेदाहमिति ॥ तत्र कस्यापि भगवद् ज्ञानाभावे वेदादि वैय्यर्थ्यापत्तेः कथं ``मां तु वेद न कश्चन" इत्युच्यत इत्यतस्तत् स्मृत्यैव व्याचष्टे -- यथेति ॥ 26 ॥
इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन भारत ।
सर्वभूतानि सम्मोहं सर्गे यान्ति परन्तप ॥ 27 ॥
येषां त्वन्तगतं पापं जनानां पुण्यकर्मणाम् ।
ते द्वन्द्वमोहनिर्मुक्ता भजन्ते मां दृढव्रताः ॥ 28 ॥
जरामरणमोक्षाय ममाश्रित्य यतन्ति ये ।
ते ब्रह्म तद्विदुः कृत्स्नमध्यात्मं कर्म चाखिलम् ॥ 29 ॥
* द्वन्द्वमोहो मिथ्याज्ञानम् ।
``तमस्सु शार्वरं विद्यान् मोहश्बैव विपर्ययः ॥" इति च भारते । जीवेश्वरादिकं द्वन्द्वम् । तद्विषयो मोहो द्वन्द्वमोहः ।
सम्मोहस्तदाग्रहः । ``तदाग्रहो महामोहस्तामिस्रः क्रोध उच्यते ।" इत्युक्तत्वात् । सर्गे सर्गकाल एव ।
``जीवधर्मानीश्वरे तु यो जीवेष्वैश्वरानपि ।
विद्याज्जीवैश्वरैक्यं वा द्वन्द्वमोही स उच्यते ॥" इत्याग्नेये ॥ 27-29॥
// यद् केषाञ्चिदद्वैतज्ञानं तदपि मदिच्छयेत्युक्तं नाहं प्रकाश इति । तदयुक्तम् । ``ैकात्म्यं नाम यदिदं केचिद् ब्रूयुरनैपुणाः । कामक्रोधाभिभूतत्वादहङ्कारवशं गताः ॥" इत्यादाविच्छाद्वेषादेरेवाद्वैतज्ञानहेतुत्वोक्तेरित्यत आह-- इच्छेति ॥ तत्र मोह सम्मोहशब्दयोरर्थभेदप्रदर्शनाय द्वन्द्वमोहपदमनूद्य मोहशब्दार्थमाह -- द्वन्द्वेति ॥ मोहशब्दस्य मिथ्याज्ञानवाचित्वं कुत इत्यत आह -- तम इति ॥ शर्वरी सम्बन्धि तमोवदावरकमज्ञानमित्यर्थः । अस्तु मोहो मिथ्याज्ञानं, द्वन्द्वमोहो नाम क इत्यत आह -- जीवेति ॥ आदिपदेन सर्वज्ञत्वाल्पज्ञत्वादितद्धर्मग्रहणम् । मोहशब्दगतार्थतया सम्मोहशब्दं व्याचष्टे -- सम्मोह इति ॥ तदाग्रहो मिथ्याज्ञानदार्ढ्यमित्यर्थः । कुतोऽयं सम्मोहशब्दार्थ इत्यत आह -- तदाग्रह इति ॥ ``मोहश्बैव विपर्ययः" इति प्रकृतविपर्ययः तदिति परामृश्यते । क्रोधो यथार्थज्ञानिषु । उक्तशङ्कापरिहारायोक्तं सर्गपदं तदाशङ्कापरिहारकं यथा स्यात् तथा व्याचष्टे -- सर्ग इति ॥ सत्यमिच्छाद्वेषादिना मिथ्याज्ञानं भवतीति । तथापि तदवान्तरकारणमेव । सर्गकालमारभ्यैव तस्य कारणत्वात् । शरीरानुत्पत्ताविच्छाद्यभावात् । विष्णोस्तु सर्वदा कारणत्वादुक्तं युक्तमिति भावः । नन्वत्र जीवेश्वरादि विषयद्वन्द्वमोहस्येच्छाद्यवान्तरकारणत्वमुच्यते । नतु जीवेश्वराभेदज्ञानस्य । न हि विशेष्यैक्यज्ञानमेव द्वन्द्वमोह इति नियामकमस्तीत्यत आह -- जीवेति ॥27॥
साधिभूताधिदैवं मां साधियज्ञं च ये विदुः ।
प्रयाणकालेऽपि च मां ते विदुर्युक्तचेतसः ॥ 30 ॥
॥ ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे ज्ञानविज्ञानयोगो नाम सप्तमोऽध्यायः ॥
* तद् ब्रह्मेत्युक्तेऽन्यत्वशङ्कां निवारयति -- सादिभूताधिदैवमिति ॥30॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्गीतातात्पर्यनिर्णये सप्तमोऽध्यायः ॥ 7॥
// भगवद् ज्ञानेन किं भवतीत्यत उच्यते -- जरेति ॥ तत्र भगवता तद् ब्रह्मेत्युक्तेऽपि न ब्रह्मणो भगवतः सकाशादन्यत्वं शङ्कनीयम् । तदाशङ्कापरिहारायैव साधिभूताधिदैवं ब्रह्मेति वक्तव्ये मामित्युक्तत्वादिति भावेनाह -- तदिति ॥ इत्युक्ते जातामिति शेषः ॥30॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्य श्रीमद्भगवद्गीताभाष्यनिर्णयस्य टीकायां जयतीर्थमुनि विरचितायां न्यायदीपिकायां सप्तमोध्यायः ॥ 7॥
॥ श्रीवादिराजगुर्वन्तर्गतश्रीमध्वेशाभिन्नश्रीकृष्णार्पणमस्तु ॥
**************************************************************************
॥श्रीगुरुभ्योनमः ॥
श्रीवादिराजगुर्वन्तर्गत-श्रीमध्वेशाभिन्नलक्ष्मीहयग्रीवायनमः ॥
॥ अथ अष्टमोध्यायः ॥
अर्जुन उवाच --
किं तद् ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम ।
अधिभूतं च किं प्रोक्तमधिदैवं किमुच्यते ॥ 1 ॥
अधियज्ञः कथं कोऽत्र देहेऽस्मिन् मधुसूदन ।
प्रयाणकाले च कथं ज्ञेयोऽसि नियतात्मभिः ॥ 2 ॥
श्रीभगवानुवाच -
अक्षरं ब्रह्म परमं स्वभावोऽध्यात्ममुच्यते ।
भूतभावोद् भवकरो विसर्गः कर्मसञ्ज्ञितः ॥ 3 ॥
अधिभूतं क्षरो भावः पुरुषश्चाधिदैवतम् ।
अधियज्ञोऽहमेवात्र देहे देहभृतां वर ॥ 4 ॥
* ॥हरिः ॐ ॥ उक्तव्याख्यानपूर्वकं ब्रह्मप्राप्तिरुच्यते । तदिति विशेषणाद् ब्रह्मेत्युक्तमन्यदेव प्रकृत्यादीनां मध्ये यत्किञ्चित्, उपरि ``साधियज्ञं च" ति च शब्दादधिभूतादिसहितत्वेन विष्णुज्ञानमन्यदेवेति संशयः किं तद् ब्रह्मेति प्रश्नकारणम् ।
// ॥हरिः ॐ॥ पूर्वाध्यायसङ्गतत्वेनैतदध्यायप्रतिपाद्यमर्थं दर्शयति -- उक्तेति ॥ यदुक्तं ``ते ब्रह्म तद्विदुः" इत्यादि तद् व्याख्यानमत्रादौ क्रियते । ``प्रयाणकालेऽपि च माम्" इत्युक्तव्याख्यानप्रसङ्गेन अन्तकालस्मरणफलं, तदुपायप्रकारो, ब्रह्मप्राप्तिमार्गश्चेत्येतदुच्यत इत्यर्थः । अन्तकालस्मरणादीनां ब्रह्म प्राप्यते एभिरिति ब्रह्मप्राप्तिशब्दाभिधेयत्वं ज्ञातव्यम् ।
नन्वर्जुनस्य ज्ञानित्वात् ज्ञानात्येवासौ भगवानेव ब्रह्मेति । अतः ``किं तद् ब्रह्म" इति प्रश्नः कथं युज्यते, कारणाभावादित्यत आह -- तदिति ॥ अर्जुनस्य ज्ञानित्वेऽपि युक्तोऽयं प्रश्नः । तद् ब्रह्मेत्यत्र ब्रह्मणो भगवता तदिति पारोक्ष्येणोक्तत्वाद् भगवतोऽन्यदेवताऽऽत्रोक्तं ब्रह्मेति प्रतीयते । वासुदेवात्मकं ब्रह्मेत्यादेर्भगवान् ब्रह्मेति प्रतीयते । एवमुभयथाप्रतीतिजनितसंशयस्य प्रश्नकारणस्य सद्भावादिति भावः । ननु ब्रह्मशब्दस्य भगवन्मात्रवृत्तित्वात् कथं तदिति विशेषितत्वेऽप्यन्यत्वप्रतीतिरित्यत उक्तम् -- प्रकृतीति ॥ ब्रह्मशब्दस्य भगवति मुख्यत्वेऽपि प्रकृतिवेदादेरप्यमुख्यतया तदर्थत्वात्तदिति विशेषितत्वेन मुख्यार्थासम्भवेऽप्यमुख्यार्थः प्रकृत्यादीनां मध्ये यत्किञ्चिदत्र स्यादिति प्रतीतिर्युक्तेति भावः । ननु तदिति विशेषणेन प्राप्ता ब्रह्मणो भगवदन्यत्वशङ्का ``साधिभूताधिदैवं माम्" इत्युपरितनवाक्ये भगवतैव परिहृता । ब्रह्मेति वक्तव्ये मामित्युक्तत्वात् । अतः कथं ब्रह्मणो भगवदन्यत्वप्रतीतिरित्यत उक्तम् - उपरीति ॥ यद्यप्येषा प्रतीतिरुपरितनवाक्ये परिहृता, तथापि पुनर्भवत्येव । तत्र ``साधियज्ञं च" इति च शब्दस्य साधिभूताधियज्ञं मां चेति संयोजनेनाधिभूतादिसहितत्वेन ब्रह्मज्ञानादन्यदेव विष्णुज्ञानमुच्यत इति तदिति विशेषणादेव प्रतीति सम्भवादिति भावः । यत्किञ्चिदित्यत्र अन्यदेवेत्यत्र च इति प्रतीत्या जात इति शेषः ।
* परमाक्षरो विष्णुरेव मुख्यत इति प्रसिद्धत्वात् तथैव परिहरति । अज्ञानां तदपि ज्ञापयितुं तथैव परिहारः । पुनरहमिति नोक्तमित्याशङ्का ``अव्यक्तं व्यक्तिमापन्नम्" इति विष्णावेव प्रयुक्तेनाव्यक्तशब्देनाव्यक्तोऽक्षर इत्युक्त इति परिह्रियते । ``ये चाप्यक्षरमव्यक्तम्" इत्यत्र तु पृथक् प्रश्नादुपासकयोः फलतारतम्यकथनात् ``कूटस्थोक्षर उच्यते" इत्युक्त्वा `अहमक्षरादपि चोत्तमः' इति विष्णोः उत्तमत्वकथनाच्च अन्यदेवेत्यवसीयते ।
// ननु ``साधिभूताधिदैवं माम्" इति भगवत एव ब्रह्मत्वोक्तेः किं तद् ब्रह्मेति प्रश्नेऽहं ब्रह्मेति परिहारो वक्तव्यः । ``अक्षरं ब्रह्म परमम्" इति कथमुच्यत इत्यत आह -- परमेति ॥ तथैव परमाक्षरं ब्रह्मेत्येव । भवतु परमाक्षरं ब्रह्मेत्युक्तिफलं, परमाक्षरशब्दस्य विष्णौ प्रसिद्धत्वात् । तथाप्यहमिति साक्षादनुक्त्वा एवं कथने को हेतुरित्यत आह -- अज्ञानामिति ॥ तदपि स्वस्य परमाक्षरत्वमपि । ननु ये परमाक्षरं विष्णुरिति न जानन्ति तेषामहं ब्रह्मेति नोक्तम् । अक्षरं ब्रह्मेत्येवोक्तम् । अतो ब्रह्म अक्षरं च भगवतोऽन्यदेवेत्याशङ्क्यैव स्यान्न तु परमाक्षरं ब्रह्म च भगवानिति ज्ञानमित्यत आह -- पुनरिति ॥ सत्यमेव शङ्का भवतीति । सा च ``अव्यक्तोऽक्षर इत्युक्तः" इत्युपर्यक्षरस्याव्यक्तत्वोक्त्या परिह्रियते । ``अव्यक्तं व्यक्तिमापन्नं मन्यन्ते माम्" इत्यव्यक्तशब्दस्य भगवति प्रयुक्तत्वात् । अतः ``अक्षरं ब्रह्म परमम्" इति परिहारे अहमित्युक्तादपि लाभसम्भवात् तथा परिहारो युक्त इति भावः ।
यद्यक्षरशब्दो विष्णावेव मुख्यस्तर्~हि `` ये चाप्यक्षरमव्यक्तम्" इत्यत्र, ``कूटस्थोऽक्षर उच्यते" इत्यत्र च अक्षरशब्दवाच्यो विष्णुः स्यादित्यत आह -- ये चेति ॥ अक्षरशब्दस्य विष्णौ मुख्यत्वेऽपि ``ये चाप्यक्षरमव्यक्तम्" इत्यत्र तावद्विष्णोरन्यदेव अक्षरशब्दवाच्यमित्येवावसीयते । ``ये भक्तास्त्वां पर्युपासते", ``ये चाप्यक्षरम्" इति भगवदक्षरयोः पृथक्त्वेन तदुपासकयोस्तारतम्यस्य पृष्टत्वात् । ``ये त्वक्षरमनिर्देश्यम्" ``ये तु सर्वाणि कर्माणि" इत्यादिनाऽक्षरोपासकानां भगवदुपासकानां च फलतारतम्यकथनाच्च । तथा `कूटस्थोऽक्षर उच्यते" इत्यत्रापि विष्णोरितरदेवाक्षरमित्यवसीयते । ``अहमक्षरादपि चोत्तमः" इति विष्णोरक्षरादुत्तमत्वकथनात् मुख्यार्थासम्भवे गौणाङ्गीकारस्य न्याय्यत्वात् । प्रकृते तु बाधकाभावात् विष्णुविषयत्वमेवेति भावः ।
* अधियज्ञोऽहमेवेति साधियज्ञमित्युक्त्या प्राप्तभेदनिवृत्त्यर्थम् । तस्यैव सर्वप्राणिदेहस्थितरूपान्तरापेक्षया सहितत्वं युज्यते ।
``प्राणिनां देहगो विष्णुरधियज्ञ इतीरितः ।
स एव व्याप्तरूपेण ब्रह्मेति परिकीर्त्यते ॥
तैस्तैरधियाज्यत्वात् बृंहितत्वाच्च हेतुतः ।
अध्यात्मं तत्स्वभावो यदधिकः परमात्मगः ॥
पुंसां स जडभावानां सर्गः कर्म हरेः स्मृतम् ।
भूताधिकत्वतो जीवा अधिभूतमितीरिताः ।
अधिको दैवतं विष्णुरेव यस्यास्तु सा रमा ॥
पुरुप्राणाऽधिदैवाख्या त्विति ज्ञेयमिदं नरैः ।" इति तत्वविवेके ।
कथं रूपोऽधियज्ञ इति प्रश्नस्त्वहमेवेत्युक्तत्वात् लक्षणोक्त्यैव परिहृतः ॥4॥
// नन्वधियज्ञब्रह्मणोऽपि विष्णुत्वे तत्र ब्रह्माहमेवेत्यनुक्त्वा अधियज्ञोऽहमेवेति किमर्थमुच्यते । कारणविशेषमन्तरेणोक्तिभेदासम्भवात् । अतोऽधियज्ञ एव विष्णुर्न ब्रह्मेत्याह -- अधियज्ञ इति ॥ ब्रह्माधियज्ञयोरुभयोर्विष्णुत्वेऽपि ब्रह्माहमेवेत्यनुक्त्वाऽधियज्ञोऽहमेवेति कथनं युज्यते । ``साधियज्ञ माम्" इति भगवता स्वस्याधियज्ञसाहित्येनोक्तत्वात् अधियज्ञो भगवतो भिन्न एवेत्याशङ्का प्राप्ता । तन्निवृत्त्यर्थत्वादहमेवेत्युक्तेः । तदित्युक्त्या ब्रह्मणो भगवदन्यत्वशङ्काप्राप्तावपि मामित्यनेन तस्याः प्राज्ञबुद्धिमपेक्ष्य निरस्तत्वेन तत्राहमेवेत्युक्त्यभावादिति भावः । एतेन ``एवं बहुविधा यज्ञा वितता ब्रह्मणो मुखे" इत्युक्तत्वादधियज्ञप्रश्नपरिहारौ प्राप्तिशून्याविति च निरस्तं भवति । भगवानेवाधियज्ञश्चेत् कथं तत्साहित्यं प्रागुक्तमित्यत आह -- तस्यैवेति ॥ भगवत एवाधियज्ञत्वेऽपि तत्साहित्यं युज्यते । अधियज्ञस्य सर्वप्राणिदेहगतरूपान्तरत्वादिति भावः । अनेन देह इत्यस्याभिप्रायो वर्णितो भवति ।
अत्र प्रमाणं दर्शयन् भगवत एव ब्रह्मत्वे कथं तदित्युक्तिरित्याशङ्कां च परिहरन् श्लोकद्वयं स्मृत्यैव व्याचष्टे -- प्राणिनामिति ॥ ब्रह्मणः सर्वगतरूपान्तरत्वात् तदित्युक्तिर्युक्तेति भावः । तैस्तैः सर्वप्राणिभिरधिकयाज्यत्वादधियज्ञो, बृंहितत्वात् ब्रह्मेत्यर्थः । भूताधिकत्वत इत्यत्र भूतपदेन पृथिव्यादीनि । पुरुप्राणाऽतः पुरुषाख्येति शेषः । ``षकारः प्राण आत्मा" इति श्रुतेः । ननु ``अधियज्ञः कथं कोऽत्र" इत्यत्र कुतोऽधियज्ञः कथं रूप इति प्रश्नः कस्मान्न परिहृत इत्यत आह -- कथं रूप इति ॥ तल्लक्षणोक्त्येति ॥ ``कविं पुराणम्" इति भगवल्लक्षणोक्तेत्यर्थः । भगवल्लक्षणोक्त्या कथमधियज्ञस्वरूपप्रश्नः परिहृत इत्यत उक्तम् -- अहमेवेति ॥ ``अधियज्ञोऽहमेव" इत्यधियज्ञस्य भगवदभिन्नत्वेनोक्तत्वादित्यर्थः ॥4॥
अन्तकाले च मामेव स्मरन् मुक्त्वा कलेवरम् ।
यः प्रयाति स मद्भावं याति नास्त्यत्र संशयः ॥ 5 ॥
यं यं वाऽपि स्मरन्भावं त्यजत्यन्ते कलेवरम् ।
तं तमैवैति कौन्तेय सदा तद्भावभावितः ॥ 6 ॥
तस्मात् सर्वेषु कालेषु मामनुस्मर युध्य च ।
मय्यर्पितमनोबुद्धिर्मामेवैष्यस्यसंशयः ॥ 7 ॥
अभ्यासयोगयुक्तेन चेतसाऽनन्यगामिना ।
परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन् ॥ 8 ॥
* मद्भावं मयि भावम् । सदा तद्भावभावितानामेव स्मरन् त्यजतीति केवलं तत्कालस्मरणं भवति । न चेत् स्मरतोऽपि समास्थस्खलनवत् पूर्वकर्मानुसारिस्मृत्या तत्प्राप्तिरेव भवति । अपरोक्षज्ञानिनां प्रारब्धकर्मावसाने स्मरंस्त्यजतीति भवत्येव । ``प्रयाणकालेऽपि च मां ते विदुः" इत्युक्तत्वात् । युक्तचेतस इति विशेषणात् नित्यं स्मरतामेवापरोक्षज्ञानं जायते ।
``भक्त्या ज्ञानान्निषिद्धानां त्यागान्नित्यं हरिस्मृतेः ।
अरागाद् विहितात्यागादित्येतैरेव संयुतैः ।
अपरोक्षदर्शनं विष्णोर्जायते नान्यथा क्वचित् ॥" इति सत्तत्वे ॥5-8॥
// प्रयाणकाले च कथं ज्ञेयोऽसीत्यस्य किमर्थं कथम्भूतः केन प्रकारेण स्मर्तव्योऽसीत्यर्थः । तत्र किमर्थं स्मर्तव्योऽसीत्यस्य परिहार उच्यते -- ``अन्तेति" । तत्र मद्भावपदस्य अन्यथाप्रतीतिनिरासायार्थमाह-- मद्भावमिति ॥ अन्यथा तं तमैवेतीति वाक्यशेषविरोध इति भावः । नन्वन्तकाले स्मरणादेव तत्प्राप्तेः सदा तद्भावभावितत्वं किमर्थमुच्यत इत्यत आह -- सदेति ॥ न तत्प्राप्त्यर्थं सदा तद्भावभावितत्वमुच्यते । किन्तु स्मरन् त्यजतीत्युक्तं साक्षादन्तकालस्मरणं सदा तद्भावभावितानामेव भवतीति साक्षादन्तकालस्मरणोपाय एवोच्यत इति भावः । ननु अन्तकाल एव महता प्रयत्नेन भगवत्स्मरणस्य कर्तुं शक्यत्वात् किं सदा तद्भावभावितत्वेनेत्यत आह -- न चेदिति ॥ सदा तद्भावभावितत्वाभावे महता प्रयत्नेन स्मरतोऽप्यन्यविषय एव प्रारब्धकर्मवशात् स्मृतिर्भवति । ततश्च तत्प्राप्तिरेव भवति । यथा खलु महा प्रयत्नेन समाधिं कुर्वतोऽपि प्रारब्धकर्मवशात् ततः स्खलनं भवति । अतः सदा तद्भावभावितत्वेन भाव्यमिति भावः । यदि प्रारब्धकर्मवशादन्तकाले ब्रह्मस्मृतिर्न भवेत् तर्~हि ज्ञानिनामपि प्रारब्धकर्मभावादन्तकाले ब्रह्मस्मृत्यभावेन मोक्षाभावः प्रसज्यत इत्यत आह - अपरोक्षेति ॥ अपरोक्षज्ञानिनां स्मरन् त्यजतीत्युक्तं साक्षादन्तकालस्मरणं भवत्येवातो नामोक्षः । तस्याप्रारब्धपूर्वोत्तरकर्मनाशाश्लेषसद्भावात् प्रारब्धकर्मणां परिमितत्वेन भोगेनावसानसम्भवादिति भावः ।
एवं व्याख्याने भगवद्वाक्यसम्मतिमाह -- प्रयाणेति ॥ नन्वेवं सति अन्तकालस्मरणस्य प्रारब्धकर्मावसानमेव कारणं, तत्कारणतयाऽपरोक्षज्ञानं चेति प्राप्तम् । तथा च किं सदा तद्भावभावितत्वेनेत्यत आह -- युक्तेति ॥ सत्यं साक्षादन्तकालस्मरणस्य प्रारब्धकर्मावसानमेव कारणम् । तत्कारणत्वादपरोक्षज्ञानं चेति । तथापि सदा तद्भावभावितत्वं च अन्तकालस्मरणकारणं भवत्येव । अपरोक्षज्ञानसाधनत्वात् । सदा तद्भावभावितत्वस्यापरोक्षज्ञानसाधनत्वेन युक्तचेतस इत्युक्तत्वादिति भावः । अनेन युक्तचेतसो मामाश्रित्य यतन्ति ये ते तद् ब्रह्म विदुरिति योजना सूच्यते । यन्नित्यस्मरणं भगवदपरोक्षज्ञानसाधनमुक्तं तद्भक्त्यादियुक्तमेव तथा । न स्वयमेवेति स्मृत्याऽऽह -- भक्त्येति ॥5॥
कविं पुराणमनुशासितारमणोरणीयांसमनुस्मरेद्यः ।
सर्वस्य धातारमचिन्त्यरूपमादित्यवर्णं तमसः परस्तात् ॥ 9 ॥
प्रयाणकाले मनसाऽचलेन भक्त्या युक्तो योगबलेन चैव ।
भ्रुवोर्मध्ये प्राणमावेश्य सम्यक् स तं परं पुरुषमुपैति दिव्यम् ॥ 10 ॥
* तमसः परस्तादप्राकृतदेहः ॥9-10॥
// कथम्भूतः स्मर्तव्योऽसीत्यस्य परिहार उच्यते ``कविम्" इति । तत्राऽदित्यवर्णश्चेत् शरीरित्वेन जन्मादिप्रसङ्ग इत्यत उक्तम् --``तमसः परस्तात्" इति । तदनूद्य व्याचष्टे -- तमस इति ॥ ``अव्यक्तं वै तमः" इति हि श्रुतिः ॥9-10॥
यदक्षरं वेदविदो वदन्ति विशन्ति यद्यतयो वीतरागाः ।
यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं सङ्ग्रहेण प्रवक्ष्ये ॥11 ॥
सर्वद्वाराणि संयम्य मनो हृदि निरुध्य च ।
मूर्ध्न्याधायात्मनः प्राणमास्थितो योगधारणम् ॥ 12 ॥
*मन आदीनां ब्रह्मणि चरणं ब्रह्मचर्यम् ॥11-12॥
<लन्ग्=कन्>// केन प्रकारेण स्मर्तव्योऽसीत्यस्य परिहार उच्यते ``यदक्षरम्" इति । तत्र पूर्वमन्तकालस्मरणस्य सदा तद्भावभावितत्वं साधनमुक्त्वा ब्रह्मचर्यं तथा कथमुच्यत इत्यतो ब्रह्मचर्यपदं तत्परतया व्याचष्टे -- मन आदीनामिति ॥ ``तत्ते पदं सङ्ग्रहेण प्रवक्ष्ये" इत्यत्र तत्स्मरणप्रकारं प्रवक्ष्य इत्यर्थः ॥11॥
ओमित्येकाक्षरं ब्रह्म व्याहरन् मामनुस्मरन् ।
यः प्रयाति त्यजन् देहं स याति परमां गतिम् ॥ 13 ॥
अनन्यचेताः सततं यो मां स्मरति नित्यशः ।
तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः ॥ 14 ॥
मामुपेत्य पुनर्जन्म दुःखालयमशाश्वतम् ।
नाप्नुवन्ति महात्मानः संसिद्धिं परमां गताः ॥ 15 ॥
* एकाक्षरवाच्यत्वादेकाक्षरं परं ब्रह्म ॥13-15॥
// ``एकाक्षरं ब्रह्म" इत्येतदेकमक्षरं शब्दब्रह्मेति प्रतीतिनिरासाय व्याचष्टे -- एकेति ॥ ओमित्येकमक्षरं वाचकं यस्य तदेकाक्षरमित्यर्थः । ब्रह्मशब्दस्य परब्रह्मण्येव मुख्यत्वात् न प्रतीत एवार्थः ॥13-15॥
आब्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽर्जुन ।
मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते ॥ 16 ॥
* ``नियमाज्जन्मनो भावो मुक्तस्यैव तथापि तु ।
महर्लोकमतीतानां न जन्मांशलयौ विना ॥
तत्राप्यवश्यं तत्स्थानं तैः क्षिप्रं पुनराप्यते ॥" इति पाद्मे ॥16॥
// ब्रह्मादीन् प्राप्तानामपि पुनर्जन्माभावात् किं विशिष्याभिधीयते मामुपेत्य पुनर्जन्म नाप्नुवन्तीति । अत उच्यते ``आब्रह्मेति" । तत्राऽजनान्नजनिर्भुवीति वचनात् जनोलोकादिस्थितानामपि जन्माद्यभावात् कथं ब्रह्मभवनमारभ्य पुनरावृत्तिरुच्यत इत्याशङ्कां स्मृत्यैव परिहरति -- नियमादिति ॥ अत्र जन्मपदं मरणस्याप्युपलक्षकम् ॥ अंशलयाविति ॥ अंशेन भूमौ जननं, लयान्ते च जननं, तदादौ मरणं चेत्यर्थः । अंशस्य मरणं चास्तीत्याह -- तत्रापीति ॥ अंशतोऽवतीर्णत्वेऽपि तैरंशैरंशिस्थानमाप्यत इत्यर्थः । अनेन जनादौ जननाद्यभावेऽपि नैतदयुक्तम् । मुक्तस्यैव मुख्यतया जननाद्यभावात् जनादावल्पजननादिभावदेतद् वाक्यस्य च तदर्थत्वादित्युक्तं भवति ॥
सहस्रयुगपर्यन्तमहर्यद् ब्रह्मणो विदुः ।
रात्रि युगसहस्रान्तां तेऽहोरात्रविदो जनाः ॥ 17 ॥
अव्यक्ताद् व्यक्तयः सर्वाः प्रभवन्त्यहरागमे ।
रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसञ्ज्ञके ॥ 18 ॥
भूतग्रामः स एवायं भूत्वा भूत्वा प्रलीयते ।
रात्र्यागमेऽवशः पार्थ प्रभवत्यहरागमे ॥ 19 ॥
परस्तस्मात्तु भावोऽन्योव्यक्तोऽव्यक्तात्सनातनः ।
यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति ॥ 20 ॥
अव्यक्तोऽक्षर इत्युक्तस्तमाहुः परमां गतिम् ।
यं प्राप्य न निवर्तन्ते तद्धाम परमं मम ॥ 21 ॥
पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यया ।
यस्यान्तस्थानि भूतानि येन सर्वमिदं ततम् ॥ 22 ॥
* सहस्रमिति बह्वेव । ब्रह्मणः परब्रह्मणः ।
``अव्यक्ताद् व्यक्तयः सर्वाः प्रभवन्त्यहरागमे ।
रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसञ्ज्ञकः ॥" इति वाक्यशेषात् । न हि विरिञ्चाहन्येव सर्वव्यक्तिलयः ।
``नित्यस्यापि हरेः कालो द्विपरार्धात्मकस्त्वयम् ।
अहश्चासौ निमेषश्चेत्यप्रवृत्त्योपचर्यते ॥" इति च ॥17-22॥
// मत्प्राप्तावेवापुनरावृत्तिरित्युक्तस्थापनाय अशेषसृष्टिप्रलयादिकर्तृत्वमात्मन उच्यते ``सहस्र"इति । तत्र सहस्रपदं दशशतवाचीत्यन्यथाप्रतीतिनिरासाय व्याचष्टे -- सहस्रमिति ॥ बह्वेव प्रसिद्धसहस्रादिति शेषः । ननु ``चतुर्युगसहस्राणि ब्रह्मणो दिनमुच्यते" इत्यादौ युगसहस्रमात्रस्य विरिञ्चदिनादित्वेनोक्तत्वात् कथं सहस्रपदं ततोऽपि बह्वर्थमित्यत आह -- ब्रह्मण इति ॥ नात्र चतुर्मुखस्याहोरात्रमुच्यते, येन सहस्रपदं ततोऽपि बह्वर्थं न स्यात् । किन्तु परब्रह्मणो द्विपरार्धात्मकमहोरात्रमिति भावः । कुतो ब्रह्मपदेन परब्रह्मेत्यङ्गीकृत्य तदहोरात्रपरत्वमुच्यते, विरिञ्चाहोरात्रपरत्वं किं न स्यादित्यत आह -- अव्यक्तादिति ॥ एवं वाक्यशेषसद्भावेऽपि कुतो नास्य विरिञ्चाहोरात्रपरत्वमित्यत आह -- न हीति ॥ अहनीति ॥ तदवसान इत्यर्थः । एवं न अहरागमे सर्वव्यक्तिप्रभव इत्यपि द्रष्टव्यम् । ननु कथं भगवतोऽहोरात्रसद्भावः । कालकृतविकाराभावात् । ``परनामनिमेषकान्ते" इत्यादौ द्विपरार्धकालस्य निमेषत्वेनोक्तत्वाच्चेत्याशङ्कां स्मृत्यैव परिहरति -- नित्यस्येति ॥ निर्विकारस्येत्यर्थः । उपचारे बीजमप्रवृत्त्येति ।रात्राविव प्रलयकाले प्रवृत्त्यभावादन्हीवान् यदा प्रवृत्तिसद्भावात् प्रलयादिकालो रात्र्यादित्वेनोपचर्यत इत्यर्थः ॥17-22॥
यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिनः ।
प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ ॥ 23 ॥
अग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तरायणम् ।
तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः ॥ 24 ॥
धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम् ।
तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते ॥ 25 ॥
शुक्लकृष्णो गती ह्येते जगतः शाश्वते मते ।
एकया यात्यनावृत्तिमन्ययाऽऽवर्तते पुनः ॥ 26 ॥
* यत्र कालाभिमानिदेवतासु मृत्यनन्तरं प्रयाताः । अग्निज्योतिर्धूमनामकालाभिमानित्वेऽपि कालप्राचुर्यात् काल इत्युच्यते ।
``अग्निर्ज्योतिरिति द्वेधा वह्नेः पुत्रो व्यवस्थितः ।
तं प्राप्य याति ब्रह्मिष्ठो दिवसाद्यभिमानिनः ॥" इति सत्तत्वे । तत्कालमरणविवक्षायामग्निज्योतिर्धूमानामयोगः ।
``अथ यो दक्षिणे प्रमीयते पितरूणामेव महिमानं गत्वा चन्द्रमसः सायुज्यं सलोकतामाप्नोत्येतौ वै सूर्याचन्द्रमसोर्महिमानौ ब्राह्मणो विद्वानभिजयति तस्माद् ब्राह्मणो महिमानमाप्नोति" इति विदुषो दक्षिणायनमरणेऽप्यपुनरावृत्त्या ब्रह्मप्राप्तिश्रुतेः ।
``विद्वान् ब्रह्म समाप्नोति यत्र तत्र मृतोऽपि सन् ।" इति पाद्मे ॥23-26॥
// भगवन्तं प्राप्तानामपुनरावृत्तिरन्येषां पुनरावृत्तिरित्युक्तम् । तत्र पुनरावृत्तिमतामन्येषां च केन पथाऽऽगमनमित्यत उच्यते ``यत्र" इति । यत्र यस्मिन् काले मृता अनावृत्तिं गच्छन्ति, यस्मिंश्च पुनरावृत्तिं गच्छन्ति तं कालं वक्ष्यामीत्यन्यथाप्रतीतिनिरासाय व्याचष्टे -- यत्रेति ॥ नन्वग्निज्योतिर्धूमानाम् अकालाभिमानिनामपि मार्गे गम्यत्वेन वक्ष्यमाणत्वात् कथं प्रतिज्ञावाक्ये यत्र काले तं कालमित्युच्यत इत्यत आह -- अग्नीति ॥ अग्निज्योतिर्धूमानां गम्यतया वक्ष्यमाणानामिति शेषः । गम्यतया वक्ष्यमाणेषु कालाभिमानिनां बाहुल्यात् अल्पसलिलयुतपयसि पयःपदस्य सलिलोपलक्षकत्ववत् कालपदस्येतरोपलक्षकत्वादिति भावः ।
ननु ``तेऽर्चिषमभिसम्भवन्ति", ``अर्चिरादिना तत्प्रथितेः" इत्यादौ ज्योतिषः प्रथमप्राप्यतयोक्तत्वात् कथमत्र ज्योतिषः प्रथममग्नेः प्राप्तिरुच्यते । कुतश्चाहरादिपदस्य देवताविषयत्वमित्याशङ्कां स्मृत्यैव परिहरति -- अग्निरिति ॥ एवं स्मृतिसमाख्यानादुक्त एवार्थो नाहरादिकाले मृतानामपुनरावृत्त्यादितिरिति समर्थितम् । विपक्षे बाधकं चाह -- तत्कालेति ॥ यद्यत्राहरादिकालमरणे अपुनरावृत्त्यादि स्यादिति भवेत्तर्~हि अग्निज्योतिर्धूमकथनस्यासङ्गतिः स्यात् । न ह्यहरादाविव अग्निज्योतिर्धूमेषु मरणं नामास्तीति भावः । इतश्च न प्रतीतोऽर्थ इत्याह -- अथेति ॥ ``य एवं विद्वानुदगयने प्रमेयते देवानामेव महिमानं गत्वाऽऽदित्यस्य सायुज्यं गच्छत्यथ यो दक्षिणे प्रमीयते" इति श्रुतावुत्तरायणे मृतस्य ज्ञानिनोऽपुनरावृत्त्या ब्रह्मप्राप्तिं, दक्षिणायने मृतस्य कर्मिणः पुनरावृत्त्या चन्द्रप्राप्तिं चोक्त्वा पुनर्ज्ञानिन उत्तरायणे दक्षिणायने वा मृतस्यापुनरावृत्त्या ब्रह्मप्राप्तिरुच्यते । अत उत्तरायणे मृतानां पुनरावृत्तिर्दक्षिणायने मृतानां पुनरावृत्तिरिति नियमाभावान्नान्योऽर्थ इति भावः ।
महिमानं पूजाम् । मह पूजायामिति धातोः । ``आदित्याच्चन्द्रमसम्" इति श्रुतेः ब्रह्ममार्गेऽपि सूर्याचन्द्रमसोः विद्यमानत्वात् सूर्याचन्द्रमसोः महिमानमाप्नोतीति युक्तम् । अत्र ज्ञानिनः उत्तरायणे मृतस्य ब्रह्मप्राप्तिकथनं फलाधिक्याभिप्रायमिति ज्ञातव्यम् । अत्र स्मृतिं चाह -- विद्वानिति ॥ यत्र तत्रेत्यस्याहरादिषु वा रात्र्यादिषु वेत्यर्थः ॥23-26॥
नैते सृती पार्थ जानन् योगी मुह्यति कश्चन ।
तस्मात्सर्वेषु कालेषु योगयुक्तो भवार्जुन ॥ 27 ॥
वेदेषु यज्ञेषु तपस्सु चैव दानेषु यत्पुण्यफलं प्रदिष्टम् ।
अत्येति तत्सर्वमिदं विदित्वा योगी परं स्थानमुपैति चाद्यम् ॥ 28 ॥
॥ ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुन संवादे अक्षरपरब्रह्मयोगो नाम अष्टमोऽध्यायः ॥
*``मार्गौ ब्रह्म च यः पश्येत्साक्षादेवापरोक्षतः ।
सर्वपुण्यातिगोऽमुह्यन् यात्यसौ ब्रह्म तत्परम् ॥" इति च ॥27-28॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीतातात्पर्यनिर्णये अष्टमोऽध्यायः ॥8॥
// मार्गकथनस्य प्रयोजनमुच्यते ``नैते" इति । तत्र परोक्षतः सृतिज्ञानमात्रेणेदं फलमित्यन्यथाप्रतीतिनिरासाय स्मृत्यैव व्याचष्टे -- मार्गाविति ॥ योगीत्यस्यार्थो ब्रह्म च पश्येदिति ।
वेदेष्वित्यस्यार्थः ``सर्वपुण्यातिगो यात्यसौ ब्रह्म तत्परम्" इति ॥ 27-28॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्य श्रीमद्भगवद्गीतातात्पर्यनिर्णयस्य टीकायां जयतीर्थमुनिविरचितायां न्यायदीपिकायाम् अष्टमोऽध्यायः ॥8॥
श्रीवादिराजगुर्वन्तर्गतश्री अश्विनीहयग्रीवात्मकमध्वेशाभिन्नकृष्णार्पणमस्तु ॥
*****************************************************************************
॥श्रीगुरुभ्योनमः ॥
श्रीवादिराजगुर्वन्तर्गत श्रीमध्वेशाभिन्नश्रीलक्ष्मीहयग्रीवाय नमः ॥
॥ अथ नवमोऽध्यायः ॥
श्रीभगवानुवाच
इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे ।
ज्ञानं विज्ञानसहितं यद् ज्ञात्वा मोक्ष्यसेऽशुभात् ॥ 1 ॥
राजविद्या राजगुह्यं पवित्रमिदमुत्तमम् ।
प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम् ॥ 2 ॥
अश्रद्दधानाः पुरुषा धर्मस्यास्य परन्तप ।
अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि ॥ 3 ॥
* सप्तमोक्तं प्रपञ्चयति ॥1-3॥
// एतदध्यायप्रतिपाद्यमर्थं दर्शयति -- सप्तमेति ॥ भगवन्महिमानमिति शेषः । न चैवमस्याष्टमत्वेन भवितव्यमिति वाच्यम् । अर्जुनप्रश्नपरिहारेणान्तरितत्वात् ॥ 1-3॥
मया ततमिदं सर्वं जगदव्यक्तमूर्तिना ।
मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः ॥ 4 ॥
न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम् ।
भूतभृन्न च भूतस्थो ममात्मा भूतभावनः ॥ 5 ॥
यथाऽऽकाशस्थितो नित्यं वायुः सर्वत्रगो महान् ।
तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय ॥ 6 ॥
सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम् ।
कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् ॥ 7 ॥
प्रकृतिं स्वामवष्टभ्य विसृजामि पुनः पुनः ।
भूतग्राममिमं कृत्स्नमवशं प्रकृतेर्वशात् ॥ 8 ॥
नच मां तानि कर्माणि निबध्नन्ति धनञ्जय ।
उदासीनवदासीनमसक्तं तेषु कर्मसु ॥ 9 ॥
* विष्णुगान्यप्यतत्स्थानि भूतान्येष ह्यसङ्गत इति च । ममात्मा मम देह एव । तदन्यत्वात् । देहस्याचेतनत्वाशङ्कानिवृत्तये ``ममात्मा" इत्याह ॥4-9॥
//प्रतिज्ञातं ज्ञानमुच्यते ``मया" इति । तत्र ``मत्स्थानि सर्वभूतानि", ``नच मत्स्थानि भूतानि" इति व्याहतमित्याशङ्कां स्मृत्यैव परिहरति -- विष्णुगानीति ॥ विष्णोः स्पर्शरहितत्वात् स्पृष्ट्वा तत्रस्थत्वाभावादविरोध इत्यर्थः । ननु ``मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः" इत्युक्तत्वात् ``भृतभृन्न च भूतस्थो ममात्मा" इति पुनरुक्तिरित्यत आह -- ममेति ॥ पूर्वं स्वस्य भूताधारत्वाद्युक्तम् । इदानीं स्वदेहस्येत्यपौनरुक्त्यमिति भावः । ननु भगवल्लक्षणं भूताधारत्वादिकं कथं तद्देहे सम्भवतीत्यत आह -- तदिति ॥ भगवदन्यत्वाद्देहस्य तत्र भगवल्लक्षणं युक्तमित्यर्थः । नन्वेवं भगवतस्तद्देहस्य चाभेदे पुनः पुनरुक्तिरापन्नेत्यत आह - देहस्येति ॥ भगवतस्तद्देहस्य च भेदमङ्गीकृत्य देहत्वेन या लोकस्य भगवद्देहेऽप्यचेतनत्वशङ्का जायते तन्निवृत्तयेऽत्र भगवल्लक्षणयुक्ततया तदैक्येन चेतनत्वमुच्यते । अतो न पुनरुक्तिरिति भावः । यद्यत्र देहो विवक्षितस्तर्~हि मम देह इति प्रसिद्धशब्दं विहायात्मशब्दप्रयोगे को हेतुरित्यतो वाऽह -- देहस्येति ॥ यद्यत्र मम देह इत्येवोच्यत तर्~हि कथमचेतनस्य देहस्य भगवल्लक्षणं स्यादित्याशङ्का स्यात् । तत्परिहाराय तस्य चेतनत्वं च पृथग्वक्तव्यं स्यात् । आत्मशब्दप्रयोगे तूभयमुक्तं स्यात् । द्व्यर्थो ह्ययमात्मशब्दो देहार्थस्तस्य चेतनत्वार्थश्च । अतो ममात्मेत्युक्तमिति भावः ॥4-9॥
मयाऽध्यक्षेण प्रकृतिः सूयते सचराचरम् ।
हेतुनाऽनेन कौन्तेय जगद्विपरिवर्तते ॥ 10 ॥
* ``अध्यक्षोऽधिपतिः प्रोक्तो यदक्षाण्यस्य चोपरि" इति शब्दनिर्णये ॥10॥
// जगत् प्रकृतिवशं त्वमुदासीनश्चेत् तर्~हि प्रकृतेरेव स्वातन्त्र्यं पाप्तमित्यत उच्यते `मया' इति ॥ तत्रापि अध्यक्षपदेनौदासीन्यमेवोच्यत इत्यन्यथाप्रतीतिनिरासाय तत् स्मृत्यैव व्याचष्टे -- अध्यक्ष इति ॥ एतदधिकृत्याक्षाणि यस्यासावध्यक्ष इत्यर्थः ॥10॥
अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् ।
परं भावमजानन्तो मम भूतमहेश्वरम् ॥ 11 ॥
मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः ।
राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः ॥ 12 ॥
महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः ।
भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् ॥ 13 ॥
सततं कीर्तयन्तो मां यतन्तश्च दृढव्रताः ।
नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते ॥ 14 ॥
* मानुषीं मनुष्यसदृशीम् । ``तन्वा विष्णुरनन्योऽपि स्वाधीनत्वात् तदाश्रितः" इति च ।
``ब्रह्मरुद्ररमादीनां साम्यदृष्टिरनन्यता ।
प्रादुर्भावगतस्यापि दोषदृष्टिरपूर्णता ॥
धर्मदेहादवतारादेर्भेददृष्टिश्च सङ्करः ।
अवतारेष्विति ज्ञेयमवज्ञानं जनार्दने ॥
सर्वं मोघं शुभं तस्य योऽवजानाति केशवम् ।
अवरं याति च तमः प्रादुर्भावगतोऽप्यतः ॥
ज्ञेयः केवलचिद्देहो विदोषः पूर्णसद्गुणः ॥" इति च भविष्यत्पर्वणि ॥11-14॥
// यद्येवंविधो भवांस्तर्~हि कथं केचित् त्वामवजानन्ति, का च तेषां गतिरित्यत उच्यते ``अवजानन्ति" इति । तत्र भगवतो मानुषशरीरोक्तेः `भूतभृन्न च भूतस्थः' इत्युक्तिविरोध इत्यत आह -- मानुषीमिति ॥ नात्र भगवद्देहस्य मानुषत्वमुच्यते, येन विरोधः स्यात् । किन्तु मूढानामवज्ञानकरणतया मानुषसादृश्येन प्रतीयमानत्वमेवेत्यर्थः । तथाप्यत्र `तनुमाश्रितम्' इति भगवतस्तद्देहस्य च भेदोक्तेः पूर्वोक्तविरोध इत्याशङ्कां स्मृत्यैव परिहरति -- तन्वेति ॥ यथा देवदत्तशरीरं तदधीनमेवं भगवद्देहस्यापि तदधीनत्वात् भगवतस्तदाश्रितत्वप्रयोगो गौण इत्यर्थः । अवज्ञानं च न केवलमवरतया ज्ञानं किन्त्वन्यदप्यस्तीति भावेन श्लोकं स्मृत्यैव व्याचष्टे -- ब्रह्मेति ॥ ``अनन्यता", ``अपूर्णता" इत्यत्र दृष्टिरिति संयोज्यम् । अवतारेषु सङ्करो नाम अनवताराणामवतारत्वेन, अवताराणामनवतारत्वेन ज्ञानम् । सर्वस्माद्भिन्नः सर्वोत्तमः स्वगतभेदविवर्जितो यथावदिति च ज्ञातव्यम् ॥11-14॥
ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते ।
एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम् ॥ 15 ॥
* ``एकमूर्तिश्चतुर्मूर्तिरथवा पञ्चमूर्तिकः ।
द्वादशादिप्रभेदो वा पूज्यते सज्जनैर्~हरिः ॥" इति च ॥15॥
// भगवतो दोषित्वादेवावजानन्तीति किं न स्यादित्यतः तथात्वे देवप्रकृतयोऽप्यवज्ञां कुर्युः, नच तदस्तीत्युच्यते ``महात्मनः" इति । तत्रैकत्वेनेत्येतदन्यथाप्रतीतिनिरासाय स्मृत्यैव व्याचष्टे -- एकेति ॥ एकत्वेनेत्यादिपदचतुष्टयस्य एकमूर्तिरित्यादि यथाक्रमं व्याख्यानम् ॥15॥
अहं क्रतुरहं यज्ञः स्वधाऽहमहमौषधम् ।
मन्त्रोऽहमहमेवाज्यमहमग्निरहं हुतम् ॥ 16 ॥
पिताऽहमस्य जगतो माता धाता पितामहः ।
वेद्यं पवित्रमोङ्कार ऋक्साम यजुरेव च ॥ 17 ॥
गतिर्भर्ता प्रभुः साक्षी निवासः शरणं सुहृत् ।
प्रभवः प्रलयः स्थानं निधानं बीजमव्ययम् ॥ 18 ॥
तपाम्यहमहं वर्षं निगृह्णाम्युत्सृजामि च ।
अमृतं चैव मृत्युश्च सदसच्चाहमर्जुन ॥ 19 ॥
* ``अर्च्यत्वादृक् समत्वाच्च निजरूपेषु साम सः ।
याज्यत्वात् स यजुर्यज्ञः सार्वज्ञात् पुरुषोत्तमः ॥
क्रतुः कृतिस्वरूपत्वात् स्वधाऽनन्यधृतो यतः ।
मानात् त्रातीति मन्त्रोऽयमुष्टानां निधिरौषधम् ॥
आ ज्यायस्त्वादाज्यनामा दर्भो दरधरो यतः ।
आहूतत्वाद्भुतं चायमग्निर्नेताऽगतेर्यतः ॥"इत्यादि च ।
तत्तत्पदार्थभिन्नोऽपि तत्तन्नामैवमच्युतः ।
स्वातन्त्र्यात् सर्वकर्तृत्वात् गुणानन्त्याच्च केवलम् ॥" इति च ।
``ओमित्याक्रियते यस्मादोङ्कारो भगवान् हरिः ।" इति च ।
``पातीति स पिता मानान्माता यत्स पितुर्महान् ।
पितामहो निधातृत्वान्निधानं भीतरक्षणात् ॥
शरणं व्यञ्जनाच्बैव बीजमित्युच्यते प्रभुः ॥" इति च ।
प्रलयकाले संहर्तृत्वात् प्रलयः । अन्यदाऽपीति मृत्युः ।
``प्राणगः प्राणधर्ता यदमृतं प्रविलापयन् ।
विश्वं प्रलय इत्युक्तो मृत्युरन्यत्र मारणात् ॥" इति च ।
``सत् साधुगुणपूर्णत्वादस्मान्नान्यो गुणाधिकः ।
यतोऽतोऽसदिति प्रोक्तं विष्ण्वाख्यं परमं पदम् ॥" इति शब्दनिर्णये ॥16-19॥
// प्रतिज्ञातं विज्ञानमुच्यते ``अहं क्रतुः"इति ॥ तत्र हरेः क्रत्वादि स्वरूपत्वमुच्यत इत्यन्यथाप्रतीतिनिरासाय स्मत्यैव व्याचष्टे-- अर्च्यत्वादिति ॥ ऋगञ्चन इति धातुः । ``सर्वदा समः तेन साम" इति हि श्रुतिः । यदस्ति तज्जानातीति यज्ञः । स्वात्मानं धत्त इति स्वधा । मानात् त्रातीति मन्त्रो, ज्ञातो रक्षतीत्यर्थः । उष प्लुष दाह इति धातोस्तापत्रयदग्धा उष्टाः । दर्भशब्दो दरं बिभर्तीत्यन्यत्रस्थो व्याक्रियते । आहूतत्वाद्यज्ञादाविति शेषः । अगतेः स्वशक्त्या गन्तुमशक्तस्य जगतः ।
क्रत्वादिभिन्नस्यैव हरेर्योगवृत्त्या तत्तन्नामकत्वमित्यत्र स्मृत्यन्तरं चाह -- तत्तदिति ॥ एतत्स्मृतावपि पूर्वमेवास्यार्थस्योक्तत्वं द्योतयत्येवंशब्दः । तत्तत् पदार्थभिन्नत्वे हेतुः स्वातन्त्र्यं सर्वकर्तृत्वं च । भिन्नत्वे कथं तत्तन्नामवाच्यत्वम् ? केवलं तत्तच्छब्दप्रवृत्तिनिमित्तानन्तगुणत्वादेवेत्यर्थः । तदधीनत्वादर्थवदिति न्यायेन स्वातन्त्र्यादिकं च तत्तच्छब्दवाच्यत्वे कारणम् । ॐकार इत्यादेरर्थं स्मृत्यन्तरेणाह -- ओमिति ॥ आक्रियते आहूयते । पाति पालयति । मानात् ज्ञानात् । पितुर्महानिति । जगत्पितुः विरिञ्चादपि महानित्यर्थः । निधातृत्वात् धारकत्वात् । व्यञ्जनात् जगदभिव्यञ्जकत्वात् । प्रलयमृत्युशब्दयोरर्थभेदं सप्रमाणकमाह-- प्रलयेति ॥ प्रलयादन्यदाऽपि संहर्तृत्वादित्यर्थः । इन्द्रियेषु स्थित्वा तेषां देहधारणेन मृतिं परिहरति यस्मात्तस्मादमृतमित्यर्थः । प्रविलापयन् प्रलय इति शेषः । अहं क्रतुरित्यादेरशेषक्रत्वादिभोक्तृत्वं चार्थः ॥16-19॥
त्रैविद्या मां सोमपाः पूतपापा यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते ।
ते पुण्यमासाद्य सुरेन्द्रलोकमश्नन्ति दिव्यान् दिवि देवभोगात् ॥ 20 ॥
ते तं भुक्त्वा स्वर्गलोकं विशालं क्षीणं पुण्ये मर्त्यलोकं विशन्ति ।
एवं त्रयीधर्ममनुप्रपन्ना गतागतं कामकामा लभन्ते ॥ 21 ॥
अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते ।
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥ 22 ॥
येऽप्यन्यदेवता भक्ता यजन्ते श्रद्धयाऽन्विताः ।
तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् ॥ 23 ॥
* ``अनन्यदेवतायागाद् भक्त्युद्रेकादकामनात् ।
सदा योगाच्च वैशिष्ट्यं त्रैविद्याद्वैष्णवादपि ॥
स्याद्धि भागवतस्यैव तेन ब्रह्मादयोऽखिलाः ।
अश्वमेधादिभिर्यज्ञैरपि केशवयाजिनः ॥
वैष्णवा इति बुद्ध्यैव मानयन्त्यन्यदेवताः ॥" इत्याग्नेये ।
``सम्यग् गुणगणज्ञानादुपासा पर्युपासना ।" इति च ॥20-23॥
// तत्र भगवतः सर्वयज्ञादिभोक्तृत्वे त्रैविद्यभागवतयोः फलभेदो न स्यादित्याशङ्क्य परिह्रियते ``त्रैविद्याः" इति । तदेव प्रपञ्चयते ``येऽपीति" । तत्र त्रैविद्यभागवतयोः भगवद्याजित्वसाम्येऽपि फलभेदः सहेतुकमुक्तः । तस्य स्फुटमप्रतीतेः स्मृत्यैव तद् व्याचष्टे-- अनन्येति ॥ अन्यदेवताभक्ता यजन्त इति त्रैविद्यानामन्यदेवतायाजित्वमुक्तम् । भागवतानां तत्प्रतियोगितयोक्तस्य ``अनन्याः" इत्यस्यार्थः ``अनन्यदेवतायागात्" इति । ``नतु मामभिजानन्ति तत्त्वेन" इति त्रैविद्यस्यातिशयभक्तिज्ञानाभाव उक्तः । तत्त्वज्ञानाभावे भक्त्यभावात् । तत्प्रतियोगितयोक्तस्य ``पर्युपासते" इत्यस्यार्थो ``भक्त्युद्रेकात्" इति । भक्त्युद्रेकेणोपासनस्यैव पर्युपासनत्वात् । ``स्वर्गतिं प्रार्थयन्ते कामकामाः" इति त्रैविद्यानां कामनमुक्तम् । तत्प्रतियोगितयोक्तस्य ``चिन्तयन्तो माम्" इत्यस्यार्थः ``अकामनात्" इति । मामेव चिन्तयन्तो न तु काममित्यर्थः । ``मामिष्ट्वा मामैव यजन्ति" इति त्रैविद्यानामन्ते समर्पणमुक्तम् । तत्प्रतियोगितयोक्तस्य ``नित्याभियुक्तानां" इत्यस्यार्थः ``सदायोगात्" इति । सर्वदा स्मरणोद्देशादियोगादित्यर्थः । वैशिष्ट्यं फलेनाधिक्यम् । ``योगक्षेमं वहामि" इत्यपुनरावृत्तिपुरुषार्थदानस्योक्तत्वात् । वैष्णवादपि भगवद्याजित्वेऽपीत्यर्थः । ``पशून् देवताभ्यः प्रत्यौहत्" इत्यादौ ब्रह्मादीनामप्यन्यदेवतायाजित्वं श्रूयत इत्यत आह -- वैष्णवा इति ॥ न तु देवतात्वेनेत्यर्थः ।
ननु त्रैविद्यानामविधिपूर्वकत्वविवरणरूपेण ``नतु ममाभिजानन्ति" इति पदेन तत्त्वज्ञानाभाव उक्तः । तत्प्रतियोगितया भागवतस्य तत्त्वज्ञानं किमिति नोक्तमित्यतः पर्युपासनपदेनैवोक्तमिति भावेन तत्स्मृत्यैव व्याचष्टे -- सम्यगिति ॥20-23॥
<लन्ग्=कन्>अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च ।
न तु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते ॥ 24 ॥
यान्ति देवव्रता देवान् पितरून् यान्ति पितृव्रताः ।
भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोऽपि माम् ॥ 25 ॥
पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति ।
तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः ॥ 26॥
यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् ।
यत् तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् ॥ 27 ॥
शुभाशुभफलैरेवं मोक्ष्यसे कर्मबन्धनैः ।
संन्यासयोगयुक्तात्मा विमुक्तो मामुपैष्यसि ॥ 28 ॥
* ``मामिष्ट्वा प्रार्थयन्त इत्युक्तत्वात् जानन्तोऽपि नाभिजानन्ति तत्त्वेन ।
``सर्वदेववरत्वेन यो न जानाति केशवम् ।
तस्य पुण्यानि मोघानि याति चान्धतमो ध्रुवम् ॥" इति च ।
मोघाशा मोघकर्माण इत्युक्तत्वाच्च न केवलाज्ञविषयं मिथ्याज्ञानिविषयं वा ``च्यवन्ति ते" इत्यादि । अतः सर्वाधिक्यं विष्णोर्ज्ञात्वाऽपि ब्रह्मादीनां तत्परिवारत्वादिकमजानतामिदं फलम् ॥ 24-28 ॥
// ``न तु मामभिजानन्ति तत्त्वेनातः च्यवन्ति ते" इत्यत्र भगवन्तमजानतां तत्त्वेनेति विशेषणात् विपरीतं जानतां वाऽत्रैविद्यानां स्वर्गं भोगानन्तरं च्यवनमुच्यत इत्यन्यथाप्रतीतिनिरासायाह -- मामिष्ट्वेति ॥ नचात्र ``नतु मामभिजानन्ति तत्त्वेन" इत्युक्तत्वात् भगवन्तमजानतां मिथ्याज्ञानिनां वा त्रैविद्यानां स्वर्गात् च्यवनमुच्यत इति कल्प्यम् । ``नतु मामभिजानन्ति तत्त्वेन" इत्यस्य सर्वदेववरत्वेन जानन्तोऽपि ब्रह्मरुद्रादीनां तत्परिवारत्वादिकं सम्य~घX न जानन्तीत्यर्थोपपत्तेः । कुतोऽयमर्थ कल्प्यते ? ``त्रैविद्या मां सोमपाः पूतपापा यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते" इति त्रैविद्यस्यान्ते सर्वसमर्पणेन भगवद्यजनप्रार्थनयोरुक्तत्वात् सर्वदेववरत्वाज्ञाने तदसम्भवात् । अभिशब्दबलाच्चेति भावः ।
इतश्च सर्वभोगानन्तरं च्यवनं नात्र केवलाज्ञानां मिथ्याज्ञानिनां चोच्यत इत्याह -- सर्वेति ॥ सर्वदेववरत्वेनेति केवलाज्ञानां यज्ञादिकर्माणि मोघानि मिथ्याज्ञानिकर्मणां मोघत्वस्योक्तत्वाच्च न स्वर्गभोगानन्तरं च्यवनमत्र केवलाज्ञस्य मिथ्याज्ञानिनो वोच्यत इत्यर्थः । मिथ्याज्ञानी चेद् याति चान्धन्तमो ध्रुवमिति । उक्तं विवृण्वन्नुपसंहरति ॥24-28 ॥
समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः ।
ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम् ॥ 29 ॥
अपि चेत्सुदुराचारो भजते मामनन्यभाक् ।
साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः ॥ 30 ॥
क्षिप्रं भवति धर्मात्मा शश्वत् शान्तिं निगच्छति ।
कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति ॥ 31 ॥
* ``नास्य भक्तोऽपि यो द्वेष्यो न चाभक्तोऽपि यः प्रियः ।
किन्तु भक्त्यनुसारेण फलदोऽतः समो हरिः ॥" इति पाद्मे । प्रीत्या मयि ते ॥29-31॥
// भक्त्युपहृतमश्नामीति भक्तप्रियत्वमुक्तम् । तथासत्यभक्तेष्वप्रीतिश्च स्यात् । ततश्च भगवतोवैषम्यापन्नमित्यत उच्यते ``समोऽहं" इति । तदस्फुटार्थत्वात् स्मृत्यैव व्याचष्टे -- नास्येति ॥ भक्तोऽपि यो द्वेष्योऽसौ नास्ति । अभक्तोऽपि यः प्रियोऽसौ नास्तीत्यर्थः । अनेन ``न मे द्वेष्योऽस्ति न प्रियः" इत्यत्रापि भक्तोभक्तश्चेति संयोज्यमित्युक्तं भवति । भक्त्यनुसारेण फलद इति भक्तेष्वेव प्रीतिं करोम्यभक्तेष्वेवाप्रीतिमित्यर्थः । यदि भक्तेषु द्वेषम् अभक्तेषु प्रीतिं कुर्यात्तर्~ह्येव विषमः स्यात् । न चैवम् । अतः सम एवेति भावः । ये भजन्ति तु मां भक्त्या तेषु प्रीतिं करोमीति वक्तव्यम् । किमेतदभक्तसाधारणं मयि त इत्याद्युच्यत इत्यत आह -- प्रीत्येति ॥ वर्तन्त इत्यादि शेषः । तदेवोच्यत इति भावः ॥29-31॥
मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः ।
स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम् ॥ 32 ॥
किं पुनर्ब्राह्मणाः पुण्या भक्ता राजर्षयस्तथा ।
अनित्यमसुखं लोकमिमं प्राप्य भजस्व माम् ॥ 33 ॥
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ।
मामेवैष्यति युक्त्तैवमात्मानं मत्परायणः ॥ 34 ॥
॥ ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे राजविद्याराजगुह्ययोगो नाम नवमोऽध्यायः ॥ 9 ॥
* ``पापादिकारिताश्बैव पुंसां स्वाभाविका अपि ।
विप्रत्वाद्यास्तत्र पुण्याः स्वाभाव्या एव मुक्तिगाः ॥
यान्ति स्त्रीत्वं पुमांसोऽपि पापतः कामतोऽपि वा ।
न स्त्रियो यान्ति पुंस्त्वं तु स्वभावादेव याः स्त्रियाः ॥
पुंसा सहैव पुन्देहे स्थितिः स्याद्वरदानतः ।
तज्जन्मनि वराः पापजाताभ्यो निजसस्त्रियः ।
सर्वेषामपि जीवानामत्यन्त्यदेहो यथा निजः ॥
मुक्तौ तु निजभावः स्यात्कर्मभोगान्ततोऽपि च ।"
इति भविष्यत्पर्ववचनात् पापयोनयः पुण्या इति विशेषणम् ॥32-33॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीतातात्पर्यनिर्णये नवमोऽध्यायः ः ॥
// ननु भगवदाश्रिताः सर्वेऽपि पुण्या एव । ``सत्त्वाधिकः पुल्कसोऽपि यस्तु भागवतः सदा' इत्यादेः । अतः कथं ``मां हि पार्थ" इति स्त्रीवैश्यशूद्राणां पापयोनय इति विशेषणं, ब्राह्मणराजर्षीनां पुण्या इति विशेषणमुच्यत इत्यत आह -- पापादीति ॥ स्वतो विप्राद्युत्तमवर्णानां क्षत्रियाद्यधमवर्णित्वं पापकारितम् । स्वतः शूद्राद्यधमवर्णानां वैश्याद्युत्तमवर्णित्वं पुण्यकारितमित्यर्थः । अत्रादिपदेन कामश्च भवति । स्वाभाविकविप्रत्वाद्याः पुण्या इत्युच्यन्त इत्यर्थः । तल्लक्षणमाह -- मुक्तिगा इति ॥ मुक्ताववशिष्यमाणविप्रत्वाद्याः स्वाभाविका इत्यर्थः ।
यथा स्वतो विप्रादीनां क्षत्रियादित्वं स्वतः क्षत्रियादीनां विप्रादित्वं भवति तथा स्वाभाविकपुंसां स्त्रीत्वं, स्वाभाविकस्त्रीणां पुंस्त्वं स्यात् किमित्याशङ्कायामाह -- यान्तीति ॥ पापतो यथा सुद्युम्नस्य इलात्वं, कामतो यथाऽग्निपुत्राणामप्सरस्त्वम् । इलायाः सुद्युम्नत्व दर्शनात् कथं ``न स्त्रियो यान्ति पुंस्त्वं" इत्युच्यत इत्यत आह -- स्वभावादिति ॥ स्वभावादेव स्त्रिया अम्बायाः शिखण्डित्वं स्थूणाकर्णवरेण दृष्टमित्यत आह -- पुंसेति ॥ अम्बायाः स्थूणाकर्णवरेण तद्देहे तेन सह तस्मिन् जन्मनि स्थितिरेवासीन्न तु स्वातन्त्र्येण पुरुषदेहः । तावन्मात्रं त्वङ्गीक्रियत इति भावः । स्वभावात् पुंसां पापतः स्त्रीत्वे तासां स्वभावतः स्त्रीणां मध्ये कासां श्रेष्ठत्वमित्यपेक्षायामाह -- वरा इति ॥ पापजाताभ्य इत्यनेन कामतो जातानां वरत्वं सूचितम् । स्वभावतः स्त्रीणां पापजाताभ्यः श्रेष्ठतायाम् इलादिभ्य आसुरीणां श्रेष्ठत्वं प्रसज्यते । तन्निरासार्थमुक्तम् -- सस्त्रिय इति । अत्रावरत्वमौपाधिकमभिप्रेतम् । स्वाभाविकावशेषस्य कालान्तरं चाह -- सर्वेषामिति ॥ चरमदेहः स्वभावानुसारीत्यर्थः । पूर्वानुवादेन कालान्तरं चाह -- मुक्तौ त्विति ॥ इति वचनानुसारेण अविरुद्धतया व्याख्यातुं शक्यत्वादेतद्विशेषणं युक्तमित्यर्थः । अनेन एतदेवं व्याख्यातं भवति । ये पापदियोनयोऽस्वाभाविकाः स्त्रियो वैश्यास्तथा शूद्रा ब्राह्मणा राजर्षयश्च तेऽपि यान्ति परां गतिम् । किं पुनः पुण्याः स्वाभाविका एते स्त्रीवैश्यादयः । अत्र पापयोनयः स्त्रिय इतिवत् पुमांस इत्यनुक्तिः पापादिकारितपुंसामभावादिति ॥32-33॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्य श्रीमद्भगवद्गीतातात्पर्यनिर्णयस्य टीकायां जयतीर्थमुनिविरचितायां न्यायदीपिकायां नवमोऽध्यायः ॥9 ॥
॥ श्रीवादिराजगुर्वन्तर्गतश्रीमध्वेशाभिन्नश्रीकृष्णार्पणमस्तु ॥
**************************************************************************************************
॥श्रीगुरुभ्योनमः ॥
श्रीवादिराजगुर्वन्तर्गत श्रीमध्वेशाभिन्नश्रीलक्ष्मीहयग्रीवाय नमः ॥
॥ अथ दशमोऽध्यायः ॥
श्रीभगवानुवाच --
((भूय एव महाबाहो श्रुणु मे परमं वचः ।
यत्तेऽहं प्रियमाणाय वक्ष्यामि हितकाम्यया ॥ 1 ॥
न मे विदुस्सुरगणाः प्रभवं न महर्षयः ।
अहमादिर्~हि देवानां महर्षीणां च सर्वशः ॥ 2 ॥
* ॥ हरिः ॐ ॥ उपलक्षणार्थं सुरगणा इत्यादि ॥1-2॥
// ॥हरिः ॐ ॥ षष्ठे ध्यानमुक्तम् । तत्र ध्येयतया भगवद्विभूतिरूपाण्यत्रोच्यन्त इत्यध्यायार्थस्यातिरोहितत्वादनुक्तिः ।
भूयो महिमानं शृण्विति प्रतिज्ञातमुच्यते ``न मे विदुः" इति । तत्र मे महिमानं सुरगणाः महर्षयश्च न विदुरित्येवोक्तत्वाद् गन्धर्वादयोविदुरित्यन्यथाप्रतीतिनिरासायाह -- उपलक्षणार्थमिति ॥ सुरगणा महर्षय इति पदद्वयं सर्वोपलक्षकम् । सुरगणादीनामज्ञानेऽन्येषां सुतरां तद्भावादिति भावः ॥1-2 ॥
((यो मामजमनादिं च वेत्ति लोकमहेश्वरम् ।
असम्मूढः स मर्त्येषु सर्वपापैः प्रमुच्यते ॥ 3 ॥
*अनस्याप्यादिरनादिः ॥3॥
// स्वज्ञानात् मोक्षाख्यमहिमाऽत्रोच्यते ``यो माम्" इति । तत्र अजमित्युक्तत्वादनादिमिति पुनरुक्तिरित्यत आह -- अनस्येति ॥ अनो मुख्यप्राणः ॥ 3 ॥
((बुद्धिर्ज्ञानमसम्मोहः क्षमा सत्यं दमः शमः ।
सुखं दुःखं भवोभावो भयं चाभयमेव च ॥ 4 ॥
*बुद्धिर्बोधनिधित्वात्तदन्तःकरणमुच्यते" इति शब्दनिर्णये ॥4॥
// बुद्ध्यादिप्रदत्वमहिमा चोच्यते ``बुद्धिः" इति । तत्र बुद्धिज्ञानशब्दयोरेकार्थत्वमित्यतो बुद्धिशब्दस्यार्थान्तरत्वे स्मृतिमाह -- बुद्धिरिति ॥ भुत् बोधः । तदाश्रयत्वात् जलधिरितिवत् तद् ज्ञानाश्रयोऽन्तःकरणं बुद्धिरित्युच्यत इत्यर्थः ॥4॥
((अहिंसा समता तुष्टिस्तपोदानं यशोऽयशः ।
भवन्ति भावा भूतानां मत्त एव पृथग्विधाः ॥ 5 ॥
महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा ।
मद्भावा मानसा जाता येषां लोक इमाः प्रजाः ॥ 6 ॥
* ``मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः ।
वसिष्ठश्च महातेजाः पूर्वे सप्तर्षयः स्मृताः ॥" इति पाद्मे ।
``मनवो बोधवैशेष्याद् देवा ब्रह्मादयः स्मृताः ।
विप्रादिवर्णभेदेन चत्वारो बहवोऽपि ते ॥
दीनत्वाद्देवनामानास्त्वन्ये ब्रह्मादिनामकाः ।
अवैष्णवकृतो यज्ञो दीनैर्देवैस्तु भुज्यते ॥
वैष्णवस्तु कृतो यज्ञो देवैर्~हि मनुनामकैः ।
मरीच्याद्यास्तु तत्पुत्रा मानवा नामतः स्मृताः ॥
तत्पुत्रपौत्रा मुनयस्तथा मानवमानवाः ।
तेभ्यो मनुष्या इत्येषा सृष्टिर्विष्णोः समुत्थिता ॥" इति महाविष्णुपुराणे ॥6॥
// न केवलं भूतानां बुद्ध्यादिकं मत्तो भवत्यपि तु सर्वभूतानि चेत्युच्यते ``महर्षयः" इति । तत्र प्रतिमन्वन्तरं सप्तर्षिभेदोक्तेरत्र के विवक्षिता इति चेत् पूर्वमन्वन्तरस्तथा एव । पूर्वं इति विशेषणात् । के पूर्वमन्वन्तरस्था इत्यतस्तान् स्मृत्यैव दर्शयति -- मरीचिरिति ॥ चतुर्दशमनुषु चत्वारोऽत्र के विवक्षिता इत्यतो न केवलमत्र मनुपदेन प्रसिद्धमनवोऽपि तु सर्वदेवाः । तेषां चतुष्ट्वं विप्रादिवर्णविवक्षयेत्यत्र स्मृतिमाह -- मनव इति ॥ मनु अवबोधन इति धातोः बोधवत्त्वान्मनव इत्युक्ते बोधस्य सर्वप्राणिसाधारणत्वात् को विशेषो देवादीनामित्यतो बोधवैशेष्यादित्युक्तम् । ननु देवा इति वा ब्रह्माद्या इति वा प्रसिद्धप्रयोगं विहाय किमप्रसिद्धप्रयोगेणेत्यत आह -- दीनत्वादिति ॥ देवादिशब्दानामसुरसाधारणत्वात् मनुशब्दस्यैव देवेष्वसाधारणत्वात् तस्यैव प्रयोग इति भावः । द्विविधदेवानां कुत्र विनियोग इत्यत आह -- अवैष्णवेति ॥ एतेनैव ``एषां लोक इमाः प्रजाः" इत्यस्याप्यभिप्रायो वर्णितो भवति ॥6॥
((एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः ।
सोऽविकम्पेन योगेन युज्यते नात्र संशयः ॥ 7 ॥
* युज्यते येन योगोऽसावुपायः शक्तिरेव च ।" इति च । विशिष्टभवनं विभूतिः । महत्त्वम्, विविधभवनं वा । योगः सामर्थ्यम् ॥7॥
// उक्तमाहात्म्यज्ञाने फलमुच्यते ``एतां" इति । तत्र कर्मसमाधियोगयोरत्रानुक्तेः कथमेतं योगमित्युच्यत इत्यतो नात्र कर्मयोगादिर्विवक्षित इति भावेन योगशब्दस्यार्थान्तरं स्मृत्या दर्शयति -- युज्यत इति ॥ युज्यते उपेयं सम्भवतीत्यर्थः । शक्तिश्च, युज्यते शक्यमनयेति योग इत्यर्थः । नन्वत्राणिमाद्यैश्वर्यस्यानुक्तत्वात् कथमेतां विभूतिमित्युच्यत इत्यत आह -- विशिष्टेति ॥ अभिप्रायमाह -- महत्त्वमिति ॥ महत्त्वं च सुरगणाद्यविज्ञेयतयोक्तमिति भावः । ``वक्तुमर्~हस्यशेषेण दिव्या ह्यात्मविभूतयः" इति पृष्टे महत्त्वस्यानुक्तत्वात् कथं विभूतिशब्दो महत्त्वार्थ इत्यत आह -- विविधेति ॥ तत्र विविधभवनं विभूतिशब्देनाभिप्रेतमिति भावः । अस्तु योगशब्दस्योपायादिवाचित्वं तथाप्यत्र कोप्युपायो नोक्त इत्यतोऽत्र शक्तिरेवार्थः । सा चोक्तेति भावेनाह -- योग इति ॥7॥
((अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते ।
इति मत्वा भजन्ते मां बुधा भावसमन्विताः ॥ 8 ॥
* ``भजन्ते माम्" इत्यनेन जीवेश्वरैक्यशङ्कां निवर्तयति ॥8॥
// उक्तार्थे विश्वासोत्पादनार्थं सन्ति च तथा भजन्त इत्युच्यते ``अहम्" इति । तत्र ``अहं सर्वस्य प्रभवः" इत्यादिनैव मामित्यस्य सिद्धत्वात् किं पुनः `भजन्ते माम्' इत्युच्यत इत्यत आह -- भजन्ते मामिति ॥ मामित्यनुक्ते जीवेश्वरैक्याभिप्रायेण स्वात्मानमुद्दिश्याहमेव सर्वस्य प्रभव इत्यादि मत्वा भजन्त इति प्रतीतिः स्यात् । तन्निवृत्त्यर्थं मामित्युक्तमित्यर्थः ॥8॥
((मच्चित्ता मद्गतप्राणा बोधयन्तः परस्परम् ।
कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च ॥ 9 ॥
तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् ।
ददामि बुद्धियोगं तं येन मामुपयान्ति ते ॥ 10 ॥
तेषामेवानुकम्पार्थमहमज्ञानजं तमः ।
नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता ॥ 11 ॥
अर्जुन उवाच --
परं ब्रह्म परं धाम पवित्रं परमं भवान् ।
पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुम् ॥ 12 ॥
आहुस्त्वामृषयः सर्वे देवर्षिर्नारदस्तथा ।
असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे ॥ 13 ॥
सर्वमेतदृतं मन्ये यन्मां वदसि केशव ।
न हि ते भगवन्व्यक्तिं विदुर्देवा न दानवाः ॥ 14 ॥
स्वयमेवात्मनाऽऽत्मानं वेत्थ त्वं पुरुषोत्तम ।
भूतभावन भूतेश देवदेव जगत्पते ॥ 15 ॥
वक्तुमर्~हस्यशेषेण दिव्या ह्यात्मविभूतयः ।
याभिर्विभूतिभिर्लोकानिमांस्त्वं व्याप्य तिष्ठसि ॥ 16 ॥
कथं विद्यामहं योगिंस्त्वां सदा परिचिन्तयन् ।
केषु केषु च भावेषु चिन्त्योऽसि भगवन्मया ॥ 17 ॥
विस्तरेणात्मनो योगं विभूतिं च जनार्दन ।
भूयः कथय तृप्तिर्~हि श्रुण्वतो नास्ति मेऽमृतम् ॥ 18 ॥
श्रीभगवानुवाच --
हन्त ते कथयिष्यामि दिव्या ह्यात्मविभूतयः ।
प्राधान्यतः कुरुश्रेष्ठ नास्त्यन्तो विस्तरस्य मे ॥ 19 ॥
अहमात्मा गुडाकेश सर्वभूताशयस्थितः ।
अहमादिश्च मध्यं च भूतानामन्त एव च ॥ 20 ॥
* मद्गतप्राणाः मद्विषयचेष्टाः ॥9-20॥
// प्राणानां भगवद्गतत्वं कथमित्यत आह -- मद्गतेति ॥
((आदित्यानामहं विष्णुर्ज्योतिषां रविरंशुमान् ।
मरीचिर्मरुतामस्मि नक्षत्राणामहं शशी ॥ 21 ॥
वेदानां सामवेदोऽस्मि देवानामस्मि वासवः ।
इन्द्रियाणां मनश्चास्मि भूतानामस्मि चेतना ॥ 22 ॥
रुद्राणां शङ्करश्चास्मि वित्तेशो यक्षराक्षसाम् ।
वसूनां पावकश्चास्मि मेरुः शिखरिणामहम् ॥ 23 ॥
पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम् ।
सेनानीनामहं स्कन्दः सरसामस्मि सागरः ॥ 24 ॥
महर्षीणां भृगुरहं गिरामस्म्येकमक्षरम् ।
यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालयः ॥ 25 ॥
अश्वत्थः सर्ववृक्षाणां देवर्षीणां च नारदः ।
गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः ॥ 26 ॥
उच्बैःश्रवसमश्वानां विद्धि माममृतोद्भवम् ।
ऐरावतं गजेन्द्राणां नराणां च नराधिपम् ॥ 27 ॥
आयुधानामहं वज्रं धेनूनामस्मि कामधुक् ।
प्रजनश्चास्मि कन्दर्पः सर्पाणामस्मि वासुकिः ॥ 28 ॥
अनन्तश्चास्मि नागानां वरुणो यादसामहम् ।
पितरूणामर्यमा चास्मि यमः संयमतामहम् ॥ 29 ॥
प्रह्लादश्चास्मि दैत्यानां कालः कलयतामहम् ।
मृगाणां च मृगेन्द्रोऽहं वैनतेयश्च पक्षिणाम् ॥ 30 ॥
पवनः पवतामस्मि रामः शस्त्रभृतामहम् ।
झषाणां मकरश्चास्मि स्त्रोतसामस्मि जाह्नवी ॥ 31 ॥
सर्गाणामादिरन्तश्च मध्यं चैवाहमर्जुन ।
अध्यात्मविद्या विद्यानां वादः प्रवदतामहम् ॥ 32 ॥
अक्षराणामकारोऽस्मि द्वन्द्वः सामासिकस्य च ।
अहमेवाक्षयः कालो धाताऽहं विश्वतोमुखः ॥ 33 ॥
मृत्युः सर्वहरश्चाहमुद्भवश्च भविष्यताम् ।
कीर्तिः श्रीर्वाक्च नारीणां स्मृतिर्मेधा धृतिः क्षमा ॥ 34 ॥
बृहत्साम तथा साम्नां गायत्री छन्दसामहम् ।
मासानां मार्गशीर्षोऽहं ऋतूनां कुसुमाकरः ॥ 35 ॥
द्यूतं छलयतामस्मि तेजस्तेजस्विनामहम् ।
जयोऽस्मि व्यवसायोऽस्मि सत्त्वं सत्त्ववतामहम् ॥ 36 ॥
वृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनञ्जयः ।
मुनीनामप्यहं व्यासः कवीनामुशना कविः ॥ 37 ॥
दण्डो दमयतामस्मि नीतिरस्मि जिगीषताम् ।
मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवतामहम् ॥ 38 ॥
यच्चापि सर्वभूतानां बीजं तदहमर्जुन ।
न तदस्ति विना यत्स्यान्मया भूतं चराचरम् ॥ 39 ॥
नान्तोऽस्ति मम दिव्यानां विभूतीनां परन्तप ।
एष तूद्देशतः प्रोक्तो विभूतेर्विस्तरो मया ॥ 40 ॥
* ``येषां विष्णुस्वरूपाणां सन्निधेरन्यवस्तुषु ।
विशिष्टत्वं स्वजातेः स्याद् विभूत्याख्यानि तानि तु ॥
ब्रह्मनामा ब्रह्मगतः सर्वदैवतसञ्चयात् ।
आधिक्यहेतुर्भगवान् सामस्थः सामनामकः ॥
आधिक्यहेतुर्वेदेभ्यस्तथाऽश्वत्थस्थितो हरिः ।
उत्कर्षहेतुवृक्षेभ्यो य एवाश्वत्थनामकः ॥" इत्यादि विभूतितत्वे ॥
<लन्ग्=कन्>// अत्र विभूतिरूपप्रश्ने ``अहं ज्योतिषां रविः" इत्याद्युच्यते । तत्र स्वजात्यादिविशिष्टवस्तून्येव भगवतो विभूतिरूपाणीत्यन्यथाप्रतीतिं स्मृत्यैव निवारयति -- येषामिति ॥ स्वजातेरिति स्वजात्येकदेशाद्युपलक्षणम् । तदेव प्रपञ्चयति -- ब्रह्मेति ॥ आधिक्यहेतुरित्यादौ ब्रह्मण इत्यादि शेषः ।
* ``केषु केषु च भावेषु" इत्युक्तत्वाच्च ब्रह्मादिजीवेभ्योऽन्यदेव विभूतिरूपम् ।
``द्विविधं वैभवं रूपं प्रत्यक्षं च तिरोहितम् ।
कपिलव्यासकृष्णाद्यं प्रत्यक्षं वैभवं स्मृतम् ॥
भिन्नं ब्रह्मादिजीवेभ्यो जडेभ्यश्चापि तद्गतम् ।
स्वजात्याधिक्यदं तेषां तत्तिरोहितवैभवम् ॥" इत्यादि च ।
// इतश्च न ख्यादिकमेव भगवतो विभूतिरूपं किन्तु तत्रस्थमेवेत्याह -- केष्विति ॥ यद्यत्र ख्यादिकमेव विभूतिरूपं न तु तदन्तर्गतमिति स्यात् तदा ``केषु केषु च भावेषु चिन्त्योऽसि" इति प्रश्नाननुगुणत्वं परिहारस्य स्यादिति भावः । जीवपदं जडस्याप्युपलक्षणम् । यदि तत्तत् पदार्थगतमेव विभूतिरूपं तर्~हि `सिद्धानां कपिलो मुनिः', `मुनीनामप्यहं व्यासः', `वृष्णीनां वासुदेवोऽस्मि', `रामः शस्त्रभृतामहम्', `आदित्यानामहं विष्णुः' इत्युक्तानां कपिलादीनामपि भगवद्रूपत्वाभावः स्यादित्याशङ्कां स्मृत्यैव परिहरति -- द्विविधमिति ॥ वैभवं रूपं विभूतिरूपम् । अत्रापि स्वजातिपदमन्योपलक्षकम् । केषु केष्विति प्रश्नस्तिरोहितरूपविषय इति भावः ।
* ``आत्माऽऽततगुणत्वेन रवज्ञेयो यतो रविः ।
उदवन्मेघचलनात् मरीचिः साम साम्यतः ॥
सुखात् सुखत्वात्तु शशी वेदो वेदनतो हरिः ।
वासवर्ती वासवोऽसौ चेतोनेता तु चेतना ॥
पालकैर्वननीयत्वात् पवनो बोधनात् मनः ।
पावकः शोधनान्मेरुरीरो यन्माऽस्य सागरः ॥
सारस्य गरणात् स्कन्दो जगतः स्कन्दनात् भृगुः ।
भर्जनात् जपयज्ञश्च जातपो याज्य एव च ।
अश्वकारस्थितोऽश्वत्थ ऐरं श्रीश्च तदाश्रयः ॥
ऐरावतो नराणां यद् दद्यात् सर्वं स नारदः ।
ह्रीश्रीसमाश्रयत्वाच्च हिमालय इतीरितः ॥
// तत्तन्नामकं तत्तद् वस्तुगतं विभूतिरूपमित्युक्तम् । तत्र तत्तत् पदार्थैक्याभावे कथं तत्तत् नामकत्वमित्यतो योगवृत्त्या विभूतिरूपाणां तत्तत् नामकत्वं स्मृत्यैव व्याचष्टे -- आत्मेति ॥ रवेण वेदशब्देन ईयते ज्ञायत इति रविः । इण् गताविति धातुः । मरशब्दोदितोदकवान् मेघो मरी । तं चालयतीति मरीचिः । सुखात् सुखमतिसुखं शशम् । तद्वान् शशी । साम साम्यतः, वेदो वेदनतः इत्यनेन सामवेदोऽस्मीत्येतद् व्याख्यातम् । वासः सर्वदेशः । तत्र वर्तत इति वासवः । पाः पालकाः, तैर्वननीयत्वात् भजनीयत्वात् पवनः वन षण सम्भक्ताविति धातुः । पव शुद्धाविति धातोः शोधनात् पावकः । मा नास्ति ईरः प्रेरको यस्येति मेरः । तच्छीलत्वात् मेरुः । ताच्छील्यार्थादुनस्तथेत्युक्तेः । सारस्य सारविषयस्य गरणाद् भोक्तृत्वादित्यर्थः । स्कन्दनं स्वतो निष्कासनमिति यावत् । भर्जनाद्विरोधिनामिति शेषः । जाः जाताः । तान् पातीति जपः, याज्यत्वात् यज्ञ इति जपयज्ञः । अश्ववत् स्थित इत्यश्वत्थः । ``तदैरं मदीयं सरः" इत्यादेः ऐरं श्रीः । ताम् अवतीत्यैरावतः । नराणामपेक्षितं नारं, तद्ददातीति नारदः । ह्रीमाऽऽलय एव हिमालयः ।
*वर्ज्यत्वादरिभिर्वज्रो वैनतेयो नतास्पदः ।
वासुकिर्वाससुखदः कन्दर्पः सुखभेदपः ॥
अर्यमा ज्ञेयमातृत्वात् काल आकलनादपि ।
वरुणो वरुणाद् द्वन्द्वो द्विरूपोऽन्तर्बहिर्यतः ॥
मकरो मानकर्तृत्वात् यमः संयमनाद् विभुः ।
प्रह्लादः स महानन्दो मृगेन्द्रो मृगयत्पतिः ॥
जाह्नवी जहतां स्थानमध्यात्मं चाऽत्मनां पतिः ।
विद्या ज्ञप्तिस्वरूपत्वाद् वादो वाच्यत्वतो हरिः ॥
कीर्त्यो वक्ताऽऽश्रयः कीर्तिर्वाक् श्रीरिति च नामकः ।
स्मरणीयः स्मृतिर्मेधाक्षमारूपस्तथेर्यते ॥
// विशेषेण नता विनताः । तदास्पदतया तत्सम्बन्धी वैनतेयः । वासस्य कं सुखं वासकम् । तदेवाधिक्येऽधिकमित्यतो वासुकम् । दातृत्वेन तद्वान् वासुकिः । कस्य सुखस्य दराः प्रभेदाः कन्दराः । तान् पिबति अनुभवतीति कन्दर्पः । पा पान इति धातुः । ऋगताविति धातोरर्थं ज्ञेयम् । तन्माति जानातीत्यर्यमा । कल ज्ञान इति धातोराकलनं ज्ञानम् । वरं णं सुखं यस्यासौ वरुणः । ``णो हि निर्वृतिवाचकः" इत्युक्तेः । वृणोतीति वरुण इति वा । मा~घX मान इति धातोर्मा ज्ञानम् । ऊनार्थे चोनमिष्यत इत्यतो लोकस्याल्पं मां करोतीति मकरः । स्वात्मानं मृगयन्तो भक्ता मृगाः । तदधिपतित्वात् मृगेन्द्रः । असारतया संसारं जहतो वृणोतीति जाह्नवी । स्थानमाश्रयः । आत्मनोऽधिकृत्य पतित्वेन वर्तत इत्यध्यात्मम् । कीर्त्यत्वात् कीर्तिः । वक्तृत्वाद् वाक् । श्रयत इति श्रीः । तथेर्यते मेधा क्षमेतीर्यते ।
* द्यूतं क्रीडापरत्वाच्च गायत्री त्राति गायकान् ।
सत्त्वं साधुगुणत्वाच्च दण्डनाद्दण्ड उच्यते ॥
बृहत्सारो ऽप्यमेयश्च बृहत्सामोशनोशतेः ।
शुभाशुभज्ञानकरः कुसुमाकर ईरितः ॥
ज्ञानं ज्ञानात्मनो मौनं मुनीड्यो नीतिरानयन् ।
मार्गाणामन्तगत्वात्तु मार्गशीर्षः प्रकीर्तितः ॥
सुखं पिबल्लीलयैव कपिलो व्यास एव च ।
विशिष्टत्वाद् विष्णुनामा विशिष्टप्राणसौख्यतः ॥
एवं नानागुणैर्विष्णुर्नानानामभिरीरितः ।
नानाप्राण्यादिसंस्थश्च विभूतिरिति शब्दितः ॥
शश्यादिषु विजातीयस्वाम्यदः सारदः क्वचित् ।
शर्वादिषु सजातीयश्रेष्ठ्यदत्वेन संस्थितः ॥
शक्रोशनार्जुनाद्येषु सजातीयैकदेशतः ।
देवेष्वप्यधिको ब्रह्मा यतो विष्णोरनन्तरः ॥
कवित्वादिगुणेष्वेव यत्समो नास्ति कश्चन ।
तथा भीमश्च पार्थेषु ज्ञानं यज्ञेषु चोत्तमम् ।
सुदर्शनं चाऽयुधेषु वेदेष्वृग्वेद उच्यते ॥" इत्यादि विभूति तत्वे ॥
क्वचित् साम्न आधिक्यमभिमान्यपेक्षया -- ``ऋचः श्रीर्गीरुमाद्याश्च साम्नः प्राणशिवादयः" इत्याद्यभिमानिभेदात् । तत्रापि यथायोग्यम् ॥21-40॥
// दिवु क्रीडेत्यादिधातोः क्रीडापरत्वात् द्यूतम् । गायकान्, स्वस्येति शेषः । बृहत्सारो बृहत्सः । अमेयत्वादम इति बृहत्साम । उशतेः स्वर्गादीच्छावत्त्वात् । उश इच्छायामिति धातोः । कुत्सितां सुष्ठुभूतां च मां ज्ञानं लोकस्य करोतीति कुसुमाकरः । ईड्यत्वेन मुनिसम्बन्धित्वात् मौनम् । ``सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम्" इति श्रुतेः । मार्गाणां शीर्षस्थानत्वात् मार्गः । कं सुखं पिबत्यनुभवति लीलयेति कपिलः । विशिष्टा आसा स्थितिर्यस्यासौ व्यासः । ``षकारः प्राणः" इति श्रुतेः, ण शब्दस्य निर्वृतिवाचकत्वाद् विशिष्टसुखचेष्टाशीलत्वाद् विष्णुः । शश्यादिषु विजातीयस्वाम्यदो नक्षत्रादीनां विजातीयत्वात् । सत्त्वं सत्त्ववतामहमित्यादौ धर्मिषु सत्त्वादिसारदत्वेनोक्तः । ``रुद्राणां शङ्करः" इत्यादौ शङ्करादीनां सजातीयश्रेष्ठ्यदत्वेनोक्तः । ``देवानामस्मि वासवः", ``कवीनामुशना कविः", ``पाण्डवानां धनञ्जयः", ``यज्ञानां जपयज्ञोऽस्मि", ``आयुधानामहं वज्रं", वेदानां सामवेदोऽस्मीत्यादौ सजातीयैकदेशतः श्रेष्ठ्यदो वासवादीनामुक्तः । वासवादीनां सजातीयैकदेशतः एव श्रेष्ठ्यं कुतो इत्यत आह -- देवेष्विति ॥ देवादिषु ब्रह्मादीनामेव श्रेष्ठत्वाद् वासवादीनां सजातीयैकदेशत एव श्रेष्ठ्यमित्यर्थः ।
यदुक्तं वेदेषु ऋग्वेदस्याधिक्यात् साम्नः सजातीयैकदेशत एव श्रेष्ठत्वमिति तदयुक्तम् । क्वचित् सामवेदस्य ऋग्वेदस्याप्यधिकस्योक्तत्वादित्यत आह -- क्वचिदिति ॥ यत्र सामवेदस्य ऋग्वेदादाधिक्यमुच्यते तत्र सामवेदाभिमानिदेवताया एव ऋग्वेदाभिमानिदेवताधिक्यविवक्षयैवोच्यते, न तु वेदस्वरूपविवक्षया । अतो न विरोध इति भावः । भवेदेतद्यदि सामवेदाभिमानिदेवताभ्यो ऋग्वेदाभिमानिदेवता अन्या भवेत्तदेव कुत इत्यत आह -- ऋच इति ॥ ननु सामवेदाभिमानिनां प्राणशिवादीनां ऋग्वेदाभिमानिलक्ष्म्यादिभ्यः श्रैष्ठ्याभावात् कथं सामवेदस्य ऋग्वेदादाधिक्योक्तिरभिमानिदेवतापेक्षयाऽप्युपपद्यत इत्यत आह -- तत्रापीति ॥ अभिमानिष्वपि यथासम्भवमाधिक्यं ग्राह्यमित्यर्थः । यदा सामवेदस्य ऋग्वेदादाधिक्यमुच्यते तदा सामवेदाभिमानिनः प्राणस्य विवक्षायाम् ऋग्वेदाभिमानिसरस्वत्याद्याधिक्यं ग्राह्यम् । यदा शिवस्य विवक्षा तदोमाद्याधिक्यं ग्राह्यमित्याद्युक्तं भवति ॥20-40॥
((यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा ।
तत्तदेवावगच्छ त्वं मम तेजोंशसम्भवम् ॥ 41 ॥
अथवा बहुनैतेन किं ज्ञातेन तवार्जुन ।
विष्टभ्याहमिदं कृत्स्नं एकांशेन स्थितो जगत् ॥ 42 ॥
॥ ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे विभूतियोगोनाम दशमोऽध्यायः ॥ 10 ॥
* मम तेजोऽंशेन संयुक्तं भवति ॥41॥
``किं ज्ञातेन" इति वक्ष्यमाणस्याधिक्यफलत्वज्ञापकमेव । अन्यथोक्तेरेव वैय्यर्थ्यात् ।
``अन्याधिक्यज्ञापनार्थं शुभं चाक्षिप्यते क्वचित् ।
न तावताऽस्य निन्द्यत्वं ज्ञेयैवान्यवरिष्ठता ।
उभयं मिलितं चैव ततोऽप्यधिकशोभनम् ॥" इति च ॥ 42॥
॥इति श्रीमदानन्दतीर्थभगवत्पादाचार्य विरचिते श्रीमद्भगवद्गीतातात्पर्यनिर्णये दशमोऽध्यायः ॥
//ततोऽपि विभूतिविस्तर उच्यते ``अथवा" इति । तत्रोक्तेन बहुना ज्ञातेन किमपि फलं नास्तीत्यन्यथाप्रतीतिनिरासायाह -- किमिति ॥ किं ज्ञातेनेति वचनमुक्तज्ञानादपि वक्ष्यमाणज्ञानस्याधिकफलत्वज्ञापनार्थमेव न तूक्तज्ञानस्य निष्फलत्वज्ञापकमित्यर्थः । उक्तज्ञानस्य निष्फलत्वज्ञापकमेव किं न स्यादित्यत आह-- अन्यथेति ॥ ननु पूर्वोक्तविज्ञानस्यापि साफल्ये ततोऽपि वक्ष्यमाणज्ञानमधिकफलमित्येव वक्तव्यम् । किं ज्ञानेनेत्युक्ताक्षेपो न युक्त इत्यतो वक्ष्यमाणस्याधिक्यज्ञापनेऽप्युक्तशुभाक्षेपसम्भवनियामिकां स्मृतिमाह -- अन्येति ॥ निन्द्यत्वं हेयत्वं ज्ञेयमिति शेषः । किं त्वस्मादन्यस्य वरिष्ठतैव ज्ञेयेत्यर्थः । यद्यन्यद्वरिष्ठं तर्~ह्याक्षिप्तं हेयमेव । वरिष्ठलाभेऽल्पस्याप्रयोजकत्वादित्यत आह -- उभयमिति ॥ न वरिष्ठलाभेऽल्पस्य हेयत्वम् । उभयलाभे अधिकशोभनप्राप्तेरित्यर्थः ॥42॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्य श्रीमद्भगवद्गीतातात्पर्यनिर्णयस्य टीकायां जयतीर्थमुनिविरचितायां न्यायदीपिकायां दशमोऽध्यायः ॥ 10 ॥
॥ श्रीवादिराजगुर्वन्तर्गतश्रीमध्वेशाभिन्नश्रीकृष्णार्पणमस्तु ॥
****************************************************************************************
॥श्रीगुरुभ्योनमः ॥
श्रीवादिराजगुर्वन्तर्गत श्रीमध्वेशाभिन्नश्रीलक्ष्मीहयग्रीवाय नमः ॥
॥ अथ एकादशोऽध्यायः ॥
अर्जुन उवाच -
मदनुग्रहाय परमं गुह्यमध्यात्मसञ्ज्ञितम् ।
यत् त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम ॥ 1 ॥
भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया ।
त्वत्तः कमलपत्राक्ष माहात्म्यमपि चाव्ययम् ॥ 2 ॥
एवमेतद्यथाऽऽत्थ त्वमात्मानं परमेश्वर ।
द्रष्टुमिच्छामि ते रूपमैश्वरं पुरुषोत्तम ॥ 4 ॥
मन्यसे यदि तच्छक्यं मया द्रष्टुमिति प्रभो ।
योगेश्वर ततो मे त्वं दर्शयात्मानमव्ययम् ॥ 4 ॥
श्रीभगवानुवाच --
पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रशः ।
नानाविधानि दिव्यानि नानावर्णाकृतीनि च ॥ 5 ॥
पश्यादित्यान् वसून् रुद्रानश्विनौ मरुतस्तथा ।
बहून्यदृष्टपूर्वाणि पश्याश्चर्याणि भारत ॥ 6 ॥
इहैकस्थं जगत्कृत्स्नं पश्याद्य सचराचरम् ।
मम देहे गुडाकेश यच्चान्यद् द्रष्टुमिच्छसि ॥ 7 ॥
नतु मां शक्यसे द्रष्टुमनेनैव स्वचक्षुषा ।
दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरम् ॥ 8 ॥
सञ्जय उवाच --
एवमुक्त्वा ततो राजन् महायोगेश्वरो हरिः ।
दर्शयामास पार्थाय परमं रूपमैश्वरम् ॥ 9 ॥
अनेकवक्त्रनयनमनेकाद्भुतदर्शनम् ।
अनेकदिव्याभरणं दिव्यानेकोद्यतायुधम् ॥ 10 ॥
दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् ।
सर्वाश्चर्यमयं देवमनन्तं विश्वतोमुखम् ॥ 11 ॥
दिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता ।
यदि भाः सदृशी सा स्याद्भासस्तस्य महात्मनः ॥ 12 ॥
तत्रैकस्थं जगत् कृत्स्नं प्रविभक्तमनेकधा ।
अपश्येद्देवदेवस्य शरीरे पाण्डवस्थथा ॥ 13 ॥
ततः स विस्मयाविष्टो हृष्टरोमा धनञ्जयः ।
प्रणम्य शिरसा देवं कृताञ्जलिरभाषत ॥ 14 ॥
* ॥हरिः ॐ ॥ आत्मानमव्ययम्, परमं रूपमैश्वरम्, ``सर्वाश्चर्यमयं देवमनन्तं विश्वतो मुखम्" इत्यादिरूपविशेषणाच्च रूपस्येश्वरसाक्षात्स्वरूपत्वं, नित्यत्वं तत ऎव चिदानन्दाद्यात्मकत्वं च सिद्धम् ।
// अत्र ध्यानार्थं विश्वरूपस्थितिरुच्यत इत्यध्यायप्रतिपाद्यस्य स्फुटं प्रतीयमानत्वादनुक्तिः । तत्र विश्वरूपस्य प्रागुत्तरं चादृष्टत्वात् तदानीमेव किञ्चित्प्रधानादिकं उपादानीकृत्य भगवता निर्मायार्जुनाय प्रदर्श्य विश्वरूपं नाशितमिति शङ्कां निवारयति -- आत्मानमिति ॥ ``दर्शयामात्मानमव्ययम्" इत्यात्मप्रदर्शनप्रार्थनानन्तरं ``दर्शयामास पार्थाय परमं रूपमैश्वरम्" इति विश्वरूपप्रदर्शनस्योक्तत्वात् विश्वरूपस्य साक्षादीश्वरस्वरूपं सिद्धम् । अन्यथा प्रदर्शनस्य प्रार्थनानुगुणत्वप्रसङ्गात् । देवमित्युक्त्या साक्षादपि तत्सिद्धम् । अव्ययं, परमं, सर्वाश्चर्यमयम्, अनन्तं, विश्वतोमुखम् इत्यादीश्वरविशेषणयुक्ततया विश्वरूपस्योक्तत्वाच्च तस्य साक्षादीश्वररूपत्वं सिद्धम् । साक्षादीश्वरस्वरूपत्वे च तस्य नित्यत्वं चिदानन्दाद्यात्मकत्वं च सिद्धम् । भगवतो नित्यत्वाच्चिदानन्दात्मकत्वात् । अतो विश्वरूपमचेतनोपादानकं निर्मायेत्युक्तमयुक्तमिति भावः ।
*``मम देह" इत्युक्तत्वाच्चादित्यादीनां भेदः सिद्धः । ``मे रूपाणि", ``सर्वतोऽनन्तरूपम्", ``द्रष्टुमिच्छामि ते रूपम्" इत्यादेश्बैक्यस्यैवाभिन्नानन्तरूपत्वं च ।
// ननु विश्वमेव रूपं विश्वरूपम् । शशिसूर्यनेत्रमित्यादेः । अतः कथं साक्षाद् भगवत्स्वरूपं स्यादित्यत आह -- ममेति ॥ ``पश्यादित्यान् वसून् रुद्रानश्विनौ मरुतस्तथा । मम देहे गुडाकेश" इत्यादिना विश्वस्य विश्वरूपाश्रितत्वेनोक्तत्वात् ततस्तस्य भेदसिद्धेर्युक्तं विश्वरूपस्य साक्षाद् भगवत्स्वरूपत्वमिति भावः । शशिसूर्यनेत्रमित्यस्य शशिसूर्याश्रयनेत्रत्वमर्थः । ननु विश्वरूपस्यानन्तरूपसमुदायत्वात् न भगवत्स्वरूपत्वं युक्तम् । एकेनानेकभेदस्य विरुद्धत्वादित्यत आह -- मे रूपाणीति ॥ न विश्वरूपस्यानन्तरूपसमुदायत्वात् ईश्वररूपत्वायोगः । ``पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रशः ।", ``पश्यामि त्वां सर्वतोऽनन्तरूपम्" इत्यादेरनन्तरूपाणां प्रदर्शितत्वावगमाद् ``द्रष्टुमिच्छामि ते रूपम्" इत्यादेरेकरूपप्रदर्शनस्यैव प्रार्थितत्वावगमाच्चैकस्यैवानन्तरूपत्वसिद्धेः । न चैतद्विरुद्धम् । तेषामनन्तरूपाणामपि परस्परमभिन्नत्वादिति भावः ।
* ``ऎकं रूपं हरेर्नित्यमचिन्त्यैश्वर्ययोगतः ।
बहुसङ्ख्यागोचरं च विशेषादेव केवलम् ॥
अभावो यत्र भेदस्य प्रमाणावसितो भवेत् ।
विशेषो नाम तत्रैव विशेषव्यवहारवान् ॥
विशेषोऽपि स्वरूपं स्वनिर्वाहक ऎव च ।
द्रव्यात्मना स नित्योऽपि विशेषात्मैव जायते ॥
नित्या ऎव विशेषाच्च केचिदेवं द्विधैव सः ।
वस्तुस्वरूपमस्त्येवमादिष्वभेदिनः ॥
विशेषोऽनुभवादेव ज्ञायते सर्ववस्तुषु ।
न चाविशेषं किञ्चिद्वाच्यं लक्ष्यं तथा मितम् ॥
विशिष्टस्य स्वतोऽन्यत्वे स्वस्यामेयत्वहेतुतः ।
नैव ज्ञेयं विशिष्टं च मानाभावाच्च नो भवेत् ॥
स्वयमित्यपि हि स्वत्वविशेषेण विवर्जितम् ।
न ज्ञेयं तद्विशेष्यं च तथैवेत्यनवस्थितिः ॥
अभेदे न विरोधोऽस्ति ज्ञाताज्ञातं यतोऽखिलम् ।
तदेव ज्ञातरूपेण ज्ञातमज्ञातमन्यथा ॥
// अनन्तरूपाण्यभिन्नानीत्युक्तम् । रूपाणामैक्येऽनन्तत्वायोगादित्याशङ्कां ब्रह्मतर्कवाक्येन परिहरति -- ऎकमिति ॥ `विशेषादेव केवलम्' इत्युपपादकान्तरम् । भेदाभावे कथं विशेषमात्रेण व्यवहारविशेष इत्यत आह-- अभाव इति ॥ यत्र वस्तुनि भेदाभावः प्रमाणावसितो भवेत्तत्र व्यवहारविशेषनिर्वाहक ऎव हि विशेषो नामतः । अतो विशेषादेव प्रमाणावसितभेदाभावेषु भगवद्रूपेषु व्यवहारविशेषो युक्त इति भावः । भेदाभावेऽपि विशेषादेव भगवद्रूपेषु व्यवहारविशेषो भवति चेत् गवाश्वादावपि विशेषादेव व्यवहारविशेषः स्यादित्यतो वाऽऽह-- अभाव इति ॥ यत्र भेदाभावः प्रमाणावसितो भवेत् तत्रैव विशेषो व्यवहारविशेषनिर्वाहकोऽङ्गीक्रियते । गवाश्वादौ तु भेदस्यैव प्रमाणावसितत्वात् न व्यवहारविशेषनिबन्धन इति भावः ।
नन्वयं विशेषो विशेषिणो भिन्नोऽभिन्नो वा ? आद्ये भेदानवस्था । द्वितीये विशेषविशेषिव्यवहारो न स्यात् । नच तत्र विशेषादेव व्यवहारविशेषनिर्वाहः । विशेषानवस्थाप्रसङ्गादित्यत आह -- विशेषोऽपीति ॥ विशेषोऽपि विशेषिस्वरूपमतो न भेदानवस्था । भेदाभावेऽपि विशेषादेव विशेषव्यवहारसिद्धिः । विशेषस्य स्वस्यैव स्वस्मिन् व्यवहारविशेषनिर्वाहकत्वेन विशेषान्तरानङ्गीकारान्न विशेषानवस्थाऽपीति भावः ।
तमेव विशेषं विभज्य निरूपयति -- द्रव्येति ॥ ऎतच्च चेतनाचेतनसाधारणं वाक्यं यथाक्रमं योजनीयम् । चेतने कश्चिद्विशेषो जायते, कश्चिन्नित्य इत्येवं विशेषो द्विविधो भवति । नच वाच्यं द्रव्यात्मकत्वेन विशेषस्य नित्यत्वान्न जननमिति । चेतनद्रव्यात्मकत्वेन नित्यस्यापि व्यक्तिविशेषविवक्षया जननोक्तिसम्भवात् । अचेतने च विशेषिद्रव्यस्यैव विशेषोपादानत्वाद् उपादानविशेषिद्रव्यात्मनाऽयावद् द्रव्यभाव्यपि कार्यरूपेण कश्चिद्विशेषो जायते । कश्चिद् यावद् द्रव्यभावीति द्विविधो विशेष इति भावः । चेतनाचेतनयोः प्रत्येकं द्विविधविशेषान् तत्तत् स्थलेषूदाहरति -- वस्त्विति ॥ चेतनवस्तुस्वरूपमस्तीत्यत्र चेतनत्ववस्तुत्वस्वरूपत्वास्तित्वविशेषा नित्याभिव्यक्ताः । चेतनः करोति भुङ्क्ते गच्छतीत्यत्र करणगमनभोजनविशेषा व्यक्त्यव्यक्तियुताः । ते द्विविधा अपि विशेषिणाऽत्यन्ताभेदिनः । तथा चूतफलस्वरूपमस्तीत्यत्र चूतत्वफलत्वादिविशेषा यावद् द्रव्यभाविनो विशेषिणाऽत्यन्ता भिन्नाः । पीतं चूतफलमित्यत्र पीतत्वादिविशेषाः कादाचित्का विशेषिणा भिन्नाभिन्ना इति भावः ।
एवंविधविशेषसद्भावे किं मानमित्यत आह-- विशेष इति ॥ तदेव स्फुटीकरोति ॥ न चेति ॥ ननु वस्तुनि यावान् विशिष्टाकारस्तस्य विशेष्यस्वरूपादन्यत्वेन विशेष्यस्वरूपस्य निर्विशेषात् कथं विशेषः सर्ववस्तुषु ज्ञायत इत्युक्तमित्यत आह-- विशिष्टस्येति ॥ भवेदेतद्यदि विशिष्टं विशेष्यस्वरूपादन्यद् भवेत् । न चैतदस्ति । विशिष्टस्य विशेष्यस्वरूपादन्यत्वे विशेष्यस्वरूपस्यामेयत्वप्रसङ्गात् । विशेषवत्येव प्रमाणप्रवृत्तेरुक्तत्वात् । विशेष्याज्ञाने च विशिष्टाज्ञानं च प्रसज्यते । व्यावर्तकाज्ञाने व्यावर्त्यस्य सम्यग् ज्ञातुमशक्यत्वात् । विशेष्यस्य विशिष्टव्यावर्तकत्वादिति भावः । विशेष्यस्वरूपस्यामेयत्वे बाधकान्तरं चाह -- मानेति ॥ वस्तुसिद्धेर्मानाधीनत्वाद् विशेष्यस्वरूपस्यामेयत्वे तदभावश्च स्यादिति भावः । इतोऽपि न विशेष्यस्वरूपं निर्विशेषमित्याह- स्वयमिति ॥ यद्विशेष्यस्वरूपं तस्य तावद्विशेष्यस्वरूपत्वं विशेषोऽङ्गीकार्य ऎव । विशेष्यस्वरूपत्वविशेषवर्जितस्य विशेष्यस्वरूपमिति ज्ञातुं व्यवहर्तुं वाऽशक्यत्वात् । अतो विशेष्यस्वरूपमपि न निर्विशेषमिति भावः । ननु यद्विशेष्यस्वरूपत्वविशेषविशिष्टं तस्मिन् विशिष्टे यद्विशेष्यस्वरूपं तद्विशिष्टादन्यदेव । अतो निर्विशेषमेवेत्यत आह-- तदिति ॥ यत्तस्मिन् विशिष्टे विशेष्यस्वरूपं तद् विशिष्टादन्यदपि विशेष्यस्वरूपत्वविशेषसहितमेव । अतो न निर्विशेषमिति भावः । तस्मिन्नपि विशिष्टे यद्विशेष्यस्वरूपं तद्विशिष्टादन्यदपि विशेष्यस्वरूपत्वविशेषसहितमेव । अतो न निर्विशेषमिति भावः । तस्मिन्नपि विशिष्टे यद्विशेष्यस्वरूपं तद्विशिष्टादन्यदेव । अतो निर्विशेषमित्यङ्गीकारेऽनवस्थामाह -- इतीति ॥ यथा विशिष्टविशेष्यस्वरूपयोर्भेदाभ्युपगमेऽनवस्थोच्यते तथा तयोरभेदाङ्गीकारेऽपि तत्प्राप्तौ सोऽपि पक्षस्त्याज्य ऎव स्यात् । विशिष्टविशेष्यस्वरूपयोरभेदे च विशेष्यस्वरूपज्ञाने विशिष्टाकारस्यापि ज्ञातत्वप्रसङ्गेन विशेष्यस्वरूपानुवादेन विशिष्टाकारप्रश्नानुपपत्तिः स्यादित्यत आह-- अभेद इति ॥ ऎकमेव वस्तु अनूद्याकारेण ज्ञातं पृच्छ्यमानाकारेणाज्ञातमिति प्रत्येकमखिलवस्तूनां ज्ञातत्वाज्ञातत्वात् न प्रश्नानुपपत्तिः । विशिष्टाकारस्य विशेष्यस्वरूपाभिन्नत्वेन न भेदसापेक्षानवस्थाऽपीति भावः ॥
* अभिन्नस्य विशिष्टत्वान्न दोषद्वयमप्युत ।
ऎकत्वानुभवाच्चैव विशेषानुभवादपि ॥
तद् ज्ञानानुभवाच्चैव न दोषद्वयसम्भवः ।
भेदाभेदौ च तौ नैव कर्तृभोक्तृविशेषणे ॥
मदन्य इत्यनुभवो यतो नैवास्ति कस्यचित् ।
भेदो विशेषणस्यापि नान्तरस्य क्वचिद् भवेत् ॥
शुद्धस्वरूप इत्यादावभेदस्यैव दर्शनात् ।
अपृथग् दृष्टिनियमाद् बलज्ञानादिकस्य च ॥
ऐक्यं बाह्यविशेषाणां पृथग् दृष्ट्यैव तन्न तु ॥
विशेषहेत्वभावेऽपि द्वैविध्यं कल्प्यते यदि ।
कल्पनागौरवाद्यास्तु दोषास्तत्रातिसङ्गताः ॥
// अभिन्नस्य विशिष्टत्वादिति ॥ यद् विशेष्येणाभिन्नं तद् स्वरूपं तस्यैव विशिष्टत्वादित्यर्थः । विशिष्टविशेष्ययोरत्यन्ताभेदे कथमाकारभेदेनापि ज्ञातत्वाज्ञातत्वमित्याशङ्कां परिहरन्नुक्तं विवृणोति -- ऎकत्वेति ॥ विशिष्टविशेष्ययोरेकत्वानुभवात् नानवस्थादोषः । अभेदेऽपि विशेषानुभवात् तद्बलेनैकस्यैव ज्ञातत्वाज्ञातत्वानुभवात् न प्रश्नासम्भवदोषोऽपीत्यर्थः ।
ननु विशिष्टविशेष्ययोः भेदाभेदौ किं न स्याताम् । तथात्वे भेदेन प्रश्नासम्भवस्य शक्यत्वादभेदेनानवस्थादेश्च परिहर्तुं शक्यत्वादिति चेत् । किं विशिष्टविशेष्ययोः क्वचिद् भेदाभेदावङ्गीक्रियेते उत सर्वत्रापि ? आद्ये सम्प्रतिपत्तिः । अयावद् द्रव्यभाविविशेषणविशिष्टस्य विशेष्येण भेदाभेदाङ्गीकारात् । द्वितीयं दूषयति -- भेदाभेदाविति ॥ तौ परेणाङ्गीकृतौ । सर्वत्र विशिष्टविशेष्ययोरिति शेषः । कर्तृभोक्तृविशेषण इति ॥ कर्तृत्वभोक्तृत्वे विशेषणे यस्य विशिष्टस्य तस्मिन्नित्यर्थः । कर्तृत्वभोक्तृत्वादियावद् द्रव्यभाविविशेषणविशिष्टविषये कर्ता भोक्ता मदन्योऽहं चेति विशेषेण भेदाभेदानुभवाभावादिति भावः । एतेन कर्तृभोक्त्रादिविशिष्टविशेष्ययोरभेदप्रतिपादनेनैव यदुक्तं चेतन विशेषणामाविर्भावतिरोभाववतां कर्तृत्वादीनां विशेषिणाऽभिन्नत्वं तदपि समर्थितं भवति ।
अथ नित्याभिव्यक्तानां स्वरूपत्वादीनां चाभेदं साधयति-- भेद इति ॥ नित्याभिव्यक्तस्येति शेषः । आन्तरस्येति ॥ देहोपाधित्वं विना चेतनगतस्येत्यर्थः । शुद्धस्वरूप इत्यादौ शुद्धस्वरूपत्ववस्तुत्वादीनां नित्याभिव्यक्तविशेषाणां शुद्धस्वरूपो मुक्त इति सामानाधिकरण्येनाभेदस्यैव दर्शनात् विशिष्टविशेष्ययोरभेदे विशेषणाभेदस्य नियतत्वादिति भावः । आविर्भावतिरोभाववतां कर्तृत्वादिविशेषाणां विशेषिचैतन्यैक्यमर्थतः पूर्वं सिद्धम् । अथ गुणत्वेन पराभ्युपगतानां तादृशानामेव ज्ञानादिविशेषाणामपि विशेष्यैक्यं साधयति -- अपृथगिति ॥ पृथक्त्वेन दर्शनाभावनियमादित्यर्थः ।
ननु यथोच्यते शुद्धस्वरूप इत्यादि यथा च कर्ता भोक्ता बलवान् विद्वानिति तथा कृष्णः स्थूल इत्यादि चोच्यते । अतो देहनिमित्तानां कार्ष्ण्यादिविशेषाणामपि चैतन्यैक्यं स्यादित्यत आह-- बाह्येति ॥ नास्माभिरुभयविधविशेषविशिष्टविशेष्ययोः सामानाधिकरण्यमात्राद्विशेषाणां चैतन्यैक्यमुच्यते । किन्तु भेदादर्शने सति सामानाधिकरण्येन । न चात्र कृष्णदेवदत्तयोः भेदादर्शनं, येन च कार्ष्ण्यं देवदत्तस्वरूपं स्यात् । भेदस्यैव दृष्टत्वादिति भावः ।
एके तु शुद्धस्वरूपत्वादीनां नित्याभिव्यक्तानामेव विशेषाणां चैतन्यैक्यं, न तु कर्तृत्वादीनामिति मन्यन्ते । तान् निराकरोति -- विशेषेति ॥ शुद्धस्वरूपत्वादीनामेव चैतन्यैक्यं न तु कर्तृत्वादीनामिति द्वैविध्यं किं यत्किञ्चिद्धेतुबलेन कल्प्यते तद्विना वा ? नाद्यः । तददर्शनात् । न द्वितीयः । कर्तृत्वादीनामप्यैक्योपपत्तौ वृथा द्वैविध्यकल्पने कल्पनागौरवप्रसङ्गात् । अप्रामाणिकप्रमाणविरुद्धकल्पनप्रसक्तेश्च । यदि कल्पनागौरवादिदोषानङ्गीकृत्यापि कर्तृत्वादीनां भिन्नत्वमुच्यते तर्~हि शुद्धस्वरूपत्वादयोऽपि विशेषा भिन्ना एवेत्यतिप्रसङ्गः स्यात् । परस्य दोषभयाभावादिति भावः । ऎवं चेतने विशेषादेरत्यन्ताभेदः समर्थितः । तन्नयायेनाचेतनेऽपि यावद् द्रव्यभाविनो विशेषादेर्विशेषिणाऽत्यन्ताभेदो द्रष्टव्यः ।
<लन्ग्=सन्>*नैकत्वं नापि नानात्वं नियमादस्त्यचेतने ।
भेदाभेदावनुभवादतस्तत्रान्यथागतेः ॥
एकोऽहमन्यतोऽन्यश्चेत्येवमेव व्यवस्थितौ ।
भेदाभेदौ चेतनेषु तस्मान्नैकप्रकारता ॥
ऎकमित्येव यद् ज्ञातं बहुत्वेनैव तत्पुनः ।
पटाद्यं ज्ञायते यस्माद् भेदाभेदौ कुतो न तत् ॥
तन्तुभ्योऽन्यः पटः साक्षात् कस्य दृष्टिपथं गतः ।
अनन्यश्चेत्तन्तुभावे पटाभावः कुतो भवेत् ॥
न चाऽत्मनि विशेषोऽत्र दृष्टान्तत्वं गमिष्यति ।
शुद्धोऽहं प्रत्ययो यस्मात् तत्राभेदप्रदर्शकः ॥
अत्रावयवभेदेन स्यादेव ह्यनवस्थितिः ।
न चानवयवं वस्तु क्वचित् स्यान्मानगोचरम् ॥
पूर्वापरादिभेदेन यतोऽंशोऽस्यावगम्यते ।
उपाधिरप्येकदेशसम्बद्धः सन्तमेव हि ॥
ज्ञापयेद् भेदमखिलं ग्रसन् स विभजेत् कथम् ।
तस्माद् गुणादिकमपि नास्त्यनंशतया क्वचित् ॥
// अयावद् द्रव्यभाविविशेषस्य यौ भेदाभेदावुक्तौ तौ समर्थयति -- नैकत्वमिति ॥ ऎकत्वं नानात्वं च नास्तीत्युक्तेऽनिर्वचनीयत्वशङ्कास्यात् । तन्निरासाय नियमादित्युक्तम् । अत ऎकैकस्याभावादिति भावः । अनुभवादन्यथा गत्यभावाच्च नैकत्वम्, नापि नानात्वमिति सम्बन्धः । ननु चेतनेऽपि भेदाभेदसद्भावेन चेतनाचेतनयोरेकप्रकारत्वात् अचेतन इति किं विशिष्याभिधीयत इत्यत आह -- ऎक इति ॥ अहं मदभिन्नो घटादेर्भिन्न इति चेतने भिन्नप्रतियोगिकावेव भेदाभेदावनुभूयेते । अचेतने त्वेकप्रतियोगिकावेव । अतो न चेतनाचेतनयोरेकप्रकारतेत्यर्थः । कथमचेतने भेदाभेदावनुभवसिद्धावित्यतः तन्त्वाद्यवयवेभ्यः पटाद्यवयविनो भेदाभेदसद्भावेऽनुभवकथनेन तन्त्वादीनां पटत्वादिविशेषैर्भेदाभेदसद्भावेऽनुभवः प्रदर्शित ऎव भवतीति मन्वान आह-- ऎकमिति ॥ तन्तूनां पटरूपेणैकत्वस्य परस्परं भेदस्य चानुभवादेकैकतन्तोः पटेन भेदाभेदावनुभूयेते । ऎकैकतन्तोः पटेनात्यन्ताभेदेऽन्योन्यभेदावनुभवायोगादिति भावः । गत्यन्तराभावं चाह -- तन्तुभ्य इति ॥ यद्येकैकतन्तोः पटोऽत्यन्तभिन्नस्तर्~ह्येकैकतन्तुभ्यः पटः पृथग् दृश्येत । न चैतदस्ति । नाप्येकैकतन्तुना पटोऽत्यन्ताभिन्नः । यथास्वसंस्थानविशेषेणावस्थितैकैकतन्तुभावे पटाभावानुपपत्तेरिति भावः । सर्वावयवसमुदायस्य स्वयमबहुत्वात् तद्भावेऽवयव्यभावाभावात् संस्थानविशेषेणावस्थितानामेवावयवत्वात् अवयविनाऽत्यन्ताभेदो द्रष्टव्यः । यथाऽऽत्मगतानां कर्तृत्वादिविशेषाणां बहुत्वेऽप्येकेनाऽत्मनाऽत्यन्ताभेदः तथा बहुत्वेपि तन्तूनां एकेन पटेनात्यन्ताभेदः किं न स्यादित्यत आह -- नचेति ॥ किमनेनोक्तस्य व्यभिचारश्चोच्यते उतात्मगतविशेषदृष्टान्तेन जडेऽप्यत्यन्ताभेदसाधनमात्रम् ? नाद्यः । अत्र कर्तृत्वादीनां बहुत्वाभावात् । व्यवहारविशेषस्य स्वनिर्वाहकविशेषेणैवोपपत्तेरुक्तत्वात् । नापि द्वितीयः । कर्ताऽहं भोक्ताऽहमित्येकैकविशेषविशिष्टस्यात्मनो भेदानुभवेनैकैकविशेषस्यापि केवलाभेदानुभवात् । ऎकैकस्मिंश्च तन्तौ पटप्रत्ययाभावादिति भावः । किमचेतने पटादावन्त्यावयविन्येव अवयवावयविनोर्भेदाभेदाविति ? नेत्याह -- अत्रेति ॥ अचेतने पटादौ स्वावयवैर्भेदाभेदौ तदवयवस्यापि स्वावयवैर्भेदाभेदावित्येवम् अपर्यवसानमेव भवेदित्यर्थः । परमाणोर्नित्यत्वेन तत्र पर्यवसानसम्भवात् कथमनवस्थितिरित्यत आह -- नचेति ॥ न केवलं निरवयवत्वे प्रमाणाभावात् परमाणोः सावयवत्वम् । अपि तु पूर्वापरादिभागभेदेन सावयवत्वावगमाच्चेत्याह-- पूर्वेति ॥ स्वतः परमाणोरवयवाभावेऽपि पूर्वादिदिगुपाधिकृतावयवसद्भावात् तद्विषयोऽसावागम इति चेत् किमुपाधिः परमाणोरेकदेशसम्बद्धो भवेत् तर्~ह्येकदेशस्य प्रागेव सत्त्वात् प्रागेव सन्तमवयवभेदं ज्ञापयेदित्येव प्राप्तमित्यर्थः । द्वितीयं दूषयति-- अखिलमिति ॥ ननु गुणादीनां निरवयवत्वात् कथं ``न चानवयवं वस्तु क्वचित् स्यात्" इत्युच्यत इत्यत आह -- तस्मादिति ॥ पूर्वापरादिभागभेदेन अंशावगमादौपाधिकांशस्य निरस्तत्वादित्यर्थः ।
* भावाभावव्यवहृतेर्विद्यमानेऽपि वस्तुनि ।
भेदाभेदौ गुणादेश्च जडे वस्तुनि संस्थितौ ॥
चेतने शक्तिरूपेण गुणादेर्भाव इष्यते ।
सुप्तोऽयं बलवान् विद्वानित्यादिव्यवहारतः ॥
न चैवं शक्तिरूपेण जडे व्यवहृतिः क्वचित् ।
ऎकमेवाद्वितीयं तन्नेह नानास्ति किञ्चन ॥
मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति ।
यथोदकं दुर्गे वृष्टं पर्वतेषु विधावति ॥
एवं धर्मान् पृथक् पश्यन् तानेवानुविधावति ।
इत्यादि श्रुतिमानाच्च परमैश्वर्यतस्तथा ।
सर्वं तु घटते विष्णौ यत्कल्याणगुणात्मकम् ॥" इत्यादि ब्रह्मतर्के ॥ 1-11॥
// ऎवमवयवावयविनोर्भेदसमर्थनेन पटत्वादीनामयावद् द्रव्यभाविनां विशेषाणां तन्त्वादीविशेषिणा भेदाभेदौ समर्थितौ । अथ गुणादित्वेन पराभ्युपगतानाम् अयावद् द्रव्यभाविनां रूपादिविशेषाणां तन्त्वादिविशेषिणां भेदाभेदौ साधयति -- भावेति ॥ जडे वस्तुनि गुणक्रियादीनामयावद् द्रव्यभाविविशेषाणां स्वसद्भावदशायां भेदाभेदावेव युक्तौ । नीलं फलमिति तेषां सामानाधिकरण्येन भावव्यवहृतेरभेदस्याङ्गीकार्यत्वात् । वस्तुनि विद्यमानेऽपि कदाचिन्न नीलं फलमित्यभावव्यवहृतेर्भेदस्याप्यङ्गीकार्यत्वात् । अत्यन्ताभेदे वस्तुनि सति तद्विनाशासम्भवादिति भावः । विनाशानन्तरं तु भेद एवेति ज्ञातव्यं, स्वयमसतोऽभेदायोगात् । ननु यथा चेतने सुप्त्यादावविद्यमानानामपि बलज्ञानादीनामत्यन्ताभेदस्तथा अत्राप्यत्यन्ताभेद ऎव किं न स्यादित्यत आह -- चेतन इति ॥ सुप्तोऽयं बलवानित्यादिव्यवहारबलेन सुप्त्यादावपि बलादीनां शक्तिरूपेणावस्थानसिद्धेः युक्तोऽत्यन्ताभेदो, नतु श्यामतादीनाम् । तेषामत्यन्तोच्छेदादित्यर्थः । श्यामतादीनामपि शक्तिरूपेणावस्थानं किं न स्यादित्य आह -- नचेति ॥ मन्यामहे नीलत्वादीनां शक्तिरूपेणावस्थानं यदि बलादीनामिव शक्तिरूपाभिप्रायेण तेषां व्यवहारो भवेत् । न हि पीते चूतफले नीलमिति व्यवहारोऽस्तीति भावः ।
यदुक्तं विशेषबलादेकं रूपं हरेर्बहुव्यवहारविषयतां यातीति तद्भवेद्यदि रूपाभेदः प्रमाणावसितो भवेत् । ``अभावो यत्र" इत्युक्तत्वात् । नच तत्प्रमाणमुपलभ्यत इत्यत आह -- ऎकमेवेति ॥ यदुक्तम् ``अचिन्त्यैश्वर्ययोगतो दुर्घटमप्येतद् घटत" इति तदयुक्तम् । तथासति परमैश्वर्यबलेन जीवाभेदादेरपि घटनापातादित्यत आह -- परमेति ॥ यत्कल्याणगुणात्मकं तत्सर्वं प्रतीत्या दुर्घटमपि हरौ परमैश्वर्ययोगतो घटत इत्येवाङ्गीक्रियते न तु जीवैक्यादिकमपीति । तथा सति परमैश्वर्यस्यैवानुपपत्तेरिति भावः ॥1-14॥
((अर्जुन उवाच --
पश्यामि देवांस्तव देव देहे सर्वांस्तथा भूतविशेषसङ्घान् ।
ब्रह्माणमीशं कमलासनस्थमृषींश्च सर्वानुरगांश्च दिव्यान् ॥ 15 ॥
अनेकबाहूदरवक्त्रनेत्रं पश्यामि त्वां सर्वतोऽनन्तरूपम् ।
नान्तं न मध्यं न पुनस्तवादिं पश्यामि विश्वेश्वर विश्वरूप ॥ 16 ॥
किरीटिनं गदिनं चक्रिणं च तेजोराशिं सर्वतो दीप्तिमन्तम् ।
पश्यामि त्वां दुर्निरीक्ष्यं समन्तात् दीप्तानलार्कद्युतिमप्रमेयम् ॥ 17 ॥
त्वमक्षरं परमं वेदितव्यं त्वमस्य विश्वस्य परं निधानम् ।
त्वमव्ययः शाश्वतधर्मगोप्ता सनातनस्त्वं पुरुषो मतो मे ॥ 18 ॥
* कमलासने ब्रह्मणि स्थितं रुद्रम् ।
``विष्णुं समाश्रितो ब्रह्मा ब्रह्मणोऽङ्कगतो हरः ।
हरस्याङ्गविशेषेषु देवाः सर्वेऽपि संस्थिताः ॥" इति पाद्मे ॥15-18॥
// दृष्टविश्वरूपो दृष्टानुवादव्याजेन स्तौति ``पश्यामि" इति । तत्र कमलरूपासने स्थितं ब्रह्माणमित्यल्पार्थत्वप्रतीतिनिरासाय कमलासनस्थपदं व्याचष्टे-- कमलेति ॥ कथं ब्रह्मणो ब्रह्मणि स्थितत्वमित्यतो रुद्रस्येशपदोदितस्येदं विशेषणमिति भावेनाह -- रुद्रमिति ॥ भवेदिदं व्याख्यानं यदि रुद्रस्य ब्रह्मणि स्थितत्वं भवेत्, तदेव कुत इत्यत आह -- विष्णुमिति ॥15-18॥
(( अनादिमध्यान्तमनन्तवीर्यमनन्तबाहुं शशिसूर्यनेत्रम् ।
पश्यामि त्वां दीप्तहुताशवक्त्रं स्वतेजसा विश्वमिदं तपन्तम् ॥ 19 ॥
* द्यावापृथिव्योरन्तरमेकेनैव रूपेण व्याप्तम् । ``नान्तं न मध्यम्" इत्युक्तत्वात् पुनः ``अनादिमध्यान्तम्" इति गुणानन्त्यापेक्षया । ``त्वया ततं विश्वमनन्तरूप" इति कालापेक्षया । स्वयमन्तं विद्यमानमपि न पश्यतीत्याशङ्क्य ``त्वया ततं विश्वमनन्तम्" इत्याह । अन्यत् तात्पर्यज्ञापनायाभ्यासरूपम् । ``सर्वं समाप्नोति ततोऽसि सर्वः" इति सर्वं खल्विदं ब्रह्म इत्यादिषु सर्वशब्दव्याख्यानरूपम् ॥19॥
// ``द्यावापृथिव्योः" इत्यत्र त्वयेत्युक्त्यैवेकेनेति सिद्धत्वात् किमर्थं पुनरेकेनेत्युच्यत इत्यतस्तस्य सार्थक्यमाह-- द्यावापृथिव्योरिति ॥ ``अनादिमध्यान्तम्" इति परिमाणानन्त्यमुच्यत इत्यन्यथाप्रतीतिनिरासायाह-- नान्तमिति ॥ अनादिमध्यान्तमित्यत्र परिमाणेतरगुणानन्त्यमेवोच्यते, नतु परिमाणानन्त्यम् । तस्य ``नान्तं न मध्यं" इत्यनेनोक्तत्वादित्यर्थः । ``त्वया ततं विश्वमनन्तरूप" इत्यत्रानन्तरूपेति पुनरुक्तिरित्यत आह-- त्वयेति ॥ तर्~हि ``नान्तं न मध्यं न पुनस्तवादिं पश्यामि" इति परिमाणानन्त्यस्योक्तत्वात् ``त्वया ततं विश्वम्" इति पुनरुक्तिरित्यत आह-- स्वयमिति ॥ नान्तं पश्यामीत्युक्ते नेश्वरस्य परिमाणानन्त्यं सिद्ध्यति । विद्यमानमन्तं स्वयं न पश्यतीत्यपि प्रतीतेः । तन्निवृत्त्यर्थं न केवलमहं पश्यामि, किन्तु त्वया ततं विश्वमित्युक्तत्वेन स्वप्रयोजनत्वान्न पुनरुक्तिरिति भावः । तथापि ``पश्यामि त्वां सर्वतोऽनन्तरूपं", ``द्यावापृथिव्योरिदमन्तरं हि व्याप्तं त्वयैकेन दिशश्च सर्वाः" इत्यादि पुनरुक्तिरित्यत आह -- अन्यदिति ॥ ऎतद्वाक्यजातस्य विष्णोर्देशतःकालतो गुणतश्चानन्त्ये स्वस्य महातात्पर्यज्ञापनायाभ्यासरूपत्वान्न पुनरुक्तिदोष इति भावः । ``अनन्तवीर्यामितविक्रमस्त्वं", ``सर्वं समाप्नोषि" इति पुनरुक्तिशङ्का पूर्वोक्त्यैव गर्भस्रावेण गता । तथापि तस्य प्रयोजनान्तरमाह -- सर्वमिति ॥ `सर्वं खल्विदं ब्रह्म' इत्यादेः सर्वस्य जगतो ब्रह्मात्मकत्वात् ``त्वमस्य विश्वस्य परं निधानम्" इत्याद्ययुक्तमित्याशङ्क्य तच्छ्रुतिगतसर्वशब्दस्य ब्रह्मैवार्थः, सर्वव्याप्तत्वादित्यत्रोच्यते । अतो न पौनरुक्त्यमिति भावः । ननु स्वयमेव `नमोऽस्तु ते सर्वत ऎव सर्व' इति सर्वशब्देन सम्बोध्य `सर्वं समाप्नोषि' इति किमर्थमसौ व्याख्यायत इत्यतो वाऽऽह- सर्वमिति ॥ नात्र स्ववचनं व्याक्रियते, येन वैय्यर्थ्यं स्यात् । किन्तु ``सर्वं खल्विदं ब्रह्म", ``सर्वं ह्येतद् ब्रह्म" इत्यादि वाक्येषु श्रुतसर्वशब्दमनूद्य तद् व्याख्यानमिदं स्वोक्तस्थापनार्थमिति भावः ॥19॥
(( द्यावापृथिव्योरिदमन्तरं हि व्याप्तं त्वयैकेन दिशश्च सर्वाः ।
दृष्ट्वाऽद्भुतं रूपमुग्रं तवेदं लोकत्रयं प्रव्यथितं महात्मन् ॥ 20 ॥
अमी हि त्वां सुरसङ्घा विशन्ति केचिद्भीताः प्राञ्जलयो गृणन्ति ।
स्वस्तीत्युक्त्वा महर्षिसिद्धसङ्घाः स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः ॥ 21 ॥
रुद्रादित्या वसवो ये च साध्या विश्वेऽश्विनौ मरुतश्चोष्मपाश्च ।
गन्धर्वयक्षासुरसिद्धसङ्घा वीक्षन्ते त्वां विस्मिताश्बैव सर्वे ॥ 22 ॥
रूपं महत्ते बहुवक्त्रनेत्रं महाबाहो बहुबाहूरुपादम् ।
बहूदरं बहुदंष्ट्राकरालं दृष्ट्वा लोकाः प्रव्यथितास्तथाऽहम् ॥ 23 ॥
नभः स्पृशं दीप्तमनेकवर्णं व्यात्ताननं दीप्तविशालनेत्रम् ।
दृष्ट्वा हि त्वां प्रव्यथितान्तरात्मा धृतिं न विन्दामि शमं च विष्णो ॥24 ॥
दंष्ट्राकरालानि च ते मुखानि दृष्ट्वैव कालानलसन्निभानि ।
दिशो न जाने न लभे च शर्म प्रसीद देवेश जगन्निवास ॥ 25 ॥
* ``त्रिलोकेषु स्थितैर्भक्तैरर्जुनाय प्रदर्शितम् ।
दृष्टं विष्णोर्विश्वरूपं स्वयोग्यत्वानुरूपतः ॥
प्रायः सहैव पार्थेन प्रायो भीताश्च तेऽखिलाः ।
दर्शनाभ्यासतो दृष्टिरानन्दोद्रेकदा भवेत् ।
तस्मिन् काले तु भूमेश्च भारहारार्थमुद्यमात् ॥
उग्रत्वमिव सर्वत्र न भीतिर्ब्रह्मदर्शिनाम् ।
अर्जुनादधिका ये तु तेषां भीतिर्न चाभवत् ॥
श्रीब्रह्मरुद्रपूर्वाणां कृष्णाया भीमरामयोः ॥"
इत्याग्नेयवचनाद् ``दृष्ट्वाऽद्भुतं रूपम्" इत्यादि युज्यते ।
मुक्ताः सुरसङ्घाः विशन्ति । ``प्रवेशो निर्गमश्बैव मुक्तानां स्वेच्छया भवेत् ।" इति ब्रह्माण्डे ॥20-25॥
// ननु ``मन्यसे यदि तच्छक्यं मया द्रष्टुं" इति स्वस्यापि यद्दर्शनमसुलभमुक्तं तादृशरूपदर्शनं कथं लोकत्रयस्य ``दृष्ट्वाऽद्भुतं रूपं" इत्यादिनाऽर्जुनेनोच्यते । ``सुखमात्यन्तिकं" इत्यादौ भगवद्दर्शनस्य परमानन्दहेतुत्वेनोक्तत्वात् कथं विश्वरूपदर्शनस्य व्यथाहेतुत्वमुच्यत इत्यत आह-- त्रिलोकेष्विति ॥ किं विश्वरूपदर्शनं सदा भयङ्करमित्यत आह-- दर्शनेति ॥ किमेवं सर्वरूपेष्वपि प्रथमतो भीतिर्भवतीत्यत आह -- तस्मिन्निति ॥ उग्रत्वमिवातो भीतिरिति शेषः । तर्~हि सर्वेषामपि भयसम्भवात् किमर्थमुच्यते प्रायो भीता इत्यत आह -- अर्जुनादिति ॥ ऎतद् वचनबलेन लोकत्रयशब्दस्य तत्र स्थितविश्वरूपदर्शनयोग्यप्रतिबन्धकहीनभक्तविषयत्वात् भगवतः किञ्चिदुग्रत्वात् तद्दर्शिनां भयस्यापि सम्भवात् `दृष्ट्वाऽद्भुतं' इत्यादि वाक्यमुपपन्नमिति भावः । `पश्यामि देवांस्तव देहे' इत्युक्तत्वात् `अमी हि त्वा सुरसङ्घा विशन्ति' इति पुनरुक्तिरित्यत आह-- मुक्ता इति ॥ अत्र `अमी सुरसङ्घाः' इति पारोक्ष्येण निर्दिष्टा मुक्ताः । तत्रामुक्ता इत्यपौनुरुक्त्यमिति भावः । भवेदपुनरुक्तिर्यद्येतत् मुक्तविषयं स्यात् । तदेव कुतः ? परोक्षनिर्देशस्यामुक्तेष्वपि सम्भवादिति चेन्न । ``त्वां विशन्ति" इति स्वेच्छयैव भगवत्प्रवेशोक्तेरिति भावेनाह -- विशन्तीति ॥ तथापि कुतो मुक्तविषयत्वमस्येत्यत आह -- प्रवेश इति ॥21-24॥
<लन्ग्=सन्>((अमी च त्वा धृतराष्ट्रस्य पुत्राः सर्वे सहैवावनिपालसङ्घैः ।
भीष्मो द्रोणः सूतपुत्रस्तथाऽसौ सहास्मदीयैरपि योधमुख्यैः ॥ 26 ॥
वक्त्राणि ते त्वरमाणा विशन्ति दंष्ट्राकरालानि भयानकानि ।
केचिद्विलग्ना दशनान्तरेषु सन्दृश्यन्ते चूर्णितैरुत्तमाङ्गैः ॥ 27 ॥
यथा नदीनां बहवोऽम्बुवेगाः समुद्रमेवाभिमुखा द्रवन्ति ।
तथा तवामी नरलोकवीरा विशन्ति वक्त्राण्यभिविज्वलन्ति ॥ 28 ॥
यथाप्रदीप्तं ज्वलनं पतङ्गा विशन्ति नाशाय समृद्धवेगाः ।
तथैव नाशाय विशन्ति लोकास्तवापि वक्त्राणि समृद्धवेगाः ॥ 29 ॥
लेलिह्यसे ग्रसमानः समन्तात् लोकान् समग्रान् वदनैर्ज्वलद्भिः ।
तेजोभिरापूर्य जगत्समग्रं भासस्त्ववोग्राः प्रतपन्ति विष्णो ॥ 30 ॥
*अन्यचेष्टां कुर्वतामपि भगवच्चेष्टयैव प्रलयोदके प्रजानां प्रवेशवत् प्रवेशो युज्यते । सेनामध्यतो भगवान् मुखानामुभयाभिमुखत्वाच्चोभे सेनॆ तत्र प्रविशतः । ये तु तस्मिन् मुहूर्ते मरिष्यन्ति तेषां दशनान्तरे चूर्णितमपि शिरः सूक्ष्मदृष्टिगोचरत्वात् मानुषदृष्ट्या तथा न दृश्यते । यथा भिन्नमपि घटादिकं यावत् पृथ~घX न पतति तावत् मन्ददृष्टीनां न ज्ञायते । यथा पुरूरवसो जराऽश्विभ्यामेव दृष्टा ॥26-30॥
// ननु धृतराष्ट्रपुत्रादीनां भगवन् मुखप्रवेशोन्मुखचेष्टाऽभावात् कथं ``अमी च त्वा धृतराष्ट्रस्य पुत्राः" इत्याद्युच्यत इत्यत आह-- अन्येति ॥ भगवन्मुखप्रवेशानुन्मुखचेष्टानामपि भगवन्मुखचेष्टयैव तत्र प्रवेशादुपचारेण विशन्तीति प्रयोगो युज्यते । प्रलयोदकप्रवेशानुन्मुखचेष्टानां प्रजानां तच्चेष्टयैव तत्र प्रवेशे ``प्रविष्टा उदकं प्रजाः" इति प्रयोगवदित्यर्थः । भगवन्मुखचेष्टयैव तत्र प्रवेशश्चेत् धार्तराष्ट्रसेनाया ऎव भवेत् । भगवन्मुखानां तदभिमुखत्वात् । अतः ``सहास्मदीयैः" इत्ययुक्तं स्यादित्यत आह -- सेनेति ॥ ननु युद्धोपक्रम ऎव चूर्णितोत्तमाङ्गतयाऽन्यैरदृष्टाः कथमर्जुनेन मया तथा सन्दृश्यन्त इत्युच्यते ``केचिद्विलग्नाः" इत्यादिनेत्यत आह -- ये त्विति ॥ तस्मिन्नेव मुहूर्ते मरिष्यमाणानामेवात्र ग्रहणाद् युद्धोपक्रम ऎवैवमुक्तिर्युक्ता । विशीर्णत्वेनापतितस्य सूक्ष्मदृष्टिगोचरत्वादन्येषां तथा दर्शनं च युक्तम् । ``दिव्यं ददामि ते चक्षुः" इत्यादेरर्जुनस्य दिव्यदृष्टित्वादन्यादृष्टदर्शनं च युक्तमिति भावः । अन्येषां तददर्शने दृष्टान्तमाह-- यथेति ॥ दिव्यदृष्टित्वादर्जुनस्यान्यादृष्टदर्शने दृष्टान्तमाह -- यथेति ॥ ऎतच्च विष्णुधर्मे विस्तरेणोक्तम् ॥26-30॥
((आख्याहि मे को भवानुग्ररूपो नमोऽस्तु ते देववर प्रसीद ।
विज्ञातुमिच्छामि भवन्तमाद्यं नहि प्रजानामि तव प्रवृत्तिम् ॥ 31 ॥
* विशेषगुणकर्मविषय ऎव प्रश्नः । विष्णविति सम्बोधनात् ॥31॥
// ``आख्यामि मे को भवान्" इत्यत्र को देवो भवानिति पृच्छतीत्यन्यथाप्रतीतिनिरासायाऽह -- विशेषेति ॥ गुणादेः स्वयमेवोक्तत्वात् किं पुनः प्रश्नेनेत्यतो विशेषेत्युक्तम् । स्वाज्ञातविषय इत्यर्थः । स्वरूपविषय ऎव किं न स्यादित्यत आह -- विष्णवितीति ॥ ``भासस्तवोग्राः प्रतपन्ति विष्णो" इत्यर्जुनेन भगवतः सम्बोधितत्वेन विष्णुरिति पूर्वमेव ज्ञातत्वात् विशेषगुणकर्मादिविषय एवायं प्रश्नो न स्वरूपमात्रविषय इत्यर्थः ॥31॥
(( श्रीभगवानुवाच --
कालोऽस्मि लोकक्षयकृत् प्रवृद्धो लोकान् समाहर्तुमिह प्रवृत्तः ।
ऋतेऽपि त्वा न भविष्यन्ति सर्वे येऽवस्थिताः प्रत्यनीकेषु योधाः ॥ 32 ॥
तस्मात्त्वमुत्तिष्ठ यशो लभस्व जित्वा शत्रून् भुङ्क्ष्व राज्यं समृद्धम् ।
मयैवैते निहताः पूर्वमेव निमित्तमात्रं भव सव्यसाचिन् ॥ 33 ॥
* ``कालः कलितसम्पूर्णसद्गुणत्वाज्जनार्दनः ।
संहारात् सर्ववित्त्वाद्वा सर्वविद्रावणेन वा ॥" इति महावाराहे । अपिशब्देन भ्रात्रादीनप्यृते ॥32-33॥
// परिहारे गुणादेरनुक्तत्वात् नायं तद्विषय इत्यतः कालशब्द ऎव गुणादिवाचीति भावेन स्मृत्यैव तं व्याचष्टे -- काल इति ॥ कलिताः स्वसम्बद्धाः । कल बन्धने, कल संहरणे, कल ज्ञाने, कल विद्रावण इति पठन्ति । उग्ररूपः किमर्थमिति प्रश्नपरिहारायोक्तं ``लोकक्षयकृत्" इत्यादि । तदुपपाद्यते ``ऋतेऽपि" इति । तत्र युधिष्ठिरादीनामप्युर्वरितत्वात् कथं त्वामृते सर्वे मरिष्यन्तीत्युच्यत इत्यत आह -- अपीति ॥ नात्रार्जुनमेकमृते सर्वे मरिष्यन्तीत्युच्यते । किन्तु अर्जुनभ्रातरूनश्वत्थामादींश्च विना । अपि पदेन तेषां समुच्चितत्वादिति भावः ॥32-33॥
(( द्रोणं च भीष्मं च जयद्रथं च कर्णं तथाऽन्यानपि योधवीरान् ।
मया हतांस्त्वं जहि मा व्यथिष्ठा युध्यस्व जेतासि रणे सपत्नान् ॥ 34 ॥
सञ्जय उवाच --
ऎतत् श्रुत्वा वचनं केशवस्य कृताञ्जलिर्वेपमानः किरीटी ।
नमस्कृत्वा भूय एवाह कृष्णं सगद्गदं भीतभीतः प्रणम्य ॥ 35 ॥
अर्जुन उवाच --
स्थाने हृषीकेश तव प्रकीर्त्या जगत् प्रहृष्यत्यनुरज्यते च ।
रक्षांसि भीतानि दिशो द्रवन्ति सर्वे नमस्यन्ति च सिद्धसङ्घाः ॥ 36 ॥
कस्माच्च ते न नमेरन् महात्मन् गरीयसे ब्रह्मणोऽप्यादिकर्त्रे ।
अनन्त देवेश जगन्निवास त्वमक्षरं सदसत्तत्परं यत् ॥ 37 ॥
त्वमादिदेवः पुरुषः पुराणः त्वमस्य विश्वस्य परं निधानम् ।
वेत्ताऽसि वेद्यं च परं च धाम त्वया ततं विश्वमनन्तरूप ॥ 38 ॥
* जयद्रथस्य पितुर्वरादेव विशेषः । निहता निहतप्रायाः । पश्चादर्जुनेऽपि स्थित्वा स ऎव हनिष्यति ॥34-38॥
// यतोऽहमेव लोकान् समाहर्तुमिह प्रवृत्तोऽतो वैरिजये सन्देहायोगाद् युध्यस्वेत्युच्यते `तस्मात्' इति । तत्र द्रोणं च भीष्मं चेति जयद्रथस्य द्रोणादिवद्विशिष्योक्तिः कथम् ? तावत्सामर्थ्याभावादित्यत आह -- जयद्रथस्येति ॥ योऽस्य शिरः छिन्नं भूमौ पातयेत् तच्छिरो भिद्यतामिति पितृदत्तातिबलिष्ठवरादेवास्य विशेषोक्तिर्न तु द्रोणादिवत् सामर्थ्यविशेषादित्यर्थः । ननु जीवन्त ऎव कथं ``मयैवेते निहताः" इत्युच्यते । तथात्वे च कथं ``जेताऽसि" इत्युच्यत इत्यत आह -- निहता इति ॥ निहतप्रायत्वं नामापहृतायुष्ट्वेन सन्निकृष्टमरणत्वम् । यदि साक्षान्न निहतास्तर्~हि हन्ता भवेति वक्तव्यम् । निमित्तमात्रं भवेति कथमुच्यत इत्यत आह -- पश्चादिति ॥ तस्य स्वातन्त्र्येण हन्तृत्वाभावात् निमित्तमात्रमित्युक्तमिति भावः । मृतमारणायोगात् `मया हतांस्त्वं जहि' इति कथमुच्यत इत्यतो वाऽह -- पश्चादिति ॥ अर्जुने स्थित्वा तस्यैव हन्तृत्वान् मया हतेषु त्वमपि हन्तेति व्यवहारविषयो भवेत्येव भगवतोच्यत इति भावः ॥34-38॥
((वायुर्यमोऽग्निर्वरुणः शशाङ्कः प्रजापतिस्त्वं प्रपितामहश्च ।
नमो नमस्तेऽस्तु सहस्रकृत्वः पुनश्च भूयोऽपि नमो नमस्ते ॥ 39 ॥
नमः पुरस्तादथ पृष्ठतस्ते नमोऽस्तु ते सर्वत ऎव सर्व ।
अनन्तवीर्यामितविक्रमस्त्वं सर्वं समाप्नोषि ततोऽसि सर्वः ॥ 40 ॥
सखेति मत्वा प्रसभं यदुक्तं हे कृष्ण हे यादव हे सखेति ।
अजानता महिमानं तवेदं मया प्रमादात् प्रणयेन वाऽपि ॥ 41 ॥
* ``वायुर्बलज्ञानयोगात् शशाङ्कोऽतिसुखाङ्कितः ।
इन्द्रः स परमैश्वर्यादिति नानाभिधो हरिः ॥" इति च ॥39-41॥
// वायुर्यमोऽग्निरित्याद्यर्जुनस्तुतिवाक्ये वाय्वादीनां भगवदभेद उच्यत इत्यन्यथाप्रतीतिनिरासाय वाय्वादिशब्दानां भगवति योगवृत्तिं स्मृत्यैव दर्शयति -- वायुरिति ॥ वबयोरभेदाद् वकारो बलवाची । अयपय गताविति धातोः आयुशब्दो ज्ञानवाची । इदि परमैश्वर्य इति धातुः ॥ 39-41॥
((यच्चापहासार्थमसत्कृतोऽसि विहारशय्यासनभोजनेषु ।
एकोऽथ वाऽप्यच्युत तत्समक्षं तत्क्षामये त्वामहमप्रमेयम् ॥ 42 ॥
पिताऽसि लोकस्य चराचरस्य त्वमस्य पूज्यश्च गुरुर्गरीयान् ।
न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो लोकत्रयेऽप्यप्रतिमप्रभाव ॥ 43 ॥
तस्मात् प्रणम्य प्रणिधाय कायं प्रसादये त्वामहमीशमीढ्यम् ।
पितेव पुत्रस्य सखेव सख्युः प्रियः प्रियायार्~हसि देव सोढुम् ॥ 44 ॥
अदृष्टपूर्वं हृषितोऽस्मि हृष्ट्वा भयेन च प्रव्यथितं मनो मे ।
तदेव मे दर्शय देव रूपं प्रसीद देवेश जगन्निवास ॥ 45 ॥
* ऎकः सर्वोत्तमोऽप्यसत्कृतः ।
``ऎकः सर्वाधिको ज्ञेय ऎक ऎव करोति यत् ॥" इति च ॥42-45॥
// ``असत्कृतोऽसि विहारशय्यासनभोजनेषु । एकोऽथवाऽपि" इत्यत्र यद्यप्यहं त्वमेक ऎव । तथापि लोकव्यवहारानुसारेण क्षामय इत्यन्यथाप्रतीति निरासायाह -- ऎक इति ॥ तर्~ह्यन्वयो नोपपद्यत इत्यतस्तं दर्शयति -- अपीति ॥ सर्वोत्तमत्वेनासकत्कारायोग्योऽप्यसत्कृतोऽसीत्येवोच्यते । नान्यत् । आर्जुनस्य भगवदैक्ये मानाभावादिति भावः । ऎकशब्दः कथं सर्वोत्तमवाचीत्यत आह -- ऎक इति ॥ ऎकत्वाद् एः, करोतीति क इत्यर्थः । अन्यनिरपेक्षतया हि कर्ता सर्वोत्तमः ॥42-45॥
((किरीटिनं गदिनं चक्रहस्तमिच्छामि त्वां द्रष्टुमहं तथैव ।
तेनैव रूपेण चतुर्भुजेन सहस्रबाहो भव विश्वमूर्ते ॥ 46 ॥
* तेनैव रूपेण भवेत्यनन्तरूपगोपनेन तदेव प्रकाशयेत्यर्थः । ``पञ्चाननं चिन्त्यमचिन्त्यरूपं पद्मासनं गोपितविश्वरूपम्" इति वैहायसंहितायाम् ॥46॥
// `तेनैव रूपेण भव' इत्यर्जुनप्रार्थनावाक्ये विश्वरूपं विहाय पूर्वतनं गृहाणेत्युच्यत इत्यन्यथाप्रतीतिनिरासायाह -- तेनैवेति ॥ यदा रूपान्तरं प्रतीयते तदा विश्वरूपत्याग ऎवं किं न स्यात्, किं तद्गोपनेनेत्यत आह -- पञ्चाननमिति ॥ नरसिंहरूपोऽपि गोपित विश्वरूपत्वोक्तेर्न रूपान्तरप्रतीतौ विश्वरूपत्याग इति भावः ॥ 46॥
((श्रीभगवानुवाच --
मया प्रसन्नेन तवार्जुनेदं रूपं परं दर्शितमात्मयोगात् ।
तेजोमयं विश्वमनन्तमाद्यं यन्मे त्वदन्येन न दृष्टपूर्वम् ॥ 47 ॥
* ``विश्वनामा स भगवान् यतः पूर्णगुणः प्रभुः ।" इति पाद्मे । त्वदन्येन न दृष्टपूर्वमित्यनेन तेनैवेन्द्रशरीरेण दृष्टमिति ज्ञायते । त्वदन्येनेति त्वदवरापेक्षया । तैरपि तद्वन्न दृष्टमित्येव ।
``विश्वरूपं प्रथमतो ब्रह्माऽपश्यच्चतुर्मुखः ।
तच्छतांशेन रुद्रस्तु तच्छतांशेन वासवः ॥
यथेन्द्रेण पुरा दृष्टमपश्यत् सोऽर्जुनोऽपि सन् ।
तदन्ये क्रमयोगेन तच्छतांशादिदर्शिनः ॥" इति ब्रह्माण्डे ॥47॥
// भक्त्यतिशयोत्पादनाय विश्वरूपदर्शनस्य दौर्लभ्यमुच्यते `मया' इति । तत्र ``तेजोमयं विश्वं" इति विश्वात्मकत्वं भगवद्रूपस्योच्यत इत्यन्यथाप्रतीतिनिरासाय विश्वशब्दं स्मृत्यैव व्याचष्टे -- विश्वेति ॥ ``यन्मे त्वदन्येन न दृष्टपूर्वं" इत्यर्जुनेतरैर्विश्वरूपस्यादृष्टत्वमुच्यते इत्यन्यथाप्रतीतिनिरासायाह -- त्वदिति ॥ नात्र विश्वरूपस्यार्जुनेतरैरदृष्टत्वमुच्यते । प्रत्युतेतः पूर्वं केनापि न दृष्टमित्यनुक्त्वा त्वदन्येनेत्युक्तत्वात् तेनैवेतः पूर्वं इन्द्रशरीरेण दृष्टमित्येवोच्यत इत्यर्थः । तर्~हि ब्रह्मादिभिरपि न दृष्टमित्यपि नाशङ्कनीयम् । त्वदन्येनेत्यर्जुनादधमविवक्षयोक्तत्वादित्याह -- त्वदिति ॥ नैतावताऽर्जुनाधमैर्न दृष्टमिति कल्पनीयम् । अधमैरप्यर्जुनवन्न दृष्टमित्यभिप्रायेणैवादृष्टत्वस्योक्तत्वादित्याह -- तैरिति ॥ भवेदेवैतत् व्याख्यानं यदि विश्वरूपं ब्रह्मादिभिरिन्द्रेणार्जुनादधमैश्च दृष्टं, इन्द्रेण चार्जुनवदेव दृष्टं, अर्जुनादधमैस्तद्वन्न दृष्टमित्येतत् सिद्ध्येत्, तदेव कुत इत्यत आह -- विश्वरूपमिति ॥ इन्द्रस्याधिकदर्शित्वेऽल्पदर्शित्वे वा विशिष्य त्वयेन्द्रशरीरेण दृष्टमित्युक्तिर्न सम्भवति । आधिक्येऽनुक्तेराधम्ये निषेधस्य चादर्शनात् ॥47॥
((न वेदयज्ञाध्ययनैर्न दानैर्न च क्रियाभिर्न तपोभिरुग्रैः ।
एवं रूपः शक्य अहं नृलोके द्रष्टुं त्वदन्येन कुरुप्रवीर ॥ 48 ॥
मा ते व्यथा मा च विमूढभावो दृष्ट्वा रूपं घोरमीदृ~घX ममेदम् ।
व्यपेतभीः प्रीतमनाः पुनस्त्वं तदेव मे रूपमिदं प्रपश्य ॥ 49 ॥
* वेदादिभिरपि त्वदवरेणैवं द्रष्टुमशक्यम् । अन्यथा ``दृष्ट्वाऽद्भुतं रूपम्" इत्यादि विरोधः ॥48-49॥
// यद्यन्येषामपि विश्वरूपदर्शनमात्राभिप्रेतं स्यात्तर्~हि `` न वेदयज्ञाध्ययनैर्न दानैः" इत्युत्तरवाक्यविरोध इत्यत आह-- वेदेति ॥ नोत्तरवाक्येऽर्जुनादन्येषां विश्वरूपदर्शनाभाव उच्यते । किन्तु त्वदवरैस्त्वद्वन्न दृष्टमित्युक्तेः स्वतस्तथा दर्शनाभावेऽपि वेदादिसाधनैस्तथा तैर्दृश्यतामित्याशङ्क्य त्वदवरैर्वेदादिसाधनैरपि त्वद्वन्न द्रष्टुं शक्यत इत्येवोच्यत इति भावः । विश्वरूपस्यार्जुनादन्येनादृष्टत्वमेवार्थः किं न स्यादिति चेन्न । उदाहृतस्मृतिविरोधात् । अत्रापि ``दृष्ट्वाऽद्भुतं रूपं", ``दृष्टा लोकाः" इत्यादि पूर्ववाक्यविरोधः स्यादित्यत आह -- अन्यथेति ॥48-49॥
((सञ्जय उवाच --
इत्यर्जुनं वासुदेवस्तथोक्त्वा स्वकं रूपं दर्शयामास भूयः ।
आश्वासयामास च भीतमेनं भूत्वा पुनः सौम्यवपुर्महात्मा ॥ 50 ॥
* स्ववत् क्रियत इति स्वकं रूपम् । विश्वरूपमज्ञानां स्वरूपवन्न दर्शयति । ऎतदज्ञानामपि तथैव दर्शयतीति विशेषः । अन्यथा ``द्रष्टुमिच्छामि ते रूपम्" इति विरुद्धं स्यात् ।
``परावरविभेदस्तु मुग्धदृष्टिमपेक्ष्य तु ।
प्रादुर्भावस्वरूपाणां विश्वरूपस्य च प्रभोः ॥
अन्यथा न विशेषोऽस्ति व्यक्तिर्~ह्यज्ञव्यपेक्षया ॥" इति च ॥50॥
// ``स्वकं रूपं दर्शयामास" इति कृष्णरूपस्य विशिष्य स्वीयत्वेनोक्तेः यदुक्तं विश्वरूपस्य साक्षादीश्वरस्वरूपत्वं तदयुक्तमित्यत आह -- स्ववदिति ॥ नात्र स्वकशब्देन कृष्णरूपस्य स्वकीयत्वमुच्यते, येन विश्वरूपस्य स्वकीयत्वं न स्यात् । किन्तु स्ववत् स्वकीयवत् क्रियते प्रदर्श्यत इति व्युत्पत्त्या स्वकीयतया प्रदर्शनीयत्वमेवेत्यर्थः । ननूभयोरपि भगवदीयतया प्रदर्श्यमानत्वात् कृष्णरूपस्यैव कुतो विशेषोक्तिरित्यत आह-- विश्वरूपमिति ॥ सत्यमुभयं रूपं भगवदीयतया प्रदर्श्यत इति, किन्तु ज्ञानिनामेव । अज्ञानिनां तु कृष्णरूपमेव भगवदीयतया प्रदर्श्यते । नतु विश्वरूपमतोऽज्ञविवक्षया विशेषोक्तिर्युक्तेति भावः । अत एवाल्पज्ञानिविवक्षया स्ववदित्युक्तम् । किमर्थमेवं व्याख्येयम् ? विश्वरूपं भगवदीयमेव किं न स्यादित्यत आह -- अन्यथेति ॥
कृष्णरूपविश्वरूपयोः स्वकीयत्वास्वकीयत्वप्रतीतिनिराकरणप्रसङ्गेन परमं रूपं दर्शयामासेति विश्वरूपस्य परत्वोक्त्या कृष्णरूपस्यापरत्वं स्मृत्यैव निराकरोति -- परेति ॥ अन्यथा स्वभावतः । तर्~हि विश्वरूप ऎव परत्वं विदुषामपि कथं दृश्यत इत्यत आह -- व्यक्तिरिति ॥ विश्वरूपे परत्वव्यक्तिर्नावताररूपेषु ॥ अतस्तथा दृष्टिर्युक्तेति भावः । इयं च व्यक्तिरल्पज्ञानिविवक्षयोच्यते । नतु ब्रह्मादिमहाज्ञानिविवक्षया । तेषां कृष्णादावपि परत्वस्य प्रतीतेरित्याह -- अज्ञेति ॥50॥
((अर्जुन उवाच --
दृष्ट्वेवं मानुषं रूपं तव सौम्यं जनार्दन ।
इदानीमस्मि संवृत्तः सचेताः प्रकृतिं गतः ॥ 51 ॥
*किञ्चिन्मनुष्यवद् दृश्यमानत्वान्मानुषम् ॥51॥
// ननु ``दृष्ट्वेवं मानुषं रूपं" इति कृष्णरूपस्य मानुषत्वोक्तेः कथं नावरत्वमित्यत आह -- किञ्चिदिति ॥ अन्यथोदाहृतवाक्यविरोधः स्यादित्यर्थः ॥51॥
((श्रीभगवानुवाच --
सुदुर्दर्शमिदं रूपं दृष्टवानसि यन्मम ।
देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः ॥ 52 ॥
* ये दर्शनकाङ्क्षिणस्तैरपीदानीं दृष्टप्रायः ॥52॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीतातात्पर्यनिर्णये एकादशोऽध्यायः ॥11॥
// ननु ``सुदुर्दर्शमिदं रूपं" इत्यत्र देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिण ऎव वर्तन्ते, न तु पश्यन्तीत्युक्तत्वात् कथमर्जुनादुत्तमैरधमैश्च विश्वरूपस्य दृष्टत्वमुच्यत इत्यतस्तद्वाक्यं यथावद्योजयति -- य इति ॥ अनेन यन्मम रूपं दृष्टवानसि, अस्य रूपस्य नित्यं दर्शनकाङ्क्षिणो ये देवास्तेऽपि यद् दृष्टवन्तस्तदिदं सुदुर्दर्शमिति योजना सूचिता भवति । अन्यथोक्तविरोध इति भावः ॥52॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्य श्रीमद्भगवद्गीतातात्पर्यनिर्णयस्य टीकायां जयतीर्थमुनिविरचितायां न्यायदीपिकायां एकादशोऽध्यायः ॥11॥
((नाहं वेदैर्न तपसा न दानेन न चेज्यया ।
शक्य ऎवं विधो द्रष्टुं दृष्टवानसि मां यथा ॥ 53 ॥
भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन ।
ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप ॥ 54 ॥
मत्कर्मकृन्मत्परमो मद्भक्तः सङ्गवर्जितः ।
निर्वैरः सर्वभूतेषु यः स मामेति पाण्डव ॥ 55 ॥
॥ ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे विश्वरूपदर्शनयोगो नाम एकादशोऽध्यायः ॥ 11 ॥
॥ श्रीवादिराजगुर्वन्तर्गतश्रीमध्वेशाभिन्नश्रीकृष्णार्पणमस्तु ॥
*********************************************************************
॥श्रीगुरुभ्योनमः ॥
श्रीवादिराजगुर्वन्तर्गत श्रीमध्वेशाभिन्नश्रीलक्ष्मीहयग्रीवाय नमः ॥
॥ अथ द्वादशोऽध्यायः ॥
अर्जुन उवाच--
एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते ।
ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः ॥ 1 ॥
श्री भगवानुवाच --
मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते ।
श्रद्धया परयोपेतास्ते मे युक्ततमा मताः ॥ 2 ॥
ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते ।
सर्वत्रगमचिन्त्यं च कूटस्थमचलं ध्रुवम् ॥ 3 ॥
* हरिः ॐ ॥ साधननिर्णयोऽत्र । ``श्रिये जातः श्रिय आ निरियाय श्रियं वयो जरितृभ्यो दधाति । श्रियं वसाना अमृतत्वमायन् भवन्ति सत्या समिथा मितद्रौ ।"
``उपासिता मुक्तिदा सद्य ऎव ह्यस्येशाना जगतो विष्णुपत्नी ।
या श्रीर्लक्ष्मीरौपला चाम्बिकेति ह्रीश्चेत्युक्ता संविदग्र्या सुविद्या ॥" इत्यादि श्रुतिभ्यः,
``श्रीः सुतुष्टा हरेस्तोषं जनयेत् क्षिप्रमेव तु ।
अतुष्टा तदतुष्टिं च तस्माद् ध्येयैव सा सदा ॥
अव्यक्तं प्रकृतिं प्राहुः कूटस्थं चाक्षरं च ताम् ।
प्रधानमिति च प्राहुर्महापुरुष इत्यपि ॥
तां ब्रह्म महदित्याहुः परं जीवं परां चितिम् ।
तस्यास्तु परमो विष्णुर्यो ब्रह्म परमं महत् ॥" इति ब्रह्माण्डवचनाच्चाव्यक्तोपासनात् मोक्षशङ्कया पृच्छति । `कूटस्थोऽक्षर उच्यते' इत्युत्तरवचनात् `कूटस्थमचलम्' इत्यत्राप्युक्तेरव्यक्तशब्दः चित्प्रकृतिवाची । अन्यथा `ये त्वां पर्युपासते', `ये चाप्यक्षरं', `तेषां के योगवित्तमाः' इति भेदेन प्रश्नानुपपत्तिः । `परं ब्रह्म परं धाम पवित्रं परमं भवान्' इति तेनैवोक्तत्वात् । ये तु `ते मे युक्ततमा मताः', `मय्येव मन आधत् स्त्व' इत्यादौ भगवतोक्तेऽप्यव्यक्तोपासकानामाधिक्यं वदन्ति ते त्वपलापकत्वादतीव साहसिका इति सुशोच्या ऎव ।
// ॥हरिः ॐ ॥ ऎतदध्यायप्रतिपाद्यमर्थं दर्शयति -- साधनेति ॥ मोक्षसाधनयोरव्यक्तभगवदुपासनयोर्मध्ये प्रागुक्तभगवदुपासनस्याधिक्यनिर्णयोऽस्मिन् अध्याये क्रियत इत्यर्थः । ननु भगवदुपासनस्येवाव्यक्तोपासनस्यापि यदि मोक्षसाधनत्वं क्वचिदुक्तं स्यात्तदा ``एवं सततयुक्ताः" इति सन्दिह्य प्रश्नो युज्यते । नच तदस्तीत्यतः कथं प्रश्न इत्यत आह-- श्रिय इति ॥ यः पुरुषः श्रीसमाराधनार्थं जातोऽसौ तदर्थमेव गृहान्निर्गतो भवति स श्रियं उपदेष्ट्रभ्यो गुरुभ्य ऎव स्वस्य वयो धत्ते । ऎवं श्रियमुपासीनाः पुरुषा अमृतत्वं यान्ति । तस्मिन् गुरुशिष्याख्ये मिथुने समीहितानि सत्यानि भवन्तीत्यर्थः । किं श्रिय उपासनं स्वातन्त्र्येणैव मोक्षसाधनमित्यतः श्रीप्रसादमुत्पाद्य ततो भगवत्प्रसादद्वारेणैवेति भावेन स्मृतिमाह-- श्रीरिति ॥ श्रीप्रसादस्य भगवत्प्रसादोत्पादकत्वं कुत इत्यतः श्रियोऽतिमहिमानमाह -- अव्यक्तमिति ॥ ऎवम्भूता चेत् श्रीस्तर्~हि तत्प्रसादः स्वयमेव पुरुषार्थहेतुः किं न स्यात् ? ईश्वरप्रसादसाधनत्वं तस्य किमर्थमुच्यत इत्यत आह -- तस्या इति ॥ श्रियोऽपि विष्णोः परमत्वान्न तत्प्रसादस्य स्वातन्त्र्येण पुरुषार्थसाधनत्वं, किन्तु विष्णुप्रसादत्वेनैवेत्यर्थः । विष्णोः महद् ब्रह्मभूतश्रिय उत्तमत्वे हेतुमाह -- य इति ॥ ऎवं श्रुतिपुराणवाक्येभ्यो विष्णूपासनस्येवाव्यक्तोपासनस्यापि मोक्षसाधनत्वप्रतीतिजातया भगवदुपासनं वाऽव्यक्तोपासनं वा उत्तमं मोक्षसाधनमिति शङ्कयोत्तमसाधनं पृच्छतीत्यर्थः ।
यदि भगवदुपासनस्येव श्रिय उपासनस्यापि मोक्षसाधनत्वं प्रतीयेत तर्~हि तद्विषय ऎव प्रश्नः कर्तव्यः । अव्यक्तोपासनविषये किमर्थं क्रियत इत्यत आह -- कूटस्थ इति ॥ ``कूटस्थोऽक्षर उच्यते" इत्युपरितनवाक्ये चित्प्रकृतावेव प्रयुक्तकूटस्थाक्षरशब्दयोरत्राप्यव्यक्ते प्रयुक्तत्वेनाव्यक्तं चित्प्रकृतिरेव । अतः चित्प्रकृत्युपासनस्य मोक्षसाधनत्वप्रतीत्याऽव्यक्तोपासनविषये प्रश्नो युक्त एवेति भावः । एतेन ``इत्यादिश्रुतिभ्यः", ``अव्यक्तोपासनात्" इत्यस्याप्यनवद्यत्वं सिध्यति । नन्वव्यक्तादिशब्दानां परब्रह्मणि मुख्यत्वादत्र तत्किं विवक्षितं न स्यादित्यत आह -- अन्यथेति ॥ यद्यत्राव्यक्तशब्देन परब्रह्मोच्येत तर्~हि त्वदुपासकाव्यक्तोपासकानां मध्ये क उत्तम इति भगवतोऽव्यक्तस्य च भेदेनार्जुनप्रश्नोऽनुपपन्नः स्यादित्यर्थः । कुतोऽनुपपन्न इत्यतोऽर्जुनेनैव भगवतः परब्रह्मत्वस्योक्तत्वादित्याह -- परमिति ॥
अन्ये त्वत्राव्यक्तपदेन यत्किञ्चित् शून्यापरनामकं निर्गुणं ब्रह्मोच्यत इति मन्वानाः तदुपासकेश्वरोपासकयोः कोऽधिक इति प्रश्नार्थं कल्पयित्वाऽव्यक्तोपासकानामेवाधिक्यं परिहारे कथ्यत इति वदन्ति । तान् प्रत्याह -- ये त्विति ॥ `ते मे युक्ततमा मताः' इति भगवता स्वोपासकनामुत्तमत्वमुक्त्वा `मय्येव' इति मदुपासकानामेवोत्तमत्वात् मदुपासक ऎव भवेति स्फुटमुक्तत्वादव्यक्तोपासकानामाधिक्यं वदतामपालकत्वमेव । ततश्च साहसिकत्वात् `अहो नष्टा एते' इति शोकविषयत्वमेव न तु परिहारं वक्तुं प्रतिवादित्वमित्यर्थः ।
* `न चलेत् स्वात् पदाद्यस्मादचला श्रीस्ततो मता ।' इत्याग्नेये ।
``सूक्ष्मत्वादप्रसिद्धत्वाद्गुणबाहुल्यस्तथा ।
अनिर्देश्यौ तथाऽव्यक्ताचिन्त्यौ श्रीश्च माधवः ॥" इति नारदीये ॥
``अविष्णुज्ञैरतद्भक्तैस्तदुपासाविवर्जितैः ।
शपेदुपासिताऽप्येषा श्रीस्तान् तद्धरितत्त्ववित् ॥
तद्भक्तस्तमुपास्यैव श्रियं ध्यायीत नित्यदा ।
तेन तुष्टा तु साऽच्छिद्रं दद्याद्विष्णोरुपासनम् ॥
ततस्तद्दर्शनान्मुक्तिं यात्यसौ नात्र संशयः ।
तथापि सर्वपरमां सर्वदोषविवर्जिताम् ॥
ज्ञात्वा श्रियं तत्परमं तत्पतिं पुरुषोत्तमम् ।
विज्ञायोपासते नित्यं ते हि युक्ततमा मताः ॥
यतः क्लेशोऽधिकस्तेषां पृथक् श्रियमुपासताम् ।
विष्णुना सहिता ध्याता सा हि तुष्टिं परां व्रजेत् ॥
अन्यथा तु पुनर्विष्णोः श्रीपतित्वेन चिन्तनम् ।
अच्छिद्रमेव कर्तव्यमिति मुक्तिश्चिराद्भवेत् ।
तस्मादक्लेशतो मुक्तिः क्षिप्रं विष्णुमुपासताम् ॥" इति परमश्रुतिः । युक्ततमाः साधकतमाः ॥2 ॥3॥
// ननु चेष्टावत्याः श्रियोऽचलत्वम् `अचलत्वं ध्रुवम्' इति कथमुच्यत इत्यत स्मृत्यैव तद्घटयति -- नेति ॥ `अनिर्देश्यमव्यक्तमचिन्त्यं पर्युपासते' इति व्याहतम् । अनिर्देश्यव्यक्ताचिन्त्यस्योपासनायोगादित्यतः अनिर्देश्यत्वादिकमुपास्यत्वाविरोधेन स्मृत्यैव घटयति -- सूक्ष्मत्वादिति ॥
मदुपासका एवोत्तमा इत्युच्यते `मयि' इति । त्वदुपासकानामिवाव्यक्तोपासकानामपि मोक्षसद्भावात् कथं तेषामुत्तमत्वमित्यतोऽव्यक्तोपासकानां मोक्षमङ्गीकृत्य सहेतुकं स्वोपासकानामुत्तमत्वमुच्यते `ये त्वक्षरम्' इति । तत्रोच्यमानभगवत्प्राप्तिः न केवलशाक्तेयानामिति भावेन मयीत्यादिकं श्रुत्यैव व्याचष्टे-- अविष्णुज्ञैरिति ॥ अत्र ``ध्यायीत नित्यदा" इत्यन्तेन परित्युपसर्गाभिप्राय उक्तो भवति । `तेन तुष्टा' इत्यनेन ``ते प्राप्नुवन्ति मामेव' इत्यस्याभिप्राय उक्तो भवति । ऎवमव्यक्तोपासनस्य मोक्षसाधनत्वेऽपि न तदेवोत्तमं मन्तव्यमिति भावेनाह -- तथापीति ॥ उपासने श्रिया सहेति शेषः । अनेन `मय्यावेश्य' इत्युक्तार्थं भवति । अव्यक्तोपासकानामपि मोक्षसद्भावे कथं भगवदुपासकनामुत्तमत्वमित्यत आह -- यत इति ॥ अनेन ``क्लेशः" इति व्याख्यातं भवति । अनेन उक्तप्रकारेण पर्युपासनम् इन्द्रियग्रामातिनियमनं, सर्वत्र समबुद्धित्वं, सर्वभूतहितेरतत्वादिसुष्ट्वाचारमन्तरेण अव्यक्तप्रसादाभावात् परमश्रद्धामात्रयुक्तानां सुष्ट्वाचारादेरौन्येऽपि भगवत्प्रसादसम्भवात् क्लेशाधिकयं ज्ञातव्यम् । इतश्च भगवदुपासनमेवोत्तममित्याह -- विष्णुनेति ॥ श्रिया सह भगवदुपासने द्वयोरपि परमप्रसादसम्भवेनाचिरात् मोक्षो भवति । पृथगव्यक्तोपासनपक्षे तु किञ्चिद्भगवदुपासनं कृत्वा बहुकालं पृथक् श्रियमुपास्य पुनः श्रियासह निरन्तरं भगवदुपासनं कर्तव्यम् । ततो मुक्तिरिति चिरेणैव भवतीत्यतोऽपि भगवदुपासनमेवाधिकमिति भावः । अनेन ``ये तु सर्वाणि" इत्येतदुक्तार्थं भवति । हेतुद्वयेनोक्तं विष्णूपासनस्याधिक्यमुपसंहरति-- तस्मादिति ॥ तेषामाधिक्यं चेति शेषः ॥
ये नित्ययुक्तास्ते युक्ततमा इत्ययुक्तम् । एकार्थत्वादित्यत आह-- युक्तेति ॥ नित्ययुक्तपदं नित्योद्युक्तार्थमिति च द्रष्टव्यम् ।
((संनियम्येन्द्रियग्रामं सर्वत्र समबुद्धयः ।
ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः ॥ 4 ॥
क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम् ।
अव्यक्ता हि गतिर्दुःखं देहवद्भिरवाप्यते ॥ 5 ॥
ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्पराः ।
अनन्येनैव योगेन मां ध्यायन्त उपासते ॥ 6 ॥
तेषामहं समुद्धर्ता मृत्युसंसारसागरात् ।
भवामि न चिरात्पार्थ मय्यावेशितचेतसाम् ॥ 7 ॥
मय्येव मन आधत्स्व मयि बुद्धिं निवेशय ।
निवसिष्यसि मय्येव अत ऊर्ध्वं न संशयः ॥ 8 ॥
अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् ।
अभ्यासयोगेन ततो मामिच्छाप्तुं धनञ्जय ॥ 9 ॥
अभ्यासेऽप्यसमर्थोऽसि मत्कर्मपरमो भव ।
मदर्थमपि कर्माणि कुर्वन् सिद्धिमवाप्स्यसि ॥ 10 ॥
अथैदप्यशक्तोऽसि कर्तुं मद्योगमाश्रितः ।
सर्वकर्मफलत्यागं ततः कुरु यतात्मवान् ॥ 11 ॥
श्रेयो हि ज्ञानमभ्यासात् ज्ञानात् ध्यानं विशिष्यते ।
ध्यानात् कर्मफलत्यागस्त्यागात् शान्तिरनन्तरम् ॥ 12 ॥
अद्वेष्टा सर्वभूतानां मैत्रः करुण ऎव च ।
निर्ममो निरहङ्कारः समदुःखसुखः क्षमी ॥ 13 ॥
सन्तुष्टः सततं योगी यतात्मा दृढनिश्चयः ।
मय्यर्पितमनोबुद्धिर्यो मद्भक्तः स मे प्रियः ॥ 14 ॥
यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः ।
हर्षमर्षभयोद्वेगैर्मुक्तो य सच मे प्रियः ॥ 15 ॥
* विष्णोरन्यं न स्मरेद्यो विना तत्परिवारताम् ।
तदधीनतां वाऽनन्ययोगी स परिकीर्तितः ॥ इति च ।
`अन्तवत्तु फलं तेषाम्' इत्यादिनाऽन्यदेवतोपासनायाः पूर्वं निन्दितत्वात् लक्ष्म्यास्त्वतिसामीप्याद् विशेषमाशङ्क्य तदुपासनाविषय ऎव प्रश्नः कृतः ।
``वैष्णवान्येव कर्माणि यः करोति सदा नरः ।
जपार्चामार्जनादीनि स्वाश्रमोक्तानि यानि च ॥
स तत्कर्मेति विज्ञेयो योऽन्यदेवादिपूजनम् ।
कृत्वा हरावर्पयति स तु तद्योगमात्रवान् ॥
तत्र पूर्वो विशिष्टः स्यादादिमध्यान्ततः स्मृतेः ।
अवान्तरे च नियमाद्विष्णोस्तद्दास्यताऽस्य यत् ॥
मनसा वर्ततेऽन्योपि यथाशक्ति हरिस्मृतेः ।
पूर्वोक्तयोग्यो भवति यदि नित्यं तदिच्छति ॥
असम्यग् ज्ञानिनो ध्यानात् ज्ञानमेव विशिष्यते ।
ज्ञात्वा ध्यानं ततस्तस्मात् तत्फलेच्छाविवर्जितम् ॥
तस्माद् ज्ञानाद्भवेन्मुक्तिः त्यागाद्ध्यानयुतात् स्फुटम् ॥" इति च । शान्तिर्मुक्तिः ॥4-15॥
//ननु `ये तु सर्वाणि' इत्यत्रान्ययोगेन भगवदुपासनस्योत्तमत्वमुच्यते । अतः कथं श्रिया सहितभगवदुपासनस्य आधिक्यकथनपरतयैतत् व्याख्यायत इत्याशङ्कां प्रमाणवाक्येनैव परिहरति -- विष्णोरिति ॥ नात्रानन्ययोगपदेन अन्योपासनसम्बन्धो निषिध्यते । किन्त्वन्यस्य भगवदधीनत्वं तत्परिवारत्वं विनोपासनम् । अतो युक्तं प्राचीनव्याख्यानमिति भावः । ननु यदि भगवदुपासकानामिवाव्यक्तोपासकानामपि मोक्षश्रवणात् तदुपासनविषये किमुत्तममिति प्रश्नः क्रियते तर्~हि ``ज्ञात्वा शिवं शान्तिमत्यन्तमेति", ``हरिं हरं विरिञ्चं च ज्ञात्वा मुच्येत संसृतेः" इत्यन्यदेवतोपासनस्यापि मोक्षहेतुत्वश्रवणात् तद्विषये किमिति प्रश्नो न क्रियत इत्याशङ्कां सिंहावलोकनन्यायेन परिहरति -- अन्तवदिति ॥ अन्यदेवतोपासनाया मोक्षसाधनत्वस्य पूर्वमेव निषिद्धत्वेन श्रुत्यादौ तदुक्तावपि तस्यान्यार्थत्वं कल्पयित्वाऽव्यक्तोपासनविषय ऎव प्रश्नः कृतो नान्यदेवतोपासनविषय इति भावः । तर्~हि सामान्यतो भगवदन्योपासनस्य मोक्षसाधनत्वस्य पूर्वमेव निषिद्धत्वेनाव्यक्तोपासनस्यापि तदभावप्राप्तेस्तद्वचनानामप्यर्थान्तरम् अकल्पयित्वा किमिति तद्विषये प्रश्नः क्रियत इत्यत उक्तम् -- लक्ष्म्या इति ॥ सामान्यतो भगवदन्योपासनस्य मोक्षसाधनत्वनिषेधेऽपि लक्ष्म्याः भगवदतिप्रियत्वेनान्येभ्यो विशेषसद्भावात् तदुपासनस्य मोक्षसाधनत्वसम्भवेन निषेधस्य तदतिरिक्तोपासनविषयत्वं कल्पयित्वाऽर्जुनेनान्योपासनविषयप्रश्नमकृत्वाप्यव्यक्तोपासनविषय ऎव प्रश्नः कृत इति भावः ।
मदुपासनस्याधिकत्वात्तदेव कुरु । तदलाभे मां जानीहि । तदभावे चाभ्यासयोगेन मां जानीहि । तदभावे च मत्कर्मपरो भव । तदशक्तौ च मद्योगमाश्रितः कर्मफलत्यागं कुर्वित्युच्यते -- `मयि' इति । तत्र मत्कर्मकृत्त्वमेव मद्योगः । अतः कथमेतदित्यतः स्मृत्यैव व्याचष्टे-- वैष्णवानीति ॥ सर्वकर्माणि वैष्णवानि करोतीति योजना । विष्णुविषयतया करोतीत्यर्थः । अर्चामार्जनं प्रतिमास्नापनम् । आदि पदेन ध्यानं च ग्राह्यम् । तद्योगमात्रवान् तत्कर्मत्वोपायमात्रवान् । अनेन मद्योगमिति मत्कर्मत्वयोगमिति व्याख्यातम् । यदि भगवत्कर्मत्वं कामयते तर्~ह्येव तद्योगो भवति । नतु काम्येनान्योपासनादिनेत्यर्थः । अनेन `सर्वकर्म' इत्युक्तार्थं भवति । भगवदुपासनेऽपि तारतम्यमाह-- असम्यगिति ॥ ध्यानालाभे ज्ञानं, तदलाभेऽभ्यास इत्येतत् समर्थ्यते -- ``श्रेयो हि" इति । तदनेन व्याख्यातं भवति । ज्ञानपूर्वध्यानेऽपि सकामान्निष्काममेवाधिकमित्याह -- तस्मात् इति ॥ तत्र हेतुमाह-- तस्मादिति ॥ अनेन `ध्यानात्' इत्येतद् व्याख्यातं भवति । नन्वत्र त्यागात् शान्तिः फलमुच्यते । अतः कथमुच्यते तस्मान्मुक्तिरित्यत आह-- शान्तिरिति ॥ नन्वत्र कर्मफलत्यागमात्रस्यैव ध्यानाधिक्यमुच्यत इति किं नेष्यते ? ज्ञानपूर्वं ध्यानसाहित्यं किमुच्यते ? इत्यतो वाऽऽह-- शान्तिरिति ॥ अत्र त्यागस्य शान्तिपदोदितमुक्तिहेतुत्वमुच्यते । नच तत्केवलत्यागग्रहणे युक्तम् । `संन्यासस्तु महाबाहो दुःखमाप्तुमयोगतः' इत्युक्तत्वात् । ज्ञानपूर्वकध्यानसहितत्यागस्य तत्सम्भवात् स एवात्र विवक्षित इति भावः ॥4-15॥
((अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः ।
सर्वारम्भपरित्यागी यो मद्भक्तः स मे प्रियः ॥ 16 ॥
यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति ।
शुभाशुभपरित्यागी भक्तिमान्यः स मे प्रियः ॥ 17 ॥
समः शत्रौ च मित्रे च तथा मानापमानयोः ।
शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः ॥ 18 ॥
तुल्यनिन्दास्तुतिर्मौनी सन्तुष्टो येन केनचित् ।
अनिकेतः स्थिरमतिर्भक्तिमान् मे प्रियो नरः ॥ 19 ॥
* अवैष्णवसर्वारम्भपरित्यागी । सर्वारम्भाभिमानत्यागेन फळत्यागेन भगवत्समर्पणरूपेण च त्यागी ।
``सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः ।'
`मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा' इत्यादेः ।
`भक्तिं ज्ञानं च वैराग्यमृते यो नेच्छति क्वचित् ।
शुभाशुभपरित्यागी विद्वद्भिः कीर्तितो हि सः ॥" इति च ।
``प्रायः सुखादिषु समः प्रायो हर्षादिवर्जितः ।
तथोच्यते यथाऽल्पस्वो निःस्व इत्युच्यते जनैः ॥
नहि मुख्यतया साम्यं कस्यचित्सुखदुःखयोः ।
नच हर्षादिसन्त्यागो यावन्मुक्तिः कुतश्चन ॥" इति च ॥
``हृतिर्मदादधर्माय हर्षो नाम प्रकीर्तितः ।' इति शब्दनिर्णये ॥17॥18॥
// `ये तु सर्वाणि कर्माणि' इत्यादि प्रपञ्च्यते `अद्वेष्टा' इति । तत्र `सर्वारम्भपरित्यागी' इत्येतदन्यथाप्रतीतिनिरासाय चतुर्धा व्याचष्टे-- अवैष्णवेति ॥ उक्तार्थानुपपादयति -- सर्वेति ॥ सर्वकर्मफलत्यागमित्यनेन सर्वारम्भफलपरित्यागेन सर्वारम्भपरित्यागीत्युक्तं सिद्ध्यति । मयीत्यनेन सर्वारम्भाभिमानत्यागेन सर्वारम्भाणां भगवति समर्पणेन च सर्वारम्भपरित्यागीत्युक्तं सिद्ध्यति । `मयि' इति वाक्यस्य स्मृत्यैव तथा व्याख्यातत्वात् । आदिपदगृहीतेन `सर्वधर्मान् परित्यज्य' इत्यादिनाऽवैष्णवारम्भपरित्यागेन सर्वारम्भपरित्यागीत्युक्तं सिद्ध्यति । तस्य तथा सयुक्तिकं व्याकरिष्यमाणत्वात् ।
ननु `सर्वारम्भपरित्यागी' इत्यस्य `शुभाशुभपरित्यागी' इति प्रपञ्च्यमानत्वात् अवैष्णवारम्भपरित्यागीत्यादिकं किं विशिष्याभिधीयत इत्यतस्ततस्मृत्यैव उक्ताविरुद्धतया व्याचष्टे -- भक्तिमिति ॥ उपलक्षणं चैतत् । तत्साधनतया वैष्णवारम्भांश्चेति ज्ञातव्यम् । `समदुःखसुखः', `हर्षामर्षभयोद्वेगैर्मुक्तः' इत्येतन्नियमप्रतीतिनिरासाय स्मृत्यैव व्याचष्टे -- प्राय इति ॥ तथोच्यते सुखादिषु समो हर्षादिवर्जित उच्यते । ऎवं चेदल्पवैषम्यादेर्विद्यमानत्वात् कथं तदभावोक्तिरित्यत आह -- यथेति ॥ मुख्यार्थ ऎव किं न स्यादित्यत आह -- न हीति ॥ ननु हर्षस्य गुणत्वात् कथं तत्परित्यागोऽपेक्षिततयोच्यत इत्यतो हर्षशब्दस्य हेयार्थतां स्मृत्यैव दर्शयति -- हृति रिति ॥ मनस इति शेषः ।
((ये तु धर्म्यामृतमिदं यथोक्तं पर्युपासते ।
श्रद्दधाना मत्परमा भक्तास्तेऽतीव मे प्रियाः ॥ 20 ॥
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे भक्तियोगो नाम द्वादशोऽध्यायः ॥ 12 ॥
* व्यस्तेन प्रियाः समस्तेनातीव प्रियाः । भक्तिस्तु व्यस्तेऽप्युक्तैव । `यस्मान्नोद्विजते' इत्यत्रापि स चेत्यनेन भक्तिरनुषज्यते । धर्मसाधनं धर्म्यं, तदेवामृतसाधनममृतं धर्म्यामृतम् ॥20॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीतातात्पार्यनिर्णये द्वादशोऽध्यायः ॥12॥
//ननु `अद्वेष्टा' इत्यादावद्वेषादिमतां प्रियत्वमुक्त्वा `ये तु धर्म्यामृतम्' इत्यत्र श्रद्धादिमतामतिप्रियत्वं किं निमित्तमुच्यत इत्यत आह- - व्यस्तेनेति ॥ `अद्वेष्टा' इत्यादौ यत् पृथक् पृथक् साधनमुक्तं तत्तन्मात्रेण प्रियत्वमुक्तम् । `ये तु' इत्यत्राद्वेष्टेत्यादिप्रागुक्तसमस्तसाधनेनातीवप्रियत्वम् । व्यस्तात् समस्तस्याधिक्यादिति भावः । ननु `अद्वेष्टा' इत्यादावद्वेषादिसाधनेन प्रियत्वमुच्यते, `ये तु' इति भक्त्याऽतीव प्रियत्वमुच्यत इति किं न स्यात् ? भक्तेः सर्वसाधनोत्तमत्वादित्यत आह -- भक्तिरिति ॥ अद्वेषादिकथनेऽपि भक्तेरुक्तत्वात् नायं विभागो युक्त इति भावः । ``यस्मान्नोद्विजते लोकः" इति व्यस्तसाधनकथने भक्तेरनुक्तत्वात् कथं भक्तिस्तु व्यस्तेष्वयुक्तैवेत्युच्यत इत्यत आह -- यस्मादिति ॥
धर्म्यामृतपदस्य दुर्गमार्थत्वादर्थमाह -- धर्मेति ॥20॥
श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्य श्रीमद्भगवद्गीतातात्पर्यनिर्णयस्य टीकायां जयतीर्थमुनिविरचितायां न्यायदीपिकायां द्वादशोऽध्यायः ॥ 12॥
॥ श्रीवादिराजगुर्वन्तरर्गत श्रीमध्वेशाभिन्नश्रीलक्ष्मीहयग्रीवात्मककृष्णार्पणमस्तु ॥
*********************************************************************
॥श्रीगुरुभ्योनमः ॥
श्रीवादिराजगुर्वन्तर्गत श्रीमध्वेशाभिन्नश्रीलक्ष्मीहयग्रीवाय नमः ॥
॥ अथ त्रयोदशोऽध्यायः ॥
अर्जुन उवाच --
प्रकृतिं पुरुषं चैव क्षेत्रं क्षेत्रज्ञमेव च ॥
ऎतद्वेदितुमिच्छामि ज्ञानं ज्ञेयं च केशव ॥ 1 ॥
श्रीभगवानुवाच --
इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते ।
ऎतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः ॥ 2 ॥
क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत ।
क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत् तज्जञानं मतं मम ॥ 3 ॥
* सर्वार्थसङ्क्षेपोऽयम् ।
``हिंसाहेतुश्च जीवस्य परेण प्रेर्यते च यत् ।
अव्यक्तादिशरीरं तु तत्क्षेत्रं क्षीयतेऽत्र यत् ॥
इच्छाद्वेषः सुखं दुःखं देहो व्याप्तिश्च चेतसः ।
तद्विकारा इति ज्ञेयाश्चिद्रूपेच्छादिमिश्रिताः ॥
विकारेच्छादिनिर्मुक्तश्चिन्मात्रेच्छादिसंयुतः ।
मुक्त इत्युच्यते जीवो मुक्तिश्च द्विविधा मता ॥
चिन्मात्रद्वेषदुःखे च देहो मिथ्यादृगात्मकः ।
निषिद्धेच्छा यत्र स्युर्नित्या सा मुक्तिरासुरी ॥
चिन्मात्रा वैष्णवी भक्तिर्देहः सम्यग् दृगात्मकः ।
सुखमिच्छानुकूला च धृतिर्दैवीति सा मता ॥" इति नारायणश्रुतिः ॥
// ऎतदध्यायप्रतिपाद्यमर्थं दर्शयति -- सर्वेति ॥ यत् प्रथमषट्के प्राचुर्येण ज्ञानसाधनमुक्तं, यच्च द्वितीये भगवत्स्वरूपं निरूपितं, `न त्वेवाहं' इत्यादौ यज्जीवस्वरूपं प्रदर्शितं, `भूमिरापोऽनल' इत्यादौ यत् क्षेत्रमभिहितं तद्विप्रकीर्णतयोक्तं सर्वं बुद्ध्यारोहार्थं सङ्क्षप्यास्मिन्नध्याये प्रदर्शयतीत्यर्थः । सर्वेषामध्यायानामर्थान् सङ्क्षिपति सङ्क्षिप्य दर्शयतीति सर्वार्थसङ्क्षेपः ।
तत्र ``तत् क्षेत्रं यच्च" इति प्रतिज्ञातम् । भगवद् ज्ञानस्यैव मोक्षहेतुत्वात् क्षेत्रं भगवत्स्वरूपं चोभयं किमर्थमुच्यत इत्याशङ्का तावत्परिह्रियते `इदं' इति । तत्र `सङ्घातश्चेतना' इति क्षेत्रविकारत्वेनोक्तशरीरस्य कथं समस्तक्षेत्रत्वमुच्यत इत्याशङ्कापरिहाराय श्रुत्यैतद् व्याचष्टे -- हिंसेति ॥ जीवस्य स्वतो नित्यत्वात् देहादितया परिणतैतदुपघातादेव जीवो हिंसित इत्युच्यते । अव्यक्तादिकं हिंसाहेतुर्जीवस्य भवति । शृ हिंसायामिति धातोर्~हिंसाहेतुत्वात् शर् । परेणेर्यत्वादीरमिति शरीरमित्यर्थः । क्षीयतेऽत्रेत्यस्मिन् अव्यक्तादि शरीरे भगवता स्थीयत इत्यर्थः । क्षि निवासगत्योरिति धातोः । अव्यक्तादीत्यनेन महाभूतानीत्यस्यार्थ उक्तो भवति । तद्विकाराः क्षेत्रविकाराः । अनेन `इच्छाद्वेष' इत्युक्तार्थं भवति । विकारित्वं च न चिद्रूपेच्छादीनामिति भावेनाह-- चिद्रूपेति ॥ अनेन स्वयमचिद्रूपा इति लभ्यते । वर्तन्त इति शेषः । किमेतेषां सदा मिश्रतयाऽवस्थानमित्यतः संसार ऎव न सर्वदेति भावेनाह -- विकारेति ॥ मुक्तौ द्वेषदुःखाभावात् कथं चिन्मात्रेच्छादिसंयुतो मुक्त स्यादित्यत आह -- मुक्तिश्चेति ॥ आसुरी दैवी चेति शेषः । तर्~हि दैवमुक्तौ द्वेषाद्ययोगादासुरमुक्तौ च सुखाद्ययोगादधिकं सङ्कटमेवेत्यतः प्रत्येकमिच्छाद्यशेषासम्भवेऽपि विभागेन तत्सम्भवादविरोध इति भावेनाऽह -- चिन्मात्रेति ॥ यत्र स्युरित्युत्तरत्रापि सम्बध्यते । इच्छादिष्वपठिताऽपि विष्णुभक्तिर्द्वेषस्य पठितत्वेन तत्प्रतियोगितया गृह्यते ।
*``क्षेत्रज्ञो भगवान् विष्णुर्न ह्यन्यः क्षेत्रमञ्जसा ।
वेत्त्यसौ भगवान् ज्ञेयो व्यक्ताव्यक्तविलक्षणः ॥
स तु जीवेषु सर्वेषु बहिश्बैव व्यवस्थितः ।
विलक्षणश्च जीवेभ्यः सर्वेभ्योऽपि सदैव च ॥
सर्वतः पाणिपादादिर्यतः पाण्यादिशक्तिमान् ।
केशादिष्वपि सर्वत्र कृष्णकेशो हि यादवः ॥
अणोरणुतरै रूपैः पाणिपादादिसंयुतैः ।
सर्वत्र संस्थितत्वाद्वा सर्वतः पाणिपादवान् ॥
सर्वेन्द्रियाणां विषयान् वेत्ति सोऽप्राकृतेन्द्रियः ।
यतोऽतोऽनिन्द्रियः प्रोक्तो यन्न भिन्नेन्द्रियोऽथवा ॥
गुणैः सत्त्वादिभिर्~हीनः सर्वकल्याणमूर्तिमान् ।
अन्यथाभावराहित्यादचरश्चर ऎव च ॥
चरणात्सर्वदेशेषु व्याप्तोऽणुर्मध्यमस्तथा ।
सर्वगत्वान् समीपे च दूरे चैवान्तरे च सः ॥
अनन्ताव्ययशक्तित्वात् तदन्यत्र विरोधिनः ।
सन्ति सर्वे गुणास्तत्र न च तत्र विरोधिनः ॥" इति च ।
न च जीवस्य क्षेत्रज्ञनाम ।
``क्षेत्रज्ञ एता मनसो विभूतिर्जीवस्य मायारचिता अनित्याः ।
आविर्~हिताश्चापि तिरोहिताश्च शुद्धो विचष्टे ह्यविशुद्धकर्तुः ॥" इति भागवते ।
// `ऎतद्योवेत्ति' इत्येतज्जीवविषयतया प्रतीतिनिरासाय वचनान्तरेण व्याचष्टे -- क्षेत्रज्ञ इति ॥ यः क्षेत्रं जानाति स सर्वोऽपि क्षेत्रज्ञः, अतो विष्णुरिति किं विशिष्योच्यत इत्यत आह -- न हीति ॥ किमयं स्वयं क्षेत्रान्तर्भूतः सन् तज्जानातीत्यपेक्षयामाह -- असाविति ॥ अनेन `न सत्तत्' इति व्याख्यातं भवति । सर्वासन्निहितत्वात् कथं सर्वज्ञानं हरेरित्यत आह -- स इति ॥ एतेन `बहिरन्तश्च' इति व्याख्यातं भवति । विष्णोः सर्वजीवाभिन्नत्वात् कथं तेषु स्थितिरित्यत आह -- विलक्षणश्चेति ॥ कथं वैलक्षण्यमित्यत आह -- सर्वत इति ॥ केशादिषु पाण्यादिशक्तिमत्त्वं युक्तिविरुद्धमित्यतः प्रतीतत्वान्न युक्तिविरुद्धमिति भावेनाह -- कृष्णेति ॥ अनेन `सर्वतः' इत्युक्तार्थं भवति । का नाम भगवत्पाण्यादिशक्तिरित्यत आह -- सर्वेति ॥ वेत्तीत्येतत् कर्मणोऽप्युपलक्षकम् । अनेन ``सर्वेन्द्रियगुण" इति व्याख्यातं भवति । सर्वेन्द्रियगुणा आभास्यन्तेऽनु यन्तेऽनेनेति । भगवतः पाण्यादिमत्त्वे श्रुत्यादावनिन्द्रियत्वोक्तिः कथमित्यत आह -- स इति ॥ अनेन `सर्वेन्द्रियविवर्जितं' इत्युक्तार्थं भवति । ज्ञानादिगुणसद्भावे कथं तस्य निर्गुणत्वोक्तिरित्यत आह -- गुणैरिति ॥ कुत ऎवं निर्गुणत्वश्रुतेरर्थान्तरं कल्प्यते ? सर्वथा गुणराहित्यमेव किं न स्यादित्यतः तस्य सर्वकल्याणगुणमूर्तिमत्त्वेन प्रमाणसिद्धत्वादित्याह -- सर्वेति ॥ अनेन ``निर्गुणं" इत्युक्तार्थं भवति । हरेः पाणिपादादिमत्वेऽचरत्वोक्तिः कथमित्यत आह -- अन्यथेति ॥ क्वचिच्चरत्वोक्तेः कथं विकारित्वाभाव इत्यत आह -- चर इति ॥ अनेन ``अचरं चरमेव च" इति व्याख्यातं भवति । कथं सर्वगतस्य चरणमित्यतो न तस्य सर्वगतत्वमेव किन्त्वणुत्वं मध्यमत्वं चास्तीत्याह -- व्याप्त इति ॥ अनेन ``सर्वमावृत्य तिष्ठति", ``हृदि सर्वस्य विष्ठितम्" इत्याद्युक्ततात्पर्यं भवति । तद्दूरे तद्वन्तिक इत्यादौ विरुद्धधर्मोक्त्येश्वरस्य निःस्वभावत्वोक्तेः कथमुक्तं युक्तं स्यादित्यतस्तद्घटयति -- सर्वगत्वादिति ॥ अनेन ``दूरस्थं" इति व्याख्यातं भवति । व्याप्तत्वाणुत्वादीनां वस्त्वन्तरे सहानवस्थानात् कथं हरौ सह स्थितिरित्यत आह -- अनन्तेति ॥ अनन्ताव्ययशक्तित्वेऽपि विरोधिनः कथं तेऽत्र सन्तीत्यत आह -- न चेति ॥ क्षेत्रज्ञनाम्नो जीवे प्रसिद्ध्यभावाच्च नात्रासावुच्यत इत्याह -- नचेति ॥ क्वचित् सद्भावेऽपि तदमुख्यमिति भावः । नच विष्णावपि क्षेत्रज्ञनाम्नो न प्रसिद्धिरिति वाच्यम् । उक्तवचन ऎव प्रसिद्धत्वात् । वचनान्तरेऽपि तत्प्रसिद्धिं दर्शयति -- क्षेत्रज्ञ इति ॥ मनसो विभूतिर्मनसो विकारान् । मायारचिताः निमित्तभूतस्वेच्छारचिताः ।
* अत ऎतद्यो वेत्तीत्युक्ते जीवस्यापि किञ्चिद् ज्ञानात् तत्प्राप्तेस्तन्निराकरणार्थं ``क्षेत्रज्ञं चापि मां विद्धि" इत्याह । अन्यथा ``ऎतद्योवेत्ति" इत्युक्तेनैव सिद्धत्वात् क्षेत्रज्ञं चापीति व्यर्थम् । भेदपक्षे तु नामनिरुक्त्यर्थमेतद्यो वेत्तीति । सर्वाभेदमपि केचिद्वदन्तीति क्षेत्रं च ज्ञश्चेति व्युत्पत्तिं निवारयति । क्षेत्रज्ञं मां सर्वक्षेत्रेषु स्थितत्वेन विद्धीत्यर्थः । तत्पक्षे तु यो वेत्तीत्युक्त ईश्वरस्थापि क्षेत्रज्ञत्वं सिद्धमेव । सर्वाभेद विवक्षायां च सर्वं क्षेत्रमिति वक्तव्यम् । क्षेत्रेष्विति व्यर्थम् । नच तत्पक्षे मामित्यस्य कश्चिद्विशेषः । किन्त्वेक ऎव क्षेत्र इति वक्तव्यम् ॥3॥
// इतश्च ``ऎतद्यो वेत्ति" इत्येतन्न जीवपरमित्याह -- अत इति ॥ यतोऽत्र न जीवो विवक्षितोऽत ऎव ऎतद्यो वेत्तीति भगवदभिप्रायेण । सामान्यतः क्षेत्रज्ञशब्दस्य व्युत्पादितत्वात् जीवस्यापि किञ्चित् क्षेत्रज्ञानसद्भावात् तस्य क्षेत्रज्ञत्वप्राप्तेस्तन्निराकरणाय क्षेत्रज्ञं मामित्युक्तमित्यर्थः । जीवस्य क्षेत्रज्ञत्वनिराकरणाय क्षेत्रज्ञं मामित्युक्तमिति कुत इति चेत् ? किं `ऎतद्यो वेत्ति' इत्यस्येश्वरपरत्वमभ्युपगम्येदमुच्यते उत जीवविषयत्वम् ? पक्षद्वयं दूषयति -- अन्यथेति ॥ `ऎतद्यो वेत्ति' इत्यस्येश्वरपरत्वमङ्गीकृत्य `क्षेत्रज्ञं मां' इत्यस्य जीवव्यावर्तकत्वानङ्गीकारे परमेश्वरस्य `ऎतद्यो वेत्ति' इत्यनेनैव क्षेत्रज्ञत्वसिद्धेः क्षेत्रज्ञं मामिति पुनस्तद्वचनस्य वैय्यर्थ्यं स्यात् । ऎतद्यो वेत्तीत्यस्य जीवपरत्वमङ्गीकृत्य क्षेत्रज्ञं मामित्यस्य जीवव्यावर्तकत्वानङ्गीकारे वक्तव्यस्य जीवक्षेत्रज्ञत्वस्यैतद्यो वेत्तीत्युक्तेनैव पूर्णत्वात् क्षेत्रज्ञं मामिति निरर्थकं विरुद्धार्थं च स्यादिति भावः ।
ऎतद्यो वेत्तीत्यस्य जीवपरत्वेऽपि नोत्तरवाक्यवैय्यर्थ्यम् । जीवस्य क्षेत्रज्ञत्वमुक्त्वा ईश्वरस्याप्युच्यत इति क्षेत्रज्ञत्वेनोक्तजीवस्य क्षेत्रस्य चेश्वरैक्यमुच्यत इति सार्थक्योपपत्तेः । प्रत्युतैवमनभ्युपगम्येश्वरस्यैव क्षेत्रज्ञत्वाङ्गीकृतावेतद्यो वेत्तीति व्यर्थं स्यात् । क्षेत्रज्ञं चापीत्यनेनैवेश्वरस्य क्षेत्रज्ञत्वसिद्धेरित्यत आह -- भेदेति ॥ जीवस्य क्षेत्रज्ञत्वमुक्त्वा तस्येश्वराभेद उच्यत इत्यादियोजनामनङ्गीकृत्येश्वरस्य क्षेत्रज्ञत्वाङ्गीकारेऽप्येतद्यो वेत्तीति सार्थकमेव । क्षेत्रज्ञनामनिरुक्त्यर्थत्वादित्यर्थः । क्षेत्रं जानातीति क्षेत्रज्ञ इति क्षेत्रज्ञनामनिरुक्तेः प्रसिद्धत्वात् क्षेत्रज्ञं चापि मामित्येतावतैवालं किं निरुक्त्येत्यत आह -- सर्वेति ॥ ``क्षेत्रज्ञं चापि मां विद्धि" इत्येवोक्ते क्षेत्रं च ज्ञश्चेति क्षेत्रज्ञ इति व्युत्पत्त्या जडजीवात्मकत्वमीश्वरस्यैवोच्यत इति प्रतीतिः स्यात् । तन्निराकरणाय प्रसिद्धाऽपि व्युत्पत्तिरुच्यते । नच प्रसिद्धव्युत्पत्तिं परित्यज्यैवं व्युत्पत्त्या शङ्काप्राप्तिरेव नास्तीति वाच्यम् । जडजीवात्मकस्य सर्वस्यापीश्वरेणाभेदमङ्गीकुर्वतां तथा प्रतीतिसम्भवादिति भावः ।
ईश्वरस्य क्षेत्रज्ञनामनिरुक्तिः, जीवस्य तदभाव इत्येतद् सर्वस्य ``ऎतद्यो वेत्तीश्वरस्तं क्षेत्रज्ञं प्राहुः" इत्यादिवाक्य ऎव ईश्वरवाचिपदप्रक्षेपेण वक्तुं शक्यत्वात् तदर्थं पृथग् वाक्यकल्पने गौरवमित्यत आह -- क्षेत्रज्ञमिति ॥ नोत्तरवाक्ये जीवव्यावृत्त्यर्थमेव स्वस्य क्षेत्रज्ञत्वमात्रमुच्यते । येन गौरवं स्यात् । किन्तु जीवव्यावृत्त्यर्थमीश्वरस्यास्फुटमुक्तं क्षेत्रज्ञत्वं स्फुटमनूद्याव्यक्तादिशरीरस्य कथं क्षेत्रशब्दवाच्यत्वमित्यतः क्षीयतेऽत्र ईश्वरेणेति क्षेत्रमित्यर्थ सूचनाय स्वस्य क्षेत्रे स्थितिश्चोच्यत इति भावः ।
यदुक्तम् ``ऎतद्यो वेत्तीति जीवस्य क्षेत्रज्ञत्वमुक्त्वा क्षेत्रज्ञं चापीति ईश्वरस्यापि तदुच्यतेऽतो न वैय्यर्थ्यम्" इति तन्निराचष्टे -- तत्पक्ष इति ॥ ऎतद्यो वेत्तीत्यस्य जीवविषयत्वपक्षे क्षेत्रं जानातीति क्षेत्रज्ञ इति व्युत्पत्तेर्जीव इव ईश्वरेऽपि साम्येन ऎतद्यो वेत्तीत्युक्त्यैवेश्वरस्यापि क्षेत्रज्ञत्वं सिद्ध्यत्येव । अतः क्षेत्रज्ञं चापीति वाक्यं व्यर्थमेवेति भावः । क्षेत्रज्ञतयोक्तजीवस्य क्षेत्रस्य चेश्वराभेदकथनाय क्षेत्रज्ञं चापि मां विद्धीति सार्थकमित्युक्तं दूषयति -- सर्वेति ॥ यदि क्षेत्रज्ञं चापि मामित्यत्र क्षेत्रक्षेत्रज्ञरूपस्य सर्वस्याभेदो विवक्षितः स्यात्तर्~हि सर्वक्षेत्रं क्षेत्रज्ञं चापि मां विद्धीति वक्तव्यम् । सर्वक्षेत्रेष्विति सप्तमीप्रयोगोऽनुपपन्नः स्यादिति भावः । तर्~हि क्षेत्रज्ञस्यैवेश्वराभेदोऽत्रोच्यताम् । तथात्वे बाधकाभावादित्यत आह -- न चेति ॥ यदि क्षेत्रज्ञतयोक्तजीवस्येश्वरस्य चैक्यमत्र विवक्षितं स्यात्तर्~हि क्षेत्रज्ञोऽहं चैक एवेति वक्तव्यम् । न तु क्षेत्रज्ञमनूद्येश्वरत्वविधानं युज्यते । जीवमनूद्य मां विद्धीति विधातुमस्येश्वरस्यापि जीववत् कल्पितत्वेन विशेषाभावादिति भावः ॥3॥
((तत् क्षेत्रं यच्च यादृक्च यद्विकारि यतश्च यत् ।
स च यो यत्प्रभावश्च तत्समासेन मे शृणु ॥ 4 ॥
* यतश्च यत् । यतः परमेश्वरानुमतेरिदं याति प्रवर्तते स चानुमन्ता यः । अनुसारिणी मतिरनुमतिः प्रेरणरूपा ।
``प्रेरणाऽनुमतिः प्रोक्ता क्वचित्संवाद उच्यते ।
प्रेरकत्वात्तु भगवाननुमन्ता प्रकीर्तितः ॥" इति च । उपद्रष्टाऽनुमन्ता चेत्यनेनैवानुमतिरनुमन्ता चोक्तः । ज्ञेयं यत्तदित्यादिना यत्प्रभाव इत्यपि ॥4॥
// `तत् क्षेत्रं यत्' इत्युक्तत्वात् ``यतश्च यत्" इति पुनरुक्तिरित्यत आह -- यतश्चेति ॥ तर्~हि ``सा च या" इति वक्तव्यमित्यतस्तत्प्रतिज्ञान्तरमिति भावेनाह -- स चेति ॥ केयमनुमतिरित्यत आह -- अनुसारिणीति ॥ कार्योत्पादस्येति शेषः । अनेनानुमन्तृशब्दार्थोऽप्युक्तो भवति । अत्र प्रमाणमाह -- प्रेरणेति ॥ ``यतश्च यत्", ``स च यः" इति प्रतिज्ञाद्वयं चेत्तर्~हि तदुभयमुत्तरत्रोच्यते । न चोभयोक्तिः श्रूयत इत्यत आह -- उपद्रष्टेति ॥ `उपद्रष्ट्राऽनुमन्ता' इत्यादिनाऽनुमन्तुरुक्तत्वात् तद्धर्मतयाऽनुमतिरप्युक्तैवेति भावः । `यत्प्रभावश्च' इति प्रतिज्ञातं कुत्रोच्यत इत्यत आह -- ज्ञेयमिति ॥
(( ऋषिभिर्बहुधा गीतं छन्दोभिर्विविधैः पृथक् ।
ब्रह्मसूत्रपदैश्बैव हेतुमद्भिर्विनिश्चितैः ॥ 5 ॥
महाभूतान्यहङ्कारो बुद्धिरव्यक्तमेव च ।
इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः ॥ 6 ॥
इच्छाद्वेषः सुखं दुःखं सङ्घातश्चेतना धृतिः ।
ऎतत् क्षेत्रं समासेन सविकारमुदाहृतम् ॥ 7 ॥
* चेतना चित्तव्याप्तिः ।
``सङ्घातो देह उद्दिष्टश्चित्तव्याप्तिस्तु चेतना ॥" इति च ॥5-7॥
// ननु चैतन्यस्याविकारित्वात् कथं विकारेषु चेतना पठ्यत इत्यत आह -- चेतनेति ॥ ननु महाभूतानीत्यादिनोक्तानां सङ्घातस्य क्षेत्रत्वात् कार्यत्वं कथमुच्यत इत्याशङ्कां परिहरन् उक्तार्थे प्रमाणमाह-- सङ्घात इति ॥7॥
((अमानित्वमदम्भित्वमहिंसा क्षान्तिरार्जवम् ।
आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः ॥ 8 ॥
इन्द्रियार्थेषु वैराग्यमनहङ्कार ऎव च ।
जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् ॥ 9 ॥
असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु ।
नित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिषु ॥ 10 ॥
मयि चानन्ययोगेन भक्तिरव्यभिचारिणी ।
विविक्तदेशसेवित्वमरतिर्जनसंसदि ॥ 11 ॥
अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम् ।
ऎतद् ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा ॥ 12 ॥
* तत्वज्ञानविषयस्य विष्णोरपरोक्षदर्शनं तत्त्वज्ञानार्थदर्शनम् । ज्ञायतेऽनेनेति ज्ञानम् । ज्ञप्तिर्ज्ञानमिति व्युत्पत्त्या ``ऎतद् ज्ञानमिति प्रोक्तं" इति ज्ञानसाधनं ज्ञानं चोक्तम् ॥12॥
// ज्ञेयं वक्तुं ज्ञानमुच्यते ``आमानित्वं" इति । तत्र तत्त्वज्ञानार्थदर्शनपदस्यास्फुटार्थत्वात् तदर्थमाह -- तत्त्वेति ॥ नन्वमानित्वमित्यादिना ज्ञानसाधनं तत्त्वज्ञानार्थदर्शनमिति ज्ञानं चोक्त्वोपसंहारे कथम् `ऎतद् ज्ञानमिति प्रोक्तं' इत्युच्यत इत्यत आह -- ज्ञायत इति ॥ प्रोक्तमित्यत्र ज्ञानशब्देनेति शेषः । उक्तमित्युच्यत इति वा ॥12॥
((ज्ञेयं यत्तत् प्रवक्ष्यामि यद् ज्ञात्वाऽमृतमश्नुते ।
अनादिमत्परं ब्रह्म न सत्तन्नासदुच्यते ॥ 13 ॥
सर्वतः पाणिपादं तत्सर्वतोऽक्षिशिरोमुखम् ।
सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति ॥ 14 ॥
सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् ।
असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च ॥ 15 ॥
बहिरन्तश्च भूतानामचरं चरमेव च ।
सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिके च तत् ॥ 16 ॥
अविभक्तं च भूतेषु विभक्तमिव च स्थितम् ।
भूतभर्तृ च तद् ज्ञेयं ग्रसिष्णु प्रभविष्णु च ॥ 17 ॥
* अनादीत्युक्ते स्वयं कारणं न भवतीत्याशङ्का स्यादिति तन्निवृत्यर्थमनादिमदित्याह ।
``मुख्यतो गुणपूर्णत्वात्परम्ब्रह्म जनार्दनः ।
मूर्तामूर्तव्यतीतत्वान्न सन्नैवासदुच्यते ॥" इति च ।
``मूर्तं सदवगम्यत्वादज्ञेयत्वादसत्परम् ।
पुंसामर्थ्यादगम्यत्वात् सर्ववेदप्रसिद्धितः ।
विलक्षणः सदसतोर्भगवान् विष्णुरव्ययः ॥" इति च ॥17॥
// ननु `अनादिमत्परं ब्रह्म' इत्यत्रानादीत्येतावता पूर्णत्वात् अनादिमदिति किमर्थमुच्यत इत्यत आह -- अनादीति ॥ न चात्र भाष्यविरोधः । तत्रोक्तस्य मतुपो मुख्यार्थस्यानङ्गीकारे भाष्ये दोषस्योक्तत्वात् । अत्र पुनस्तमङ्गीकृत्यैव प्रयोजनान्तरं मतुपाचिनोतीति । परम्ब्रह्म न सत्तन्नासदुच्यत इत्येतत् प्रमाणवाक्येनैव व्याचष्टे -- मुख्यत इति ॥ कथं मूर्तामूर्तयोः सदसच्छब्दवाच्यत्वं, कथं च भगवतस्तद्विलक्षणत्वमित्यत आह -- मूर्तमिति ॥ परं अमूर्तम् ॥17॥
((ज्योतिषामपि तज्जयोतिस्तमसः परमुच्यते ।
ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठितम् ॥ 18 ॥
* ज्ञानेन मुक्तौ प्राप्यत्वात् ज्ञानगम्यम् । ``स्वयमेवाऽत्मनाऽऽत्मानं वेत्थ" इति स्वज्ञेयत्वाद् ज्ञेयम् । अन्यज्ञेयत्वस्य ``ज्ञेयं यत्तत्" इति पूर्वमेव सिद्धत्वात् । कर्तृकर्मविरोधवादिमतं निराकरोत्युत्तरज्ञेयशब्देन ।
``स्ववेत्ता वेदनं च स्वं स्वेन वेद्यश्च केशवः ।
परस्य वेत्ता वित्तिश्च वेद्यश्च स्यात्परैः क्वचित् ॥
तत्प्रसादं विना कश्चन्नैव वेत्तुं हि शक्नुयात् ।
स्ववेदनेऽन्यवित्तौ वा नासावन्यदपेक्षते ॥
स्वप्रकाश इति प्रोक्तस्तेनैकः पुरुषोत्तमः ।
जीवानां स्वप्रकाशत्वं तत्प्रसादात्स्ववेदनम् ॥" इति च ॥18॥
<लन्ग्=सन्>// ज्ञानगम्यमिति ज्ञानविषयत्वमुच्यत इत्यन्यथाप्रतीतिनिरासायाह -- ज्ञानेनेति ॥ ज्ञेयपदेनान्यज्ञेयत्वमुच्यत इत्यन्यथाप्रतीतिनिरासायाह -- स्वयमेवेति ॥ अत्र स्वज्ञेयत्वमेवोच्यते, न तु परज्ञेयत्वम् । नच भगवतः स्वज्ञेयत्वाभावः । स्वयमिति तस्योक्तत्वादित्यर्थः । अन्यज्ञेयत्वमर्थः किं न स्यादिति आह -- अन्येति ॥ ज्ञानं ज्ञेयमिति ज्ञेयशब्देनैकस्यां क्रियायां कर्तृकर्मणोरैक्यविरोधान्नेश्वरस्य ज्ञेयत्वमुक्तमिति वदतां वादिनां मतनिरासाय स्वज्ञेयत्वमेवोच्यते । न त्वन्यज्ञेयत्वम् । तस्य `ज्ञेयं यत्तत् प्रवक्ष्यामि' इत्युपक्रमवाक्य एवोक्तत्वेन पुनरुक्तिप्रसङ्गादिति भावः । स्वज्ञेयार्थत्वे प्रभावोक्तिरियं कथमित्यत आह -- कर्तृकर्मेति ॥ अघटितमप्येकस्यां ज्ञानक्रियायां कर्तृकर्मभावमात्मनि ईश्वरो घटयतीत्येवमभिप्रायेणेदमुच्यते । अतो भवति प्रभावोक्तिरियमिति भावः ।
ईश्वरस्वज्ञेयत्वे प्रमाणान्तरं चाह -- स्ववेत्तेति ॥ स्ववेत्ता स्वतन्त्रवेत्ता । तस्य वेदनं च स्वतन्त्रम् । कस्य वेत्तेत्यत आह -- स्वेनेति ॥ यच्च तस्य वेदनं स्वतन्त्रमुक्तं तदपि तस्माद्भिन्नमित्याह -- वित्तिश्चेति ॥ किं स्वेनैव वेद्य इत्यत आह -- वेद्यश्चेति ॥ क्वचिदिति किमर्थमुच्यते, सर्वथा परैर्वेद्यः किं न स्यादित्यत आह -- तदिति ॥ यथाऽन्येषां भगवज्जञाने तत्प्रसाद सापेक्षता तथा भगवतोऽपि स्ववेदनादो परसापेक्षता नास्तीति स्वातन्त्र्यं विवृणोति -- स्वेति ॥ तेन स्ववेत्तृत्वादिना । तथाहि -- स्वः स्वतन्त्रश्चासौ प्रकाशयति वेत्तीति प्रकाशश्चेति स्वप्रकाशः । स्वः स्वतन्त्रः प्रकाशो यस्यासौ स्वप्रकाशः । स्वः प्रकाशः प्रकाश्यो येनासौ स्वप्रकाशः । स्वश्चासौ प्रकाशश्चेति स्वप्रकाशः । परस्य वेत्ता वेद्यश्च स्यादिति न स्वप्रकाशशब्दार्थकथनम् । जीवानामपि स्वप्रकाशत्वात् कथमेक इत्युच्यत इत्यत आह -- जीवानामिति ॥ जीवानां स्वतन्त्रत्वेत्तृत्वाभावादेक इति युक्तमिति भावः ॥18॥
((इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः ।
मद्भक्त ऎतद्विज्ञाय मद्भावायोपपद्यते ॥ 19 ॥
* मद्भावाय मयि भावाय ॥19॥
// उक्तमुपसंहृत्य तज्जञानं स्तूयते `इतीति' ॥ तत्र मद्भावपदमन्यथाप्रतीतिनिरासाय व्याचष्टे -- मद्भावायेति ॥19॥
((प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि ।
विकारांश्च गुणांश्बैव विद्धि प्रकृतिसम्भवात् ॥ 20 ॥
कार्यकारणकर्तृत्वे हेतुः प्रकृतिरुच्यते ।
पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते ॥ 21 ॥
* `प्रकृतिं पुरुषं च' इत्यत्र पुरुषशब्देन जीवपरयोः प्रकृतिशब्देन चेतनाचेतनप्रकृत्योः स्वीकाराय `उभावपि' इति । विकाराणां सत्त्वादीनां चोपादानत्वविवक्षया प्रकृतिसम्भवत्वम् । स्वातन्त्र्यं तु परमेश्वरस्यैव । `उपद्रष्टाऽनुमन्ता च' इत्यादि वक्ष्यमाणत्वात् । गुणानां च विकारत्वेऽप्यधिकविकारत्वविवक्षयाऽन्येषां विकारांश्च गुणांश्चेति पृथगुक्तिः ।
// यतश्च यत् स च य इति प्रतिज्ञातं वक्तुं प्रकृत्यादिस्वरूपमुच्यते `प्रकृतिमिति' । तत्र प्रकृतिं पुरुषं चेत्युक्त्यैवोभाविति सिद्धेः किमुभावित्युक्तेनेत्यत आह -- प्रकृतिमिति ॥ इत्युक्तमिति शेषः । उभावित्युक्तस्य पुल्लिङ्गेनान्वयाय व्युत्क्रमः । अनेनोभावित्येतत् पृथग्वाक्यमित्युक्तं भवति । उभे अपीति सङ्ग्रहश्च । विकारांश्च गुणांश्चेत्यत्र विकारादीनां प्रकृतिः स्वतन्त्रं कारणमित्यन्यथाप्रतीतिम् इच्छादयो विकारा इत्युक्तत्वाद् गुणशब्दार्थमेव वदन् निराकरोति -- विकाराणामिति ॥ स्वातन्त्र्यमेव प्रकृतेः किं न स्यादित्यत आह -- स्वातन्त्र्यमिति ॥ उपद्रष्टाऽनुमन्ता चेतीश्वरस्यैव स्वातन्त्र्यस्य वक्ष्यमाणत्वात् न प्रकृतेः स्वातन्त्र्यं, किन्तूपादानत्वमेवेत्यर्थः । नन्विच्छादिवत् सत्त्वादिगुणानामपि विकारत्वाद् विकारांश्च गुणांश्चेति पृथगुक्तिः किं निमित्तेत्यत आह -- गुणानां चेति ॥ सत्त्वादिगुणानां विकारत्वेऽपि विकारांश्च गुणांश्चेति पृथगुक्तिः सत्त्वादीनामल्पविकारत्वादिच्छादीनां ततोऽधिकविकारत्वात्तद्विवक्षया युक्तेत्यर्थः ।
*`` स्वदेहेन्द्रियहेतुत्वं यज्जीवस्य स्वकर्मभिः ।
आवृत्य विष्णुतत्त्वं तद्धेतुश्चित्प्रकृतिर्मता ॥
जीवस्य सुखदुःखानां भोगशक्तिप्रदः सदा ।
परमः पुरुषो विष्णुः सर्वकर्ताऽपि सन् सदा ॥
विशेषकर्ता केषाञ्चिदुक्तो यद्वद्विकुण्ठयः ।
उच्यते सर्वपालोऽपि विशेषेण स्वकर्मणा ॥" इति च ।
// `कार्यकारणकर्तृत्वे' इति श्लोकमचेतनप्रकृतिजीवविषयत्वप्रतीतिनिरासाय चेतनप्रकृतीश्वरविषयतया प्रमाणेनैव व्याचष्टे -- स्वदेहेति ॥ विष्णुतत्त्वमावृत्येति ॥ विष्णोर्यथास्थितिमज्ञापयित्वेत्यर्थः । विष्णुतत्त्वज्ञानस्यैव बन्धकर्मसम्भवेन देहेन्द्रियहेतुत्वादज्ञानहेतुचित्प्रकृतेर्जीवस्य शरीरेन्द्रियहेतुत्वम् । ईश्वरपरतयोत्तरार्धं व्याचष्टे -- जीवस्येति ॥ सर्वकर्तृत्वादीश्वरस्य भोगशक्तिकर्तृत्वं किं विशिष्योच्यत इत्यत आह -- सर्वेति ॥ यथा सर्वपालोऽपि विकुण्ठपो विशिष्योच्यते, स्थानान्तरस्येव विकुण्ठस्य पालकान्तररहितत्वात् तथा सर्वकर्ताऽपि हरिः केषाञ्चिद्भोक्तृत्वादीनां कर्ता विशिष्योच्यते । कार्यान्तर इव भोक्तृत्वादावन्येषां प्रवृत्त्यभावादित्यर्थः । विशेषेण स्वकर्मणा केवलेन स्वकर्मणा । एतेन भगवतः कार्यकारणकर्तृत्वहेतुत्वेऽपि चित्प्रकृतेभोक्तृत्वप्रदाने स्वप्रवृत्तिमपेक्ष्य कार्यकारणकर्तृत्वेऽधिकप्रवृत्तिरिति कार्यकारणकर्तृत्वे हेतुत्वोक्तिरिति सूचितं भवति ।
* परमेश्वरस्यैव सर्वकर्तृत्वेऽपि भोक्तृत्वदाने देव्या अल्पप्रवृत्तिरिति दर्शयितुमुच्यत इति स्थानद्वयेऽप्युक्तम् । कर्तृत्वेऽपि स ऎव मुख्य हेतुः । तथापि भोक्तृत्वापेक्षया तस्या अधिकप्रवृत्तिरिति कर्तृत्वे ``हेतुः प्रकृतिरुच्यते" इति सर्वहेतुत्वेऽपि विष्णोः प्रकृतेर्जीवं प्रति भोक्तृत्वदानेऽल्पप्रवृत्तिरिति पुरुषो ``भोक्तृत्वे हेतुरुच्यते" इति विशेषहेतोरेवमुच्यते । मुख्यतस्तु सर्वहेतुत्वं विष्णोरेवेति भावः । ``पुरुषः प्रकृतिस्थः" इत्यत्र पुरुषशब्दो जीवे । उभयोरपि पुरुषशब्देन पूर्वं प्रस्तुतत्वात् । यथायोग्यमुपपत्तेः ॥21॥
// ऎतदुभयं गीतायामेव सूचितमित्याह -- परमेश्वरस्येति ॥ परमेश्वरस्यैव कार्यकारणकर्तृत्वे हेतुत्वेऽपि चित्प्रकृतेस्तदुक्तिर्युक्ता । भोक्तृत्वदाने तस्या अल्पप्रवृत्तित्वेन तदपेक्षया कर्तृत्वेऽधिकप्रवृत्तिमत्त्वात् । तथा परमेश्वरस्य सर्वकर्तृत्वेऽपि विशिष्य भोक्तृत्वदानोक्तिर्युक्ता । भोक्तृत्वदाने चित्प्रकृत्यादीनामन्यत्र प्रवृत्तिमपेक्ष्याल्पप्रवृत्तित्वेन भगवत एवाधिकप्रवृत्तित्वादित्येतत्सूचयितुमस्य श्लोकस्य पूर्वोत्तरार्धयोरुच्यत इत्युक्तमित्यर्थः । कथमनेनैतत्सूचितमित्यत आह -- कर्तृत्वेऽपीति ॥ भोक्तृत्वापेक्षयेति ॥ स्वस्या भोक्तृत्वदाने प्रवृत्त्यपेक्षयेत्यर्थः । अधिकप्रवृत्तिः कार्यकारणकर्तृत्व इति शेषः । भोक्तृत्वे हेतुरुच्यते । विशेषेणेति शेषः ।
`पुरुषः प्रकृतिस्थो हि' इत्यत्रेश्वर उच्यत इत्यन्यथाप्रतीतिनिरासायाह -- पुरुष इति ॥ ईश्वरस्य ``पुरुषः सुखदुःखानां" इति पुरुषशब्देन प्रकृतत्वात् कथमत्र जीवे पुरुषशब्द इत्यत आह -- उभयोरिति ॥ यद्यप्यत्र पुरुषशब्देनेश्वरः प्रकृतस्तथाप्यत्र पुरुषशब्दस्य जीवविषयत्वग्रहणं युक्तम् । `प्रकृतिं पुरुषं चैव' इत्यत्र पुरुषशब्देनेश्वरवत् जीवस्यापि प्रकृतत्वात् । अन्यथा `उभौ' इत्यस्य वैय्यर्थ्यादिति भावः । अस्तु जीवः प्रकृतस्तथापि समीपप्रकृतं परित्यज्य दूरप्रकृतग्रहणं नोपपन्नमित्यत आह -- यथेति ॥ समीपप्रकृतत्वेऽपीश्वरस्य तत्परित्यागेन दूरप्रकृतजीवग्रहणमुपपद्यते । अस्य पुरुषस्य प्रकृतिजगुणभोक्तृत्वप्रतीतेः । ईश्वरस्य तदयोगात्, जीवस्य तद्योग्यत्वात् । यथायोग्यमेवार्थाश्रयणस्योपपन्नत्वादिति भावः । उभयोः प्रकृतत्वे जीवमात्रग्रहणं कथमित्यतो वाऽह -- यथेति ॥21॥
((पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान् गुणान् ।
कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु ॥ 22 ॥
* कार्यकारणसम्बन्धं भोगं च मिथ्येति वदतां निराकरणायाह -- ``प्रकृतिः पुरुषस्थो हि" इति । हीत्यनुभवविरोधं दर्शयति तेषाम् । नहि ज्ञानाज्ञानसुखदुःखादिविषयस्यान्तरानुभवस्य भ्रान्तित्वं क्वचिद्दृष्टम् । न चास्य मिथ्यात्वे किञ्चिन्मानम् । शरीरमारभ्यैव ह्यप्ररोक्षभ्रमो दृष्टः । तत्रापि बलवत्प्रमाणविरोधादेव भ्रान्तित्वं कल्प्यम् । साक्षिसिद्धस्यापि भ्रान्तित्वाङ्गीकारे येन सर्वस्य भ्रान्तित्वमभ्रान्तित्वं चात्मनोऽवगतं तदपि प्रमाणमात्मैव । व्यवहारतोऽप्यस्तीत्यत्र प्रमाणाभावात् भ्रान्तिरभ्रान्तिर्वा न किञ्चित्सिद्ध्यति ।
// यद्यत्र पुरुषपदं जीवपरं तर्~हि पुनरुक्तिः स्यात् । जीवस्य `कार्यकारणकर्तृत्वे' इत्यनेनोक्तकार्यकारणसम्बन्धस्यैव प्रकृतिस्थपदेनोक्तेः । सुखदुःखानां भोक्तृत्वे इत्यनेनोक्तसुखदुःखादिभोगस्यैव `भुङ्क्ते प्रकृतिजान् गुणान्' इत्युक्तत्वादित्यत आह -- कार्येति ॥ कार्यकारणसम्बन्धस्य सुखादिभोगस्य च प्रागुक्तत्वेऽपि तन्मिथ्यात्ववादिनां निरासाय `पुरुषः प्रकृतिस्थो हि' इत्युक्तत्वान्न पुनरुक्तिदोष इति भावः । निराकरणस्य प्रमाणसापेक्षत्वात् तदनुक्तोक्ताभिधानमात्रेण कथं निराकरणमित्यत आह -- हीति ॥ अत्र कार्यकारणसम्बन्धस्य सुखादिभोगस्य च हि शब्देनानुभवप्रसिद्धिकथनेन तन्मिथ्यात्ववादिनामनुभवविरोधस्य दर्शितत्वात् नैतदुक्ताभिधानमात्रमिति भावः ।
अहं सुखीदुःखीत्याद्यनुभवस्य भ्रान्तित्वसम्भवात् सुखादिभोगस्य मिथ्यात्वाङ्गीकारे कथं तद्विरोध इत्यत आह -- न हीति ॥ सुखादिविषयानुभवो न भ्रमः, आन्तरार्थानुभवत्वात् । आन्तरार्थानुभवस्य भ्रमत्वादर्शनादिति भावः । बाधकाभावाच्च नायमनुभवो भ्रम इत्याह -- नचेति ॥ नन्वात्मादौ जैनादीनां मध्यमपरिमाणत्वादिज्ञानस्य भ्रमत्वदर्शनात् कथमान्तरार्थानुभवत्वादभ्रमत्वमुच्यत इत्याशङ्कां परिहरन् व्याप्तिमाह -- शरीरमिति ॥ नात्राऽन्तरानुभवत्वमेव हेतुः । येन व्यभिचारः स्यात् । अपि त्वपरोक्षत्वविशिष्टम् । अपरोक्षानुभवस्य च बहिरेव भ्रमत्वदर्शनादान्तरानुभवस्य तदभावः सिध्यति । जैनादीनां चानुमानादिनैव मध्यमपरिमाणत्वादिभ्रम इति भावः । बाधकाभावेऽपि सुखाद्यनुभवस्य भ्रमत्वं किं न स्यादित्यत आह -- तत्रापीति ॥ यत्र बहिरर्थानुभवस्य भ्रमत्वं तत्रापि बलवत्प्रमाणविरोधादेव तत् कल्प्यते । अतः सुखादिविषयानुभवस्य बाधकाभावेनाभ्रमत्वं युक्तमिति भावः ।
इतश्च न सुखादिविषयानुभवस्य भ्रमत्वेन सुखादेर्मिथ्यात्वं वाच्यमित्याह -- साक्षीति ॥ साक्ष्यनुभवसिद्धस्यापि सुखादेभ्रान्तिकल्पितत्वे सर्वं मिथ्या, आत्मा सत्य इति व्यवस्थाऽपि न सिद्ध्यति । ऎतद्व्यवस्थाया अपि साक्ष्यनुभवसिद्धत्वेन मिथ्यात्वापातादिति भावः । भ्रान्तित्वमभ्रान्तित्वमिति ॥ भ्रान्तिकल्पितत्वमभ्रान्तिकल्पितत्वमित्यर्थः । `सर्वं मिथ्या आत्मा सत्यः' इति व्यवहारत एवास्ति, न तु परमार्थतः । अतस्तदसिद्धिर्नानिष्टेत्यत आह -- व्यवहारत इति ॥ व्यवहारत एवेयं व्यवस्थाऽस्तीत्यपि न सिद्ध्यति । साक्षिणोऽप्रामाण्ये तत्र प्रमाणाभावादिति भावः । किञ्च साक्ष्यनुभवस्याप्रामाण्ये स्तम्भादौ स्थाण्वादिमनोवृत्तिर्भ्रान्तिः । स्तम्भादिमनोवृत्तिरभ्रान्तिरित्यपि न सिद्ध्यति । साक्षिण ऎव ज्ञानस्य भ्रान्तित्वाभ्रान्तित्वग्राहकत्वात् । तदसिद्धौ च व्यवहारमात्रं च न सिद्ध्यतीति भावेनाह -- भ्रान्तिरिति ॥ एतेन सर्वं मिथ्या आत्मा सत्य इति व्यवस्था व्यवहारतोऽस्तीत्येतदागमादिना सिद्ध्यतीत्येतदपि निरस्तम् । आगमादिप्रामाण्यस्यापि साक्षिग्राह्यत्वात् । `साक्षिसिद्धस्य' इत्यादेरेकग्रन्थत्वे भ्रान्तिरित्यस्य साध्याभिधानपरतया तच्छेषत्वं ज्ञातव्यम् ।
* अनुभवो भ्रान्त इत्युक्ते भ्रान्तत्वे प्रमाणं तत्प्रामाण्यं च कुतः सिद्ध्येत् । व्यवहारतः सर्वमङ्गीकुर्म इत्युक्ते व्यवहारो व्यवहर्ता च कुतः सिद्धः ? प्रतीतित इत्युक्ते सैव कुतः । स्वत इत्युक्ते स्वस्य भ्रान्तित्वे प्रतीतिं विनैव प्रतीतिरस्तीति भ्रान्तिः स्यात् । स्वाभावोऽपि स्यात् । स्वयमस्तीति च भ्रमः स्यात् । निरालम्बनो भ्रमो नोपपद्यत इत्यस्यापि भ्रमत्वोपपत्तेः । तत्प्रमाणमप्यप्रमाणमेव । प्रमाणत्वभ्रम इति न किञ्चित् सिद्ध्यति ।
// यदुक्तं सुखादिविषयसाक्ष्यनुभवस्य न भ्रान्तित्वं, बाधकाभावादिति तदयुक्तम् । `विमुक्तश्च विमुच्यते' इत्यादि प्रमाणसद्भावादित्यत आह -- अनुभव इति ॥ नानेन सुखादिविषयस्यानुभवस्य भ्रान्तित्वं सिद्ध्यति । तत्स्वरूपप्रामाण्ययोः सिद्ध्यभावात् । साक्ष्यनुभवस्यैव तत्साधकत्वात् । तस्य च भ्रान्तित्वाभिधानादिति भावः । न च सुखादिविषय ऎव साक्ष्यनुभवस्य भ्रमत्वं, प्रमाणस्वरूपादावभ्रमत्वमिति युक्तम् । विशेषप्रमाणाभावेनानाश्वासात् । साक्ष्यनुभवस्य भ्रमत्वेऽपि प्रमाणस्वरूपप्रामाण्ये लोकव्यवहारादेव सेत्स्यत इत्याशङ्क्याह -- व्यवहारत इति ॥ न लोकव्यवहारतः प्रमाणस्वरूपादिसिद्धिः । लोकस्य च तद्व्यवहारस्य चासिद्धेः । साक्षिण ऎव तद् ग्राहकत्वात् । तस्य च भ्रान्तित्वाङ्गीकारादिति भावः । साक्षिणो भ्रान्तित्वेऽपि व्यवहारव्यवहर्तृसिद्धिः प्रतीतित ऎव भविष्यतीत्याशङ्क्य परिहरति -- प्रतीतित इति ॥ भवेत् प्रतीत्यैव व्यवहारादिसिद्धिः यदि सैव सिद्ध्येत् । नच तत्साधकं वक्तुं शक्यत इति भावः । साक्षिण ऎव प्रतीतिसिद्धेः कथं तत्साधकाभाव इत्याशङ्क्य परिहरति -- स्वत इति ॥ न साक्षिणा प्रतीतिसिद्धिः । तस्य सुखादौ भ्रान्तित्वाङ्गीकारेण प्रतीत्यभावऽपि प्रतीतिरस्तीति भ्रमोऽयमिति शङ्काकुण्ठितशक्तित्वादिति भावः ।
इतश्च न सुखादिविषयानुभवस्य भ्रमत्वमित्याह -- स्वेति ॥ सुखादिविषयानुभवस्य भ्रमत्वाङ्गीकृतावात्माभावोऽपि स्यात् । आत्मसाधकाभावादिति भावः । नन्वहमिति प्रत्यक्षत एवात्मोपलभ्यते । अतः कथं तत्साधकाभाव इत्यत आह -- स्वयमिति ॥ नाहमित्यनुभवेनात्मसिद्धिः, अनुभवस्य सुखादौ भ्रान्तित्वाभ्युपगमेनात्मन्यपि भ्रमत्वशङ्कावारकाभावादिति भावः । निरधिष्ठानभ्रमासम्भवात् सुखादिभ्रमान्यथानुपपत्त्याऽधिष्ठानभूतात्मसिद्धिरित्यत आह -- निरालम्बन इति ॥ नानेन तर्केणात्मसिद्धिः । ऎतत्तर्कानुभवस्यापि सुखानुभववत् भ्रमत्वशङ्कायाः प्रसङ्गादिति भावः । श्रुतिरात्मनि प्रमाणमित्यत आह -- तदिति ॥ यच्छ्रुतिः प्रमाणमात्मन्युच्यते तच्छ्रुतिप्रमाण्यसाधकाभावेनाप्रामाण्यस्यापि वक्तुं शक्यत्वात् न तेनात्मसिद्धिरिति भावः । श्रुतेः प्रामाण्यानुभवात् कथमप्रामाण्यमित्यत आह -- प्रमाणत्वेति ॥ नानुभवेन श्रुतेः प्रामाण्यसिद्धिः । सुखानुभववदस्याप्यप्रामाण्ये प्रमाणत्वभ्रमत्वसम्भवादिति भावः । साक्षिसिद्धस्येत्याद्युक्तमुपसंहरति -- इतीति ॥ ऎवमुक्तप्रकारेण साक्ष्यनुभवस्य भ्रमत्वे सर्वं मिथ्या आत्मा सत्य इति व्यवस्थादि किञ्चिदपि न सिद्ध्यतीत्यर्थः ।
* भ्रम इत्यस्यैव भ्रमत्वेऽन्यथाभ्रमत्वमेव भवति । सुखदुःखादिविषयं ज्ञानमात्मस्वरूपमेवेति तस्य भ्रमत्वे छद्मना विनैव शून्यवादो भवति । न हि वृत्तिज्ञानविषयमज्ञानादिकं तेषामपि । भ्रमस्य चाविद्याकार्यत्वाङ्गीकारात् । आत्मस्वरूपस्याप्यविद्याकार्यत्वं स्यात् । दुर्घटत्वं भूषणमित्युक्ते दुर्घटत्वं सुघटत्वं चोभयं भूषणमस्माकमित्युत्तरम् । न हि प्रमाणसिद्धस्य दुर्घटत्वे सुघटत्वे वाऽपवादो दृष्टः । दुर्घटत्वं भूषणमिति वदद्भिरात्मनोऽप्यविद्यात्वमङ्गीकृत्य तदयुक्तमित्युक्ते तत्रापि भूषणत्वं किमिति नाङ्गीक्रियते । अतिसुकरत्वात् । न चात्मनोऽप्यविद्यात्वं वदतां तेषामुत्तरम् । अतोऽनन्तदोषदुष्टत्वात् हीति प्रसिद्ध्यैव भगवता निराकृताः ॥22॥
//सुखाद्यनुभवो भ्रम इत्यर्थसाधकश्रुतेः प्रामाण्यासिद्धेर्न तया सुखाद्यनुभवस्य भ्रमत्वसिद्धिरित्युक्तम् । अथ तस्य श्रौतानुभवस्यापि भ्रमत्वोपपत्त्या भ्रमत्वसिद्धिरित्युक्तम् । अथ तस्य श्रौतानुभवस्यापि भ्रमत्वोपपत्त्या सुखाद्यनुभवस्याभ्रमत्वमेव भवति । नतु तेन तस्य भ्रमत्वसिद्धिः । परस्परविरुद्धयोरन्यतरनिषेधस्येतरविधिनान्तरीयकत्वादिति भावेनाह -- भ्रम इति ॥ इतोऽपि न सुखाद्यनुभवस्य भ्रमत्वमित्याह -- सुखेति ॥ यदि सुखाद्यनुभवो भ्रमस्तर्~हि यत् प्रच्छन्नं नैरात्म्यमतमङ्गीकृतं तत्प्रकटितं स्यात् । सुखादिविषयानुभवस्य आत्मस्वरूपत्वादित्यर्थः । सुखादिविषयानुभवस्यात्मस्वरूपत्वं भवन्मत ऎव नास्मन्मते । किन्तु मनोवृत्तिरूपत्वमेवेत्यतोऽपसिद्धान्त इत्याह -- न हीति ॥ नन्वस्तु सुखाद्यनुभवस्य भ्रमत्वमात्मस्वरूपत्वं च । तथापि कथमात्माभावप्रसङ्ग इत्यत आह -- भ्रमस्येति ॥ सुखादिविषयानुभवस्य भ्रमत्वेऽविद्याकार्यत्वं स्यात् । भ्रमस्याविद्याकार्यत्वाङ्गीकारात् । तथा चात्मनोऽप्यविद्याकार्यत्वं स्यात् । सुखादिविषयानुभवस्यात्मस्वरूपत्वात् । अविद्याकार्यत्वे चात्मनो मिथ्यात्वं दुर्निवारमिति भावः ।
अस्त्वेवमात्मनो युक्त्या दुर्घटत्वम् । तथापि न तद् बाधकम् । आत्मनः प्रमाणसिद्धत्वात् । न हि प्रमाणसिद्धस्य युक्त्या दुर्घटत्वमात्रेण बाधोऽस्तीत्याशङ्क्य परिहरति -- दुर्घटत्वमिति ॥ यद्यात्मनः प्रामाणिकत्वाद्युक्त्या दुर्घटत्वमपि न बाधकमित्युच्यते तर्~हि सुखादीनामपि दुर्घटत्वं सुघटत्वं वाऽस्तु । न तद्बाधकं, प्रमाणसिद्धत्वादिति वक्तव्यमित्यर्थः । युक्त्या दुर्घटत्वमस्तु । न तद्बाधकमिति कथमित्यत आह -- न हीति ॥ अङ्गीकृत्य चेदमुक्तम् । युक्त्या दुर्घटत्वमपरिहृत्य तस्याबाधकत्वाभ्युपगमेऽतिप्रसङ्गः स्यादित्याह -- दुर्घटत्वमिति ॥ यदि युक्त्या दुर्घटत्वं न बाधकमित्यात्मास्तित्वं दुर्घटतयाऽङ्गीक्रियते तर्~ह्यात्मनोऽविद्यात्वं दुर्घटमप्यङ्गीक्रियतामविशेषादित्यर्थः । प्रामाणिकस्यैव युक्त्या दुर्घटत्वं न बाधकमित्युच्यते । न चात्मनोऽविद्यात्वं प्रामाणिकं, येन युक्त्या दुर्घटत्वमबाधकं स्यादित्यत आह -- अतीति ॥ नात्मनोऽविद्यात्वमप्रामाणिकम् । किञ्चिच्चेतनं किञ्चिदचेतनमित्यङ्गीकारे गौरवप्राप्तेः । सर्वस्याचेतनत्वाङ्गीकृतेरेव ज्यायस्त्वमिति युक्तिसिद्धत्वादिति भावः । न केवलं प्रामाणिके युक्त्या दुर्घटत्वमबाधकम् । किन्तु यदङ्गीकारे प्रमाणाविरोधस्तत्रैव । आत्मनोऽविद्यात्वं प्रमाणविरुद्धमतो युक्त्या विरुद्धत्वं तत्र बाधकमेवेत्यत आह -- न चेति ॥ आत्मनोऽविद्यात्वं वदतां प्रतिपक्षिणामुक्तरीत्या न कोऽपि प्रमाणविरोधोऽस्तीति भावःः । नन्वेवमनुभवबलेन कार्यकारणसम्बन्धस्य सुखदुःखादिभोगस्य च सत्यत्वं वदता भगवताऽनुभवस्य भ्रमत्वमभ्युपगच्छतां मतमेवं किमिति न निराकृतमित्याशङ्कां परिहरन्नुक्तमुपसंहरति -- अत इति ॥ अनुभवभ्रमत्वस्य स्फुटमुक्तरीत्या अनन्तदोषदुष्टत्वप्रतीतेर्न स्वयं भगवता तन्निराकृतिः कृतेति भावः ।
पुरुषः प्रकृतिस्थ इत्युक्तम् । तत्र स्वतः शुद्धस्य जीवस्य प्रकृतिस्थत्वे किं कारणमित्यत उच्यते `कारणं' इति ॥ तत्र परमात्मनो जीवभावेन शरीरसम्बन्धाद्युक्तौ शुद्धस्य किं कारणं शरीरसम्बन्धादेरित्यतः सगुणत्वं तत्कारणमुच्यत इत्यन्यथाप्रतीतिनिरासायाऽह-- अस्येति ॥22॥
<लन्ग्=सन्>((उपद्रष्टाऽनुमन्ता च भर्ता भोक्ता महेश्वरः ।
परमात्मेति चाप्युक्तो देहेऽस्मिन् पुरुषः परः ॥ 23 ॥
* अस्य जीवस्य सदसद्योनिजन्मसु कारणं सत्त्वादिगुणसङ्घः । स्वतन्त्रकारणं तु परमेश्वर एवेत्याह -- उपद्रष्टाऽनुमन्तेति ॥
`सर्वेभ्य उपरि द्रष्टा यदुपद्रष्ट्रनामकः ।
स्वातन्त्र्याद् स्वानुकूल्येन मत्या प्रेरयति स्म यत् ॥
अनुमन्तेति कथितः स्वयं प्रभुरजो हरिः ।
महाशक्तिर्यतो विष्णुर्महेश्वर इतीरितः ॥
परमत्वाच्च तस्यैव ह्यनुमन्तृत्वमुच्यते ।
स ऎव सर्वदेहेषु देहिनोऽन्यो व्यवस्थितः ॥" इति च ।
मां विद्धि सर्वक्षेत्रेष्विति देहेऽप्युक्तः । तेनाहमेव स इति दर्शयति ॥23॥
// अत्र जीवस्य शरीरसम्बन्धे सत्त्वादिगुणसङ्गः कारणमुच्यते, न तु परमात्मनस्तत्र सगुणत्वम् । परमार्थतस्तदनुपपत्तेः । तन्मिथ्यात्वस्य दूषितत्वादिति भावः । किं जीवस्य सत्त्वादिगुणसङ्गः सदसद्योनिजन्मसु स्वतन्त्रकारणमुत निमित्तमात्रम् ? नाद्यः । जडत्वेन तदनुपपत्तेः । द्वितीये स्वतन्त्रकारणं वाच्यमिति शङ्कापरिहारत्वेन श्लोकमवतारयति -- स्वतन्त्रेति ॥ कथमनेन हरेः स्वतन्त्रकारणत्वमुच्यत इत्यतः प्रमाणवाक्येन श्लोकं व्याचष्टे -- सर्वेभ्य इति ॥ उपरि उपरि वर्तमानः, उत्तम इति यावत् । स्वानुकूल्येन स्वात्मनोऽविक्षेपकतया । मत्या बुद्धिपूर्वकम् । स्वातन्त्र्यं तत्र हेतुत्वेनैवोक्तम् । परमत्वादित्यनेन परमात्मेत्युक्तार्थं भवति । उपद्रष्टेत्यादौ सर्वत्रेतिशब्दान्वयेनानुमन्तृत्त्वे हेत्वभिधायकत्वं द्रष्टव्यम् । देहिनोन्य इत्यनेन परशब्दो व्याख्यातो भवति । नन्वनुमन्तुः प्राग्देहस्थितत्वेनानुक्तत्वादप्युक्तो देहेऽस्मिन्निति कथमुच्यत इत्यत आह -- मामिति ॥ ``क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत" इति प्रागनुमन्तुर्देहगतत्वेनोक्तत्वादप्युक्तो देहेस्मिन्नित्युक्तिर्युक्तेति भावः । ननूपद्रष्टृत्वादिकमनुमन्तृत्त्वे हेतुत्वेनोच्यताम् । अनुमन्तुर्देहस्थतयोक्तत्वं किमर्थमुच्यत इत्यत आह -- तेनेति ॥ कोऽयनुमन्तेत्यतो देहेऽप्युक्त इत्यनेनाहमेवानुमन्तेति दर्शयति ॥ देहस्थत्वेनात्मनः कथितत्वादिति भावः ॥23॥
((य ऎवं वेत्ति पुरुषम्प्रकृतिं च गुणैः सह ।
सर्वथा वर्तमानोऽपि न स भूयोऽभिजायते ॥ 24 ॥
* ``द्विविधं पुरुषं चैव प्रकृतिं द्विविधामपि ।
सह तत्तद्गुणैः सम्यग् ज्ञात्वा पश्यति यः पुमान् ।
सर्वथा वर्तमानोऽपि न स भूयोऽभिजायते ॥ 24॥
// ``प्रकृतिं पुरुषं चैव" इत्याद्युक्तार्थे बुभुत्सातिशयोत्पादनाय तज्जञानफलमुच्यते -- `य एनं' इति । तत्प्रमाणवचनेनैव व्याचष्टे -- द्विविधमिति ॥ ज्ञात्वा परोक्षतः । `सर्वथा वर्तमानः' इत्यस्य प्रमाधादन्यायेन वर्तमानोऽपि नियतमोक्ष इत्यर्थः ।
(( ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना ।
अन्ये साङ्ख्येन योगेन कर्मयोगेन चापरे ॥ 25 ॥
अन्ये त्वेवमजानन्तः श्रुत्वाऽन्येभ्य उपासते ।
तेऽपि चातितरन्त्येव मृत्युं श्रुतिपरायणाः ॥ 26 ॥
* अनादियोग्यताभेदात् पुंसां दर्शन साधनम् ॥
नानैव तत्र विष्णोस्तु प्रसादाद् वैष्णवं वपुः ।
स्वयं विज्ञायते किञ्चित् श्रूयते किञ्चिदन्यतः ॥
तथा ज्ञात्वा हरिं ध्यात्वा स्वान्तः पश्यन्ति केचन ।
ऋषयः केचिदृषयो नारदाद्या बहिस्त्वपि ॥
देवा विष्णुप्रसादेन लब्धसत्प्रतिभाबलात् ।
सर्वं क्रमेण विज्ञाय प्रतिभास्पष्टताक्रमात् ॥
पश्यन्ति बहिरन्तश्च विष्णुं ध्यानमृतेऽपि तु ।
येषां ध्यानमृते दृष्टिस्तेषां ध्यानेऽपि दर्शनम् ।
स्यादेव साङ्ख्ययोगास्ते देवा ब्रह्माऽधिकोऽत्र च ॥
केचित्तु क्षत्रियवरा अश्वमेधादिकर्मभिः ।
यजन्तो भक्तिमन्तश्च यज्ञभागार्थमागतम् ॥
श्रवणप्रतिभाभ्यां च स्मरन्तः पुरुषोत्तमम् ।
पश्यन्त्यन्ये तथान्येभ्यः सर्वं श्रुत्वाऽनुमत्य च ॥
उपास्यैव तु पश्यन्ति नान्यथा तु कथञ्चन ।
ऋषीन् राज्ञस्तथाऽऽरभ्य प्रतिभाऽभ्यधिका क्रमात् ॥
यावद् ब्रह्मा ब्रह्मणस्तु प्रायो नाप्रतिभासितम् ।
विष्णोः प्रीत्यर्थमेवास्य श्रोतव्यं प्रायशो हरेः ॥
अन्येषां श्रवणाद् ज्ञानं क्रमशो मानुषोत्तरम् ।
अत्यल्पप्रतिभानत्वात् मानुषाः श्रुतवेदिनः ॥
सर्वे ते दर्शनात्तस्मात् स्वयोग्यान्मुक्तिगामिनः ॥' इति च ॥
// परमपुरुषादिदर्शने किं साधनमित्यत आह -- अनादीति ॥ कथं नानात्वमित्यत आह -- तत्रेति ॥ स्वयमिति ॥ स्वप्रतिभया ॥ तथेति । उक्तप्रकारद्वयेन । अनेन `ध्यानेन' इत्युक्तार्थं भवति । `किञ्चित्' इत्युक्त्या तेषां ध्यानातिरिक्तसाधनसद्भावेऽपि तस्याल्पत्वादनुक्तिरित्युक्तं भवति । ऋषयोऽन्तःप्रकाशा इत्यादौ ऋषीणामन्तर्दर्शननियमोक्तेः केचनेत्युक्तिः किमर्थेत्यत आह -- केचिदिति ॥ ऋष्यन्तरविषया श्रुतिरिति भावः । `देवाः' इत्यनेन `अन्ये साङ्ख्येन' इत्युक्तार्थं भवति । क्रमेण कालक्रमेण । देवानां ध्यानाभावे दर्शनं भवति चेत्तर्~हि दर्शनविरोधिध्यानं किमर्थं ते कुर्वन्तीत्यत आह -- येषामिति ॥ साङ्ख्यं प्रतिभा योगो दर्शनोपायो येषां ते साङ्ख्ययोगाः । `प्रतिभा स्पष्टताक्रमात्' इत्युक्तम् । तत्र सर्वोत्तमप्रतिभा देवेषु कस्य मुख्येत्यत आह -- ब्रह्मेति ॥ केचिदित्यनेन `कर्म' इति व्याख्यातं भवति । अत्रापि श्रवणप्रतिभयोरल्पत्वं द्रष्टव्यम् । अन्य इत्यनेन `अन्ये तु' इत्युक्तार्थं भवति ।
ऋषिदेवराज्ञां प्रतिभोक्ता । तत्र किमेतेषामेकविधैव प्रतिभाऽस्ति, अथ तारतम्येनेत्यपेक्षयामाह -- ऋषीनिति ॥ ब्रह्मणः प्रतिभाप्रमाणमाह- ब्रह्मण इति ॥ तर्~हि तस्य हरेः सकाशात् श्रवणं किमर्थमित्यत आह -- विष्णोरिति ॥ प्रीत्यर्थमेव, न तु ज्ञानार्थम् । केषां तर्~हि ज्ञानार्थं श्रवणमित्यत आह -- अन्येषामिति ॥ मानुषोत्तरमिति ॥ मानुषाणां प्रायः श्रवणादेव ज्ञानमित्यर्थः । नन्वेवं ध्यानादियोगिनामपि श्रवणादिसद्भावे कथं मानुषाणां श्रुतवेदित्वं क्वचिदुच्यत इत्यत आह -- अत्यल्पेति ॥ ऎवं दर्शनसाधनं नानाविधमुक्त्वा प्रकृतमनुसन्धत्ते -- सर्व इति ॥
* अन्येषामपि किञ्चित् श्रवणे विद्यमानेऽपि मनुष्याणामत्यल्पप्रतिभानत्वात् `श्रुत्वाऽन्येभ्यः' इति विशेषणम् । मनुष्याणां प्रतिभा मूलप्रमाणापेक्षया प्रायो न सम्यगुत्पद्यतेऽल्पा चेति `श्रुतिपरायणाः' इति ।
``अश्रुतप्रतिभा यस्य श्रुतिस्मृत्यविरोधिनी ।
विश्रुता नृषु जातं च तं विद्याद्देवसत्तमम् ॥
यश्च स्वमुखमानेन नवाधोदेहवान् पुमान् ।
यश्च स्वमुखमानेन नवाधोदेहवान् पुमान् ।
अष्टमानवती स्ती च षण्णवत्यङ्गुलो पुनः ॥
दशतालौ सप्तपादौ विद्यात्तौ च सुरोत्तमौ ।
यावात्पञ्चाङ्गुलोनं तद्देवमानं क्रमात्परम् ॥
पादे त्वङ्गुलमात्रोनं तदूनं चतुरङ्गुलम् ।
यावद्देवोपदेवानां पादे चोनाङ्गुलं पुनः ।
तावन्मनुष्यमानं स्यात्ततोऽधस्त्वासुरं स्मृतम् ।
द्विचत्वार्यधिकं तस्मात् षण्णवत्यङ्गुलादधः ॥
ज्ञेयमङ्गुलमानं तदुपदेवादिषु स्फुटम् ।
देवेष्ववरवज्जञेयमृषीणां चक्रवर्तिनाम् ॥
यावद्यावत्प्रियो विष्णोस्तावत् स्त्रीपुंस्वरूपिणः ।
हरेः सादृश्यमस्य स्यादनादिक्रमसुस्थिरम् ॥" इति च ॥ 25-26॥
//यदुक्तं ध्यानादियोगिनामपि श्रवणाद्यस्तीति तदयुक्तम् । तथासति केषाञ्चित् `श्रुत्वाऽन्येभ्यः' इति विशिष्योक्त्यसम्भवादित्यत आह-- अन्येषामिति ॥ ध्यानादियोगिनां श्रवणादिसद्भावेऽपि मनुष्याणां `श्रुत्वाऽन्येभ्य उपासते' इति विशेषोक्तिर्युक्ता । तेषामत्यल्प प्रतिभामानत्वेन श्रवणबाहुल्यसद्भावादिति भावः । अनेनात्यल्पप्रतिभानत्वमिति विवृतं भवति । कथं मनुष्याणामत्यल्पाऽपि प्रतिभा युज्यते । श्रुतिपरायणा इति विशेषणं युक्तम् । तत्प्रतिभाया मूलप्रमाणापेक्षत्वेन स्वातन्त्र्याभावात् प्रायेणासम्यक्त्वाच्च । अस्वतन्त्रेऽसाधुनि चासत्त्वोक्तिदर्शनादिति भावः ।
यदुक्तं मनुष्याणां प्रतिभा मूलप्रमाणसापेक्षा प्रायो न सम्यगुत्पद्यते, अल्पा चेति तदयुक्तम् । पाण्डवादिमनुष्याणामश्रुतार्थेऽपि सम्यक् बहुप्रतिभादर्शनादित्याशङ्कां प्रमाणेनैव परिहरति -- अश्रुतेति ॥ विश्रुता व्याप्ता बहुलेत्यर्थः । तल्लक्षणान्तराणि चाह -- यश्चेति ॥ यः पुरुषः स्वमुखपरिमाणेननवपरिमाणाधोदेहवान्, या च स्त्री स्वमुखपरिमाणेनाष्टपरिमाणवती तौ पुनः स्वस्वाङ्गुलिपरिमाणेन षण्णवत्यङ्गुलौ, स्वस्वतालपरिमाणेन दशतालौ, स्वस्यपादपरिमाणेन सप्तपादौ तौ च सुरोत्तमौ विद्यादित्यर्थः । अत्र तालो नाम मध्यमाङ्गुल्यग्रात् मणिबन्धपर्यन्तः कर उच्यते । देवोत्तमलक्षणमुक्त्वा देवमात्रलक्षणमाह-- यावदिति ॥ तत् षण्णवत्यङ्गुलं क्रमेण ह्रसदेकनवत्यङ्गुलपर्यन्तमुत्तमावरसुरावधिकदेवमानं भवति । अत्र सप्तपादपरिमाणं क्रमेण क्रमेण ह्रसदेवकाङ्गुलोनमेव भवतीत्यर्थः । गन्धर्वादिलक्षणमाह -- तदूनमिति ॥ तदेकनवत्यङ्गुलं सप्ताशीत्यङ्गुलपर्यन्तं क्रमेण ह्रसद्गन्धर्वादिपरिमाणं भवति । अत्रापि सप्तपादपरिमाणं क्रमेण ह्रसत्पुनरेकाङ्गुलोनं भवतीत्यर्थः । मनुष्यलक्षणमाह -- तावदिति ॥ सप्ताशीत्यङ्गुलं मनुष्यपरिमाणमित्यर्थः । असुरलक्षणमाह-- तत इति ॥ सप्ताशीतेरधस्तात् असुरपरिमाणमित्यर्थः । देवोपदेवानां मानस्य सम्भूय कियतीष्वङ्गुलिषु परिसमाप्तिरित्यत आह -- द्विचत्वारीति ॥ तस्मात् सप्ताशीत्यङ्गुलादुपरिदेवोत्तमपरिमाणात् । षण्णवत्यङ्गुलादधो यदष्टाङ्गुलं तद्देवोपदेवपरिमाणं ज्ञातव्यमित्यर्थः । ऋष्यादिलक्षणमाह-- देवेष्विति ॥ च्यवनादीनां पृथ्वादीनामवरदेववत् परिमाणं ज्ञातव्यमित्यर्थः । ऎतल्लक्षणतारतम्ये हेतुमाह -- यावदिति ॥ अनेनैतत् स्वाभाविकमिति चोक्तं भवति ॥25-26॥
((यावत् सञ्जायते किञ्चित्सत्त्वं स्थावरजङ्गमम् ।
क्षेत्रक्षेत्रज्ञसंयोगात् तद्विद्धि भरतर्षभ ॥ 27 ॥
* क्षेत्रक्षेत्रज्ञसंयोगादित्यत्र क्षेत्रं श्रीः । ``मम योनिर्महद् ब्रह्म तस्मिन् गर्भं ददाम्यहम्" इति वक्ष्यमाणत्वात् ।
`अव्यक्तं च महद्ब्रह्म प्रधानं क्षेत्रमित्यपि ।
उच्यते श्रीः सदा विष्णोः प्रिया निर्दोषचिद्घना ॥
सा हि न व्यज्यते विष्णुरत्र क्षेति महागुणा ।
जीवोत्तमा च तेनैतैः शब्दैरेकाऽभिधीयते ॥
महान् ब्रह्मा जीवमहान् परात्मप्रेरिताः क्रियाः ।
अहं कर्तेति येनायं जीवो मंस्यत्यसौ शिवः ॥
अहङ्कार इति प्रोक्तो जीवाहङ्कृतिकृद्यतः ।
उमा बुद्धिरिति ज्ञेया शब्दादिज्ञानदा यतः ॥
मतिदो मन उद्दिष्ट इन्द्रः स्कन्दोऽपि तत्सुतः ।
श्रोतुं तु श्रावयंश्चन्द्रः स्पर्शो वायुसुतो मरुत् ॥
चक्षुः सूर्यश्चक्षयति जिह्वा वारिपतिर्~हृतेः ।
अश्विनौ घ्राणमाघ्रातेर्वागाग्निर्वचनादपि ॥
हस्तौ वायुसुतौ ज्ञेयौ मरुतौ हानिलाभयोः ।
पादौ तु विष्णुनाऽऽविष्टौ यज्ञशम्भू शचीसुतौ ॥
पदनादेव पायुश्च भुक्तस्यैवाप्ययाद्यमःः ।
सन्तत्युपस्थितिकृतेरुपस्थः स शिवो मनुः ॥
विनायकस्तथाऽकाशो निरावृत्या प्रकाशनात् ।
प्रधानवायुजो भूतवायुर्नाम्ना मरीचिकः ॥
अग्निश्च पृथिवी चैव प्रसिद्धौ वरुणो जलम् ।
अदनात् प्रथनाज्जन्मलयहेतोस्तथाऽभिधाः ॥
शब्दाद्या पञ्च शिवजाः शब्दनात् स्पर्शनादपि ।
रूपणाद्रसनाच्चैव गन्धनाच्च तथाऽभिधाः ॥
सुखं धृतिश्चेतना च सुखनाद्विधृतेरपि ।
चेतोनेतृत्वतश्बैव मुख्यवायुः सरस्वती ॥
श्रीश्चेच्छा सैव सा वायोः पत्नी त्वेवं धृतिर्मता ।
इच्छादानात्तु सैवेच्छा स्थानभेदात्तु देवताः ॥
पृथक् पृथक् च कथ्यन्ते लक्ष्म्याद्या उदिता अपि ।
दुःखद्वेषौ कलिश्बैव द्वापरोब्रह्मणः सुतौ ॥
प्रवरावसुराणां तौ सङ्घातश्चेतनाः परे ।
ऎतैरभिमतं यच्च तत्तन्नाम्नाऽभिधीयते ॥
चेतनाचेतनं त्वेतत् सर्वं क्षेत्रमितीरितम् ।
क्षितिरेतद्भगवतो यदतः क्षेत्रमीर्यते ॥
क्षिणोति त्राति चैवैतदतो वा क्षेत्रमुच्यते ।
क्षितिं कृत्वा त्राति चैतदतो वा क्षेत्रमीरितम् ॥
ऎतस्मात् क्षीणमेतेन त्रातमित्यथवा पुनः ।
इच्छाद्यानां क्षेत्रनाम्नामपि नामान्तरं स्मृतम् ॥
विकारा इति यस्मात्ते विशेषविकृतिस्थिताः ।
विशेषात् क्रियते यस्माद्विकारः कार्यमन्तिमम् ॥
विगतं करणं चात्र पुनर्नाशमृते यतः ।
तत्सम्बन्धाद्विकाराख्या इच्छाद्या अभिमानिनः ॥
ऎतत्सर्वं सर्वदैव निर्दोषेणैव चक्षुषा ।
प्रेरयन्नेव जानाति तत् क्षेत्रज्ञो हरिस्ततः ॥' इति च ।
// यदुक्तं हरिरेव सर्वजीवानां सदसद्योनिजन्मसु स्वतन्त्रकारणमिति तत्प्रपञ्च्यते -- `यावदिति' ॥ तत्र क्षेत्रज्ञस्य हरेः क्षेत्रसंयोगो नाम जडदेहसंयोग इत्यन्यथाप्रतीतिनिरासायाह -- क्षेत्रेति ॥ `यावत् सञ्जायते' इत्येतद्विवरणरूपे ``मम योनिः" इत्युत्तराध्यायगतवाक्ये लक्ष्मीनारायणसंयोगात् सर्वभूतसम्भवस्योक्तत्वात् अत्रापि क्षेत्रपदेन श्रीरेवोच्यत इति भावः । अव्यक्ततत्वे प्रसिद्धः क्षेत्रशब्दः श्रीवाचीत्येतत्कुत इत्यतः श्रियः क्षेत्रशब्दवाच्यत्वं, प्रसङ्गात् महाभूतानीत्याद्युक्ताहङ्कारादिशब्दानां च देवतावाचित्वं प्रमाणेन दर्शयति -- अव्यक्तमिति ॥ सरस्वत्यादीनामपि श्रीशब्दवाच्यत्वात् तद्व्यावृत्त्यर्थमाह-- सदेति ॥ किं जडाव्यक्ताभेदात् तच्छब्दवाच्येत्यत आह -- निर्दोषेति ॥ कथं तर्~हि अव्यक्तादिपदवाच्यत्वमित्यत आह -- सा हीति ॥ न व्यज्यत इत्यव्यक्तम् । विष्णुरस्यां निवसतीति क्षेत्रम् । महागुणेति महद्ब्रह्म, जीवोत्तमेति प्रधानमुच्यत इत्यर्थः । अत्र महतोऽनुक्तत्वेप्यादिकार्यत्वात् ग्राह्य ऎव । क्रियाः उद्दिश्य । उक्तं विवृणोति ॥ जीवेति ॥ शब्दादि बोधयतीति बुद्धिरित्यर्थः । तत्सुतोऽनिरुद्धोऽपि ॥ स्पर्शयतीति स्पर्शः । हृञX हरण इति धातोः रसाहरणहेतुत्वात् जिह्वेत्यर्थः । आघ्रातेर्गन्धाघ्राणहेतुत्वात् । वचनात् वचनप्रवर्तकत्वात् । हानिलाभयोर्निमित्तत्वात् । सन लाभ इति धातुः । क्वचिद्विष्णोः पाददेवत्वोक्तेः विष्णुनेत्युक्तम् । यज्ञशम्भू च न हरिहरावित्युक्तम् -- शचीति ॥ पदनात् गतिप्रवर्तकत्वात् । पद गताविति धातुः । निरावृत्त्या प्रतिबन्धाभावेन । वातीति वायुः । अदनादग्निः । प्रथनाद् विस्तृतत्वात् पृथिवी । जन्मलयहेतुत्वात् जलमित्यर्थः । पृथुविस्तार इति धातुः । उत्पत्तिलययोर्जलाधीनत्वदर्शनात् तन्नियामकदेवतायास्तत्सिद्धम् । शब्दनादित्यादेः शब्दादिप्रवर्तकत्वादित्यर्थः । मुख्यवायुः सुखनात् सुखमित्यादि द्रष्टव्यम् । सा श्रीरेव । ऎवं सरस्वतीवद्वायोः पत्नीविधृतेर्धृतिर्मतेत्यर्थः ।
श्रीरेवेच्छेत्युक्तम् । तदुपपादयति -- इच्छेति ॥ यद्यव्यक्तचेतनेच्छादिशब्दैः लक्ष्म्यादिदेवता उच्यन्ते तर्~हि क्वचिदव्यक्तमुक्त्वा पुनश्चेतनादिकं कथमुच्यत इत्यत आह -- स्थानेति ॥ अव्यक्तपदोक्त श्रियः चेतनादिपदेन पुनरुक्तिर्युक्ता । अभिमन्यमानस्थानभेदेन रूपभेदादित्यर्थः । ऎवं देवतान्तरेऽपि द्रष्टव्यम् । कथं तर्~हि जडपदार्थेष्वव्यक्तादिशब्दाः प्रवर्तन्त इत्यत आह -- ऎतैरिति ॥ अव्यक्तादिनामकदेवताभिमन्यमानत्वात् जडानामव्यक्तादिशब्दवाच्यत्वमिति भावः । क्षिणोति नाशयति । क्षितिं कृत्वा त्राति स्वनिवासनिमित्तेन रक्षति । क्षीणम् । अधमम् । विशेषविकृतिस्थिता इति । महदादिभ्योऽतिशयेन विकारितयाऽवस्थिता इत्यर्थः । घटादावप्येतदेव विकारशब्दप्रवृत्तिनिमित्तमित्याह -- विशेषादिति ॥ विगतमित्यादेः अत्रान्तिकमकार्ये नाशं विना कार्यान्तरोत्पादकत्वं नास्तीत्यर्थः । अभिमानिनामपीच्छादिशब्दवाच्यत्वात् कथं विकारित्वमित्यत आह -- तदिति ॥ सम्बन्धो नियम्यनियामकभावः ।
* ``यस्यात्मा शरीरम्" इत्यादि श्रुतेश्चेतनस्यापि `इदं शरीरं कौन्तेय' इति शरीरत्वोक्तिर्युज्यते ।
सत्त्वं जीवः क्वचित् प्रोक्तः क्वचित्सत्त्वं जनार्दनः ।
सत्त्वं नाम गुणः क्वापि क्वचित्साधुत्वमुच्यते ॥ इति शब्दनिर्णये । ``तयोरन्यः पिप्पलं स्वाद्वत्तीति सत्त्वम्" इति च पैङ्गिश्रुतिः । जनी प्रादुर्भाव इति धातोर्जीवस्यापि शरीरे व्यक्त्यपेक्षया जनिर्युज्यते ॥27॥
<लन्ग्=सन्>// यदुक्तं चेतनाचेतनं सर्वं क्षेत्रमिति, तदयुक्तम् । चेतनस्य `इदं शरीरं' इत्युक्तशरीरत्वानुपपत्तेः । हिंसाहेतुरित्यादिनिर्वचनस्य तत्रासम्भवादित्यत आह -- यस्येति ॥ चेतनस्य क्षेत्रत्वेऽपि न तस्योक्तशरीरत्वासम्भवः । `यस्यात्मा शरीरम्' इत्युक्तत्वात् । उक्त निरुक्त्यसम्भवेऽपि भगवत्तन्त्रत्वेन शरीरत्वोपपत्तेरिति भावः । `यावत्सञ्जायते किञ्चित् सत्त्वं' इत्यत्र सत्त्वशब्दो जीववाचीति `मम योनिः' इति वाक्यस्योदाहरणेनैव सूचितम् । तत्र सत्त्वशब्दस्य जीववाचित्वे प्रमाणमाह -- सत्त्वमिति ॥ तयोरन्य इति यदुच्यते स जीव इति वक्तव्ये सत्त्वमिति श्रुत्योच्यते । सत्त्वशब्देन जीवग्रहणे तस्यानादित्वात् सञ्जायत इत्युक्तजननं न युज्यत इत्यत आह -- जनी प्रादुर्भाव इति ॥27॥
((समं सर्वेषु भूतेषु तिष्ठन्ति परमेश्वरम् ।
विनश्यत्स्वविनश्यन्तं यः पश्यति स पश्यति ॥ 28 ॥
समं पश्यन्ति सर्वत्र समवस्थितमीश्वरम् ।
न हिनस्त्यात्मनाऽऽत्मानं ततो याति परां गतिम् ॥29॥
* जीवेषु दुःखयोगादिरूपेण विनश्यत्स्वप्यतथाभूतम् ।
`दुःखयोगादिरूपेण जीवेषु विनशत्स्वपि ।
दुःखयोगादिरहितः सर्वजीवेष्ववस्थितः ॥
गुणैः सर्वैः समो नित्यं न हीनो हीनगोऽपि सन् ।
इति पश्यति यो विष्णुं स ऎव न तमो व्रजेत् ॥" इति पाद्मे ॥28-29॥
// परमेश्वरस्य सर्वशरीरस्थत्वमुक्तम् । तर्~ह्यधिष्ठानतारतम्यात्तस्य तारतम्यं दुःखिसहावस्थानात् दुःखं च स्यादित्यत उच्यते -- `समं' इति । तत्र `विनश्यत्स्वविनश्यन्तम्' इत्ययुक्तम् । जीवानां विनाशाभावात् । नच तस्याचेतनविषयत्वम् । च शब्दाद्यभावादित्यत आह -- जीवेष्विति ॥ ऎवं विजानन्नेव ज्ञानीत्युक्तम् । तज्जञानफलमुच्यते `समं' इति । श्लोकद्वयं स्मृत्यैव व्याचष्टे -- दुःखेति ॥ न हिनस्तीत्यस्यार्थः `स ऎव' इति ॥28-29॥
((प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः ।
यः पश्यति तथाऽऽत्मानमकर्तारं स पश्यति ॥ 30 ॥
* प्रकृत्य स्वयमेव प्रारभ्य विष्णुना क्रियमाणानि । विष्णोर्नान्यः पूर्वप्रेरक इति । `पूर्वं तु बादरायणो हेतुव्यपदेशात्' इति भगवद्वचनात् । `द्रव्यं कर्म च कालश्च' इति च ।
`स्वयं प्रकृत्या भगवान् करोति निखिलं जगत् ।
नैव कर्ता हरेः कश्चिदकर्ता तेन केशवः ॥' इति च स्कान्दे । तेनेति प्रस्तुतत्वादेव सिद्धम् । `अहं सर्वस्य प्रभवः', `स हि कर्ता', `कर्तारमीशं पुरुषं ब्रह्मयोनिम्', `जन्माद्यस्य यतः', `मत्त एवेति तान् विद्धि' इत्यादि सकलप्रमाणविरोधश्चान्यथा । `प्रकृत्यैव च' इति चशब्दात्तेनैवेति सिद्ध्यति ।
``प्रकृतेन क्रियायोगं च शब्दः क्वचिदीरयेत् ।
क्वचित्समुच्चयं ब्रूयात् क्वचिद्दौर्लभ्यवाचकः ॥' इति शब्दनिर्णये । प्रकृतेः कर्तृत्वं `रचनानुपपत्तेश्च नानुमानम्' इत्यादि भगवद्वचनेन निरस्तम् । `न ऋते त्वत्क्रियते किञ्चनारे' इति च । केवलप्रकृतेः कर्तृत्वाङ्गीकारे चशब्दो व्यर्थः । ``तत ऎव च विस्तारं" इति वाक्यशेषविरोधश्च । `अहं बीजप्रदः पिता' इति वक्ष्यमाणमत्रापि क्षेत्रक्षेत्रज्ञसंयोगादिति प्रकृतमिति तेनापि विरोधः । अचेतनं करोतीति स्वोक्तिविरोधश्च । ``इच्छापूर्वं क्रियादानं कर्तृत्वं मुख्यमीरितम्" इति पैङ्गिश्रुतिः । विकारलक्षणं कर्तृत्वं तु प्रकृतेरङ्गीकृतमेव । तथापि लक्ष्मीपरमेश्वरमुक्तचेष्टासु तदभावात् सर्वश इत्यस्य सङ्कोचप्राप्तिः ।
`अचेतनाश्रितं कर्म विकारात्मकमीरितम् ।
यत्तु केवलचित्संस्थं प्रत्यभिज्ञाप्रमाणतः ।
अविकारात्मकं ज्ञेयं तन्न तत्प्राकृतं भवेत् ॥" इति च ॥30 ॥
// ईश्वरः सदसद्योनिजन्मसु कर्मानपेक्षयैव कारणं चेत्तर्~हि तस्य वैषम्यादि स्यात् । कर्मापेक्षायां स्वातन्त्र्यप्रच्युतिः । तथा तस्यापि जनकसद्भावाच्च न स्वातन्त्र्यमित्यत उच्यते -- `प्रकृत्य' इति । तत्र प्रकृतिरेव कत्रीं न परमात्मेत्यन्यथाप्रतीतिनिरासायाह -- प्रकृत्येति ॥ स्वयमेव प्रारभ्येति ॥ पूर्वकर्मादिकं स्वयमेव प्रबोध्येत्यर्थः । अभिप्रायं वक्ति -- विष्णोरिति ॥ कर्मसापेक्षत्वेऽपि न भगवतः स्वातन्त्र्यप्रच्युतिः । यावताऽसौ स्वयमेव पूर्वकर्मादिकमुद्बोध्य तदपेक्ष्येदानीं कर्माणि कारयति । न तु कर्मादिकं विष्णोरुद्बोधकमिति भावः । कुत ऎतदित्यत आह -- पूर्वमिति ॥ अस्तु कर्मादि हरिरुद्बोधयति, नतु तद्धरिमुद्बोधयतीति । तथापि हरेस्तदपेक्षयामपि नास्वातन्त्र्यमित्यतः कर्मादिसत्ताया अपि भगवदधीनत्वात् तदपेक्षायामपि नास्वातन्त्र्यमिति भावेन कर्मादिसत्ताया भगवदधीनत्वे प्रमाणमाह -- द्रव्यमिति ॥ कुत ऎवमर्थकल्पनेत्यत उक्तार्थे स्मृतिसमाख्यां दर्शयति -- स्वयमिति ॥ नन्वत्र ईश्वरेणेत्यश्रवणात् कथमयमर्थः स्यादित्यत आह -- तेनेति ॥ `समं पश्यन् हि सर्वत्र समवस्थितमीश्वरम्' इति ईश्वरस्य प्रस्तुतत्वात् तेनेश्वरेणेत्यनुक्तेऽपि सिद्ध्यतीत्यर्थः । किमनया कल्पनया ? प्रकृतेरेव कर्तृत्वं नेश्वरस्येत्येवार्थः किं न स्यादित्यत उदाहृतः स्मृतिविरोधस्तावत् वाक्यान्तरविरोधं च दर्शयति -- अहमिति ॥ तेनेश्वरेणेत्यत्र सूचितं चेत्याह -- प्रकृत्येति ॥ चशब्देन कथमेतत्सिद्ध्यतीत्यत आह -- प्रकृतेति ॥ उच्यमानक्रियायाः प्रकृतकर्तृत्वमीरयेदित्यर्थः ।
ईश्वरस्य कर्तृत्वाभिधायकवचनविरोधान्नार्थान्तरकल्पना युक्तेत्युक्तम् । प्रकृतेः कर्तृत्वस्य श्रुत्यादि विरुद्धत्वाच्च नासौ युक्तेत्याह -- प्रकृतेरिति ॥ त्वदृते दूरेऽपि किञ्चन केनापि न क्रियत इत्यर्थः । इतश्च नार्थान्तरकल्पना युक्तेत्याह -- केवलेति ॥ ईश्वरसमुच्चयार्थश्चशब्द इत्यतः केवलेत्युक्तम् । आत्मानमकर्तामित्यत्र परेणेश्वरस्याकर्तृत्वाङ्गीकारात् न तत्समुच्चयार्थश्चशब्द इति भावः । इतश्च नेश्वरस्याकर्तृत्वमेतदर्थ इत्याह -- तत एवेति ॥ इतोऽपि नार्थान्तरकल्पना युक्तेत्याह -- अहमिति ॥ अत्र यावत्सञ्जायत इतीश्वरस्य सर्वकर्तृत्वं प्रकृतमिति तेनापीश्वराकर्तृत्वव्याख्यानं विरुद्धम् । न च वाच्यं पूर्ववाक्येऽपि प्रकृतेरेव कर्तृत्वं क्षेत्रज्ञस्य तत्संयोगात् कर्तृत्वोपचार इति । मम योनिर्महद्ब्रह्मेत्यादिना उत्तराध्यायेऽन्यथैतद्वाक्यार्थस्य वक्ष्यमाणत्वादित्यर्थः । इतोऽपि न प्रकृतेरेव कर्तृत्वमिति अस्यार्थ इत्याह -- अचेतनमिति ॥ कथं स्वोक्तिविरोध इत्यत आह -- इच्छेति ॥ इच्छापूर्वक्रियास्वीकारो हि कर्तृत्वम् । तथा श्रुतेः । अचेतनं नामेच्छारहितम् । अतोऽचेतनं च करोति चेति व्याहतिरिति भावः । ननु प्रकृतेः स्वतन्त्रकर्तृत्वाभावेऽपि परिणामरूपं कर्तृत्वमङ्गीक्रीयत ऎव सिद्धान्तिनाऽपि । अतस्तदर्थोऽयं श्लोकः किं न स्यादित्यत आह -- विकारेति ॥ यद्यपि प्रकृतेः परिणामरूपं कर्तृत्वमङ्गीकृतं, तथापि न तदर्थोऽयं श्लोकः । अत्र सर्वकर्मणां प्रकृत्यैव क्रियमाणत्वोक्तेः । ऎतदर्थत्वे च परमेश्वरादिकर्मसु प्रकृतिविकारत्वाभावात् सर्वश इति पदस्यार्थसङ्कोचप्राप्तेरित्यर्थः । परमेश्वरादिकर्मणः प्रकृतिविकारत्वाभावः कुत इत्यत आह -- अचेतनेति ॥30 ॥
((यदा भूतपृथग्भावमेकस्थमनुपश्यति ।
तत ऎव च विस्तारं ब्रह्म सम्पद्यते तदा ॥ 31 ॥
* ऎकविष्ण्वाश्रितानां तु जीवानां भेदमेव यः ।
ततः परस्परं चैव तारतम्येन पश्यति ।
विष्णोरेव च विस्तारं जगतः स विमुच्यते ॥' इति च ॥31॥
// न केवलं भगवतः सर्वप्रेरकत्वादिज्ञानमात्रेणालम् । किन्तु तस्य सर्वाधारत्वाद्यपि ज्ञातव्यमित्युच्यते -- यदा इति । तत् तिरोहितार्थत्वात् प्रमाणवाक्येनैव व्याचष्टे -- एकेति ॥ भूतपृथग्भावस्य परमात्मस्थत्वोक्त्या पृथग्भूतानां तत्स्थत्वमभिप्रेतम् । तदेवात्रोक्तम् ॥31 ॥
((अनादित्वान्निर्गुणत्वात् परमात्माऽयमव्ययः ।
शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते ॥ 32 ॥
यथा सर्वगतं सौक्ष्म्यादाकाशं नोपलिप्यते ।
सर्वत्रावस्थितो देहे तथाऽऽत्मा नोपलिप्यते ॥ 33 ॥
यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः ।
क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत ॥ 34 ॥
* शरीरस्थो जीवः । `स्वप्नेन शरीरमभिप्रहृत्यासुप्तः सुप्तानभिचाकशीति' इति श्रुतेः ।
``शरीरस्थस्तु संसारी शरीराभिमतेर्मतः ।
विष्णुः शरीरगोऽप्येष न शरीरस्थ उच्यते ॥
शरीराभिमतिर्यस्मान्नैवास्यास्ति कदाचन ।
तद्गतानां तु दुःखानां भोगोऽभिमतिरुच्यते ।
तदभावान्नाभिमानी भगवान् पुरुषोत्तमः ॥ इति च । अनादित्वान्निर्गुणत्वात् परमात्मा जीवोऽपि न, किमुत जडं न भवतीति । शरीरोत्पत्तिलक्षणमप्यादिमत्त्वं परस्य नास्तीति विशेषः । जीवस्य हि तदस्तीति । सत्त्वादि गुणसम्बन्धश्च । सर्वं करोति परमात्मा तथापि न लिप्यते । वादिप्रसिद्धत्वादेव ``इष्टापूर्तं मन्यमाना वरिष्ठं" इत्यादिवन्निषेधः ।
कुर्वाणोऽपि यतः सर्वं पुण्यपापैर्न लिप्यते ।
जन्ममृत्यादिरहितः सत्त्वादि गुणवर्जितः ।
विष्णुस्तद्विपरीतस्तु जीवोऽतस्तौ पृथक् सदा ॥" इति च । ``स एष नेति नेति' इत्यादि च ॥32-34॥
// सर्वचेतनाचेतनात्मकत्वात् परमात्मनः कथं भूतानां ततः पृथग्भाव इत्यत उच्यते -- ``अनादित्वात्" इति । तत्र परमात्मनोऽकर्तृत्वप्रतीतिं च निराकर्तुं शरीरस्थपदं व्याख्याति -- शरीरस्थ इति ॥ शरीरस्थशब्दस्य कुतो जीववाचित्वमित्यतः तत्प्रयोगं दर्शयति -- स्वप्नेनेति ॥ ननु जीववदीश्वरस्यापि शरीरस्थितेः जीवस्यैव तत्पदवाच्यत्वं कुत इत्यत आह -- शरीरस्थ इति ॥ विष्णोरपि मयेदं सृष्टं, मदधीनमित्यभिमानोऽस्त्येव । अतः कथं तदनभिमान इत्यत आह -- तद्गतानामिति ॥ शरीरस्थपदं जीववाचकं चेत् कथं योजनेत्यत आह -- अनादित्वादिति ॥ इति वाच्यमिति शेषः । जीवस्याप्यनादित्वात् किं विशिष्येश्वरस्यैव तदुच्यते, येनास्य जीवाभेदनिवारणे हेतुत्वं स्यादित्यत आहह -- शरीरेति ॥ ऎवम्भूतादिमत्त्वाभावेऽपि कथं परमात्मनो जीवाद्विशेष इत्यत आह -- जीवस्येति ॥ इतिशब्दो हेतौ । ननु निर्गुणत्वं कथमीश्वरस्य जीवभेदे हेतुर्भवति ? जगत्कर्तृत्वादिगुणानाम् ईश्वरे भावेन हेतोरसिद्धेरित्यत आह -- सत्त्वेति ॥ नात्र गुणपदेन जगत्कर्तृत्वादयो विवक्षिताः । किन्तु सत्त्वादय ऎव । तत्सम्बन्धेश्वरे नास्ति, जीवेऽस्तीति भवति हेतुरिति भावः । करोति न लिप्यत इति जीवेश्वरभेदे हेत्वन्तरम् । तद्व्याचष्टे -- सर्वमिति ॥ जीवो न करोति लिप्यत एवेति द्रष्टव्यम् । लेपश्च तत्फलेन । नन्वत्र जीवाद्यभेदस्याप्राप्तत्वात्कथं निषेधोयुक्त इत्यत आह-- वादीति ॥ यथा शून्यवादिसिद्धत्वात् शून्यकारणत्वस्य `तद्धैक आहुः" इत्यादिना निषेधः क्रियते तथा सर्वाद्वैतवादिप्राप्तत्वात् अद्वैतनिषेधो युज्यते । यथा च ज्ञानद्वारा मोक्षार्थं कर्मभिरीश्वर एवाराध्य इति कर्मश्रुत्यभिप्रायापरिज्ञानप्राप्तस्य केवलकर्मणैव स्वर्गादि पुरुषार्थलाभो भवतीत्यस्य `इष्टापूर्तं' इत्यादिना निषेधः क्रियते तथा भगवता सर्वं व्याप्तमिति `सर्वं खल्विदं ब्रह्म' इत्यादिश्रुत्यभिप्रायापरिज्ञानप्राप्तस्याद्वैतस्य निषेधो युक्त इति भावः । प्रातीतिक एवार्थः किं न स्यादित्यत उक्तार्थे वाक्यान्तरसम्मतिमाह -- कुर्वाण इति ॥ मृत्यादिरहितः इत्यनेनाव्ययपदं व्याख्यातं भवति । ईश्वरस्य चेतनाचेतनभिन्नत्वे श्रुतिसम्मतिं चाह -- स एष इति ॥32-34॥
((क्षेत्रक्षेत्रज्ञयोरेवमन्तरं ज्ञानचक्षुषा ।
भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परम् ॥ 35 ॥
॥ ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे क्षेत्रक्षेत्रज्ञयोगो नाम त्रयोदशोऽध्यायः ॥ 13 ॥
* जीवानामचेतनप्रकृतेर्मोक्षं भूतप्रकृतिमोक्षम् ॥35॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीतातात्पर्यनिर्णये त्रयोदशोऽध्यायः ॥13॥
// अध्यायार्थ उपसंह्रियते -- क्षेत्रेति ॥ तत्र भूतप्रकृतिमोक्षपदं तिरोहितार्थत्वात् व्याचष्टे -- जीवानामिति ॥ मोक्षं मोक्षसाधनममानित्वमित्याद्युक्तम् ॥ 35॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्य श्रीमद्भगवद्गीतातात्पर्यनिर्णयस्य टीकायां जयतीर्थमुनिविरचितायां न्यायदीपिकायां त्रयोदशोऽध्यायः ॥13॥
॥श्रीवादिराजगुर्वन्तर्गतश्रीमध्वेशाभिन्न अश्विनीहयग्रीवात्मकश्रीकृष्णार्पणमस्तु ॥
***********************************************************************************************
॥श्रीगुरुभ्योनमः ॥
श्रीवादिराजगुर्वन्तर्गत श्रीमध्वेशाभिन्नश्रीलक्ष्मीहयग्रीवाय नमः ॥
॥ अथ चतुर्दशोऽध्यायः ॥
परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम् ।
यज्जञात्वा मुनयः सर्वे परां सिद्धिमितो गताः ॥ 1 ॥
इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः ।
सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च ॥
मम योनिर्महद्ब्रह्म तस्मिन् गर्भं दधाम्यहम् ।
सम्भवः सर्वभूतानां ततो भवति भारत ॥ 3 ॥
सर्वयोनिषु कौन्तेय मूर्तयः सम्भवन्ति याः ।
तासां ब्रह्म महद् योनिरहं बीजप्रदः पिता ॥ 4 ॥
सत्त्वं रजस्तम इति गुणाः प्रकृतिसम्भवाः ।
निबध्नन्ति महाबाहो देहे देहिनमव्ययम् ॥ 5 ॥
तत्र सत्त्वं निर्मलत्वात् प्रकाशकमनामयम् ।
सुखसङ्घेन बध्नाति ज्ञानसङ्गेन चानघ ॥ 6 ॥
रजो रागात्मकं विद्धि तृष्णासङ्गसमुद्भवम् ।
तन्निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम् ॥ 7 ॥
तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम् ॥
प्रमादालस्यनिद्राभिस्तन्निबध्नाति भारत ॥ 8 ॥
सत्त्वं सुखे सञ्जयति रजः कर्मणि भारत ।
ज्ञानमावृत्य तु तमः प्रमादे सञ्जयत्युत ॥ 9 ॥
रजस्तमश्चाभिभूय सत्त्वं भवति भारत ।
रजः सत्त्वं तमश्बैव तमः सत्त्वं रजस्तथा ॥ 10 ॥
सर्वद्वारेषु देहेऽस्मिन् प्रकाश उपजायते ।
ज्ञानं यदा तदा विद्यात् विवृद्धं सत्त्वमित्युत ॥ 11 ॥
लोभः प्रवृत्तिरारम्भः कर्मणामशमः स्पृहा ।
रजस्येतानि जायन्ते विवृद्धे भरतर्षभ ॥ 12 ॥
अप्रकाशोऽप्रवृत्तिश्च प्रमादो मोह ऎव च ।
तमस्येतानि जायन्ते विवृद्धे कुरुनन्दन ॥ 13 ॥
यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देहभृत् ।
तदोत्तमविदां लोकानमलान् प्रतिपद्यते ॥ 14 ॥
रजसि प्रलयं गत्वा कर्मसङ्गिषु जायते ।
तथा प्रलीनस्तमसि मूढयोनिषु जायते ॥ 15 ॥
* ॥ हरिः ॐ ॥क्षेत्रक्षेत्रज्ञसंयोगस्पष्टीकरणपूर्वकं त्रैगुण्यं विविच्य दर्शयति ॥1-2॥
``योनिर्भार्या तथा स्थानं योनिः कारणमेव च ।" इति शब्दनिर्णये । अत्र योनिर्भार्या । `तस्मिन् गर्भं दधाम्यहम्' इति वाक्यशेषात् ॥3-15 ॥
// ऎतदध्यायप्रतिपाद्यमर्थं दर्शयति -- क्षेत्रेति ॥ प्राधान्येनोत्तराध्यायैः साधनमेवोच्यते । तत्र बन्धप्रकारपरिज्ञान ऎव तन्मोक्षसाधनानुष्ठानं युज्यते । बन्धश्च त्रिगुणात्मकः । अतो ``यावत्सञ्जायते" इत्युक्तविवरणपूर्वकं त्रिगुणविकारस्थितिं तदत्ययोपायं च दर्शयत्यनेनाध्यायेनेति भावः । ``कार्यते ह्यवशः कर्म" इत्यादौ त्रैगुण्यस्य सङ्क्षेपेणोक्तत्वात् विविच्येत्युक्तम् ।
`परं भूयः प्रवक्ष्यामि' इति प्रतिज्ञातमुच्यते `मम योनिः' इति । तत्र योनिशब्दस्य कारणार्थत्वप्रतीतिनिरासाय भार्याद्यर्थत्वे प्रमाणमाह-- योनिरिति ॥ स्थानं गुह्यस्थानम् । अस्त्वेवं योनिशब्दो भार्याद्यनेकार्थः । प्रकृतः किमर्थ इत्यत आह -- अत्रेति ॥ योनिशब्दस्यानेकार्थत्वात् कथमयमेवार्थ इत्यत आह -- तस्मिन्निति ॥3॥
((कर्मणः सुकृतस्याहुः सात्त्विकं निर्मलं फलम् ।
रजसस्तु फलं दुःखमज्ञानं तमसः फलम् ॥ 16 ॥
सत्त्वात् सञ्जायते ज्ञानं रजसो लोभ ऎव च ।
प्रमादमोहौ तमसो भवतोऽज्ञानमेव च ॥ 17 ॥
ऊर्ध्वं तच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः ।
जघन्यगुणवृत्तिस्था अधो गच्छन्ति तामसाः ॥ 18 ॥
नान्यं गुणेभ्यः कर्तारं यदा द्रष्टाऽनुपश्यति ।
गुणेभ्यश्च परं वेत्ति मद्भावं सोऽधिगच्छति ॥ 19 ॥
* एतेभ्यः सत्त्वादिगुणेभ्योऽन्यं कर्तारमीशं यदा पश्यति तदैवायं ना पुरुषः अन्यथा पशुसमः । न केवलमन्यत्वेन पश्यन् ना तं कर्तारं विष्णुम् । किन्तु गुणेभ्य उत्तमत्वेन च । कथं स ऎव ना । यस्मात् मद्भावं सोऽधिगच्छति ।
``महालक्ष्मीरिति परा भार्या नारायणस्य या ।
प्रकृतिर्नाम सा ज्ञेया प्रकर्षेण करोति यत् ॥
तस्यास्तु त्रीणि रूपाणि सत्त्वं नाम रजस्तमः ।
सृष्टिकाले विभज्यन्ते सत्त्वं श्रीः सद्गुणप्रभा ॥
रजो रञ्जनकर्तृत्वात् भूः सा सृष्टिकारी यतः ।
यदावेशादियं पृथ्वी भूमिरित्येव कथ्यते ॥
जीवानां ग्लपनाद्दुर्गा तम इत्येव कीर्तिता ।
एताभिस्तिसृभिर्जीवाः सर्वे बद्धा अमुक्तिगाः ॥
सर्वान् बध्नन्ति सर्वाश्च तथाऽपि तु विशेषतःः ।
श्रीर्देवबन्धिका नरूणां भूर्दैत्यानां तथा परा ॥
एताभ्योऽन्यं परं चैव विष्णुं ज्ञात्वा विमुच्यते ।
सामर्थ्यातिशयादासां नैताभ्यो विद्यते परः ॥
इति यावद्विजानाति तावत्तं नृपशुं विदुः ।
तस्मादाभ्योऽधिकगुणो विष्णुर्ज्ञेयः सदैव च ॥' इति महाविष्णुपुराणे ॥16-19 ॥
// त्रैगुण्ये विविच्योक्ते सति तर्~हि गुणा ऎव सर्वोत्तमाः, न तु ततोऽन्यः सर्वोत्तम इति शङ्का स्यात् । सा निराक्रियते -- नान्यमिति ॥ अत्र गुणानामेव कर्तृत्वं, नेश्वरस्येत्यन्यथाप्रतीतिनिरासायाह -- एतेभ्य इति ॥ अज्ञस्यापि पुरुषत्वात् को विशेषो ज्ञानिन इत्यत आह -- अन्यथेति ॥ ऎवं योजनायां ``मद्भावं सोऽधिगच्छति" इति व्यर्थं स्यात् । वाक्यस्य तद्विनैव समाप्तत्वादित्यतः तत्सार्थक्यं दर्शयति -- कथमिति ॥ भगवति भावप्राप्तियोग्यस्यैव पुरुषत्वं `पुरुषत्वे वा विस्तरादात्मा' इत्यादि श्रुतिसिद्धम् । प्रतीत एवार्थः किं न स्यादित्यतो `मम योनिः' इत्यादि स्मृत्यैव व्याचष्टे -- महालक्ष्मीरिति ॥ परा षड्भ्योऽधिका । सद्गुणत्वात् सत्, त्विष दीप्ताविति धातोः प्रभारूपत्वात् त्वमिति सत्त्वमित्यर्थः । सृष्ट्या हि रञ्जनं भवति । किमियं प्रसिद्धा पृथिवीदेवताऽसावित्यत आह -- यदिति ॥ तमु ग्लपन इति धातुः । ग्लपनं संसारेण ग्लानिदानम् । अमुक्तिगा इत्यनेन ``देहे देहिनं" इत्यस्यार्थ उक्तो भवति । केषां का बन्धिकेत्यत आह -- सर्वानिति ॥ अनेन तत्र सत्त्वमित्यादिना तारतम्येनोक्तबन्धत्रैविध्यस्य विषयः प्रदर्शितो भवति । ऎवमेतासां सर्वबन्धकत्वेनाति सामर्थ्यात् सर्वोत्तमत्वमिति न मन्तव्यमित्याह -- एताभ्य इति ॥ विष्णुं सर्वोत्तमत्वेन जानन्नेव यतो विमुच्यतेऽतः स ऎव पुरुषः । अतो नैताभ्यो विद्यते परः इति जानन् नृपशुरित्यर्थः ॥16-19॥
((गुणानेतानतीत्य त्रीन्देही देहसमुद्भवान् ।
जन्ममृत्युजरादुःखैर्विमुक्तोऽमृतमश्नुते ॥ 20 ॥
अर्जुन उवाच --
केर्लिङ्गैस्त्रीन् गुणानेतानतीतो भवति प्रभो ।
किमाचारः कथं चैतांस्त्रीन् गुणानतिवर्तते ॥ 21 ॥
*रजसस्तु फलं दुःखमित्यत्र दुःखमिति दुःखमिश्रं सुखम् ।
`दुःखं दुरिति सम्प्रोक्तं खं नाम सुखमुच्यते' इति शब्दनिर्णये ।
`कर्मणो राजसस्योक्तं दुःखमिश्रं सुखं फलम् ।
अज्ञानजं तामसस्य नित्यदुःखं फलं विदुः ॥" इति स्कान्दे ॥20-21॥
// `रजसस्तु फलं दुःखम्" इत्यत्र दुःखशब्दः केवलदुःखार्थ इत्यन्यथाप्रतीतिनिरासायाह -- रजस इति ॥ दुःखशब्दः कथं दुःखमिश्रसुखवाचीत्यत आह -- दुःखमिति ॥ अत्र केवलदुःखवाची किं न स्यादित्यतो रजसो मिश्रफलत्वे स्मृतिमाह -- कर्मण इति ॥ अज्ञानमित्यनेन अज्ञानमिति व्याख्यातं भवति । तेन केवलदुःखस्य तमः फलत्वोक्तिश्चार्थान्तरे बाधिकेति सूचितं भवति ॥20-21॥
((श्रीभगवानुवाच--
प्रकाशं च प्रवृत्तिं च मोहमेव च पाण्डव ।
न द्वेष्टि सम्प्रवृत्तानि न निवृत्तानि काङ्क्षति ॥ 22 ॥
* लोकस्थितान् प्रकाशादीन् प्रायो न द्वेष्टि नेच्छति ।
``स्वयम्प्रकाशी मोहोज्झस्तथापि पुनरिच्छति ।
विष्णोः प्रकाशं तं चापि नित्यभक्त्याऽभिसेवते ॥
सुखदुःखादिभावेऽपि विष्णुभक्तौ समः सदा ।
अथार्थं वा प्रियार्थं वा निन्दादीनां भयादपि ॥
न विष्णुभक्तिह्रासोऽस्य किन्तु साम्यमथोन्नतिः ।
अवैष्णवारम्भवर्जी विष्णुं याति न संशयः ॥' इति च ॥22॥
// गुणात्ययोपायादिप्रश्नस्य परिहार उच्यते `प्रकाशं' इति । तत्र स्वस्मिन् प्रकाशं नेच्छति, स्वगतमोहं न द्वेष्टि, दुःखादि साम्यं च स्पृहाद्यभावमात्रं, सर्वारम्भपरित्यागश्च सर्वत्रोदासीनत्वमित्यन्यथाप्रतीतिनिरासाय प्रमाणान्तरेण तद्व्याचष्टे -- लोकेति ॥ पुरुषान्तरे स्थितं प्रकाशादि साधु न द्वेष्टि । तत्र मोहाद्यसाधु नेच्छतीत्यर्थः । स्वस्य प्राप्तप्रकाशत्वात् मोहोज्झितत्वात् स्वस्मिन्नेव तदिच्छाद्यभावः किं न स्यादित्यत आह -- स्वयमिति ॥ मोहं द्वेष्टि चेति द्रष्टव्यम् । तं चापीत्यनेन मां चेत्युक्तार्थं भवति । सुखदुःखादीत्यस्य विष्णुभक्तिपरित्यागे सुखस्य, अन्यथा दुःखस्य भावेऽपीत्यर्थः । अर्थार्थमित्यादिना समलोष्ठेत्याद्युक्तार्थं भवति । अवैष्णवेत्यनेन सर्वारम्भेत्युक्तार्थं भवति । विष्णुं यातीत्यनेन सगुणानित्यादेः तात्पर्यमुक्तं भवति ॥22॥
((उदासीनवदासीनो गुणैर्यो न विचाल्यते ।
गुणा वर्तन्त इत्येव योऽवतिष्ठति नेङ्गते ॥ 23 ॥
समदुःखसुख स्वस्थः समलोष्टाश्मकाञ्चनः ।
तुल्यप्रियाप्रियो धीरस्तुल्यनिन्दात्मसंस्तुतिः ॥ 24 ॥
मानापमानयोस्तुल्यस्तुल्यो मित्रारिपक्षयोः ।
सर्वारम्भपरित्यागी गुणातीतः स उच्यते ॥ 25 ॥
* उदासीनवदित्युक्तेश्च न केवलोदासीनत्वम् । नेङ्गत इत्युदासीनप्रवृत्तिनिषेधः । सर्वारम्भपरित्यागीति विशेषप्रयोजनापेक्षयाऽपि नावैष्णवारम्भ इति ।
`इङ्गनं क्षणिकं कर्म दीर्घमारभ्य उच्यते ' इति शब्दनिर्णये ॥23-25॥
// इतश्च सर्वारम्भपरित्यागीति न केवलोदासीनत्वमुच्यते । उदासीनवदिति पूर्ववाक्ये केवलोदासीनत्वाभावस्योक्तेः । अन्यथोदासीन एवेत्युक्तिप्रसङ्गादित्याह -- उदासीनवदिति ॥ नेङ्गत इति पूर्ववाक्ये कर्माभावस्योक्तत्वात् कथं केवलोदासीनत्वाभाव इत्यत आह -- नेङ्गत इति ॥ नेङ्गत इति न सर्वप्रवृत्तिनिषेधः, किन्तु भगवदुदासीनप्रवृत्तिनिषेध एवेत्यर्थः । तर्~हि नेङ्गत इत्यनेनैव अवैष्णवकर्माकरणस्योक्तत्वात् सर्वारम्भपरित्यागीति पुनरुक्तिरित्यत आह -- सर्वेति ॥ इति वक्तीति शेषः । नेङ्गत इति सामान्योक्तिरिति द्रष्टव्यम् । नेङ्गत इत्यल्पावैष्णवप्रवृत्त्यभाव उच्यते । सर्वारम्भपरित्यागीति दीर्घावैष्णवप्रवृत्त्यभाव उच्यत इत्यतश्च न पुनरुक्तिरिति भावेन इङ्गनारम्भशब्दयोः अल्पमहत्कर्मार्थत्वे प्रमाणमाह -- इङ्गनमिति ॥23-25॥
((मां च योऽव्यभिचारेण भक्तियोगेन सेवते ।
स गुणान् समतीत्यैतान् ब्रह्मभूयाय कल्पते ॥ 26 ॥
ब्रह्मणो हि प्रतिष्ठाऽहममृतस्याव्ययस्य च ।
शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च ॥ 27 ॥
ॐ तत्सदिति श्रीमद्भवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे गुणत्रयविभक्तियोगोनाम चतुर्दशोऽध्यायः ॥ 14 ॥
* ``लक्ष्म्यादिभिः कृतो बन्धो योऽनादिः पुरुषस्य तु ।
तमत्येतीह यो विद्वान् स विज्ञेयो गुणात्ययी ॥" इति च प्रवृत्ते । तत्कृतबन्धात्ययात् तदधिकविष्णुप्राप्तेश्च तदत्ययीत्युच्यते । यथा द्वारपालमतीत्य राजानं गच्छतीति ।
ब्रह्मणि भूयं ब्रह्मभूयम् । ब्रह्मेति प्रकृता महालक्ष्मीः ।
`अतीत्य त्रीणि रूपाणि महालक्ष्मीं प्रपद्यते ।
तया त्वनुगृहीतोऽसौ वैष्णवो विष्णुगो भवेत् ॥' इति च ।
ब्रह्मप्राप्तो मत्प्राप्त ऎव भवतीत्याह -- ब्रह्मणो हीति ॥
मदवियोगात् तस्या अपि मत्स्थ ऎव भवतीत्यर्थः । तथापि मत्प्राप्तिक्रमविवक्षया तदुक्तिः । एकान्तिकस्य सुखस्य मोक्षस्य ॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीतातात्पर्यनिर्णये चतुर्दशोऽध्यायः ॥14॥
// ननु गुणशब्देन श्र्यादीनां विवक्षितत्वात् `सगुणान् समतीत्यैतान्' इति तदत्ययः कथमुच्यते । अशक्यत्वादित्यत आह -- लक्ष्म्यादिभिरिति ॥ लक्ष्मीति श्रीरुच्यते । स्मृत्युक्तार्थानुवादेन अर्थान्तरं चाह -- तदिति ॥ उभयत्र प्रयोगं दर्शति -- यथेति ॥ यथा द्वारपालकृतबन्धात्ययेन गच्छन् द्वारपालमतीत्य गच्छतीत्युच्यते, यथा च यो राजानं गच्छति स द्वारपालमतीत्य गच्छतीत्युच्यते तथैवेत्यर्थः । `ब्रह्मभूयाय' इत्यस्य ब्रह्मभावायेत्यन्यथाप्रतीतिनिरासायार्थमाह-- ब्रह्मणीति ॥ अत्र ब्रह्मेति भगवानित्यन्यथाप्रतीतिनिरासायार्थमाह -- ब्रह्मेति ॥ ``मम योनिर्महद्ब्रह्म' इति महालक्ष्म्या ऎव ब्रह्मशब्देन प्रकृतत्वात् अत्रापि सैवोच्यत इत्यर्थः । प्रमाणान्तरसमाख्यानेनाप्येतत् साधयति -- अतीत्येति ॥ गुणातीतस्य भगवत्प्राप्त्याद्येव वक्तव्यं, लक्ष्मीप्राप्तिः किमर्थमुच्यत इत्याशङ्कापरिहारत्वेन श्लोकमवतारयति -- ब्रह्म प्राप्त इति ॥ लक्ष्मीर्भगवन्तमाश्रित्यैव वर्तत इत्येवात्रोच्यते । न तु लक्ष्मीप्राप्त्या भगवत्प्राप्तिः । येन तदुक्तिः सङ्गता स्यादित्यतोऽभिप्रायमाह -- मदिति ॥ तत्स्थत्व इति शेषः । लक्ष्मीनारायणयोरवियोगश्चेत् गुणातीतो मामाप्नोतीत्येव वक्तव्यम् । किं परम्परोक्त्येत्यत आह -- तथापीति ॥ यद्यपि तयोरवियोगस्तथापि लक्ष्मीसमीपं प्राप्य तदनुज्ञया भगतवत्प्राप्तिर्भवतीति परम्परोक्तिर्युक्तेत्यर्थः । `सुखस्यैकान्तिकस्य' इति तिरोहितार्थत्वाद्व्याचष्टे -- एकान्तिकस्येति ॥ ऎकमेवास्मादधिकमिति गणनेऽन्ते स्थितमेकान्तिकम् । तत्तु मोक्ष एवेति भावः ॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्य श्रीमद्भगवद्गीतातात्पर्यनिर्णयस्य टीकायां जयतीर्थमुनिविरचितायां न्यायदीपिकायां चतुर्दशोऽध्यायः ॥14॥
॥ श्रीवादिराजगुर्वन्तर्गत मध्वेशाभिन्न अश्विनीहयग्रीवात्मककृष्णार्पणमस्तु ॥
*********************************************************************
॥श्रीगुरुभ्योनमः ॥
श्रीवादिराजगुर्वन्तर्गत श्रीमध्वेशाभिन्नश्रीलक्ष्मीहयग्रीवाय नमः ॥
॥ अथ पञ्चदशोऽध्यायः ॥
श्रीभगवानुवाच--
ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम् ।
छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् ॥ 1 ॥
अधश्चोर्ध्वं प्रसृतास्तस्य शाखा गुणप्रवृद्धा विषयप्रवालाः ।
अधश्च मूलान्यनुसन्ततानि कर्मानुबन्धीनि मनुष्यलोके ॥ 2 ॥
न रूपमस्येह तथोपलभ्यते नान्तो न चादिर्न च सम्प्रतिष्ठा ।
अश्वत्थमेनं सुविरूढमूलमसङ्गशस्त्रेण दृढेन छित्त्वा ॥ 3 ॥
ततः परं तत्परिमार्गितव्यं यस्मिन् गता न निवर्तन्ति भूयः ।
तमेव चाद्यं पुरुषं प्रपद्ये यतः प्रवृत्तिः प्रसूता पुराणी ॥4 ॥
* ॥हरिः ॐ ॥ त्रयोदशाध्यायोक्तं विविच्य दर्शयति ।
``पृथ~घX मूलं हरिस्तस्य जगद्वृक्षस्य भूमिवत् ।
सत्त्वादियुक्ते चिदचित्प्रकृती मूलभागवत् ॥
अत्रापि चिदचिद्योगो वृक्षवत्सम्प्रकीर्तितः ।
पृथिवीदेवतावत्तद्धरिर्मृद्वदचेतना ॥
उत्तमत्त्वात्तु मूलानामूर्ध्वमूलस्त्वयं स्मृतः ।
नीचास्ततो महदहम्बुद्धयो भूतसंयुताः ॥
शाखाश्चन्दांसि पर्णानि काममोक्षफले ह्यतः ॥1॥
कारणेषु स्थितं कार्यं व्याप्तं कार्येषु कारणम् ।
अन्योन्यसन्तताः शाखा मूलानि च सदैव तु ।
विषया दर्शनीयत्वात् प्रवालसदृशा मताः ॥2॥
जगद्वृक्षोऽयमश्वत्थो ह्यश्ववच्चञ्चलात्मकः ।
अव्ययोऽयं प्रवाहेण स्वसक्तिज्ञानहेतिना ॥
विष्णोः सम्यक् पृथग्दृष्टिनामच्छेदनभाक् सदा ।
अव्यक्तादिसमस्तं तु नेति नेत्यादिवाक्यतः ॥
बोधेनैव पृथग्विष्णोः कृत्वा मृग्यः स केशवः ।
तमेवाद्यं प्रपद्येत यदंशाभासको ह्ययम् ॥
जीवराशिः समस्तोऽपि ब्रह्मरुद्रेन्द्रपूर्वकः ॥3-4॥
// ऎतदध्याय प्रतिपाद्यं दर्शयति -- त्रयोदशेति ॥ यत् त्रयोदशाध्याये जगत्स्वरूपं वर्णितं तदस्मिन् अध्याये विविच्य दर्शयति । तस्यैव संसाररूपत्वात् । संसारं जिहासता तत्स्वरूपस्य ज्ञातव्यत्वात् । यश्च तत्र संसारात्ययोपायो निरूपितस्तं चात्र दर्शयतीत्यर्थः । तत्राप्रतिपत्त्यन्यथाप्रतिपत्तिनिरासाय श्रुत्यैवाध्यायो व्याख्यायते -- पृथगिति ॥ तत्रोर्ध्वमूलमित्यस्यार्थः-- पृथगिति ॥ जगद्वृक्षस्य हरिर्मूलं चेत्तर्~हि तस्य जगदेकदेशत्वं स्यादित्यतः पृथगित्युक्तम् । यथा प्रसिद्धस्य वृक्षस्य भूमिरतदेकदेशत्वेन मूलं तथैवेत्यर्थः । प्रकारान्तरेणोर्ध्वमूलत्वं दर्शयति -- सत्त्वादीति ॥ मूलभागवदिति ॥ प्रसिद्धवृक्षस्यैकदेशभूतमूलवन्मूलमित्यर्थः । सत्त्वादियुक्ते इत्यनेन त्रिमूलो जगद्वृक्ष इत्युक्तं भवति । गुणप्रवृद्धा इत्यस्य तात्पर्यं चोक्तं भवति । मूलैर्~हि शाखा प्रवर्धन्ते । ननु जगतोऽचेतनत्वात् अचेतनप्रकृतेरेव ऎतन्मूलत्वं, न चेतनप्रकृतेरित्यत आह -- अत्रापीति ॥ यदि हरिर्भूमिवन्मूलं तर्~हि तस्य जगद्रूपेण परिणामः स्यात् । भूम्यंशानां लोके परिणामित्वदर्शनादित्यत आह -- पृथिवीति ॥ तत्तत्र जगद्वृक्षे हरिः प्रसिद्धवृक्षस्य पृथिवीदेवतावन्निमित्तत्वेनैव मूलं न तु मृद्वदुपादानतयेत्यर्थः । तर्~हि तद्वत्परिणामितया मूलं किमित्यत आह -- मृद्वदिति ॥ अचेतना अचेतनप्रकृतिः । ऎवं चेज्जगद्वृक्षो विष्ण्वादिमूलः स्यात्, ऊर्ध्वमूलः कथमित्यत आह -- उत्तमत्वादिति ॥ विष्णोः सर्वोत्तमत्वात्, श्रियः परतन्त्रेषूत्तमत्वात्, अचित्प्रकृतेरचेतनेषूत्तमत्वात् ऊर्ध्वानि उत्तमानि विष्ण्वादि मूलानि यस्यासावूर्ध्वमूल इत्यर्थः । अधःशाखमित्यस्यार्थो नीचा इति । अधो भगवदपेक्षया नीचा महदादयः शाखा यस्यासावधः शाख इत्यर्थः । जगद्वृक्षस्येति सम्बध्यते । छन्दसां पर्णत्वमुपपादयति-- कामेति ॥ लोके पर्णोत्पत्त्यनन्तरमेव फलदर्शनादत्रापि फलहेतुत्वाच्छन्दसां पर्णत्वमिति भावः । अनेन धमार्थयोः काममोक्षार्थत्वात् काममोक्षाख्यद्विफलो जगद्वृक्ष इत्युक्तं भवति । अधश्चोर्ध्वं चेत्यस्यार्थः अन्योन्येति । अनेनाधोभूताः शाखा ऊर्ध्वमूलेषु प्रसृताः, मूलानि चाधः शाखासु सन्ततानीत्युक्तं भवति । तस्योपपादनं कारणेष्विति । कारणेषु कार्यस्य स्थितत्वात् शाखानां मूलेषु प्रसृतिर्युज्यते । कार्येषु कारणस्य व्याप्तत्वान्मूलानां शाखासु सन्ततिर्युक्तेत्यर्थः । वृक्षमात्रसाम्यस्योक्तत्वात् अश्वत्थं प्राहुः इत्यादावश्वत्थोक्तिः कथमित्यत आह -- जगदिति ॥ अश्ववत् स्थितोऽश्वत्थ इत्यर्थः । चञ्चलश्चेत् किं सर्वात्मनोच्छिद्यत इत्यत आह -- अव्यय इति ॥ किमतो यद्येवं जगद्वृक्ष इत्यत आह -- स्वसक्तीति ॥ सङ्गराहित्यसहितज्ञानासिनेत्यर्थः । अस्य विष्णोः पृथक्त्वमेव कुतः ? तज्जञानेन च किमित्यत उक्तं विवृण्वन्नाह -- अव्यक्तादीति ॥ नेति नेतीत्यादेः पृथक्त्वज्ञानेन च भगवन्मार्गणं भवति । जगतो भगवद्वैलक्षण्ये ज्ञाते हि तत्स्वरूपं ज्ञातुं शक्यत इति भावः । अनेन `अश्वत्थमेनं' इत्युक्तार्थं भवति । को जगद्वृक्षच्छेदनोपाय इत्यत आह -- तमेवेति ॥ अनेन ``तमेव" इति विवृतं भवति । वृक्षच्छेदार्थमिति शेषः । ननु जगद्वृक्षच्छेदो ब्रह्मादिप्रतिपत्त्याऽपि भवति । अतः `तमेव' इति किमवधार्यत इत्यत आह -- यदिति ॥ ब्रह्मादीनां भगवदंशाभासत्वेनासमर्थत्वात् जगद्वृक्षच्छेदाय भगवन्तमेव प्रपद्येतेत्याशयः ॥1-4॥
((निर्मानमोहा जितसङ्घदोषा अध्यात्मनित्या विनिवृत्तकामाः ।
द्वन्द्वैर्विमुक्ताः सुखदुःखसञ्ज्ञैर्गच्छन्त्यमूढाः पदमव्ययं तत् ॥ 5 ॥
न तद्भासयते सूर्यो न शशाङ्को न पावकः ।
यद्गत्वा न निवर्तन्ते तद्धाम परमं मम ॥ 6 ॥
ममैवांशो जीवलोके जीवभूतः सनातनः ।
मनः षष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति ॥ 7 ॥
*किञ्चित्सादृश्यमात्रेण भिन्नोऽप्यंश इवोच्यते ।
ईश्वरस्तु यदा त्वस्य शरीरं विशति प्रभुः ।
मनः षष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति ॥5-7॥
((शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः ।
गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात् ॥ 8 ॥
* शब्दादीन् प्रत्यथ यदा जीवमादाय यात्यतः ।
गृहीतत्वैतानि संयाति वायुर्गन्धानिवाऽशयात् ॥8॥
((श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च ।
अधिष्ठाय मनश्चायं विषयानुपसेवते ॥ 9 ॥
उत्क्रामन्तं स्थितं वाऽपि भुञ्जानं वा गुणान्वितम् ।
विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः ॥ 10 ॥
यतन्तो योगिनश्बैनं पश्यन्त्यात्मन्यवस्थितम् ।
यततन्तोऽप्यकृतात्मानो नैनं पश्यन्त्यचेतसः ॥ 11 ॥
यदादित्यगतं तेजो जगद्भासयतेऽखिलम् ।
यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् ॥ 12 ॥
* भुङ्क्ते हरिः शुभान् भोगानिन्द्रियेषु व्यवस्थितः ।
पूर्णानन्दोऽपि भगवान् क्रीडया भुङ्क्त ऎव तु ॥9-12॥
// अंश ऎव किं न स्यादिति चेन्न । भिन्नत्वात् । तर्~ह्यंशाभासोऽपि कथमित्यत आह -- किञ्चिदिति ॥ अनेन `ममैव' इत्युक्तार्थे भवति । किञ्च जीवस्य विषयान् प्रति इन्द्रियप्रेरणादिकमपीश्वराधीनमिति तत्प्रतिपत्तिर्जगद्वृक्षच्छेदनोपाय इति भावेन भगवन्महिमानं दर्शयति -- ईश्वर इति ॥ प्रकृतिस्थानि शरीस्थानि । अनेन मनःषष्ठानीत्युक्तार्थं भवति । अथेत्यनेन `यच्चापि' इत्युक्तार्थं भवति । अतः शरीरतः । भुङ्क्त इत्यनेन `श्रोत्रं' इत्यस्यार्थ उक्तो भवति । शुभानित्यनेन `गुणान्' इत्युक्तार्थं भवति । ईश्वरस्य पूर्णानन्दत्वात् किं विषयभोगेनेत्यत आह -- पूर्णेति ॥ 9-12॥
((गामाविश्य च भूतानि धारयाम्यहमोजसा ।
पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः ॥ 13 ॥
अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः ।
प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम् ॥ 14 ॥
सर्वस्य चाहं हृदि सन्निविष्टो मत्तः स्मृतिर्ज्ञानमपोहनं च ।
वेदैश्च सर्वैरहमेव वेद्यो वेदान्तकृद्वेदविदेव चाहम् ॥ 15 ॥
द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर ऎव च ।
क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥ 16 ॥
उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः ।
यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ॥ 17 ॥
यस्मात् क्षरमतीतोऽहमक्षरादपि चोत्तमः ।
अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥ 18 ॥
यो मामेवमसम्मूढो जानाति पुरुषोत्तमम् ।
स सर्वविद्भजति मां सर्वभावेन भारत ॥ 19 ॥
इति गुह्यतमं शास्त्रमिदमुक्तं मयाऽनघ ।
ऎतद् बुद्ध्वा बुद्धिमान् स्यात्कृतकृत्यश्च भारत ॥ 20 ॥
ॐ तत्सदिति श्रीमद्भवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे पुराणपुरुषोत्तमयोगो नाम पञ्चदशोऽध्यायः ॥ 14 ॥
* सौम्यत्वात् सोमनामाऽसौ सोममण्ड#175;गः सदा ॥13॥
स एवाग्निस्थितो विष्णुर्नाम्ना वैश्वानरः सदा ।
सर्वेषां स नराणां यदुपजीव्यः सदैव च ॥14॥
स ऎव व्यासरूपेण वेदान्तकृदुदाहृतः ॥15॥
ब्रह्मरुद्रादयः सर्वे शरीरक्षरणात् क्षराः ।
श्रीरक्षात्मेत्युदिता नित्यचिद्देहका यतः ।
चेतनाचेतनस्यास्य राशेः संस्थापकत्वतः ॥
कूटस्थ आत्मा सा ज्ञेया परमात्मा हरिः स्वयम् ॥ 16-17॥
क्षराक्षरात्मनोर्यस्मादुत्तमः स सदाऽनयोः ।
पुरुषोत्तमनाम्नाऽतः प्रसिद्धो लोकवेदयोः ॥" इति नारायणश्रुतिः ॥ 18-20॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीतातात्पर्यनिर्णये पञ्चदशोऽध्यायः ॥15॥
// उपजीव्यतया विश्वनरसम्बन्धो वैश्वानर इत्यर्थः । क्षरणं विनाशः । क्षरविनाशसन्ततदानयोरिति धातोः । अत्रात्मपदप्रयोगेण `द्वाविमौ पुरुषौ' इति पुरुषशब्दः चेतनार्थ इत्युक्तं भवति । ततश्च न श्रियः पुरुषत्वविरोधः ॥13-20 ॥
इतिश्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्य श्रीमद्भगवद्गीतातात्पर्यनिर्णयस्य टीकायां जयतीर्थमुनिविरचितायां न्यायदीपिकायां पञ्चदशोऽध्यायः ॥15 ॥
॥ श्रीवादिराजगुर्वन्तर्गत मध्वेशाभिन्न अश्विनीहयग्रीवात्मकश्रीकृष्णार्पणमस्तु ॥
***************************************************************************
॥श्रीगुरुभ्योनमः ॥
श्रीवादिराजगुर्वन्तर्गत श्रीमध्वेशाभिन्नश्रीलक्ष्मीहयग्रीवाय नमः ॥
॥ अथ षोडशोऽध्यायः ॥
श्रीभगवानुवाच --
अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः ।
दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् ॥ 1 ॥
अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम् ।
दया भूतेष्वलोलुत्वं मार्दवं हीरचापलम् ॥ 2 ॥
तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता ।
भवन्ति सम्पदं दैवीमभिजातस्य भारत ॥ 3 ॥
दम्भो दर्पोऽभिमानश्च क्रोधः पारुष्यमेव च ।
अज्ञानं चाभिजातस्य पार्थ सम्पदमासुरीम् ॥ 4 ॥
दैवीसम्पद्विमोक्षाय निबन्धायासुरी मता ।
मा शुचः सम्पदं दैवीमभिजातोऽसि पाण्डव ॥ 5 ॥
द्वौ भूतसर्गो लोकेऽस्मिन् दैव आसुर ऎव च ।
दैवो विस्तरशः प्रोक्त आसुरं पार्थ मे श्रुणु ॥ 6 ॥
प्रवृत्तिं च निवृत्तिं च जना न विदुरासुराः ।
न शौचं नापि चाचारो न सत्यं तेषु विद्यते ॥ 7 ॥
असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् ।
अपरस्परसम्भूतं किमन्यत्कामहैतुकम् ॥ 8 ॥
एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः ।
प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः ॥ 9 ॥
काममाश्रित्य दुष्पूरं दम्भमानमदान्विताः ।
मोहाद् गृहीत्वाऽसद्ग्राह्यान् प्रवर्तन्तेऽशुचिव्रताः ॥ 10 ॥
चिन्तामपरिमेयां च प्रलयान्तामुपाश्रिताः ।
कामोपभोगपरमा एतावदिति निश्चिताः ॥ 11 ॥
आशापाशशतैर्बद्धाः कामक्रोधपरायणाः ।
ईहन्ते कामभोगार्थमन्यायेनार्थसञ्चयान् ॥ 12 ॥
इदमद्य मया लब्धमिमं प्राप्स्ये मनोरथम् ।
इदमस्तीदपि मे भविष्यति पुनर्धनम् ॥ 13 ॥
असौ मया हतः शत्रुर्~हनिष्ये चापरानपि ।
ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान् सुखी ॥ 14 ॥
आढ्योऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो मया ।
यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिताः ॥ 15 ॥
अनेकचित्तविभ्रान्ता मोहजालसमावृताः ।
प्रसक्ताः कामभोगेषु पतन्ति नरकेऽशुचौ ॥ 16 ॥
आत्मसम्भाविताः स्तब्धा धनमानमदान्विताः ।
यजन्ते नामयज्ञैस्ते दम्भेनाविधिपूर्वकम् ॥ 17 ॥
अहङ्कारं बलं दर्पं कामं क्रोधं च संश्रिताः ।
ममात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः ॥ 18 ॥
तानहं द्विषतः क्रूरान् संसारेषु नराधमान् ।
क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु ॥ 19 ॥
आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि ।
मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् ॥ 20 ॥
त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः ।
कामः क्रोधस्तथा लोभस्तस्मादेतद् त्रयं त्यजेत् ॥ 21 ॥
ऎतैर्विमुक्तः कौन्तेय तमोद्वारैस्त्रिभिर्नरः ।
आचरत्यात्मनः श्रेयस्ततो याति परां गतिम् ॥ 22 ॥
यः शास्त्रविधिमुत्सृज्य वर्तते कामकारतः ।
न स सिद्धिमवाप्नोति न सुखं न परां गतिम् ॥ 23 ॥
तस्मात् शास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ ।
ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्~हसि ॥ 24 ॥
ॐ तत्सदिति श्रीमद्भवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे दैवासुरसम्पत्तियोगो नाम षोडशोऽध्यायः ॥ 16 ॥
* हरिः ॐ ॥ देवासुरलक्षणम् ।
`येऽतिमानेन मन्यन्ते परमेशोऽहमित्यपि ।
मिथ्याजगदिदं सर्वं भ्रमजत्वान्न तिष्ठति ॥
मिथ्यात्वान्नेश्वरोऽस्यास्ति परेभ्यो न च जायते ।
स्वस्मिन्नपि तथाऽन्यस्मिन्नियन्ताऽन्य इतीरिते ॥
प्रद्विषन्त्यसुरास्ते तु सर्वे यान्त्यधरं तमः ।
अयोग्येशत्वकामाच्च लोभाच्चात्मसमर्पणे ॥
तत्त्ववेदिषु कोपाच्च तमस्तेषां न दुर्लभम् ।
अक्षागमानुमानां च स्वोक्तेरपि विरोधिनः ।
यस्मात्ततोऽसुरा ज्ञेया ऎवमन्येऽपि तादृशाः ॥
ये तु विष्णुं परं ज्ञात्वा यजन्ते नान्यदेवताः ।
प्रत्यक्षाद्यविसंवादिज्ञानादेव विमुक्तिगाः " इति ब्रह्मवैवर्ते ।
// ऎतदध्यायप्रतिपाद्यमर्थं दर्शयति -- देवेति ॥ अभयादिदेवतालक्षणानां मोक्षहेतुत्वात् तदापादनाय दम्भाद्यसुरलक्षणानां तद्विरोधित्वात् तत्परित्यागाय तदुभयमस्मिन्नध्याये निरूप्यत इति भावः ।
तत्र `अभिमानश्च', `ईश्वरोऽहं', `असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम्' `अपरस्परसम्भूतं', `ममात्मपरदेहेषु प्रद्विषन्तः' `ततो यान्त्यधमां गतिं', `त्रिविधं नरकस्येदं' इत्यादिना चार्वाकाणामसुरत्वमुच्यत इत्यन्यथाप्रतीतिनिरासाय तत्स्मृत्यैव व्याचष्टे -- य इति ॥ परेभ्यो न च जायते । भ्रमजत्वादेव । कुत एतेऽसुरा इत्यत आह -- अक्षेति ॥ सती पृथिवीत्यादिप्रत्यक्षस्य, विश्वं सत्यमित्याद्यागमस्य, प्रमाणदृष्टत्वाद्यनुमानस्य सर्वस्य मिथ्यात्वे सर्वमिथ्यात्वस्यापि मिथ्यात्वप्राप्त्या सर्वस्य त्वमिति स्वोक्तिविरोधः । न केवलं परमेश्वरोऽहमित्यादि मन्वाना असुराः किन्तु येऽन्ये प्रत्यक्षादिविरुद्धत्वादिनस्ते सर्वेऽप्यसुरा इत्याह -- ऎवमिति ॥
देवलक्षणमाह -- ये त्विति ॥ अनेन `ज्ञानयोगव्यवस्थितिर्दानं' इत्यादि व्याख्यातं भवति । कुत ऎवं विधानां देवत्वमित्यत आह -- प्रत्यक्षेति ॥ विमुक्तिगा इत्यनेनैव दैवीत्युक्तार्थं भवति ॥
*नीचस्थानेऽन्धे तमसि बन्धाय ।
`सर्गाणां सुबहुत्वेऽपि शुभाशुभफलाधिकौ ॥
देवासुराख्यौ द्वावेव गन्धर्वाद्यास्तदन्तराः ।
मुक्तिगा ऎव विज्ञेया देवा ऎव विमुक्तिगाः ॥" इति च । विमोक्षायेत्यत्र वीत्युपसर्गादेव च मोक्षनानात्वं ज्ञायते ।
``देवासुरनरत्वाद्या जीवानां तु निसर्गतः ।
निसर्गो नान्यथैतेषां केनचित् क्वचिदेव वा ॥
देवाः शापबलादेव प्रह्लादादित्वमागताः ।
अतः पुनश्च देवत्वं ते यान्ति निजमेव तु ॥
हेतुतः सोऽन्यथाभावो रक्तता स्फटिके यथा ।
अतो नित्यश्च नाप्येष स्वभावविनिवर्तकः ॥
किन्त्वाक्रम्यैव तं तिष्ठेद्देवसर्गस्ततो हि सः ।
अशोच्य ऎव विज्ञेयो मोक्षयोग्यो हरेः प्रियः ॥" इति च ॥1-24॥
// ननु ``ततो यान्त्यधमां गतिं" इत्यासुरसम्पदोऽन्धतमसहेतुत्वस्य वक्ष्यमाणत्वात् कथं `निबन्धायासुरी मता' इति बन्धहेतुत्वमुच्यत इत्यत आह -- निबन्धाय नीचेति ॥ नात्र संसारहेतुत्वमुच्यते, किन्त्वतिनीचान्धतमससाधनत्वमेवेति भावः । ननु भूतसर्गाणामति बहुप्रकारत्वात् ``द्वौ भूतसर्गौ" इत्यादि कथमुच्यत इत्यत आह -- सर्गाणामिति ॥ सर्गाणां सुबहुत्वेऽपि द्वाविति वक्तुं शक्यते । शुभाशुभफलाधिक्यविवक्षयेति भावः । गन्धर्वमनुष्याधमादीनामपि शुभाशुभफलाधिकत्वात् को विशेषो देवादीनामित्यत आह -- गन्धर्वेति ॥ तदुभयफलान्तर्वर्तमाना एवेत्यर्थः । तद्विवृणोति -- मुक्तिगा इति ॥ ऎवं तमोगा एवेति च द्रष्टव्यम् । तर्~हि देवादीनामपि मुक्त्यादिगत्वादेभ्य को विशेष इत्यत आह -- देवा इति ॥ ऎवमसुरा एवातिदारुणतमोगा इति द्रष्टव्यम् ।
यदुक्तं द्वावित्युक्तिघटनाय मोक्षस्यानेकविधत्वात् देवानामेवाधिकमोक्षो नान्येषामिति तद्गीतायामपि ज्ञायत इत्याह -- विमोक्षायेति ॥ ननु देवत्वादेः कारणविशेषेण हानोपादानदर्शनात् द्वौ भूतसर्गाविति निसर्गत्वोक्तिः कथमित्यत आह -- देवेति ॥ निसर्गत्वादेव नान्यथा भवतीत्यर्थः । ननु प्रह्लादाद्यसुराणां देवत्वदर्शनात् कथमन्यथाभावाभाव इत्यत आह -- देवा इति ॥ प्रह्लादादीनां स्वतो देवानामेव कारणविशेषेणैवासुरत्वम् । अतस्तद्विहाय देवत्वं युक्तमिति भावः । ननु तत्राप्यसुरत्वं नष्टमित्यस्त्येवेत्यत आह -- हेतुत इति ॥ ौपाधिकत्वादसुरत्वस्य नाशो युक्त ऎव । न तेन स्वाभाविकासुरत्वानाशमतस्य विरोध इति भावः । मास्त्वसुराणां देवत्वं, देवानां तु देवत्वपरित्यागेनासुरत्वं प्राप्तमित्यत आह -- नापीति ॥ नासुरभावः प्रह्लादादीनां देवत्वस्वभावनिवर्तकः । ौपाधिकत्वात् । स्फटिकश्लौक्यानिवर्तकलौहित्यवदिति भावः । तर्~हि शापादिवैयर्थ्यमित्याशङ्क्य परिहरति -- किन्त्विति ॥ ततो देवानामसुरत्वाभावात् । देवत्वस्यानपगमेऽपि कुतोऽशोच्यत्वमित्यत आह -- मोक्षेति ॥ तदुपपादयति -- हरेरिति ॥ अनेनैव माशुच इत्यस्य तात्पर्यं चोक्तं भवति ॥ 1-14 ॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्य श्रीमद्भगवद्गीतातात्पर्यनिर्णयस्य टीकायां जयतीर्थमुनिविरचितायां न्यायदीपिकायां षोडशोध्यायः ॥16॥
॥ श्रीवादिराजगुर्वन्तर्गतमध्वेशाभिन्न अश्विनीहयग्रीवात्मककृष्णार्पणमस्तु ॥
***************************************************************
॥श्रीगुरुभ्योनमः ॥
श्रीवादिराजगुर्वन्तर्गत श्रीमध्वेशाभिन्नश्रीलक्ष्मीहयग्रीवाय नमः ॥
॥ अथ सप्तदशोऽध्यायः ॥
अर्जुन उवाच --
ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विताः ।
तेषां निष्ठा तु का कृष्ण सत्त्वबाहो रजस्तमः ॥ 1 ॥
* ॥हरिः ॐ॥ सदसत्कर्मविवेकः ॥1-2॥
// ऎतदध्यायप्रतिपाद्यमर्थं दर्शयति -- सदिति ॥ सत्कर्मण ऎव पुरुषार्थसाधनत्वेनानुष्ठेयत्वात् असत्कर्मणस्तद्विरुद्धेन त्याज्यत्वात् अनुष्ठानत्यागयोश्च विविच्याज्ञानेऽसम्भवात् सदसत्कर्मणी विविच्यात्रोच्येते इति भावः ॥1-2॥
((श्रीभगवानुवाच --
त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा ।
सात्त्विकी राजसी चैव तामसी चेति तां श्रुणु ॥ 2 ॥
* सत्त्वानुरूपा जीवानुरूपा । अतो ये सात्त्विकश्रद्धास्ते सात्त्विका इति ज्ञेया अन्येभ्य इति । श्रद्धामयः श्रद्धास्वरूपः ।
``श्रद्धा स्वरूपं जीवस्य तस्मात् श्रद्धाविभेदतः ।
उत्तमाधममध्यास्तु जीवा ज्ञेयाः पृथक् पृथक् ॥
स्वरूपभूता श्रद्धैव तमोगानां च मोक्षिणाम् ।
शिष्यते संसृतिस्थानां श्रद्धारूपं मनोऽपरम् ॥
तत्र स्वरूपश्रद्धैव व्यज्यते प्रायशः क्वचित् ।
सात्त्विकस्य तमोरूपा श्रद्धाऽन्तःकरणात्मिका ।
सात्त्विकी तामसस्यापि भूयस्त्वात्तद्विविच्यते ॥3॥
// ``ये शास्त्रविधिमुत्सृज्य" इति प्रश्नस्योत्तरमुच्यते -- त्रिविधेति ॥ तत्र नाज्ञानाच्छास्त्रविधिमुत्सृज्य यजनं सात्त्विकत्वादिज्ञापकम् । किन्तु सात्त्विकत्वादिभेदेन श्रद्धा त्रिविधा भवति । तत्र यो यजमानो तादृशश्रद्धः स तादृश इति श्रद्धयैव तज्जञानमित्युक्तस्योपपादनायोक्तम् -- सत्त्वानुरूपेति ॥ तत्र श्रद्धायाः सत्त्वगुणानुरूपत्वोक्त्या कथं यो यच्छ्रद्धः स ऎव स इत्यस्योपपादनमित्यत आह -- सत्त्वेति ॥ सत्त्वशब्दस्य जीववाचित्वं पूर्वमेव साधितम् । किमतो यद्येवमित्यत आह -- अत इति ॥ श्रद्धाया जीवानुरूपत्वात् तया तत्स्वरूपं ज्ञायत इत्यर्थः । श्रद्धाया जीवस्वरूपत्वं कुत इत्यत आह -- श्रद्धामय इति ॥ तत्र मयट् शब्दस्यानेकार्थत्वादत्रोपयुक्तमर्थमाह -- श्रद्धेति ॥
``तां श्रुणु" इति प्रतिज्ञातं ``यो यच्छ्रद्धः" इत्यस्य विवरणेनोच्यते -- यजन्त इति ॥ तत्रान्तःकरणवृत्तिश्रद्धाया अपि विद्यमानत्वेन स्वरूपभूताया विवेक्तुमशक्यत्वात् तया कथं जीवस्वरूपज्ञानम् ? सर्वेषामपि देवतायाजित्वात् कथं यक्षरक्षांसीत्यादि ? कथं च नित्याकृशमीश्वरं तामसाः कर्शयन्ति ? इत्यादि शङ्कापरिहाराय सत्त्वानुरूपेत्यादि प्रमाणवाक्येनैव व्याचष्टे-- श्रद्धेति ॥ किं श्रद्धा स्वरूपभूतैव उत भिन्नाऽप्यस्तीत्यत आह -- स्वरूपेति ॥ तर्~हि स्वरूपश्रद्धाया ऎव ज्ञातुमशक्यत्वात् न तया जीवस्वरूपविवेक इत्यत आह -- तत्रेति ॥ व्यज्यतेऽन्तःकरणे । ऎवं राजसत्यापि सात्त्वकी तामसी क्वचिदेव भवतीति ज्ञातव्यम् । किं तत इत्यत आह -- भूयस्त्वादिति ॥ ऎवं स्वरूपश्रद्धाया एवाधिक्येनाभिव्यक्तेर्ज्ञातुं शक्यत्वात् तया जीवस्वरूपं विविच्यत इत्यर्थः ॥3॥
((सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत ।
श्रद्धामयोऽयं पुरुषो यो यत् श्रद्धः स ऎव सः ॥ 3 ॥
यजन्ते सात्त्विका देवान्यक्षरक्षांसि राजसाः ।
प्रेतान् भूतगणांश्चान्ये यजन्ते तामसा जनाः ॥ 4 ॥
अशास्त्रविहितं घोरं तप्यन्ते ये तपो जनाः ।
दम्भाहङ्कारसंयुक्ताः कामरागबलान्विताः ॥ 5 ॥
कर्शयन्तः शरीरस्थं भूतग्रामचेतसः ।
मां चैवान्तः शरीरस्थं तान्विद्ध्यासुरनिश्चयाम् ॥ 6 ॥
आहारस्त्वपि सर्वस्य त्रिविधो भवति प्रियः ।
यज्ञस्तपस्तथा दानं तेषां भेदमिमं श्रुणु ॥ 7 ॥
* श्रद्धेत्यास्तिक्यनिष्ठोक्त्या सा येषां देवतोत्तमे ॥
विष्णौ तद्भक्तबुद्ध्यैव रमाब्रह्मादिकेषु च ।
ते सात्त्विका इति ज्ञेयास्तैरिष्टं विष्णुरेव तु ॥
श्रीश्च साध्यक्षविद्याख्या ब्रह्मेन्द्राद्याश्च देवताः ।
विबुधत्वात्तु मन्वाख्या भुञ्जते प्रीतिपूर्वकम् ॥
व्यामिश्रयाजिनो ये तु विष्ण्वाधिक्ये ससंशयाः ।
स्वरूपमात्रे देवानां श्रद्धायुक्ताश्च सर्वदा ॥
राजसास्ते तु विज्ञेयास्तैरिष्टं यक्षराक्षसाः ।
दीनत्वाद्देवनामानो ब्रह्मेन्द्रादिसनामकाः ॥
गृह्णन्ति ये हरिं त्वन्यदेवादिसममेव तु ।
नीचं ब्रह्माद्यनत्यं वा मन्यन्ते नेति चाखिलम् ॥
ततच्छ्रद्धायुतास्ते तु तामसाः परिकीर्तिताः ।
भूतप्रेतास्तु तैरिष्टं शिवस्कन्दादिनामकाः ॥
साक्षाच्छिवपरिवारा भुञ्जते ह्यतितामसाः ।
मोक्षः साङ्कल्पिकः स्वर्गो भूतादित्वं फलं क्रमात् ॥
// कथं श्रद्धया जीवस्वरूपादिकं इत्यत आह -- श्रद्धेति ॥ अनेन यजन्त इत्युक्तार्थं भवति । व्यामिश्रयाजिनोऽक्रमेण याजिनः । अखिलं जगन्मिथ्येति मन्यन्त इत्यर्थः । अनेन सर्वयाजिनां देवतायाजित्वसाम्येऽपि भोक्तृविवक्षया देवानित्याद्युक्तिरित्युक्तं भवति । `अध्यक्षविद्याख्या', `दीनत्वात्', `शिवस्कन्दादि' इत्यनेन क्वचित्तथोक्तीनां गतिरुक्ता स्यात् । त्रिविधानां तेषां यजनफलमाह -- मोक्ष इति ॥ स्वर्गप्रतिनिधित्वेन कल्पितः साङ्कल्पिकः स्वर्गः ।
* त्यक्त्वाऽपि शास्त्रविहितं मिथ्याज्ञानविवर्जिताः ।
भक्त्या विष्णुं यजन्ते ये निषिद्धचरणोज्झिताः ॥
तेऽपि यान्ति हरिं शास्त्रविधानस्थाः कुतः पुनः ।
अशास्त्रविहितं घोरं तप्यन्ते ये तपो जनाः ॥
दम्भाहङ्कारसंयुक्ताः कामरागबलान्विताः ॥
अकृशानपि लक्ष्म्यादीन् देवान् विष्णुपरायणान् ।
विष्णुं च सर्वदेहस्थं कृशत्वेन विजानते ॥
तेषामल्पगुणत्वेन कल्पनात्ते तमोध्रुवम् ।
यान्ति ज्ञेयाश्च ते दैत्याः पिशाचा वाऽथ राक्षसाः ॥
अन्नैश्बैवाथ यज्ञाद्यैः प्रायोज्ञेया इमे नराः ।
सात्त्विकाः सात्त्विकान् कुर्युर्यस्मादन्ये तथेतरान् ॥
ॐतत्सदिति यद्विष्णोर्नामत्रयमुदाहृतम् ।
प्रसिद्धं वैदिकं तस्मात् कर्म तद्विषयं हि सत् ॥
तत्राश्रद्धाकृतं तस्मादसदित्येव कीर्त्यते ।
विप्रा वेदाश्च यज्ञाश्च यस्मादोताः परस्परम् ॥
विहिता विष्णुना तेन विष्णुरोमिति कीर्तितः ।
ओतमस्मिन्निदं सर्वमिति चोक्तः स ओमिति ॥
तस्मादोमिति यज्ञादीन् प्रवर्तन्ते हि वैदिकाः ।
अनोङ्कृतं ह्यासुरं स्याद्यत्तस्मादोङ्कृतं त्वपि ॥
ॐकारार्थहरेः सम्यगज्ञानादासुरं भवेत् ।
फलं त्वनभिसन्धाय तद्ब्रह्म स्यान्ममास्पदम् ॥
इति यत् क्रियते कर्म तन्नामातो जनार्दनः ।
अभिसंहितं हि तत्प्रोक्तं ततं वा स्वगुणैः सदा ॥" इत्यादि । ``मयं प्रधानमुद्दिष्टं स्वरूपं कार्यमेव च" इति शब्दनिर्णये । शास्त्रविहितमपि भगवच्छ्रद्धाविहीनमसदेवेति वक्ष्यति -- ``अश्रद्धया हुतं" इति । भगवच्छ्रद्धाविरहितत्वादेव चाशास्त्रविहितं भवति । ``विष्णुभक्तिविधानार्थं सर्वं शास्त्रं प्रवर्तते" इति पैङ्गिश्रुतिः ॥4-7॥
// उक्तरीत्या सात्त्विकानां किं शास्त्रविधिं जानतामजानतामपि मोक्ष इत्यत आह -- त्यक्त्वेति ॥ अनेन शास्त्रविध्युत्सर्गाद्यप्रयोजकीकृत्य श्रद्धाया ऎव प्रयोजकत्वकथनस्याभिप्रायोऽपि वर्णितो भवति । तामसानां भूतादित्वमवान्तरफलमेव । मुख्यं तु तम एवेत्युपपादयति -- अशास्त्रेति ॥ ज्ञेयाश्चेत्यनेन `तान् विद्धि' इत्युक्तार्थं भवति । अन्नैश्चेत्यनेन ``आहारः' इत्यादेस्तात्पर्यमुक्तं भवति । श्रद्धाया जीवस्वरूपत्वेन तया तज्जञानमुपपद्यते । आहाराद्यैस्तत्कथमित्यत आह -- सात्त्विका इति ॥ अत्र जीवानां सात्त्विकत्वादि उत्तमत्त्वादिति ज्ञेयम् । सात्त्विकयज्ञादीनामित्थं भावान्तरविधानायाह -- ओमिति ॥ अनेन `ओं तत्सत्' `कर्म च' इत्यादि व्याख्यातं भवति । केन हेतुना विष्णोरोमिति नामेत्यत आह -- विप्रा इति ॥ तस्मादोङ्कारस्य भगवन्नामत्वात्, ओमित्युच्चार्येति शेषः -- प्रवर्तन्त इति ॥ प्रवर्तयन्तीत्यर्थः । अनेन ब्राह्मणा इत्याद्युक्तार्थं भवति । भगवन्नामान्तरसद्भावात् कथमेतदुच्चारणनियतिरित्यतोऽस्य विशेषमाह-- अनोङ्कृतमिति ॥ ॐकारोच्चारणं तदर्थज्ञानपूर्वकमेव कार्यमिति भावेनाह -- ॐकृतं त्विति ॥ किं निमित्तं विष्णोस्तदिति नामेत्यत आह -- फलमिति ॥ अनेन तदित्युक्तार्थं भवति । ननु मयट् प्रत्ययस्य विकारैकार्थत्वात् कथं श्रद्धामय इत्यस्य श्रद्धास्वरूप इति व्याख्येत्यत आह -- मयमिति ॥ श्रद्धैव प्रयोजिका न तु शास्त्रविधानानुसारित्वादीति यत्परिहारवाक्याभिप्रायवर्णनं तत्कुत इत्यत आह -- शास्त्रेति ॥ भगवतैव श्रद्धाभावे शास्त्रविधानानुसारिणोऽप्यसत्त्वस्यैवोक्तत्वात् श्रद्धैव प्रयोजिका नान्यदिति ज्ञायत इति भावः । हुतमित्यत्र शास्त्रविधानानुसारेणेति सिद्धम् । विधानोक्तिप्रसङ्गात् । अङ्गीकृत्य चेदमुक्तम् । भगवच्छ्रद्धाभावे शास्त्रविधानानुसारित्वं च नास्ति । ततोऽपि श्रद्धैव सात्त्विकत्वादौ प्रयोजिकेत्याशयेनाह -- भगवदिति ॥ तत्कुत इत्यत आह -- विष्णुभक्तीति ॥ विष्णुभक्तिविधानार्थमेव शास्त्रप्रवृत्तिश्रुतेः तदभावे न शास्त्रविधानानुसारित्वं भवतीत्यर्थः । शास्त्रविधानस्याप्रयोजकत्वे कथमशास्त्रविहितमिति तामसत्वे प्रयोजकत्वमुच्यत इत्यतो वाह -- भगवदिति ॥
((आयुः सत्त्वबलारोग्यसुखप्रीतिविवर्धनाः ।
रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियाः ॥ 8 ॥
* स्थिराः स्थिरगुणाः घृतादयः । कट्वादीनामप्यारोग्यरसाद्यर्थत्वेन सात्त्विकत्वमेव । रस्यादीनामपि राजसत्त्वमनारोग्यादिहेतुत्वे । ``दुःख शोकामयप्रदाः" इत्युक्तेः । सत्त्वं साधुभावः । भवति हि सोऽपि शुच्यन्नात् ।
``हृद्यं पश्चान्मनोहारि प्रियं तत्कालसौख्यदम् ।
सुखं तु दीर्घसुखदं रस्यमभ्याससौख्यदम् ॥" इति शब्दनिर्णये ॥ 8 ॥
//``रस्याः स्निग्धाः स्थिरा हृद्याः" इत्याहाराणां किन्नाम स्थिरत्वं, केषां चोच्यत इत्यत आह -- स्थिरा इति ॥ बहुकालं गुणप्रदा इत्यर्थः । कट्वाम्ललवणेति स्यादित्याह -- कट्वादीनामिति ॥ रसो रसायनम् । ऎवं रस्याः स्थिग्धाः स्थिरा हृदा इति सात्त्विकत्वेनोक्तानां रस्यादीनां सात्त्विकत्वं न नियतं, कदाचित् राजसत्त्वमपि भवतीत्याह -- रस्येति ॥ कट्वादीनां राजसत्त्वनियमः किं न स्यात् ? कदाचित्सात्त्विकत्वं कुत इत्यत आह -- दुःखेति ॥ दुःखादि प्रदाश्चेत् राजसा इत्युक्तत्वादारोग्यादिहेतुत्वे कट्वादीनां सात्त्विकत्वावगतेर्न राजसत्त्वनियम इत्यर्थः । रस्यादीनां सात्त्विकत्वानियमे चायुःसत्त्वेत्याद्युदाहर्तव्यम् । बलशब्दात् सत्त्वशब्दस्यानतिभिन्नार्थत्वात् पुनरुक्तिरित्यत आह -- सत्त्वमिति ॥ नात्रायं सत्त्वशब्दार्थः साधुभावः । तस्यान्नोत्पन्नत्वाभावादित्यत आह -- भवतीति ॥ `सुखप्रीतिविवर्धनाः' `हृद्याः' इति शब्दस्यैकार्थत्वप्रतीति निरासायाह -- हृद्यमिति ॥ सेवानन्तरमपि यत्पुनर्भूयादिति मनो हरति तद् हृद्यम् । उपयोगकाल ऎव सौख्यप्रदं प्रियम् । सकृदुपयुक्तं दीर्घकालं सुखं ददत् सुखदम् । बहुवारोपभोग ऎव सौख्यदं रस्यमित्यर्थः ॥8॥
((कट्वाम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः ।
आहारा राजसस्येष्टा दुःखशोकामयप्रदाः ॥ 9 ॥
* रूक्षं नीरसं, तीक्ष्णं सर्षपादि ॥9॥
// रूक्षशब्दस्यानेकार्थत्वादत्र विवक्षितमर्थमाह -- रूक्षमिति ॥ अन्नस्य तीक्ष्णत्वं घटयन्नाह -- तीक्ष्णमिति ॥ 9 ॥
((यातयामं गतरसं पूति पर्युषितं च यत् ।
उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम् ॥ 10 ॥
अफलाकाङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यते ।
यष्टव्यमेवेति मनः समाधाय स सात्त्विकः ॥ 11 ॥
* ``यामान्तरितं पाकं तु यातयाममितीर्यते ।
क्वचिच्च गतसारं स्यान्नियम्यं यातमस्य यत् ॥" इति च । पूर्वं स्वादु पश्चादन्यथा जातं गतरसम् ।
``शुद्धभागवतानां तु स्वभावापेक्षयैव तु ।
स्वादुत्वादि विजानीयात् पदार्थानां न चान्यथा ॥" इति सूदशास्त्रे ॥10-12॥
// पङ्क्तिपावनपुरुषशेषान्नस्य सात्त्विकत्वप्रसिद्धेः कथं यातयामं तामसमित्यतः प्रकारान्तरेण प्रमाणत ऎव व्याचष्टे -- यामेति ॥ यामं याम्यं नियम्यम् आपेक्षितांशः सार इति यावत् । तर्~हि गतरसमिति पुनरुक्तिरित्यत आह -- पूर्वमिति ॥ यो वा को वा यस्य रसस्तदपगमे यातयामं, स्वादुत्वापगमे गतरसमित्यर्थभेद इति भावः । रूक्षशब्देन राजसतयोक्तनीरसस्य कथं तामसत्वमुच्यत इत्यतो वाऽह -- पूर्वमिति ॥ स्वत ऎव नीरसं रूक्षम्, पूर्व स्वाद्वेव पश्चादन्यथा जातं गतरसमित्यदोष इति भावः । अपगतस्वादुत्वं तामसत्त्वमिति दुर्गमम् । ऎकस्यैव वस्तुनः पुरुषभेदेन स्वादुत्वास्वादुत्वसम्भवेन स्वाद्वादेरनिश्चयादित्यत आह -- शुद्धेति ॥
((अभिसन्धाय तु फलं दम्भार्थमपि चैव यत् ।
इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम् ॥ 12 ॥
विधिहीनमसृष्टान्नं मन्त्रहीनमदक्षिणम् ।
श्रद्धाविरहितं यज्ञं तामसं परिचक्षते ॥ 13 ॥
देवद्विजगुरुप्राज्ञपूजनं शौचमार्जवम् ।
ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते ॥ 14 ॥
अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत् ।
स्वाध्यायाभ्यसनं चैव वा~घ्मयं तप उच्यते ॥ 15 ॥
* ``यागात्तु राजसात् स्वर्गः साङ्कल्पिक उदाहृतः ।
लोकः सदीनदेवानां सनाम्नां वासवादिभिः ॥
विष्ण्वावश्रद्धयाऽयोग्यकामाच्चैषां पुनर्भवेत् ।
नरकं च विना यज्ञं राजसा नरलोकगाः ॥
निषिद्धं कर्म कुर्युश्चेदीयुस्ते नरकं ध्रुवम् ।
कदाचित् सात्त्विकाः कुर्युः कर्म राजसतामसम् ॥
अन्येऽन्यच्च तथाप्येषां स्थितिः स्वाभाविकी पुनः ।
स्वं स्वं कर्म तु सर्वेषां सदैव स्यान्महाफलम् ।
अन्यदल्पफलं चैव बाहुल्यं तेषु लक्षणम् ॥" इति पाद्मे ॥12-15॥
// यदुक्तं राजसयजनेन साङ्कल्पिकः स्वर्ग एवेति तन्न युज्यते । ``अभिसन्धाय तु फलं" इति तत्र फलाभिसन्धिना प्रवृत्तेः, राजसयागेन इन्द्रादिदेवलोकः स्वर्गो भवतीति क्वचिद्वचनाच्चेत्याशङ्कां स्मृत्यन्तरेण परिहरति -- यागादीति ॥ स्वर्गाभिसन्धानात्तत्र प्रवृत्तेः कथं तदभाव इत्यत आह -- विष्णाविति ॥ स्वर्गकामनेन प्रत्युत नरक ऎव भवति, न स्वर्गः । तेषां विष्णावश्रद्धासद्भावेन स्वर्गयोग्यानां तत्कामस्यायोग्यत्वादिति भावः । राजसानां सकामयज्ञाभावेऽपि नरकसद्भावात् कथमयोग्यकामादि तत्कारणमित्यत आह -- विनेति ॥ क्वचिन्नरकदर्शनस्य गतिमाह -- निषिद्धमिति ॥ अत्र नरकलोकप्रचुरत्वोक्त्या राजसेषु मध्यमा विवक्षिताः न तु नित्यत्रैविद्या इति ज्ञातव्यम् । यदि राजसकर्मणा नरकः स्यात्तर्~हि सात्त्विकानामपि तत्करणसम्भवात् नरकप्राप्तिः स्यादित्यत आह -- कदाचिदिति ॥ यद्यपि सात्त्विका राजसतामसे, राजसाः सात्त्विकतामसे, तामसाश्च सात्त्विकराजसे कर्मणी यद्यपि कुर्वन्ति । तथापि तत्कदाचिदेव । स्वाभाविककर्मण्येव प्राधान्येन स्थितिः । महता चाल्पाभिभव इति न फलसङ्कर इति भावः । स्वाभाविकं महाफलमस्वाभाविकम् अल्पफलमित्यतोऽपि स्वाभाविकेनान्याभिभवसम्भवान्न फलसङ्कर इत्याह -- स्वमिति ॥ यदि सात्त्विकादीनां स्वाभाविकास्वाभाविककर्मकरणं स्यात्तर्~हि इदं स्वाभाविकं कर्म, इदं नेति कथं ज्ञायत इत्यत आह -- बाहुल्यमिति ॥ स्वाभाविकादिकर्मसु यद् बहुलं तत् स्वाभाविकम्, अल्पमस्वाभाविकमिति बाहुल्यादिज्ञापकमिति भावः ॥10-15॥
((मनः प्रसादः सौम्यत्वं मौनमात्मविनिग्रहः ।
भावसंशुद्धिरित्येतत्तपो मानसमुच्यते ॥ 16 ॥
श्रद्धया परया तप्तं तपस्तत् त्रिविधं नरैः ।
अफलाकाङ्क्षिभिर्युक्तैः सात्त्विकं परिचक्षते ॥ 17 ॥
सत्कारमानपूजार्थं तपो दम्भेन चैव यत् ।
क्रियते तदिह प्रोक्तं राजसं चलमध्रुवम् ॥ 18 ॥
मूढग्राहेणात्मनो यत्पीडया क्रियते तपः ।
परस्योत्सादनार्थं वा तत्तामसमुदाहृतम् ॥ 19 ॥
दातव्यमिति यद्दानं दीयतेऽनुपकारिणे ।
देशे काले च पात्रे च तद्दानं सात्त्विकं स्मृतम् ॥ 20 ॥
यत्तु प्रत्युपकारार्थं फलमुद्दिश्य वा पुनः ।
दीयते च परिक्लिष्टं तद्दानं राजसं स्मृतम् ॥ 21 ॥
अदेशकाले यद्दानमपात्रेभ्यश्च दीयते ।
असत्कृतमवज्ञातं तत्तामसमुदाहृतम् ॥ 22 ॥
* मौनं मननम् ॥16॥
युक्तैः भगवदर्पणादियोगयुक्तैः । युक्तैरिति दानादिषु सर्वत्र समम् । सत्सम्बन्धित्वादेव कर्मादि सत् ॥17-22॥
// ``मनः प्रसादः सौम्यत्वं मौनं" इत्यत्र मौनशब्दस्यान्यार्थत्वप्रतीतिनिरासायाह -- मौनमिति ॥ कथमन्यथा मानसं तपः स्यादिति भावः । ``अफलाकाङ्क्षिभिर्युक्तैः" इत्यत्र युक्तत्वं नाम किमित्यत आह -- युक्तैरिति ॥ ननु सात्त्विकयज्ञदानयोर्भगवदर्पणमनुक्त्वा तपस्येव किमुच्यत इत्यत आह -- युक्तैरिति ॥ न केवलं तपस्येवैतदुच्यते किन्तु यज्ञदानतपस्सवपि ऎतदनुषञ्जनीयमिति भावः । ``ओं तत्सदिति निर्देशः" इत्येतद्वाक्यान्तरेण व्याख्यातम् । तद्वाक्यविवरणेनैतद्वाक्यं विवृणोति -- सदिति ॥ 16-22॥
((ओन्तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः ।
ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः पुरा ॥ 23 ॥
तस्मादोमित्युदाहृत्य यज्ञदानतपः क्रिया ।
प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम् ॥ 24 ॥
तदित्यनभिसन्धाय फलं यज्ञतपः क्रियाः ।
दानक्रियाश्च विविधाः क्रियन्ते मोक्षकाङ्क्षिभिः ॥ 25 ॥
सद्भावे साधुभावे च सदित्येतत् प्रयुज्यते ।
प्रशस्ते कर्मणि तथा सच्छब्दः पार्थ युज्यते ॥ 26 ॥
यज्ञे तपसि दाने च स्थितिः सदिति चोच्यते ।
कर्म चैव तदर्थीयं सदित्येवाभिधीयते ॥ 27 ॥
अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत् ।
असदित्युच्यते पार्थ नच तत्प्रेत्य नो इह ॥ 28 ॥
ॐ तत्सदिति श्रीमद्भवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे त्रिगुणविभागो नाम सप्तदशोऽध्यायः ॥ 14 ॥
* ॐ तत्सदिति नाम्नां विष्णौ प्रसिद्धत्वात् । ``स्रवत्यनोङ्कृतं ब्रह्म परस्ताच्च विशीर्यते । अनोङ्कृतमासुरं कर्म" इति श्रुतेरनोङ्कृतस्याऽसुरत्वप्रसिद्धेः ।
`अनर्थज्ञोदितो मन्त्रो निरर्थस्त्राति मानतः ।
यन्मन्त्रस्तेन कथितो मन्त्रार्थो ज्ञेय ऎव तत् ॥" इति पैङ्गिश्रुतेश्च । तदर्थत्वेन फलानभिसन्धिपूर्वककर्मण ऎव सात्त्विकत्वाच्च । तद्भक्त्या तत्स्मरणपूर्वकमेव कर्म सदन्यदसदेवेति भावः । राजसस्याप्यसदन्तर्भाव ऎव । विष्णुश्रद्धारहितत्वात् ।
``सात्त्विकं मोक्षदं कर्म राजसं सृतिदुःखदम् ।
तामसं पातदं ज्ञेयं तत्कुर्यात् कर्म वैष्णवम् ॥" इत्याग्नेये ॥23-28॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीतातात्पर्यनिर्णये सप्तदशोऽध्यायः ॥17 ॥
//ततश्च किमित्यत आह -- ओमिति ॥ कर्मादीनां सत्सम्बन्धित्वादेव हि सत्त्वम् । तच्च पदं ब्रह्मैव । ॐ तत्सदिति नाम्नां विष्णौ प्रसिद्धत्वात् । अतो विष्णुसम्बन्ध्येव कर्मादि सदिति भावः । अनेन ``ओं तत्सदिति यद्विष्णोः" इति विवृतं भवति । `अनोङ्कृतं ह्यासुरं स्यात्' इत्यनोङ्कृतस्यासुरत्वप्रसिद्धिः तदुच्चारणे हेतुतयोक्ता । काऽसावित्यतो वैदिकीत्याह -- स्रवतीति ॥ ``ओङ्कृतं त्वपि" इत्युक्तार्थे श्रुतिं चाऽह -- अनर्थज्ञेति ॥ निरर्थो निष्प्रयोजनः । कुतः ? यस्मादर्थज्ञानत ऎव ज्ञातारं त्राति तेन हि मन्त्रः कथितः । नन्वस्मिन्नध्याये सदसत्कर्मविवेकः कार्यः । तं विहाय ॐ तत्सदित्यादिना किमुच्यत इत्यतोऽभिप्रायमाह -- तदर्थत्वेनेति ॥ अत्र ह्योङ्कारार्थस्मरणपूर्वकं तमुच्चार्य भक्त्या भगवदर्थत्वेन निष्कामतया कृतमेव कर्म सात्त्विकमन्यद्राजसादीत्युच्यते । ततश्बैतादृशमेव सत्कर्म अन्यदसत्कर्मेति सदसत्कर्म विविच्योक्तमेवेति भावः । नच वाच्यमत्रैवं विधकर्मणः सत्त्वमन्यश्यासत्त्वं स्वयमेवोच्यत इति । अन्यथा प्रसङ्गाननुगुणत्वप्रसङ्गेन सदादिशब्दस्य सात्त्विकाद्यर्थत्वात् । एतेन ``अफलाकाङ्क्षिभिः" इत्यादेरप्येवमेवाध्यायसङ्गतिः सूचिता भवति ।
ननु ``कर्म चैव तदर्थोऽयं" इति सात्त्विकं कर्मोक्त्वा राजसमनभिधाय ``अश्रद्धया हुतं" इति तामसमेव किमुच्यत इत्यत आह -- राजसस्येति ॥ नात्र तामसमेवासच्छब्देनोच्यते अपि तु राजसमपीति भावः । तत्कुत इत्यतोऽश्रद्धयेत्युक्तासल्लक्षणस्य राजसेऽपि भावादित्याह -- विष्ण्विति ॥ ``नच तत्प्रेत्य नो इह" इति यद्राजसतामसकर्मणोः फलमुक्तं तद्विविच्य स्मृत्या दर्शयति -- सात्त्विकमिति ॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्य श्रीमद्भगवद्गीतातात्पर्यनिर्णयस्य टीकायां जयतीर्थमुनिविरचितायां न्यायदीपिकायां सप्तदशोऽध्यायः ॥17॥
॥ श्रीवादिराजगुर्वन्तर्गतमध्वेशाभिन्न अश्विनीहयग्रीवात्मककृष्णार्पणमस्तु ॥
*******************************************************************************
॥श्रीगुरुभ्योनमः ॥
श्रीवादिराजगुर्वन्तर्गत श्रीमध्वेशाभिन्नश्रीलक्ष्मीहयग्रीवाय नमः ॥
॥ अथ अष्टादशोऽध्यायः ॥
अर्जुन उवाच --
संन्यासस्य महाबाहो तत्त्वमिच्छामि वेदितुम् ।
त्यागस्य च हृषिकेश पृथक्केशिनिषूदन ॥ 1 ॥
श्रीभगवानुवाच --
काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः ।
सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः ॥ 2 ॥
* ॥हरिः ॐ ॥ सर्वाध्यायोक्तधर्मस्य समासतो निर्णयात्मकोऽनुक्तत्रैगुण्यवादी चायम् ॥1-2॥
// ॥हरिः ॐ ॥ ऎतदध्यायप्रतिपाद्यमर्थं दर्शयति -- सर्वेति ॥ यत्सर्वेष्वध्यायेषु विप्रकीर्णतया पुरुषार्थसाधनमुक्तं तन्मन्दानां बुद्ध्यारोहार्थं सङ्क्षेपेणास्मिन्नध्याये निरूप्यते । चतुर्दशाद्यनुक्तं त्रैगुण्यं चोच्यत इत्यर्थः ॥1-2 ॥
((त्याज्यं दोषवदित्येके कर्म प्राहुर्मनीषिणः ।
यज्ञदानतपः कर्म न त्याज्यमिति चापरे ॥ 3 ॥
निश्चयं श्रुणु मे तत्र त्यागे भरतसत्तम ।
त्यागो हि पुरुषव्याघ्र त्रिविधः सम्प्रकीर्तितः ॥ 4 ॥
* ``मनीषिणः" इत्युक्तत्वात् तेऽप्यनिन्द्याः । अतः ``त्याज्यं दोषवत्" इत्यस्यार्थः `सङ्गं त्यक्त्वा फलं च" इति ॥3-4॥
// ``सर्वकर्मफलत्यागं" इति स्वोक्तत्यागस्वरूपावधारणाय प्रातीतिकी विद्वन्मतविप्रतिपत्तिरुद्भाव्यते -- ``त्याज्यम्" इति । अत्र यज्ञदानतपःकर्म न त्याज्यं, कार्यमेव तदिति भगवन्मतविरोधित्वात् त्याज्यं दोषवदिति त्यागपक्षिणो निन्द्या इत्यन्यथाप्रतीतिनिरासायाह -- मनीषिण इति ॥ तन्मतस्य भगवन्मतविरुद्धत्वात् कथं ते न निन्द्या इत्यत आह -- अत इति ॥ ``कार्यमित्येव यत्कर्म" इत्यत्र यथा कर्मणि सङ्गफलत्यागेन कर्मत्यागो वर्ण्यते, न तु कर्मस्वरूपत्यागेन, तथा त्याज्यमित्येतदर्थो वर्णयितुं शक्यते । अतो न तस्य भगवन्मतविरोधः । कुतोऽर्थान्तरकल्पनेति चेत् मनीषिण इत्युक्तत्वादेवेति भावः ॥3-4॥
((यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत् ।
यज्ञो दानं तपश्बैव पावनानि मनीषिणाम् ॥ 5 ॥
एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च ।
कर्तव्यानीति मे पार्थ निश्चितं मतमुत्तमम् ॥ 6 ॥
* द्रव्ययज्ञादीनां मध्ये स्वोचितो यज्ञो विद्यादानादिषु स्वोचितं दानं स्वोचितं तपश्च सर्वैर्वर्णाश्रमिभिरन्यैश्च कार्यमेवेत्यर्थः । विष्णुनामस्वाध्यायोऽन्त्यानां सत्योपवासादितपश्च ॥5-6॥
// निश्चयं शृण्विति प्रतिज्ञातमुच्यते -- यज्ञेति ॥ तत्र ज्योतिष्टोमादियज्ञेषु हिरण्यादिदानेषु यतीनां शूद्रादीनां चाधिकाराभावात् ऊध्वरेतस्त्वादितपस्सु गृहस्थादीनाम् अधिकाराभावात् कथं सर्वेषां यज्ञादि विधीयत इत्यत आह -- द्रव्येति ॥ नात्र सर्वेषां ज्योतिष्टोमादियज्ञः , हिरण्यादिदानानि, ऊर्ध्वरेतस्त्वादितपांस्येव विधीयन्ते, किन्तु द्रव्ययज्ञादियज्ञाः, विद्यादिदानानि, सत्यवचनादितपांसि । तेषां च यत्यादीनामप्युचितत्वात् युक्तं सर्वेषां तद्विधिरिति भावः । ``नाग्निर्न यज्ञः" इत्यादेः त्रिवर्णबाह्यानां न क्वापि तेषां स्वाध्याययज्ञेऽधिकारोऽस्त्येव । नच वेदानधिकारेण तदभावः । विष्णुनामस्वाध्यायज्ञेऽधिकारसम्भवादिति भावः । तेषां किं तप इत्यत आह -- सत्येति ॥5-6 ॥
((नियतस्य तु संन्यासः कर्मणो नोपपद्यते ।
मोहात्तस्य परित्यागस्तामसः परिकीर्तितः ॥ 7 ॥
दुःखमित्येव यत्कर्म कायक्लेशभयात्त्यजेत् ।
स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत् ॥ 8 ॥
कार्यमित्येव यत् कर्म नियतं क्रियतेऽर्जुन ।
सङ्गं त्यक्त्वा फलं चैव स त्यागः सात्त्विको मतः ॥ 9 ॥
* सङ्गफलत्यागमृते स्वरूपत्यागः कार्य इति मिथ्याज्ञानाख्यमोहात् । `स्वयज्ञादीन् परित्यज्य निरयं यान्त्यसंशयम् ॥" इति पाद्मे ॥7॥
मोहं विना दृष्टदुःखमित्येव । दुःखशब्देन केवलं मानसम् । कायक्लेशस्य पृथगुक्तेः ।
``दुःखं तु मानसं ज्ञेयमायासो बाह्य उच्यते ।
विशेषस्य विवक्षायामन्यथा सर्वमेव तु ॥``
// ``त्यागो हि" इत्युक्तं प्रपञ्च्यते -- ``नियतस्य" इति । तत्र कर्मत्यागस्य स्वयमेव स्तूयमानत्वात् कथं मोहनिमित्तत्वमुच्यत इत्यत आह -- सङ्गेति ॥ स्वरूपत्यागस्यापि मोहनिमित्तत्वं कुतः ? येनायमर्थः स्यादित्यत आह -- स्वेति ॥ ननु पुरुषार्थसाधनेऽपि कर्मणि दुःखसाधनमिति मिथ्याज्ञानेन तत्स्वरूपपरित्यागस्य राजसत्वकथनात् कथं तामसत्वमिति आह -- मोहमिति ॥ मोहं विनेति ॥ परत्रापीदं दुःखसाधनमिति मिथ्याज्ञानं विनेत्यर्थः । दुःखशब्देन शरीरायास उच्यत इत्यन्यथाप्रतीतिनिरासायाह -- दुःखेति ॥ केवलमिति ॥ शरीरायासद्वारा प्राप्तं न चेत्यर्थः । शरीरायास एवार्थः किं न स्यादित्यत आह -- कार्येति ॥ न केवलमन्यथा पुनरुक्तिप्रसङ्गादत्र दुःखशब्दो मानसदुःखार्थः । किन्तु तथा वचनाच्चेत्याह -- दुःखमिति ॥ अर्थविशेषविवक्षायामेवं ज्ञेयं । तदभावे द्वयमपि शब्दद्वयेनोच्यत इति भावः ॥ 8-9 ॥
((न द्वेष्ट्यकुशलं कर्म कुशले नानुषज्जते ।
त्यागी सत्त्वसमाविष्टो मेधावी छिन्नसंशयः ॥ 10 ॥
न हि देहभृता शक्यं त्यक्तुं कर्माण्यशेषतः ।
यस्तु कर्मफलत्यागी स त्यागीत्यभिधीयते ॥ 11 ॥
* न द्वेष्ट्यकुशलं कर्म केवलं दृष्टदुःखदम् ।
जन्मान्तरकृते पुण्ये न सज्जेत् सात्त्विकश्चले ॥
यः सम्यक्तत्त्वविद्विष्णोः तदर्पणधियैव तु ।
फलेच्छावर्जितस्तस्य कर्म बन्धाय नो भवेत् ॥
बहुलं चेदल्पदोषं यावदेवापरोक्षदृक् ॥" इति च ॥10-11॥
// सात्त्विकत्यागी पुनर्निरूप्यते -- `न द्वेष्टि' इति । तत्र कथं सात्त्विकत्यागिनोऽकुशलकर्माद्वेषः कुशलकर्मासङ्गश्चोच्यते । ``कार्यमित्येव" इत्युक्तिविरोधादित्यतः प्रमाणान्तरेण तद्व्याचष्टे -- न द्वेष्टीति ॥ पुण्य इति ॥ तत्फल इति यावत् ॥ तमेव स्तौति -- य इति ॥ सम्यगित्यनेन मेधावीत्याद्युक्तार्थं भवति । तदर्पणेनेत्यनेन त्यागीत्युक्तार्थं स्यात् । तस्येत्यनेनानिष्टमित्यस्य तात्पर्यमुक्तं भवति । किं तस्य सर्वथा बन्धकं कर्म न बन्धाय भवतीत्यत आह -- बहुलं चेदिति ॥ बहुलं चेत् सर्वत्यागिनामप्यत्यल्पदोषकरं कियत्पर्यन्तमित्यत आह -- यावदिति ॥10-11॥
((अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फलम् ।
भवत्यत्यागिनां प्रेत्य न तु संन्यासिनां क्वचित् ॥ 12 ॥
* अन्येषामिष्टम् । अस्य तु त्यागित्वादेव नेष्टम् । `ज्ञानादेर्मोक्षभोग्याच्च नान्यत् स्यात्कर्मणः फलम्', `त्यागिनस्तत्त्वसंवेत्तुरन्येषां तदृते फलम् ॥" इति च ।
केवलकाम्यकर्मणां फलानपेक्षयाऽप्यकरणमित्येवांस्त्यागात् संन्यासस्य विशेष इत्यत्यागिनां प्रतियोगित्वेन न्यासिन उक्ताः । त्यागित्वं तेषामपि ह्यस्ति ।
`परेच्छयाऽपि ये काम्यं कर्मकुर्युर्न तु क्वचित् ।
न्यासिनो नाम तेऽन्येभ्यः फलत्यागिभ्य उत्तमाः ॥" इति च ॥12॥
// ``अनिष्टमिष्टं मिश्रं च" इत्यत्र बन्धकं कर्मफलं त्यागिन इष्टमित्यन्यथाप्रतीतिनिरासायाह -- अन्येषामिति ॥ त्यागिन एवेष्टं किं न स्यादित्यत आह -- अस्येति ॥ न त्यागिनो बन्धकं कर्मफलमिष्टम् । त्यागित्वादेव । `यस्तु कर्मफलत्यागी' इति कर्मफलेच्छात्यागिन ऎव त्यागित्वेनोक्तत्वादिति भावः । भवेदेवं यदि `अनिष्टमिष्टं मिश्रं च' इत्यत्र बन्धककर्मफलं विवक्षितं स्यात् । न चैवमबन्धकर्मफलस्यापि ग्रहणे बाधकाभावादित्यतस्त्यागिनो बन्धककर्मफलस्यैवाभावेऽत्यागिनो बन्धककर्मफलाभावे प्रमाणमाह -- ज्ञानादेरिति ॥ त्यागिमात्रस्य ज्ञानभक्त्यादेः । तस्यैवापरोक्षतस्तत्त्वसंवेत्तुः मोक्षभोग्यानन्दातिशयात् । तदृते ज्ञानादिकमृते । अनेन `भवत्यत्यागिनां' इत्युक्तार्थं भवति । भवत्यत्यागिनां प्रेत्य न तु त्यागिनामित्यत्यागिनां प्रतियोगित्वेन त्यागिन ऎव वक्तव्याः । संन्यासिनस्तु किमित्युच्यन्त इत्यत आह -- केवलेति ॥ अत्यागिप्रतियोगितया संन्यासिकथनं नानुपपन्नम् । स्वार्थे फलेच्छाभावेऽपि परोपकारार्थं कारीर्यादिकेवलकाम्यकर्मकरणमस्ति त्यागिनाम् । तदपि न्यासिनां नास्तीत्येतावन्मात्रविशेषवत्त्वात् त्यागिभ्यो विशेषो न्यासिनामित्यर्थः । एतावानेव चेद्विशेषः तत् किं तयोः साम्यम् ? येन त्यागिषु वक्तव्येषु न्यासिनामुक्तिरित्यत आह -- त्यागित्वमिति ॥ कर्मफलेच्छाभावो द्वयोरपि सम इत्यर्थः । त्यागिभ्यो न्यासिनामुक्त ऎव विशेष इत्येतत् कुत इत्यत आह -- परेति ॥12॥
((पञ्चैतानि महाबाहो कारणानि निबोध मे ।
साङ्ख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम् ॥ 13 ॥
* `कथितं परमं साङ्ख्यं कपिलाख्येन विष्णुना ।
सेश्वरं वैदिकं साक्षात् ज्ञेयमन्यदवैदिकम् ॥" इति च ॥13॥
// कर्मण्यभिमानत्यागोऽत्रापि संन्यास इति भावेन कर्मकारणान्युच्यन्ते -- पञ्च इति ॥ तत्र साङ्ख्यकृतान्तपदेन परमसाङ्ख्यसिद्धान्त एवोच्यते, न तु प्रसिद्धसाङ्ख्यमेव । अत्र दैवशब्देनेश्वरस्य गृहीतत्वात् परमसाङ्ख्यस्य स सेश्वरत्वात् प्रसिद्धसाङ्ख्यस्य निरीश्वरत्वात्, तथा परमसाङ्ख्यस्य वैदिकत्वेनात्रोपादानसम्भवात् अन्यस्यावैदिकत्वेन तदसम्भवादिति भावेन तयोः सेश्वरवादौ प्रमाणमाह -- कथितमिति ॥
(( अधिष्ठानं तथा कर्ता करणं च पृथग्विधम् ।
विविधाश्च पृथक् चेष्टा दैवं चैवात्र पञ्चमम् ॥ 14 ॥
शरीरवा~घX मनोभिर्यत् कर्म प्रारभते नरः ।
न्याय्यं वा विपरीतं वा पञ्चैते तस्य हेतवः ॥ 15 ॥
तत्रैवं सति कर्तारमात्मानं केवलं तु यः ।
पश्यत्यकृतबुद्धित्वान्न स पश्यति दुर्मतिः ॥ 16 ॥
* अधिष्ठानं शरीरादि ॥14-16॥
// अधिष्ठानपदस्यात्र विवक्षितमर्थमाह -- अधिष्ठानमिति ॥14-16॥
((यस्य नाहङ्कृतो भावो बुद्धिर्यस्य न लिप्यते ।
हत्वाऽपि स इमांल्लोकान्न हन्ति न निबध्यते ॥ 17 ॥
* ``स्वातन्त्र्यमीश्वरे वेत्ति नैवात्मनि कदाचन ।
ईश्वराधीनमेवात्मन् स्वातन्त्र्यं तु जडान् प्रति ॥
तारतम्येन लक्ष्म्यादेर्जीवान् प्रति च सर्वशः ।
यस्तदर्थं समुत्पन्नो यथा रुद्रो यथा यमः ।
हत्वाऽपि स इमान् लोकान् न हन्ति न निबद्ध्यते ॥
अज्ञस्तदर्थं जातोऽपि बध्यते दैत्यवद् ध्रुवम् ।
अपरोक्षदृ~घX न जातो यस्तदर्थं मुक्तिगं सुखम् ॥
ह्रसेत्तस्य परोक्षज्ञः किञ्चिद्दोषेण लिप्यते ॥" इति च । अस्वातन्त्र्यज्ञानाद् हन्मीति भावोऽप्यस्य नास्तीति न हन्ति । अन्यस्य भावोऽस्तीति विशेषः । ``बुद्धिर्यस्य न लिप्यते" इति । रागान्न हन्ति, किन्तु धर्मबुद्ध्या ।
``स्वातन्त्र्यं मन्यमानस्य रागाद्धर्मं च कुर्वतः ।
तन्निमित्तस्तु दोषः स्याद् गुणश्च स्यात् स्वकर्मजः ॥" इति च ॥17॥
// तज्जञानं स्तूयते -- `यस्य' इति । ऎतच्च सर्वानहङ्कारादिमतां सममित्यन्यथाप्रतीतिनिरासाय वचनान्तरेणैव व्याचष्टे -- स्वातन्त्र्यमिति ॥ आत्मन् आत्मनि । लक्ष्म्यादेश्च स्वातन्त्र्यं वेत्तीत्यनुषज्यते । तदर्थं लोकहननार्थम् । तदर्थं जातत्वेनैवालं, किमीश्वरस्वातन्त्र्यादिज्ञानेत्यत आह -- अज्ञ इति ॥ लोकान् हन्ति चेदिति शेषः । तर्~हि ज्ञानेनैवालं, किं तदर्थं जातत्वेनेत्यतः परोक्षापरोक्षज्ञानिनोरपि तदर्थमजातयोर्लोकहनने विभागेन बाधकमाह -- अपरोक्षेति ॥ परोक्षज्ञानस्तदर्थमजातो यदि लोकान् हन्ति तर्~हि किञ्चिद्दोषेण लिप्यत इत्यर्थः । अपरोक्षेत्युक्त्या ज्ञानं चापरोक्षमपेक्षितमिति सूचितम् । परोक्षज्ञानेन तदर्थं जातत्वेनैवालं, किमपरोक्षज्ञानेनेत्यतो वाऽऽह -- परोक्षेति ॥ अत्र तदर्थं जात इति ग्राह्यम् । ननु सर्वेषामप्यस्वतन्त्रत्वेनाहन्तृत्वात् अस्यैव न हन्तीति किं विशिष्योच्यत इत्यत आह -- अस्वातन्त्र्येति ॥ भावोऽस्य नास्तीत्यन्यस्य भावोऽस्तीति हेतोर्न हन्तीति विशेषो युक्त इति योज्यम् । न हन्तीत्युच्यत इत्यतो न पौनरुक्त्यम् । ननु बुद्धेरलेपो नाम स्वातन्त्र्याभिमान परित्यागः । अतः पुनरुक्तिरित्यत आह -- बुद्धिरिति ॥ भवेदेवं, `यस्य नाहङ्कृतो भावो', `बुद्धिर्यस्य न लिप्यते' इत्यनयोरर्थभेदो यदि स्वातन्त्र्याभिमानफलरागयोरुभयोरपि बन्धकत्वं स्यात् । तदेव कुत इत्यत आह -- स्वातन्त्र्यमिति ॥17॥
((ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना ।
करणं कर्म कर्तेति त्रिविधः कर्मसङ्ग्रहः ॥ 18 ॥
* `सम्प्रेरयितुरीशस्य कर्मस्वखिलचेतनाम् ।
ज्ञातृज्ञेयज्ञानरूपा प्रेरणा सा स ऎव यत् ॥
स्वरूपेणैव नित्या सा विशेषात्मतया भवेत् ।
विशेषोऽपि स्वरूपेण नित्यश्च स्याद्विशेषतः ॥
स्वनिर्वाहकतया यस्मान्नानवस्था विशिष्टवत् ।
विशेष्यस्य विशिष्टस्याप्यभेदेऽप्यविवादिनि ॥
विशेषोऽस्त्येव नात्रास्ति ह्यनवस्था कदाचन ।
ज्ञातुरन्योऽहमिति तु कस्याप्यनुभवो न हि ॥
अस्मि ज्ञातैवाहमिति भेदस्तस्मात्तयोः कुतः ।
पश्यामीति विशेषोऽयमिदानीं मे समुत्थितः ॥
इत्याद्यनुभवाद्भेदो न विशेष्यविशिष्टयोः ।
विशेषणं तु द्विविधं विशेषाख्यं तथेतरत् ॥
विशेषमणयेद् येन प्रोक्तं तेन विशेषणम् ।
विशेषोऽपि विशेषस्य स्वस्यैव गमको भवेत् ॥" इत्यादि तत्वविवेके । सङ्ग्रहः पञ्चकारणानां सङ्क्षेपः । अधिष्ठानस्य करणेऽन्तर्भावात् । दैवशब्दोदितेश्वरस्यैव मुख्यकर्तृत्वात् स्वतन्त्रास्वतन्त्रकर्त्रोः कर्तृशब्देनैवोक्तेस्त्रैविध्यम् । कर्म चेष्टा ॥18॥
// ``दैवं चैव" इतीश्वरस्य कर्मसु प्रेरकत्वमुक्तम् । तत्प्रेरणास्वरूपं निरूप्यते -- ``ज्ञानम्" इति । तत्स्मृत्योपपादयति । सम्प्रेरयितुरिति ॥ प्रेरणाया भगवद्धर्मत्वात् कथं ज्ञातृत्वादीत्यत आह -- सेति ॥ प्रेरणायास्तदा तदा जायमानायाः कथं भगवत्स्वरूपत्वमित्यत आह -- स्वरूपेणेति ॥ न प्रेरणा तदा तदोत्पद्यते ॥ किन्तु भगवत्स्वरूपतया सर्वदा विद्यमानैव व्यक्तिरूपेण जायते । अतो भगवत्स्वरूपत्वमुपपन्नमिति भावः ।
योऽयं प्रेरणया व्यक्तिरूपो विशेषः सोऽपि नानित्य इति शङ्कनीयम् । तस्य नित्यप्रेरणारूपत्वेन सदा विद्यमानस्यैव विशेषतो जायमानत्वादित्याह -- विशेषोऽपीति ॥ ऎवं विशेषसस्यापि विशेषस्तस्यापीत्यनवस्था स्यादित्यत आह -- स्वनिर्वाहकतेति ॥ भवेदनवस्था, यदि प्रेरणया भिन्नो विशेषस्तस्यापि तथेत्यङ्गीक्रियते । न चैवम् । सा प्रेरणा स्वरूपमेव स्वात्मानं विशेषतया विशेषितया निर्वहति । सा विशेषोऽप्येवमित्यङ्गीकारादित्यर्थः । ऎतद् दृष्टान्तेनोपपादयति -- विशिष्टवदिति ॥ तदेव विवृणोति -- विशेष्यस्येति ॥ अस्ति तावद् विशेष्यविशिष्टयोरविप्रतिपन्नोऽभेदः । धर्मधर्मिभेदवादिनाऽपि तस्याङ्गीकृतत्वात् । नच विशेष्यविशिष्टयोर्निर्विशेषाभेदः । तथासति ज्ञातृदेवदत्तशब्दयोः पर्यायतापातात् । नच विशेषोऽपि निर्विशेषः । तथात्वे विशेषविशेषिशब्दयोः पर्यायत्वापत्तेः । न चैवं विशेष्यस्यापि विशेषाङ्गीकारेणानवस्थाऽस्ति । विशेष्यवस्तुनस्तद्विशेषाणां च स्वनिर्वाहकत्वात् । ऎवं ईश्वरप्रेरणाया विशेषस्तस्यापि विशेष इत्यङ्गीकारे न कश्चिद्दोष इति भावः । भवेदेतद्विशेष्यविशिष्टयोरभेदसिद्धौ, स ऎव कुत इत्यत आह -- ज्ञातुरिति ॥ विशेष्यविशिष्टयोर्भेदानुभवाभावात् अभेदानुभवसद्भावाच्च न भेद इति भावः । विशेष्यविशिष्टयोरभेदेऽनुभवान्तरं च दर्शयति -- पश्यामीति ॥ म इति विशेष्यमुच्यते । विशेषः समुत्थित इति तस्यैव विशिष्टत्वम् ।
विशेषणयुक्तं विशिष्टम् । तद्विशेषणं निरूपयति -- विशेषणमिति ॥ विशेषाख्यं यथा ``वस्तुनोऽस्तित्वं", ``फलस्य नीलत्वम्" इति । इतरदत्यन्तभिन्नं दण्डादि । तदुभयमपि विशेषणमिति कस्मादुच्यत इत्यत आह -- विशेषमिति ॥ अणयेत् गमयेत् । ननु दण्डादिविशेषणं वस्तुनि दण्डत्वादिविशेषं गमयति, विशेषः किं गमयेदित्यत आह -- विशेषेति ॥
पूर्वोक्तकर्मकारणानि सङ्क्षिप्यात्रोच्यन्ते -- `करणं' इति ॥ तत्र कर्मसङ्ग्रहकथनं क्वोपयुज्यत इत्यतस्तदनूद्य मध्यमपदलोपिसमासोऽयमिति भावेन व्याचष्टे -- सङ्ग्रह इति ॥ कथमधिष्ठानादिपञ्चकस्य करणादित्रित्वमित्यत आह -- अधिष्ठानस्येति ॥ ननु पूर्वानुक्तकर्मणोऽत्र कथनात् कथं तेषामयं सङ्क्षेपः स्यादित्यत आह -- कर्मेति ॥18॥
((ज्ञानं कर्म च कर्ता च त्रिधैव गुणभेदतः ।
प्रोच्यते गुणसङ्ख्याने यथावद् शृणु तान्यपि ॥ 19 ॥
*एवं गुणसङ्ख्याने परमसाङ्ख्यशास्त्रे ॥19॥
//सात्त्विकज्ञानादिसाधनानुष्ठानाय गुणभेदा उच्यन्ते -- `ज्ञानम्' इति । तत्र, गुणाः सङ्ख्यायन्तेऽस्मिन्निति गुणसङ्ख्यानपदेन प्रसिद्धसाङ्ख्यशास्त्रमुच्यत इत्यन्यथाप्रतीतिनिरासायाह -- ऎवमिति ॥ प्रसिद्धसाङ्ख्यशास्त्रमेवात्र किं न स्यादित्यत ऎवमित्युक्तम् । ऎवं सर्वगतस्येश्वरस्य सर्वतो भेदादिविषयं ज्ञानं सात्त्विकमित्यादि गुणसङ्ख्याने प्रोच्यत इति ह्यत्रोच्यते । तच्च परमसाङ्ख्यशास्त्रग्रहण एवोपपद्यते, न निरीश्वरसाङ्ख्यग्रहण इति भावः ॥ 19॥
((सर्वभूतेषु येनैकं भावमव्ययमीक्षते ।
अविभक्तं विभक्तेषु तद् ज्ञानं विद्धि सात्त्विकम् ॥ 20 ॥
* `अस्तित्वाद् भूतनामभ्यः सर्वजीवेभ्य ऎव च ।
मुक्तेभ्योऽपि पृथक्त्वेन विष्णोः सर्वत्रगस्य च ।
ऐक्येन च स्वरूपाणां प्रादुर्भावादिकात्मनाम् ।
तारतम्येन जीवानां भेदेनैव परस्परम् ॥
जडेभ्यश्बैव जीवानां जडानां च परस्परम् ।
तेभ्यो विष्णोश्च सम्यक् तल्लक्षणज्ञानपूर्वकम् ॥
ज्ञानं सात्त्विकमुद्दिष्टं यत्साक्षान्मोक्षकारणम् ॥ 20 ॥
// तत्र प्रतिज्ञातं ज्ञानत्रैविध्यमुच्यते -- सर्व इति ॥ तदप्रतीत्यादिनिरासाय स्मृत्यैव व्याचष्टे -- अस्तित्वादिति ॥ पृथक्त्वेनेत्यन्तेन सर्वभूतेष्विति सप्तम्या अभिप्रायोऽप्युक्तो भवति । विष्णोरित्यादिना अविभक्तमित्युक्तार्थं भवति । तारतम्येनेत्यनेन विभक्तेष्विति द्वेधा व्याख्यातं भवति । अथ भूतशब्देन भवतीति जडं चोच्यत इत्यभिप्रेत्य विभक्तेष्वित्यस्यार्थ उच्यते -- जडेभ्य इति ॥ तेभ्यो जडेभ्य इत्यनेन सप्तम्यर्थ उक्तो भवति -- सम्यगिति ॥ विष्णुः सर्वोत्तमः, जीवास्तदधीनज्ञानादिमन्तः, जडं तद्रहितमित्यतो विष्ण्वादीनां भेद इत्यर्थः । अनेनैकमित्युक्ताभिप्रायं भवति ॥
((पृथक्त्वेन तु यद् ज्ञानं नानाभावान् पृथग्विधान् ।
वेत्ति सर्वेषु भूतेषु तद् ज्ञानं विद्धि राजसम् ॥ 21 ॥
यत्तु कृत्स्नवदेकस्मिन् कार्ये सक्तमहैतुकम् ।
अतत्त्वार्थवदल्पं च तत्तामसमुदाहृतम् ॥ 22 ॥
* विष्णोरन्यस्य याथार्थ्यज्ञानं राजसमुच्यते ।
यदि विष्णुं न जानाति यदि वा मिश्रतत्त्ववित् ॥
अन्यथाकरणीयत्वात् कार्याख्यं जीवमेव यः ।
अकार्यं ब्रह्म जानाति स एवाखिलमित्यपि ॥
ऎकजीवपरिज्ञानात् कृत्स्नज्ञोऽस्मीति मन्यते ।
युक्तिविज्ञानराहित्यात् स्वपक्षस्याप्ययुक्तितः ।
अयुक्ततामेव गुणं मन्यते चाल्पदर्शनः ।
अतत्त्वार्थं जगद् ब्रूते तत्त्वार्थज्ञानवर्जनात् ॥
स मुख्यतामसज्ञानी ह्येकैकेनापि किं पुनः ॥
सर्वैरेतैर्विशेषैश्च युक्तः पापमताधिकः ॥"
इति पाद्मे ।
`पृथक्त्वेन तु यज्जञानं' इत्यस्य व्याख्या `नानाभावात्' इत्यादि । सर्वगतमेकमीश्वरं न जानातीत्येतावतैव राजसत्वम् । ऎकस्य कृत्स्नवज्जञानमेव तामसम् । मुक्तत्वादिरूपेण अन्यथा करणीयत्वात् पराधीनत्वेनाल्पस्य जीवस्य स्वातन्त्र्यादि गुणपूर्णत्वात् कृत्स्नेन ब्रह्मणैक्यज्ञानं च महातामसम् । किं पुनस्तावनमात्रं सर्वमिति ज्ञानम् । किं पुनस्तत्राप्येकजीवादन्यत् किमपि नास्तीति । अहैतुकं ज्ञानं सर्वमपि तामसम् । किमु तदेवोक्तलक्षणम् । अतत्त्वार्थवत् सदसद्वैलक्षण्याद्यन्यथार्थकल्पनायुक्तमेव तामसम् । अज्ञानबहुलत्वात् । किमु तदेवोक्तमिथ्याज्ञानबहुलमित्यपुनरुक्तिः । ऎकस्मिन् सर्वज्ञानं कार्ये जीवे पूर्णब्रह्मेति सक्तं ज्ञानं निर्युक्तिकं चातत्त्वार्थकल्पनायुक्तमल्पज्ञानं च पृथक् पृथक् तामसानीति वा । मायावादे त्वेतानि समस्तानि । अन्यत्रापि त्वहैतुकत्वादिकं विरुद्धवादिषु समं सर्वेषु ॥21-22॥
// विष्णोरित्यनेन पृथक्त्वेनेत्युक्ततात्पर्यं भवति । सात्त्विकज्ञानस्यापि विष्णोरन्यत्र यथार्थत्वेनोक्तत्वात् कथं राजसत्वमस्य स्यादित्यत आह -- यदीति ॥ मिश्रतत्त्ववित् सन्दिग्धतया भगवत्स्वरूपं जानन्नित्यर्थः । अन्यथेत्यनेन यत्त्वित्युक्तार्थं भवति । यत्किञ्चिदेकं कृत्स्नं जानातीति चादौ द्रष्टव्यम् । जानातीत्यन्तेन कार्ये कृत्स्नवत् सक्तमित्यस्य तात्पर्यमुक्तं भवति । कृत्स्नमकार्यत्वादिगुणपूर्णं ब्रह्म यथा विषयीकरोति ब्रह्मेति तथेत्यर्थः । स एवेत्यनेन कार्ये कृत्स्नवत् सक्तमित्यस्य कृत्स्नपदमखिलजगद्विषयमङ्गीकृत्य अर्थान्तरमुक्ततात्पर्यं भवति । युक्तीत्यनेनाहैतुकमित्यस्य तात्पर्यमुक्तं भवति । स्वस्य युक्तिज्ञानाभावात् तज्जञेयार्थस्य युक्तिराहित्याच्च तथा मन्यन्त इत्यर्थः । अल्पेत्यनेनाल्पमित्युक्तार्थं भवति । अल्पसम्यग्ज्ञान इत्यर्थः । भ्रान्तस्याप्यधिष्ठानादिविषयसम्यग् ज्ञानवत्त्वात् । अतत्त्वार्थमित्यनेनातत्त्वार्थवदित्युक्तार्थं भवति । यथावस्थिताकाराद् विपरीताकारमित्यर्थः । तत्त्वार्थज्ञानवर्जनादिति ॥ यथावस्थिताकारज्ञानाभावादित्यर्थः ।
ननु सर्वेषु भूतेषु पृथक्त्वेन यज्जञानमित्येतदेव नानाभावान् पृथग् विधानित्युच्यते । अतः पुनरुक्तिदोष इत्यत आह -- पृथक्त्वेनेति ॥ व्याख्यानव्याख्येयभावात् न पुनरुक्तिदोष इति भावः । ननु सर्वेषु भूतेषु पृथक्त्वज्ञानविषयस्य सात्त्विकत्वेनोक्तत्वात् कथं राजसत्वमत्रोच्यत इत्यत आह -- सर्वेति ॥ न केवलं सर्वेषु भूतेषु पृथक्त्वविषयं सात्त्विकज्ञानमुक्तम् । किन्तु तद्गतेश्वरमपृथक्त्वेन सर्वोत्तमत्वेन च विषयीकुर्वन् । तदभावाद्भूतेषु पृथक्त्वविषयत्वेऽप्यस्य राजसत्वं युक्तमिति भावः । अनेन यदीति स्मृतिर्विवृता भवति ।
`यत्तु कृत्स्नवदेकस्मिन् कार्ये सक्तं ज्ञानं तदहैतुकं, अतत्त्वार्थवदल्पसज्जञानयुक्तम्' इति नियतमेवातः तदुक्तौ पुनरुक्तिरित्यत उक्तं विवृण्वन्नाह -- ऎकस्येति ॥ यस्य कस्यचिदेकस्य नास्तीत्यन्तमुक्तार्थविवरणम् । न पूर्वोक्तस्यैवाहैतुकत्वादिविशेषणानि विधीयन्ते, येन पुनरुक्तिः स्यात् । किन्त्वहैतुकत्वादीनां स्वयमेव तामसानामुक्तविशेषणयोगितया अतितामसत्वज्ञापनाय उक्तविशेषणान्युच्यन्त इति भावः । सदसद्वैलक्षण्याद्यविद्यमानाकारकल्पनायुक्तमित्यर्थः । ऎवमेषां पदानां सामानाधिकरण्यमङ्गीकृत्यैव पुनरुक्तिं परिहृत्यानेकाधिकरणतयाऽपि तां परिहरति -- ऎकस्मिन्निति ॥ कार्ये सर्वं जगदिति, सक्तमेकस्मिन् कार्ये सर्वं जगदिति चैतानि पदानि योज्यानीति वा न पुनरुक्तिरिति सम्बद्ध्यते । नन्वेवं विधज्ञानस्य क्वाप्यभावात् तस्य तामसत्वकथनं कथमित्यत आह -- मायेति ॥21-22॥
<लन्ग्=सन्>((नियतं सङ्गरहितमरागद्वेषतः कृतम् ।
अफलप्रेप्सुना कर्म यत्तत्सात्त्विकमुच्यते ॥ 23 ॥
यत्तु कामेप्सुना कर्म साहङ्कारेण वा पुनः ।
क्रियते बहुलायासं तद्राजसमुदाहृतम् ॥ 24 ॥
अनुबन्धं क्षयं हिंसामनपेक्ष्य च पौरुषम् ।
मोहादारभ्यते कर्म यत्तत्तामसमुच्यते ॥ 25 ॥
* `मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा' इत्युक्तत्वात्, `ये मे मतम्', `ये त्वेतत्' इति च तस्य मोक्षसाधनस्याकरणे प्रत्यवायस्य चोक्तेर्भगवदर्पितत्वेन सर्वकर्मकरणं तस्य विष्णोः सर्वपरमत्वज्ञानं च नियतमेवेति ज्ञायते । `अध्यात्मचेतसा' इत्युक्तत्वात् तत्स्वरूपयाथार्थ्यज्ञानादि । `ये तु सर्वाणि कर्माणि' इत्येतस्मिन् श्लोकेऽध्यात्मचेतस्त्वस्य ``मत्पराः अनन्येनैव योगेन मां ध्यायन्तः" इति व्याख्यातत्वात् । ऎवं सर्वमपि भगवद्भक्तियुक्तमेव सात्त्विकम् ॥23-25॥
// गुणभेदेन कर्मत्रैविध्यमुच्यते -- `नियतं' इति । तत्र नियतपदेन स्ववर्णाश्रमोचितमात्रमुच्यत इत्यन्यथाप्रतीतिनिरासायाह -- मयीति ॥ विष्णोः सर्वोत्तमत्वज्ञानपूर्वकं तद्भक्त्या तदर्पणबुद्ध्या क्रियमाणमेव कर्म नियतमित्यत्रोच्यते । न तु स्ववर्णाश्रमोचितत्वमात्रम् । कुतः ? `मयि सर्वाणि कर्माणि' इति भगवत्सर्वोत्तमत्वज्ञानपूर्वकं तदर्पणबुद्ध्या कर्मकरणं विधाय `ये मे मतमिदम्' इति तस्य मोक्षसाधनत्वोक्तेः । `ये त्वेतत्' इति तदकरणे प्रत्यवायस्य चोक्तेः । यत्करणे फलप्राप्तिः, यदकरणे प्रत्यवायः तस्यैव नियतत्वादिति भावः ।
भवतु भगवदर्पणबुद्ध्या क्रियमाणं कर्म नियतम् । तस्य भगवत्सर्वोत्तमत्वज्ञानादिपूर्वकत्वं कुतः ? ``मयि सर्वाणि कर्माणि" इत्यत्र तदनुक्तेरित्यत आह -- अध्यात्मेति ॥ सर्वाधिके परमात्मनि चेतः अध्यात्मचेतः । अपेक्षिततया ज्ञायत इति सम्बद्ध्यते । भवेदेतत्, यद्यध्यात्मचेतसेति पदं भगवत्सर्वोत्तमत्वज्ञानार्थं स्यात् । तदेव कुत इत्यत आह -- ये त्विति ॥ ``मयि सर्वाणि" इति श्लोकार्थानुवादरूपे `ये तु सर्वाणि' इत्यस्मिन् श्लोकेऽध्यात्मचेतसेति पदस्य `मत्पराः' इत्यादिना भगवत्सर्वोत्तमत्वज्ञानतत्स्मरणाद्यर्थतया व्याख्यातत्वात् भवेदेवैतत्पदं तदर्थमिति भावः । अहं परः सर्वोत्तमो येषां ते मत्पराः । नच वाच्यमेततच्छ्लोकानुवादरूपत्वं कुत इति । `एवं सततयुक्ता ये' इत्यर्जुनेन प्रागुक्तप्रकारानुवादेन पृष्टस्य भगवतस्तथैव परिहारोक्तेर्युक्तत्वात् । समाख्यावशाच्च ऎतद् श्लोकार्थानुवादित्वं विज्ञायते । किमेतन्नियतत्वं कर्मण ऎव सात्त्विकत्वे प्रयोजकमुत ज्ञानादीनामपीत्यत आह -- ऎवमिति ॥ भगवदर्पणादिकं चात्र द्रष्टव्यम् ॥ 23-25॥
((मुक्तसङ्गोऽनहंवादी धृत्युत्साहसमन्वितः ।
सिद्ध्यसिद्ध्योर्निर्विकारः कर्ता सात्त्विक उच्यते ॥ 26 ॥
रागी कर्मफलप्रेप्सुर्लुब्धो हिंसात्मकोऽशुचिः ।
हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः ॥ 27 ॥
* सर्वस्य भगवदधीनत्वनिश्चयादेवानहंवादी ॥26-27॥
// गुणभेदतः कर्त्रुस्त्रैविध्यमुच्यते -- `मुक्त' इति । तत्र कर्ता चेदनहंवादीति कथमित्यत आह -- सर्वस्येति ॥ कर्ताऽप्यहमेव कर्तेति सात्त्विको न वदति । तेन स्वकर्तृत्वादेः सर्वस्य भगवदधीनतया निश्चितत्वादित्यर्थः ॥26-27॥
((अयुक्तः प्राकृतः स्तब्धः शठो नैष्कृतिकोऽलसः ।
विषादी दीर्घसूत्री च कर्ता तामस उच्यते ॥ 28 ॥
बुद्धेर्भेदं धृतेश्बैव गुणतस्त्रिविधं शृणु ।
प्रोच्यमानमशेषेण पृथक्त्वेन धनञ्जय ॥ 29 ॥
प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये ।
बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी ॥ 30 ॥
* `भगवद्भक्तिसामर्थ्यात् प्रकृष्टो न कृतो हि यः ।
स प्राकृतो दीर्घसूत्री कुर्यां पश्चादिति स्मरन् ॥" इति शब्दतत्त्वे । प्राप्तकालस्य कर्मणो दीर्घकालेनैव कृतिं सूचयन् दीर्घसूत्रीत्यर्थः ।
`अलसो दीर्घसूत्री च सत्त्वयुक् तामसो मतः ।
अयुक्तो राजसः स्तब्धः प्राकृतो नैकृतिकः शठः ॥
ऎकैकेनेव दोषेण प्रोक्तस्तामसतामसः ।
दुर्नरत्वं च तिर्यक्त्वं तमश्बैतत् फलं क्रमात् ॥" इति च ॥28-30॥
// ननु सात्त्विकस्यापि प्राकृतत्वदीर्घसूत्रित्वयोः सद्भावात् कथं तत्तामसस्यैवोच्यत इत्यतः तत्पदद्वयस्यार्थं स्मृत्यैव दर्शयति -- भगवदिति ॥ स्मरन्निति ॥ चिन्तयन्नित्यर्थः । पश्चात् कुर्यामिति चिन्तनं सात्त्विकेऽपि सममित्यत आह -- प्राप्तेति ॥ यस्य कर्मणो यः कालो विहितः तस्मिन् काले प्राप्तेऽपि पश्चात् कुर्यामिति चिन्तयन् दीर्घसूत्रीत्यर्थः । अनेन अलसादप्यस्य वैलक्षण्यं सूचितम् । सः प्राप्तकालं कर्म उदास्त एवेति । नन्वेवं चेद्दीर्घसूत्रितः स्तब्धादीनां उत्कृष्टत्वात् कथं तामसतया गणनमित्यतः प्रमाणवाक्येनैव तामसेष्वेव तान् विभज्याह -- अलस इति ॥ अयुक्तो भगवदर्पणादियोगरहितः । स्तब्धो नाम आत्मसम्भावनया क्वाप्यनतः । नैकृतिको नीचकर्मा । शठो गूढद्वेषी । त्रिविधस्तामसानां फलमाह -- दुर्नरत्वमिति ॥ 28-30 ॥
((यया धर्ममधर्मं च कार्यं चाकार्यमेव च ।
अन्यथावत्प्रजानाति बुद्धिः सा पार्थ राजसी ॥ 31 ॥
अधर्मं धर्ममिति या मन्यते तमसाऽऽवृता ।
सर्वार्थान्विपरीतांश्च बुद्धिः सा पार्थ तामसी ॥ 32 ॥
धृत्या यया धारयते मनःप्राणेन्द्रियक्रियाः ।
योगेनाव्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी ॥ 33 ॥
यया तु धर्मकामार्थान् धृत्या धारयतेऽर्जुन ।
प्रसङ्गेन फलाकाङ्क्षी धृतिः सा पार्थ राजसी ॥ 34 ॥
यया स्वप्नं भयं शोकं विषादं मदमेव च ।
न विमुञ्चति दुर्मेधा धृतिः सा पार्थ तामसी ॥ 35 ॥
सुखं त्विदानीं त्रिविधं श्रुणु मे भरतर्षभ ।
अभ्यासाद्रमते यत्र दुःखान्तं च निगच्छति ॥ 36 ॥
* ``किञ्चिद् यथावद् धर्मादीनयथावच्च पश्यति ।
यया बुद्ध्या राजसी सा मिथ्यादृक् त्वेव तामसी ॥" इति च ॥31-32॥
`वैष्णवो भक्तियोगो यस्तद्युक्ता सात्त्विकी धृतिः ।' इति च ॥ विहितविषयैवेत्यव्यभिचारिणी ॥33-34॥
`स्वप्नं भयम्' इत्यादि सर्वनिषिद्धोपलक्षणम् ।
`तत्तत् सात्त्विकमेव स्याद् यद्यद्वृद्धाः प्रचक्षते ।
निन्दन्ति तामसं तत्तद् राजसं तदुपेक्षितम् ॥" इति भागवते । ``महात्मानस्तु मां पार्थ", ``अभयं सत्त्वसंशुद्धिः" इत्यादिना वृद्धश्चोक्ताः ॥35-36॥
// बुद्धेः इति प्रतिज्ञातमुच्यते -- `प्रवृत्तिं' इति ॥ तत्र `यया धर्ममधर्मं' इत्युक्तबुद्ध्योरेकप्रकारत्वात् कथं राजसतामसत्वमित्यतः तद्विभागं वाक्यान्तरेण दर्शयति -- किञ्चिदिति ॥ अनेन `अयथावत्' इति नियमेन यथावन्नेत्युक्तं भवति । ``योगेन" इति उपायबलेनेत्यल्पार्थप्रतीतिनिरासाय तद् वाक्यान्तरेण व्याचष्टे -- वैष्णव इति ॥ अनेन योगेन युक्त्येति पूरितं भवति । धृतिश्चेत् व्यभिचारशून्यैवातोऽव्यभिचारिण्येति विशिष्यास्या ऎव किमुच्यत इत्यत आह -- विहितेति ॥ न चात्राव्यभिचारमस्खलितत्वमिति भावः । यया स्वप्नमित्युक्तमात्रं यया न मुञ्चति सा तामसीति प्रतीतिनिरासायाह -- स्वप्नमिति ॥ सर्वनिषिद्धं भगवद् द्वेषादि । भगवद् द्वेषादेः वृद्धनिषिद्धत्वेन तामसत्वात् तद्विषयधृतेरपि तामसत्वमिति भावः । वृद्धनिषिद्धत्वेऽपि कुतस्तामसत्वमित्यत आह -- तदिति ॥ ननु भगवद् द्वेषादेः कुतस्तामसत्वमित्यत आह -- तदिति ॥ ननु भगवद् द्वेषादेः कैश्चन वृद्धैर्विहितत्वात् कथं तन्निन्दितत्वमित्यत आह -- महात्मन इति ॥ ये भगवद् द्वेषादिविधायका न ते वृद्धाः , किन्तु भगवन्तं भजन्त ऎव । तथोक्तत्वादित्यर्थः ॥35-36॥
((यत्तदग्रे विषमिव परिणामेऽमृतोपमम् ।
तत्सुखं सात्त्विकं प्रोक्तमात्मबुद्धिप्रसादजम् ॥ 37 ॥
विषयेन्द्रियसंयोगाद्यत्तदग्रेऽमृतोपमम् ।
परिणामे विषमिव तत्सुखं राजसं स्मृतम् ॥ 38 ॥
यदग्रे चानुबन्धे च सुखं मोहनमात्मनः ।
निद्रालस्यप्रमादोत्थं तत्तामसमुदाहृतम् ॥ 39 ॥
* विष्णोः प्रसादात् स्वमनः प्रसादात् सात्त्विकं सुखम्" इति पाद्मे ॥37-39॥
// सुखं इति प्रतिज्ञातमुच्यते -- `अभ्यासात्' इति । तत्र ``आत्मबुद्धिप्रसादजं" इत्यस्य स्वमनःप्रसादजमित्यन्यथाप्रतीतिनिरासाय स्मृत्यैवार्थमाह -- विष्णोरिति ॥ जातमिति शेषः । मनः प्रसादो नाम मनसः स्वतोऽपि प्रायो विषयागतिः ॥ 37-39॥
((न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुनः ।
सत्त्वं प्रकृतिजैर्मुक्तं यदेभिः स्यात्त्रिभिर्गुणैः ॥ 40 ॥
ब्राह्मणक्षत्रियविशां शूद्राणां च परन्तप ।
कर्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणैः ॥ 41 ॥
* सत्त्वं जीवजातम् । मुक्तानां गुणातीतत्वात् । पृथिव्यां दिवि देवेषु च इति विशेषः ।
``यथेष्टं सञ्चरन्तोऽपि मुक्ता भूम्यादिगा न तु ।
ग्रामस्था अपि न ग्राम्या वैलक्षण्याद्धि सज्जनाः ॥
नराधमास्तामसेषु सात्त्विकास्तत्र राजसाः ।
दैत्यभृत्या महादैत्या मुख्यतामसतामसाः ॥
राजसास्तु नरास्तत्र विप्रा राजससात्त्विकाः ।
तत्रस्थशुद्धसत्त्वास्तु परहंसाः प्रकीर्तिताः ॥
हंसो बहूदः कुटिजो वनस्थो नैष्टिको गृही ।
क्रमाद् रजोऽधिका बाह्यं कर्मैषामधिकं यतः ॥
धर्माः परमहंसानां बाह्या ऎव शमादिकाः ।
देवादेः कर्मबाहुल्यं न लिङ्गं रजसः क्वचित् ॥
न हि विष्णोश्चलेत्तेषां मनः कर्मकृतावपि ।
अन्येषां चलचित्तत्वात् प्रायः स्यात् कर्म राजसम् ॥
यदि तत् स्मारकं विष्णोर्विद्यात् सात्त्विकमेव तु ।
धर्मार्थहिंसनाऽग्निश्च विशेषो ब्रह्मचारिणः ।
पैतृकं चापि यतितो दारास्तु गृहिणस्ततः ॥
असर्गो ग्राम्यसन्त्यागः पश्वहिंसा गृहस्थतः ।
वनस्थस्य विशेषोऽयं सर्वेषामितरत् समम् ॥" इति च ।
// सर्वजीवानामपि गुणस्त्रैविध्यमुच्यते -- `न तत्' इति । तत्र सत्त्वस्यापि गुणविशेषत्वात् कथं गुणबद्धत्वमुच्यत इत्यत आह -- सत्त्वमिति ॥ ननु गुणातीतं सत्त्वं नास्तीत्येतावता पूर्णत्वात् पृथिव्यां दिवीति विशेषोक्तिः किमर्थेत्यत आह -- मुक्तानामिति ॥ मुक्तानां गुणबद्धत्वाभावात् गुणातीतं सत्त्वं नास्तीत्युक्ते तेषामपि तत्प्रसक्तेस्तद्व्यावृत्त्यर्थं पृथिव्यामित्यादिविशेषोक्तिर्युक्तेत्यर्थः ।
``इमान् लोकान् कामान्नी कामरूप्यनुसञ्चरन्" इत्यादेः मुक्तानामपि पृथिव्यादौ सञ्चरणात् कथमनेन तद्व्यावृत्तिरित्याशङ्कां परिहरन् वाक्यान्तरेण जीवानुगुणभेदतो बहुधा विभज्य दर्शयति -- यथेष्टमिति ॥ तद्गतदोषसम्बन्धाभावादिति शेषः । अतो भूम्यादिस्था ऎव गुणबद्धा इत्युक्ते तद्व्यावृत्तिः सिद्ध्यतीति चात्र द्रष्टव्यम् । अमुक्ताः कथं गुणबद्धा इत्यतस्तद्विभज्याह -- नरेति ॥ सात्त्विकराजसतामसास्त्रिविधा जीवाः । तेषु तामसाः त्रिविधाः । त उच्यन्ते -- `नराधमः' इति । तत्र तामसेषु तामसभेदमुक्त्वा राजसान् सामान्येनाह -- राजसा इति ॥ नरा उत्तमा मध्यमा अधमाश्चेति । तेऽपि त्रिविधाः । तत्र भागवता विप्रादिपुल्कसान्ताः राजससात्त्विकाः । वर्णभेदेन तेष्वप्यनेकविधतामाह -- तत्रेति ॥ तेषु राजससात्त्विकेष्वपि विप्रा राजससात्त्विकसात्त्विका इत्यर्थः । राजससात्त्विकसात्त्विकेषु विप्रेष्वप्याश्रमभेदेन अनेकविधतामाह -- तत्रस्थेति ॥ राजससात्त्विकसात्त्विकेषु शुद्धसात्त्विका इत्यर्थः । परमहंसाः शिखायज्ञोपवीतहीनाः ऎकदण्डिनः । यज्ञोपवीतवान् ऎकदण्डी शिखारहितो हंसः । त्रिदण्डी शिखायज्ञोपवीतवान् ग्रामैकरात्रि बहूदः । त्रिदण्डी शिखायज्ञोपवीतवान् यावज्जीवं पुत्रदत्तान्नादः कुटीचकः । अधिकं क्रमादिति सम्बद्ध्यते । तत् परमहंसानामपि समं किमित्यत आह -- धर्मा इति ॥ शमो दम इत्यादौ बाह्यकर्मतयोक्ता इत्यर्थः । कर्मबाहुल्याद् हंसादीनां राजसत्वे देवादीनामपि तद्भावात् राजसत्वं स्यादित्यत आह -- देवादेरिति ॥ कुतो नेत्यत आह -- न हीति ॥ कर्मणि मनश्चलस्तु मा वा, तथाप्यस्ति तावद् बहुलं कर्म । अतो हंसादिवद्राजसत्वमेव देवादेरित्यत आह -- अन्येषामिति ॥ न हंसादिष्वपि कर्म स्वरूपत ऎव रजोऽनुमापकम् । किन्तु चित्तचलनहेतुत्वेनैव । देवादिकर्मणस्तु तदभावान्न राजसत्वे लिङ्गत्वमिति भावः । कर्मण स्वरूपत ऎव रजोऽनुमापकं किं न स्यादित्यत आह -- यदीति ॥ भगवत्स्मरणहेतुकर्मणः सत्त्वानुमापकत्वदर्शनान्न कर्म स्वरूपत ऎव राजसत्वानुमापकमिति भावः । अथ ऎव प्रायः स्यादित्युक्तम् ।
परमहंसादर्वाग् गृहस्थान्तानां यत् क्रमेण कर्मबाहुल्यमुक्तं तल्लेशतो विभज्य दर्शयति -- धर्मेति ॥ हंसादिषु कर्मबाहुल्यक्रमोऽन्यतो द्रष्टव्यः । चतुर्विधयतितो ब्रह्मचारिणः समिदादिच्छेदनमग्निपूजा श्राद्धकरणमिति विशेषः । ब्रह्मचारितो गृहस्थस्य दारसङ्ग्रहो विशेषः । अपत्यानुत्पादनं, ग्रामभववस्तुसेवाभावः, पश्वहिंसेति गृहस्थाद् वनस्थस्य विशेष इत्यर्थः । ग्राम्यसन्त्यागोक्त्या वनस्थस्य ब्रह्मचारितोऽपि कर्माल्पत्वमुक्तं भवति । इतरत् स्वोचितं यज्ञादि ।
<लन्ग्=सन्>* ``सात्त्विकाः स्वल्परजसः क्षत्रियाः सत्त्वराजसाः ।
वैश्याः शूद्रा अतिस्वल्पसत्त्वाधिक्येन तामसाः ॥
ये तु भागवता वर्णास्तेषां भेदोऽयमीरितः ।
सत्त्वाधिकः पुल्कसोऽपि यस्तु भागवतः सदा ॥
त्रैविद्यमात्रा विष्णोर्ये सर्वाधिक्ये ससंशयाः ।
अन्याधिक्यं न मन्यन्ते श्रीशाद् राजसराजसाः ॥
अज्ञा विष्णौ द्वेषहीनाः सर्वे राजसतामसाः ।
पितृगन्धर्वपूर्वाश्च मुनयो देवता इति ॥
सात्त्विकास्त्रिविधास्तत्र श्रेष्ठा एवोत्तरोत्तराः ।
देवा इन्द्रो विरिञ्चाद्या इति त्रेधैव देवताः ॥
क्रमोत्तराः शिवो वाणी ब्रह्मा चैवोत्तरोत्रराः ।
सत्त्वसत्त्वमहासत्त्वसूक्ष्मसत्त्वश्चतुर्मुखः ।
तस्माद् यावद् विमुक्तिः स्यान्मुक्तावेवं सुखक्रमः ॥" इति च ।
// राजससात्त्विकेषु भागवतेषु वर्णभेदेनानेकप्रकारेषु विप्रस्वरूपमुक्तम् । क्षत्रियादिस्वरूपं राजसराजसादिस्वरूपं च वाक्यान्तरेण दर्शयति -- सात्त्विका इति ॥ राजससात्त्विकेष्विति द्रष्टव्यम् । सत्त्वराजसा इति ॥ समसत्त्वराजसा इत्यर्थः । अतिस्वल्पसत्त्वाधिक्येनेति ॥ तमसोऽप्यतिस्वल्पतया सत्त्वमधिकं यथा तथैवेत्यर्थः । क्षत्रियादिमात्रस्यैवं स्थितिः किमित्यत आह -- य इति ॥ वर्णबाह्या भागवताश्चेत् किमित्यत आह -- सत्त्वेति ॥ यः पुल्कसोऽपि भागवतोऽसौ राजसेष्वपि सत्त्वाधिक इत्यर्थः । राजससात्त्विकानुक्त्वा भागवतोऽसौ राजसेष्वपि सत्त्वाधिक इत्यर्थः । राजससात्त्विकानुक्त्वा राजसराजसादीनाह -- त्रैविद्येति ॥ कालतो भागवतान् जायमानान् व्यवच्छिनत्ति । त्रैविद्यमात्रा इति ॥ सर्वाधिक्य इति ॥ सर्वप्रकारेणाधिक्ये इति गमयितव्यम् । सात्त्विकप्रभेदमाह -- पितृगन्धर्वेति ॥ श्रेष्टा एवेत्यनेन पितृगन्धर्वपूर्वकाः सात्त्विकतामसाः, मुनयः सात्त्विकराजसाः, देवा सात्त्विकसात्त्विका इत्युच्यन्ते ।
देवान् विभज्याह -- देवा इति ॥ क्रमोत्तरा इति ॥ सात्त्विकसात्त्विकेषु बृहस्पत्यादयस्तामसाः , इन्द्रो राजसो, ब्रह्मादि रुद्रावसानाः सात्त्विका इत्युच्यन्ते । विरिञ्चादीन् विभज्याह -- शिव इति ॥ उत्तरोत्तरा इति ॥ सात्त्विकसात्त्विकेषु रुद्रस्य तामसत्वं, सरस्वत्या राजसत्वं, ब्रह्मणः सात्त्विकमुक्तं भवति । ऎवं चेद्विरिञ्चः किमुच्यत इत्यत आह -- सत्त्वेति ॥ तस्मादुक्तरीत्या गुणनिबन्धनमेव तेषां तारतम्यं कियत्पर्यन्तमित्यत आह -- यावदिति ॥ तत्र गुणाभावात् साम्यं किमित्यत आह -- मुक्ताविति ॥ गुणाभावेऽप्युक्तप्रकारावसितसुखक्रमेणैव तारतम्योपपत्तिरिति भावः ।
* विष्णौ किञ्चित्प्रीतियुक्तास्तामसमध्ये सात्त्विका नराधमा इत्यर्थः । राजसानां मध्ये सात्त्विका ऎव भागवता विप्रादयः । राजसस्थसात्त्विकेष्वेव शुद्धसात्त्विकाः किञ्चिद्रजोयुक्तसात्त्विकाः समरजोयुक्तसात्त्विकाः सत्वात् किञ्चिदूनतमोयुक्तसात्त्विका इति वर्णभेदः । सत्त्वप्रधानत्वादेतानारभ्योत्तरोत्तरं सर्वेऽपि मोक्षयोग्याः । `सत्त्वात् सञ्जायते ज्ञानम्' इत्यादेः ।
``सत्त्वाधिको मोक्षयोग्यो योग्योऽन्धतमसस्तथा ।
तम उत्तरो रजोभूयान् समो वा सृतिपात्रकः ॥" इति च ॥40-41॥
// ``नराधमास्तामसेषु सात्त्विकाः" इत्युक्तम् । ते कीदृशा इत्यतस्तद्विवृणोति -- विष्णाविति ॥ ``राजसास्तु नरास्तत्र विप्रा राजससात्त्विकाः" इत्युक्तम् । तत्र ``ये तु भागवता वर्णाः" इति वचनान्तरबलेन राजससात्त्विकानां भागवतत्वं ग्राह्यमिति सूचयन् भागवतविप्राणां राजससात्त्विकत्वमेवेत्यन्यथाप्रतीतिनिरासाय अनुक्तं पूरयति -- राजसानामिति ॥ राजससात्त्विकेषु वाक्यद्वयेनोक्तं वर्णभेदं बुद्ध्यारोहार्थमेकीकृत्य दर्शयति -- राजसस्थेति ॥ अनेन ``विप्रा राजससात्त्विकाः" इत्यादि प्रागुक्तरीत्या विवृतं भवति । राजससात्त्विका न साधारणविप्रादयः । अपि तु भागवता एवेति वाक्यान्तरानुसारेणोक्तं हेत्वन्तरं चाह -- सत्त्वेति ॥ राजससात्त्विकानारभ्य हिरण्यगर्भावसानाः सर्वेऽपि हि मोक्षयोग्याः । गुणान्तरापेक्षया येषु सत्त्वाधिक्यान्मोक्षयोग्यता च भागवतानामेव । अतो राजससात्त्विकादयः सर्वेऽपि भागवता एवेति भावः । सत्त्वप्रधानत्वेऽपि कुतो मोक्षयोग्यतेत्यत आह -- सत्त्वादिति ॥ `रजस्तमश्चाभिभूय सत्त्वं भवति' इत्यधिकगुणस्येतराभिभवेन स्वफलप्रदत्वोक्तत्वात् सत्त्वप्रधाने रजस्तमसोरभिभवेन मोक्षसाधनज्ञानस्य सम्भवात् सत्त्वाधिक्ये मोक्षो भवति । ज्ञानस्य सत्त्वफलताया उक्तत्वादिति भावः । अत्र स्फुटार्थं वाक्यान्तरं चाह -- सत्त्वाधिक इति ॥ सत्त्वाधिको राजससात्त्विकादिः । तम उत्तरो नराधमादिः । रजोभूयान् त्रैविद्यः । समः ऎकप्रकारेण गुणत्रयोऽज्ञः ॥41॥
((शमो दमस्तपः शौचं क्षान्तिरार्जवमेव च ।
ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म स्वभावजम् ॥ 42 ॥
*`शमो दमस्तपः शौचं क्षान्तिरार्जवमेव च ।
ज्ञानं विज्ञानमास्तिक्यं विप्रकर्म स्वभावजम् ॥
एते गुणाः किञ्चिदूनाः विप्रात् क्षत्रिय ऎव च ।
अधिका वा ब्राह्मणेभ्यः केषुचिच्चक्रवर्तिषु ॥
ऋषयस्त्वेव विज्ञेयाः कार्तवीर्यादयो नृपाः ॥42॥
// ब्राह्मणेत्युक्तं प्रपञ्च्यते -- शमः इति ॥ तत्र शमादयो ब्राह्मणस्यैवेत्यन्यथाप्रतीतिनिरासाय तत् प्रमाणान्तरेण व्याचष्टे -- शम इति ॥ अनेन ब्राह्मणे तदुक्तिराधिक्यविवक्षयेत्युक्तं भवति । तपो ब्रह्मचर्यादि । शौचं शुद्धिः । क्षान्तिः क्रोधासमुत्थितिः । आर्जवं मनोवाक्कायकर्मणामवैपरीत्यम् । ज्ञानं सामान्यतः । विज्ञानं विशेषतः । आस्तिक्यं धर्मादौ ``अस्त्येवानेन मम प्रयोजनम्" इति भावः । कार्तवीर्यादिक्षत्रियेषु ब्राह्मणेभ्योऽप्याधिक्येनैतद्गुणदर्शनात् कथमेतदित्यत आह -- अधिका चेति ॥ सत्यं क्षत्रियेषु ब्राह्मणाधिकाः शमादयः सन्तीति, तथापि नोक्तविरोधः । तेषां ऋषित्वात् । तदितरक्षत्रियाणामत्र विवक्षितत्वादिति भावः ।
((शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् ।
दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम् ॥ 43 ॥
कृषिगोरक्षवाणिज्यं वैश्यकर्म स्वभावजम् ।
परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजम् ॥ 44 ॥
स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः ।
स्वकर्मनिरतः सिद्धिं यथा विन्दति तद् शृणु ॥ 45 ॥
यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम् ।
स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः ॥ 46 ॥
श्रेयान् स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् ।
स्वभावनियतं कर्म कुर्वन्नाप्नोति किल्बिषम् ॥ 47 ॥
सहजं कर्म कौन्तेय सदोषमपि न त्यजेत् ।
सर्वारम्भा हि दोषेण धूमेनाग्निरिवावृताः ॥ 48 ॥
* ``शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् ।
दानमीश्वरभावश्च क्षत्रियेऽन्ये गुणा अपि "
``क्षत्रियोनब्रह्मगुणो वैश्यः कृष्यादिजीवनः ।
तत ऊनः शमाद्यैर्यः शुश्रूषुः शूद्र उच्यते ॥
अधिकाश्चेद् गुणाः शूद्रे ब्राह्मणादिः स उच्यते ।
ब्राह्मणोऽप्यल्पगुणकः शूद्र एवेति कीर्तितः ।
नरोऽपि यो देवगुणो देवो ज्ञेयो नृतां गतः ॥" इति च । `'स्वकर्मणा तमभ्यर्च्य' इति वचनात् क्षत्रियादिष्वपि शमाद्यनुवृत्तिः ज्ञायते । न हि शमादिकं विना तस्याभितोऽर्चनं भवति । सम्यक् शमादिभिरर्चनं ह्यभ्यर्चनम् । नच शमादीन् विना सिद्धिं विन्दति । `यज्ञदानतपःकर्म न त्याज्यम्' इत्युक्तत्वाच्च । `शमो मन्निष्ठता बुद्धेर्दम इन्द्रिय निग्रह इति भागवते । नच क्षत्रियादिभिरपि शौचतपःशमादिभिर्~हीनैर्भवितव्यमिति तत्तद्धर्मेषूच्यते । युक्ता ह्येतैः सर्वगुणैर्जनकतुलाधारादयः । अतो युद्धेऽप्यपलायनमैश्वर्यं च क्षत्रियस्य विशेषगुणौ । तौ च कृष्यादयो जीवनार्थं शुश्रूषा याजनं जीवनार्थं प्रतिग्रहश्चेत्येत एवान्येषां परधर्माः ॥
// शौर्यमभीरुत्वम् । तेजः शरीरगतम् । धृतिर्धैर्यम् । दाक्ष्यं पाटवम् । क्षत्रियादूनाः ब्राह्मगुणाः शमादयो यस्यासौ तथोक्तः । ततो वैश्यात् । शुश्रूषुः शुश्रूषाजीवनः । नेयं नियतिर्युक्ता । शूद्रस्याप्यधिकगुणत्वदर्शनादित्यत आह -- अधिकाश्चेदिति ॥ ब्राह्मणादितिरिति ॥ ब्राह्मणसमशमादिगुण इत्यादि द्रष्टव्यम् । शूद्र एवेत्युपलक्षणम् । तत्तत्समगुणोऽसाविति ज्ञातव्यम् । जातिमनपेक्ष्य गुणमात्रेण कथं ब्राह्मणत्वादिकल्पनेत्यत आह -- नरोऽपीति ॥ यथेति शेषः । ऎवं प्रमाणान्तरेण क्षत्रियादिष्वपि शमाद्यनुवृत्तिरस्तीत्युक्त्वा वाक्यशेषबलेनाप्येतदुपपादयति -- स्वकर्मेणेति ॥ अत्र सर्वेषां भगवदभ्यर्चनमेवोच्यते, न तु शमादिकमित्यत आह -- न हीति ॥ यदा सर्वेषां भगवदभ्यर्चनमेवोच्यते, न तु शमादिकमित्यत आह -- न हीति ॥ यदा सर्वेषां भगवदभ्यर्चनमेवोच्यते, तदा शमादिकमुक्तमेव । तद्विनाऽभितोऽर्चनस्यैवायोगादिति भावः । तत्कुत इत्यत आह -- सम्यगिति ॥ सम्यगर्चनं ह्यभितोऽर्चनं च शमादिभिरर्चनमेवेत्यर्थः । शमादिकं विनाऽपि साधनसम्पूर्त्याऽर्चनमात्रमत्र विवक्षितं किं न स्यादित्यत आह -- नचेति ॥ शमादिभिरर्चनमेवात्राभ्यर्चनं विवक्षितम् । न तु शमादिकं विनाऽन्यत् । ऎतदभ्यर्चनस्य मोक्षफलत्वश्रवणात् । शमाद्यभावे तदयोगादिति भावः । उपक्रमबलेन क्षत्रियादिषु ब्राह्मणधर्मानुवृत्तिर्ज्ञायत इत्याह -- यज्ञेति ॥ शमाद्यभावे कुतो मोक्षाभाव इत्यत आह -- शम इति ॥ भगवन्निष्ठादिकं हि शमादिकं नाम । भगवन्निष्ठाद्यभावे च मोक्षाभावः सुप्रसिद्ध इति भावः । निषेधाभावाच्च क्षत्रियादिषु शमाद्यङ्गीकार्यमित्याह -- न चेति ॥ निषेधश्च भवंस्तद्धर्मकथनस्थल ऎव भवतीति तत्तद्धर्मेष्वित्युक्तम् । इतोऽपि क्षत्रियादिषु शमाद्यङ्गीकार्यमित्याह -- युक्ता हीति ॥ तुलाधारो वैश्यः । आदिपदेन दण्डधारादिशूद्रसङ्ग्रहः । हीति भारतादिप्रसिद्धिं सूचयति । ऎवं चेत् स्वपरधर्मविवेकः कथमित्यत आह -- अत इति ॥ उक्तन्यायेनान्येषां साधारणत्वादित्यर्थः । ऎवं कृष्यादयो वैश्यस्य जीवनार्थम् । शुश्रूषा शूद्रस्य याजनं जीवनार्थमध्यापनं प्रतिग्रहश्च विप्रस्येति द्रष्टव्यम् । परधर्मानाह -- तौ चेति ॥
* ``शौर्यं तेजो धृतिर्दाक्ष्यं दानं च क्षत्रियेऽधिकाः ।
तद्धीना ब्राह्मणे तस्माद्वैश्ये शूद्रे ततोऽल्पकाः ॥
अध्यापनं च शुश्रूषा जीवनार्थमृते सताम् ।
विप्रादिषु क्रमाज्जञेयाः शूद्रस्याध्यापनं विना ।
एते नैसर्गिका भावाः स्याद्भावेऽन्योऽपि च क्वचित् ॥
बलाद्विरुद्धभावस्तु हेयः स्वाभाविकोऽपि यः ।
अनिसर्गोऽपि हि शुभो वर्धनीयः प्रयत्नतः ॥
याजनैश्वर्यपूर्वास्तु नान्यैः कार्याः शुभा अपि ।
अपलायनं च शूद्राणां ब्रह्मक्षत्रार्थमिष्यते ॥" इति च ।
// शमादीनां साधारणत्वेऽपि क्षत्रियस्य शौर्यादयः सर्वेऽपि विशेष धर्माः किं न स्युः ? ब्राह्मणस्याध्यापनादिमात्रं, शूद्रस्य शुश्रूषामात्रं च स्वधर्मः किं न स्यात् ? इत्यतस्तेषां साधारण्यं प्रामाणेन दर्शयति -- शौर्यमिति ॥ एतेन क्षत्रिये शौर्याद्युक्तिराधिक्यविषयेति चोक्तं भवति । सतामध्यापनं च शुश्रूषेति सम्बन्धः । शूद्रस्याध्यापनं विना किमुक्तं भवतीत्यत आह -- तस्मादिति ॥ शुश्रूषायाः सर्वधर्मत्वादित्यर्थः । सतामिति सम्बद्ध्यते । शौर्यादीनां साधारणत्वे क्षत्रियादीनां के विशेषगुणा इत्यत आह -- ऎत इति ॥ साधारणतयोक्तेभ्योऽन्ये युद्धेऽपलायनैश्वर्यादय इत्यर्थः । नैसर्गिका असाधारणाः । किमेते पुंसामसाधारणा ऎव धर्मा नियत्या भवन्तीत्यत आह -- स्यादिति ॥ एतेषामसाधारणत्वादवश्यानुष्ठेयत्वमिति च नाशङ्कनीयमित्याह -- बलादिति ॥ यथा ब्राह्मणस्य जीवनार्थं याजनमित्यादि । ऎवमसाधारण्येनात्मीयत्वाभावेऽपि त्याज्यत्वं च न मन्तव्यमित्याह -- अनिसर्ग इति ॥ यथा ब्राह्मणस्य जीवनार्थमध्यापनमित्यादि । उक्तस्यापवादमाह -- याजनेति ॥ अस्वाभाविकाः शुभा अपि साधारणा ऎव वर्धनीयाः । न तु विप्राद्यसाधारणा याजनादय इत्यर्थः । शौर्यादीनामसाधारणत्वोक्त्या युद्धेऽपलायनमैश्वर्यं च क्षत्रियस्य विशेषधर्मावित्युक्तम् । तस्यापवादमाह -- अपलायनमिति ॥ विप्रक्षत्रार्थमिति विशेषोक्त्या सामान्यतः क्षत्रियस्यैव सिद्ध्यति । ततो नोक्तविरोधः ।
*प्रहस्य वित्ताहरणं शारीरो दण्ड ऎव च ।
अशिष्याणां शासनं च तथैवार्थविनाशनम् ॥
एष ईश्वरभावः स्यान्न कार्यः क्षत्रियेतरैः ।
सर्वे विधर्मिणः शास्याः क्षत्रियैर्यत्नतः सदा ॥
अङ्गाद्यहानिकृद्दण्डः शिष्येषु ब्राह्मणादिभिः ।
कार्यो देहेऽपि शिष्यश्च स्वामिना स्वेन वाऽर्पितः ॥
पुत्रानुजादयः सर्वे शिष्या ऎव निसर्गतः ।
गुरवश्बैव मित्राणि सखिसब्रह्मचारिणः ॥
सम्बन्धिनश्च सर्वेऽपि तत्तद्योग्यतयाऽखिलैः ।
शिक्षणीयेषु भावेषु शिक्षणीयाः प्रयत्नतः ॥
उन्मादे बन्धनाद्यैर्वा ताडनं न गुरोः क्वचित् ।
पापं चरन्तस्त्वन्येऽपि सर्वैर्दृष्टिपथं गताः ।
शक्तितो वारणीयाः स्युर्देशकालानुसारतः ॥
तदुत्तमविरोद्धारः सन्त्याज्या गुरवोऽपि तु ।
यथाशक्त्यनुशास्यैव कालतोऽपि न चेच्छुभाः ॥
विष्णौ परमभक्तस्तु न त्याज्यः शास्य ऎव च ।
शिक्षयंश्च गुरून् शिष्यो गुरवन्नैव शिक्षयेत् ॥
महान्तो नानुशास्याश्च विरुद्धाचरिता अपि ।
यदि स्वाधिकानां ते विरोधं नैव कुर्वते ॥" इत्यादि च ।
// यथा क्षत्रियैकधर्मतयोक्तं युद्धेऽपलायनं कारणविशेषादन्येषामपि स्यात्तथैवैश्वर्यमप्यन्यधर्मः स्यात् किम् ? इत्यतः तत्स्वरूपनिरूपणपूर्वकं तस्य क्षत्रियेतरेष्ववृत्तिं प्रमाणेन दर्शयति -- प्रसह्येति ॥ प्रसह्य वित्तहरणादि केषामित्यतः तद्वदनूनकार्यः क्षत्रियेतरैरित्यस्य व्यावर्त्यमाह -- सर्व इति ॥ तर्~हि किं ब्राह्मणादिभिर्विधर्मिणां शासनमेव न कार्य मित्यत आह -- अङ्गादीति ॥ शिष्यो नाम कीदृश इत्यत आह -- शिष्यश्चेति ॥ तर्~हि पुत्रादीनामशासनप्रसङ्ग इत्यत आह -- पुत्रेति ॥ अनिसर्गशिष्यस्वरूपं तदिति भावः । न केवलं ब्राह्मणाद्यैः शिष्या ऎव शास्याः किन्तु गुर्वादयोऽपीत्याह -- गुरव इति ॥ शिक्षणीयेषु भावेष्विति ॥ शिक्षणीयार्थविषय इत्यर्थः । न केवलं गुर्वादय ऎव शास्याः किन्त्वज्ञाता अपीत्याह -- पापमिति ॥ अत्र सर्वत्र अङ्गाद्यहानिकृद्दण्डः शिष्येषु गुरुवश्च देशकालानुसारत इति विशेषोक्त्या क्षत्रियाद्विशेषो द्रष्टव्यः । पापं चरन्तो वारणीया इत्युक्तम् । यदि स्वोत्तमविरोधाख्यं महापापं कुर्युस्तर्~हि किं कार्यमित्यत आह -- तदिति ॥ किं सहसा त्याज्या एवेत्यत आह -- यथेति ॥ स्वोत्तमविरोद्धारो गुर्वादयः किं सर्वथा त्याज्या एवेत्यत आह -- विष्णाविति ॥ तच्छिक्षाप्रकारमाह -- शिक्षयन्निति ॥ विष्णोः परमभक्तः स्वोत्तमविरोधेतरपापमाचरति चेत् किं कार्यमित्यत आह -- महान्त इति ॥
* ``आपत्सु विप्रः क्षात्रं तु विशां वा धर्ममाचरेत् ।
क्षात्रासिद्धौ न शूद्रस्तु विप्रक्षत्रिययोः क्वचित् ॥
क्षत्रियो ब्राह्ममापत्सु तदापत्सु विशामपि ।
क्षत्रियो विप्रधर्माऽपि नैव भैक्ष्यप्रतिग्रही ॥
वैश्य आपत्सु शौद्रं तु धर्ममेकं न चापरम् ।
शूद्र आपत्सु विड्धर्मा तदापत्सु च कारुकः ॥
शूद्रस्तु वैश्यधर्माऽपि नैव वेदाक्षरो भवेत् ।
अत्यापदि क्षत्रियोऽपि पादशुश्रूषणं विना ॥
शौद्रधर्मं चरन् विप्रक्षत्रियेषु न दुष्यति ।
येषु कर्मसु याच्यः स्यात् स्वामिनाऽपि न याचिता ॥
शौद्राण्यपि स्वधर्मत्वे क्षत्रियस्यापदो यदि ।
आत्मनश्चेद् बलाधिक्यं सानुबन्धादपि प्रभोः ॥
धर्मार्थं सेवतोऽर्थार्थं विप्रधर्मादिकाद्वरः ।
प्रभुणा याच्यवृत्तिस्तु विशेषेणापि धर्मभाक् ॥
बाह्वोर्बलेऽधिको यः स्यात् क्षत्रियो विद्ययाऽधिकः ।
विप्रो भागवतौ चैतौ सेशा लोकास्तयोरिमे ॥' इत्यादि व्यासस्मृतौ ॥44-48॥
// प्रसङ्गाद्विप्रादीनाम् आपद्धर्मान् स्मृत्यादर्शयति -- आपत्स्विति ॥ क्षत्रियस्य विप्रधर्माचरणे विशेषमाह -- क्षत्रिय इति ॥ भिक्षेतरहिरण्यादिप्रतिग्राही स्यादित्यर्थः । शौद्रं तु धर्ममाचरेदिति सम्बद्ध्यते । न शूद्रस्तु विप्रक्षत्रिययोर्धर्ममाचरेदित्युक्तम् । तर्~ह्यापत्सु तेन को धर्म आश्रयणीय इत्यत आह -- शूद्र इति ॥ शूद्रस्य वैश्यधर्मत्वे विशेषमाह-- शूद्र इति ॥ वेदाक्षरादिश्रवणादिमान् न भवेदित्यर्थः । क्षत्रियो ब्राह्ममापत्सु, तदापत्सु विशां धर्ममाचरेदित्युक्तम् । ततोऽप्यापदि किं कार्यमित्यत आह -- अत्यापदीति ॥ विप्रक्षत्रियेषु शूद्रधर्मं शुश्रूषणं चरन्नित्यर्थः । न केवलं क्षत्रियः शूद्रधर्मं चरन् न दुष्यतीत्येव, किं तर्~हीत्यत आह -- येष्विति ॥ यदि क्षत्रियस्य स्वधर्मकृतावापदो भवन्ति तर्~हि तस्य सानुबन्धात् स्वामिनो बलाधिक्येऽपि धर्मार्थं तमनभिभूय येषु कर्मसु नियुक्तः स्वामिनाऽपि याच्यः स्यान्न तु स्वयं याचिता । तानि शौद्राण्यपि कर्माण्यर्थाद्यर्थं सेवमानस्य विप्रादिधर्मोपजीवनादपि वरो धर्मो भवतीत्यर्थः । तत्र स्वाम्यनभिभवादपि स्वामिना याच्यत्वं विशेषेण धर्मकारणमित्याह -- प्रभुणेति ॥ विप्रधर्माद्याश्रयणे परोपजीवनाभावात् शूद्रधर्मे तद्भावात् कथं सानुबन्धात् प्रभोर्बलाधिक्यादौ सत्यपि ततोऽस्य वरत्वमित्यत आह -- बाह्वोरिति ॥ सर्वस्य तदीयत्वान्न परोपजीवनमिति भावः ॥48॥
<लन्ग्=सन्>((असक्तबुद्धिः सर्वत्र जितात्मा विगतस्पृहः ।
नैष्कर्म्यसिद्धिं परमां संन्यासेनाधिगच्छति ॥ 49 ॥
*नैष्कर्म्यसिद्धिम् अनिष्टसर्वकर्मनाशाख्यसिद्धिम् ॥49॥
// `स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते' इत्युक्तस्यैव इत्थम्भावान्तरमुच्यते -- `असक्त' इति ॥ तत्र नैष्कर्म्यसिद्धिपदस्य मोक्षार्थत्वप्रतीतिनिरासायार्थमाह -- नैष्कर्म्येति ॥ सर्वपदमप्रारब्धविषयम् ॥49॥
((सिद्धिं प्राप्तो यथा ब्रह्म तथाऽऽप्नोति निबोध मे ।
समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा ॥ 50 ॥
बुद्ध्या विशुद्धया युक्तो धृत्याऽऽत्मानं नियम्य च ।
शब्दादीन्विषयांस्त्यक्त्वा रागद्वेषौ व्युदस्य च ॥ 51 ॥
विविक्तसेवी लघ्वाशी यतवाक्कायमानसः ।
ध्यानयोगपरो नित्यं वैराग्यं समुपाश्रितः ॥ 52 ॥
* वक्ष्यमाणप्रकारेण वर्तमानस्तदनन्तरं नैष्कर्म्यसिद्धिं प्राप्तो भूत्वा ब्रह्माख्यया महालक्ष्म्याः सकाशं यथाऽऽप्नोति तथा निबोध । ``मम योनिर्महद् ब्रह्म", ``ब्रह्मणो हि प्रतिष्ठाऽहम्" इत्युक्तत्वात् । ``ब्रह्मभूतः प्रसन्नात्मा" इत्युक्त्वा ``मद्भक्तिं लभते पराम्" इति वक्ष्यमाणत्वाच्च ।
`सर्वपापक्षयाद्देहं त्यक्त्वा देवान् क्रमाद् व्रजन् ।
प्राप्य लक्ष्मीं तत्प्रसादात् पुनः स्वृद्धा हरौ यदा ॥
भक्तस्तया पुनर्ज्ञाने स्वृद्धे विष्णुं प्रपद्यते ।
अपरोक्षदृशो विष्णोः शरीरेऽपि सतः पुरा ॥
त्यक्तदेहादिकस्यापि यावद् विष्णुं प्रपद्यते ।
तावद् गुणा विवर्धन्ते स्थिताः स्युः प्राप्य केशवम् ॥" इति महावाराहे ॥50-52॥
// असक्तेत्यादिना नैष्कर्म्यसिद्धिसाधनविवरणप्रतिज्ञापूर्वकं तदनन्तरफलमुच्यते -- ``सिद्धिं" इति । तत्र नैष्कर्म्यसिद्ध्यनन्तरं च येनोपायेन परम्ब्रह्माप्नोति तं प्रकारं निबोधेत्यन्यथाप्रतीतिनिरासायाह -- वक्ष्यमाणेति ॥ अत्र यथा येन वक्ष्यमाणप्रकारेण वर्तमानो नैष्कर्म्यसिद्धिं प्राप्तो भूत्वा महालक्ष्मीं प्राप्नोति तं प्रकारं निबोधेत्येवोच्यते । न तु नैष्कर्म्यसिद्ध्यनन्तरं परब्रह्मप्राप्तिसाधनं निबोधेत्यर्थः । ब्रह्मशब्दस्य लक्ष्मीवाचकत्वमेव कुत इत्यत आह -- ममेति ॥ अत्र ब्रह्मपदेन परब्रह्मैव किं न स्यादित्यत आह -- ब्रह्मेति ॥ ऎतद्ब्रह्मप्राप्त्यनन्तरमपि भक्त्यादिलाभश्रवणात् लक्ष्मीतत्त्वमेवेदं, न तु परं ब्रह्मेत्यर्थः । भवेदेतद्यदि नैष्कर्म्यसिद्धिं प्राप्तस्य लक्ष्मीप्राप्त्यनन्तरमपि भक्त्यादिलाभोऽस्ति नतु परब्रह्मप्राप्त्यनन्तरमिति सिद्ध्यति । तदेव कुत इत्यत आह -- सर्वेति ॥ पापपदम् अप्रारब्धानिष्टकर्मपरम् । नन्वपरोक्षज्ञानिनो हि नैष्कर्म्यसिद्धिः । तत्कथं तदनन्तरमपि ज्ञानादिलाभः ? तथात्वे मुक्तावपि तत्प्रसङ्गादित्यत आह -- अपरोक्षेति ॥ पुरादेहत्यागात् । अपरोक्षज्ञानानन्तरमपि ज्ञानादिवृद्धिर्भवेदेव । न चातिप्रसङ्गः । प्रमाणानुगुणेन मुक्तौ तदभावोपपत्तेरिति भावः ॥50-52॥
((अहङ्कारं बलं दर्पं कामं क्रोधं परिग्रहम् ।
विमुच्य निर्ममः शान्तो ब्रह्मभूयाय कल्पते ॥ 53 ॥
ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति ।
समः सर्वेषु भूतेषु मद्भक्तिं लभते पराम् ॥ 54 ॥
भक्त्या मामभिजानाति यावान् यश्चास्मि तत्त्वतः ।
ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् ॥ 55 ॥
* `विमुच्य निर्ममः शान्तः' नैष्कर्म्यसिद्धिं प्राप्तो भूत्वा ब्रह्मणि भूयाय भवतीत्यर्थः ॥53-55॥
// यदुक्तं नैष्कर्म्यसिद्धिसाधनं निबोधेत्येवोच्यते, न तु तदनन्तरं ब्रह्मप्राप्तिसाधनमिति । तदयुक्तम् । बुद्ध्या विशुद्धयेत्यादिसाधनमुक्त्वा ब्रह्मभूयाय कल्पत इत्युक्तत्वात् । अन्यथा नैष्कर्म्यसिद्धिं प्राप्तो भूत्वेति वक्तव्यत्वादित्याशङ्कां परिहरन् ब्रह्मभूयपदस्यान्यथाप्रतीतिनिरासायार्थमाह -- विमुच्येति ॥ ज्ञानानन्तरं लक्ष्मीप्राप्तौ साधनानामनावश्यकत्वात् नैष्कर्म्यसिद्धिं प्राप्तो भूत्वेत्यत्राभिप्रेतमेवेति भावः ॥53-55॥
((सर्वकर्माण्यपि सदा कुर्वाणो मद्व्यपाश्रयः ।
मत्प्रसादादवाप्नोति शाश्वतं पदमव्ययम् ॥ 56 ॥
* विहितानि सर्वकर्माण्यपि मद्व्यपाश्रयो भूत्वा सदा कुर्वाणः । न हि यथेष्टचरणे तात्पर्यमत्र । तथासति विहिताकरणेऽपि समत्वात् ``मामनुस्मर युध्य च", ``ततः स्वधर्मं कीर्तिं च' इत्यादिप्रस्तुत विरोधः । अपिशब्दस्त्वेकमपि कर्मातदाश्रयेण न कार्यमित्यर्थे ॥56॥
//``यतः प्रवृत्तिः" इत्युक्तमेव विशिष्यते -- `सर्व' इति । तत्र मद्व्यपाश्रयश्चेत् यथेष्टतो निषिद्धान्यनिषिद्धानि वा सर्वकर्माणि कुर्वाणः शाश्वतं पदं प्राप्नोतीत्यन्यथाप्रतीतिनिरासाय तद्व्याचष्टे -- विहितानीति ॥ मद्व्यपाश्रय इति ॥ मय्येव समर्पयन्नित्यर्थः । प्रतीतार्थ ऎव किं न स्यादित्यत आह -- न हीति ॥ नात्र यथेष्टतो निषिद्धानिषिद्धकर्माचरणे तात्पर्यं कल्प्यम् । तथासति भगवदाश्रयस्य विहिताकरणेऽप्यत्र तात्पर्यप्रसङ्गात् । निषिद्धकरणविहिताकरणयोः समानत्वादित्यर्थः । अत्र भगवदाश्रितस्य विहिताकरणेऽपि तात्पर्यं स्यादेवेत्यत आह-- मामिति ॥ यद्यत्र भगवदाश्रितस्य विहिताकरणेऽपि तात्पर्यं तर्~हि भगवदाश्रितस्यैवार्जुनस्य ``मामनुष्मर युध्य च" इत्यादौ विहितयुद्धाकरणे `अथ चेत्त्वमिमं धर्म्यं" इत्यादौ प्राक् प्रत्यवाय उक्तः । तद्विरोधः स्यादिति भावः । प्रतीतार्थानङ्गीकारेऽपिशब्दवैय्यर्थ्यमित्यत आह -- अपीति ॥56॥
((चेतसा सर्वकर्माणि मयि संन्यस्य मत्परः ।
बुद्धियोगमुपाश्रित्य मच्चित्तः सततं भव ॥ 57 ॥
मच्चित्तः सर्वदुर्गाणि मत्प्रसादात्तरिष्यसि ।
अथ चेत्त्वमहङ्कारान्न श्रोष्यसि विनङ्क्ष्यति ॥ 58 ॥
* भगवत्संश्रितस्य त्रैविद्यस्य च मनसैव विशेष इत्याह -- `चेतसा सर्वकर्माणि' इति । स ऎव सर्वस्मात् परम इति भावोऽस्येति मत्परः । तत्र चित्तवृत्तिनिरोधोऽपि बुद्धियोगः प्रत्यहारादिः ॥57-58॥
// यदि भगवदाश्रिततया विहितकर्मकुर्वतो मुक्तिस्तर्~हि त्रैविद्यस्यापि स्यात् । तस्यापि विहितकर्माणि कृत्वा भगवदर्पणसद्भावेन भगवदाश्रिताविशिष्टत्वादित्याशङ्कापरिहाराय श्लोकमवतारयति -- भगवदिति ॥ भगवदाश्रितत्रैविद्ययोर्विहितकरणादिसाम्येऽपि मोक्षाभावावुपपद्येते । विहिताशेषकर्माणि चेतसा भगवति संन्यस्य भगवदाश्रितः करोति । न तथा त्रैविद्य इति तयोश्बैतसैव विशेषसद्भावादिति भावः । मत्पर इति त्रैविद्याद्भागवतस्य विशेष उच्यते । तत्र भगवति तात्पर्यवानित्यर्थाङ्गीकारे तत् त्रैविद्यस्यापि समम् । अहं परः सर्वोत्तमो यस्येत्यभ्युपगमे वा वस्तुनि विकल्पायोगात् तदपि त्रैविद्ये सममित्यत आह -- स एवेति ॥ परः सर्वप्रकारेणेति शेषः । भावः सर्वदेति च द्रष्टव्यम् । ऎवं चेन्मच्चित्त इति पुनरुक्तिः स्यात् । न हि भगवत्सर्वोत्तमत्वभावादन्यत् तच्चित्तत्वमस्तीत्याशङ्कापरिहाराय तदर्थमाह -- तत्रेति ॥ तत्र भगवति । त्रैविद्यात् भागवतस्य विशेष इति शेषः । तर्~हि बुद्धियोगमुपाश्रित्येति पुनरुक्तिः स्यात् । भगवति बुद्धेर्योगो हि बुद्धि योग इत्यत आह -- बुद्धीति ॥ बुद्धेर्ज्ञानस्य योगः प्रत्याहाराद्युपाय इत्यर्थः । अथ चेत्त्वमहङ्कारादित्यभ्युपगम्योक्तत्वात् ॥57-58॥
((यदहङ्कारमाश्रित्य न योत्स्य इति मन्यसे ।
मिथ्यैष व्यवसायस्ते प्रकृतिस्त्वां नियोक्ष्यति ॥ 59 ॥
स्वभावजेन कौन्तेय निबद्धः स्वेन कर्मणा ।
कर्तुं नेच्छसि यन्मोहात् करिष्यस्यवशोऽपि तत् ॥ 60 ॥
* प्रकृतिरीश्वरेच्छा । ``प्रकृतिर्वासनेत्येवं तवेच्छाऽनन्त कथ्यते" इति वचनात् । एषा तु ``प्रकृत्यैव च कर्माणि" इत्यादिष्वपि युज्यते । तस्या ऎव हि मुख्यतो नियोक्तृत्वं स्वभावकर्मादिभिर्बद्ध्वा ॥59-60॥
// तदुक्तकारणमशक्यं च तवेत्युच्यते -- `यदि' इति ॥ तत्र प्रकृतिपदेन स्वभावाद्युच्यत इत्यन्यथाप्रतीतिनिरासायाह -- प्रकृतिरिति ॥ ईश्वरेच्छायाः प्रकृतिशब्दवाच्यत्वं कुत इत्यत आह -- प्रकृतिरिति ॥ प्रसङ्गादत्रोक्तार्थमन्यत्राप्यतिदिशति -- एषेति ॥ अत्र प्रकृतिशब्दः परमेश्वरेच्छावाची कुतः ? स्वभावाद्यर्थ ऎव किं न स्यादित्यत आह -- तस्या एवेति ॥ प्रकृतिस्त्वां नियोक्ष्यतीत्यत्र प्रकृतेः जीवनियोक्तृत्वमुच्यते । तच्चेश्वरेच्छाया ऎव मुख्यमिति सैवात्रोच्यत इति भावः । ननु स्वभावजेनेत्येतद्विवरणात्मकोत्तरश्लोके प्रकृतिशब्दस्य स्वभावार्थत्वग्रहणात् कथं नेत्यत आह -- स्वभावेति ॥ जीवमिति शेषः । नेयं प्रकृतिरुत्तरत्र स्वभावपदेनोच्यते, किन्त्वस्या जीवनियोगे साधनतया स्वभावाद्युत्तरत्रोच्यत इति भावः ।
((ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति ।
भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया ॥ 61 ॥
* तदेवाह -- ईश्वरः सर्वभूतानामिति ।
``निश्चितार्थः स तु ज्ञेयो यत्रात्मैव परोक्षतः ।
उच्यते विष्णुना यद्वत् तद् ब्रह्मेत्यादि कथ्यते ॥" इति शब्दनिर्णये । `मन्मनाः' इत्युपसंहाराच्च ॥61॥
//इतोऽप्यत्रेश्वरेच्छैव प्रकृतिशब्दार्थ इत्याह -- तदेवेति ॥ ऎतद्विवरणात्मकोत्तरश्लोके भगवदिच्छाया ऎव सर्वनियोक्तृत्वस्योक्तत्वाच्च अत्र प्रकृतिपदं तदर्थमिति भावः । मायेतीश्वरेच्छैवोच्यते ॥61॥
((तमेव शरणं गच्छ सर्वभावेन भारत ।
तत्प्रसादात्परं शान्तिं स्थानं प्राप्स्यसि शाश्वतम् ॥ 62 ॥
इति ते ज्ञानमाख्यातं गुह्यात् गुह्यतरं मया ।
विमृश्यैतदशेषेण यथेच्छसि तथा कुरु ॥ 63 ॥
* शाश्वतं स्थानं वैकुण्ठादि--
``श्रीरेव लोकरूपेण विष्णोस्तिष्ठति सर्वदा ।
अतो हि वैष्णवा लोके नित्यास्ते चेतना अपि ॥" इत्याग्नेये । `न वर्तते यत्र रजस्तमस्तयोः सत्त्वं च' इत्याद्युक्तम् ॥62-63॥
// ईश्वरः सर्वभूतानामित्यादौ भगवतेश्वरस्य पारोक्ष्येण निर्दिष्टत्वादयमीश्वरो भगवतोऽन्य इति प्रतीतिनिरासायाह -- निश्चितेति ॥ पारोक्ष्येणोक्तेः अन्यथाऽप्युपपत्तेर्न तन्मात्रेणेश्वरस्य भगवदतिरिक्तत्वं कल्प्यमिति भावः । इतश्च तन्न कल्प्यमित्याह -- मदिति ॥ अत्र `तमेव शरणं गच्छ' इत्यन्यव्यावृत्त्या ईश्वरशरणप्राप्तिमुद्दिश्योपसंहारे `मन्मना भव' इत्यादिना स्वशरणप्राप्त्युपदेशाच्च न भगवदितरोऽयमीश्वरः । अन्यथा व्याहृतेरिति भावः । `स्थानं प्राप्स्यसि शाश्वतं' इत्युक्तं शाश्वतस्थानं किमित्यत आह -- शाश्वतमिति ॥ सर्वस्थानानां प्रलये विनाशात् कथं वैकुण्ठादेः शाश्वतत्वमित्यत आह -- श्रीरेवेति ॥62-63॥
((सर्वगुह्यतमं भूयः शृणु मे परमं वचः ।
इष्टोऽसि मे दृढमिति ततो वक्ष्यामि ते हितम् ॥ 64 ॥
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ।
मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे ॥ 65 ॥
* तत्त्वसारकथनं ``द्वाविमौ पुरुषौ" इत्यत्रैवोपसंहृतम् । तत्त्वप्रशंसार्थमेव तद्बुद्धिप्रशंसा कृता । अत्र तु साधनसारोपसंहारः -- ``सर्वगुह्यतमम्" इति । ``मन्मनाः" इत्यादेः पूर्वमेवोक्तत्वात् `भूयः' इति । अर्थतस्त्वत्रापि विष्ण्वाधिक्यमेवोक्तं भवति ॥64-65॥
// ``इदं तु ते गुह्यतमं" इति प्रतिज्ञाय यज्जञानादिपदोदितं गुह्यतमं तत्त्वमुक्तं तदेवात्र `सर्वगुह्यतमं' इति पुनरुच्यत इत्यन्यथाप्रतीतिनिरासायाह -- तत्त्वेति ॥ नात्र `इदं तु ते गुह्यतमं' इत्यादिनोक्तं गुह्यतमं ज्ञेयमुच्यते । तत्कथनस्य द्वाविमावित्यत्रैवोपसंहृतत्वादित्यर्थः । `इति गुह्यतमं' इति वाक्यशेषादुपसंहृतत्वं ज्ञातव्यम् । तर्~हि किमत्र गुह्यतममुच्यत इत्यत आह -- अत्रेति ॥ ननु `ऎतद् बुद्ध्वा बुद्धिमान् स्यात्' इति साधनसारस्योपसंहृतत्वात् कथमत्र तदुक्तिरित्यत उक्तम् -- तत्त्वेति ॥ न तत्र साधनसारस्योपसंहाररूपेण भगवत्सर्वोत्तमत्वज्ञानप्रशंसा कृता । किन्तु तज्जञानमात्रेण मोक्षसद्भावात् किमस्य महिमा वर्णनीय इति भगवत्प्रशंसार्थमेवेति भावः । तत्रोक्तगुह्यतमस्यात्रानुक्तत्वे भूय इति व्यर्थमित्यत आह -- मन्मना इति ॥ साधनसारस्य प्रागुक्तत्वात् तदपेक्षया भूय इत्युपपद्यत इति भावः । तर्~हि पुनरुक्तिः स्यादित्यतः साधनसारोपसंहार इत्युक्तम् । ननु ``मन्मना भव" इत्यादिनाऽन्यव्यावृत्तिपूर्वकं स्वभजनस्यात्रोपदिष्टत्वेन भगवत्सर्वोत्तमत्वमेवोक्तमिति कथं तत्त्वसारकथनं नेत्यत आह -- अर्थत इति ॥ सत्यमत्र विष्ण्वाधिक्यमुक्तमिति । तथाप्यन्यभजननिरासपूर्वकं स्वभजनोपदेशान्यथानुपपत्त्यैवोक्तम् । न तु मुखतः । अतो नात्र तत्त्वसारकथनमिति भावः ॥64-65॥
((सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज ।
अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ॥ 66 ॥
* अन्यसर्वधर्मान् परित्यज्येत्युक्तशेषत्वेनैव सर्वधर्मानिति वचनम् । ``मामेकं शरणं व्रज" इत्यपि `मन्मनाः' इत्याद्युक्तनिगमात्मना तद्व्याख्यानम् ।
``सर्वोत्तमत्वविज्ञानपूर्वं तत्र मनः सदा ।
सर्वाधिकप्रेमयुक्तं सर्वस्यात्र समर्पणम् ॥
अखण्डा त्रिविधा पूजा तद्रत्यैव स्वभावतः ।
रक्षतीत्येव विश्वसस्तदीयोऽहमिति स्मृतिः ।
शरणागतिरेषा स्याद् विष्णौ मोक्षफलप्रदा ॥" इति महाविष्णुपुराणे । अनादिजन्मकृतसर्वपापेभ्यः । धर्मपरित्यागे पापपरित्यागस्य कैमुत्येनैव सिद्धत्वात् ॥66॥
// भवेद्येतद्यदि भगवन्मनस्त्वादिकं शरणागतिः स्यात्, तदेव कुत इत्यत आह -- सर्वोत्तमत्वेति ॥ अत्र यथासम्भवं मन्मना इत्याद्युक्तार्थेनैकार्थत्वं द्रष्टव्यम् । त्रिविधा मनोवचनशरीरभवा । स्वभावतः न फलान्तरापेक्षया । मोक्षफलप्रदेत्यनेन मामेवैष्यसीत्युक्तार्थं भवति । मामेकमिति सर्वधर्मानित्यस्य व्याख्यानं द्रष्टव्यम् । ``अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि" इत्यस्य युद्धनिमित्तपापेभ्य इत्यन्यथाप्रतीति निरासार्थमाह -- अनादीति ॥ अत्रत्यपापान्येव विवक्षितानि किं न स्युरित्यत आह -- अत्रेति ॥ पापानामिति शेषः । कुतोऽत्र न पापप्राप्तिः ? भविष्यद्युद्धस्यैव तत्प्रापकत्वादित्यत आह -- धर्मेति ॥ यदा भगवान् अतिशुद्धधर्मवैपरीत्यादन्यधर्मत्यागं बोधयति तदा किमु वाच्यं पापपरित्यागं बोधयतीति । तथाऽर्जुनश्च यदा अन्यधर्मत्यागं कुर्यात् तदा किमु वाच्यं पापपरित्यागं कुर्यादिति । ताभ्यां च युद्धस्य बोध्यमानत्वात्, करिष्यमाणत्वाच्च न पापप्रापकतेति भावः ॥66॥
((इदं ते नातपस्काय नाभक्ताय कदाचन ।
न चाशुश्रूषवे वाच्यं न च मां योऽभ्यसूयति ॥ 67 ॥
* अतपस्कायैव न वाच्यम् । अशुश्रूषवे पुनश्चेति दोषाधिक्यमशुश्रूषोर्दर्शयितुं च शब्दः । ऎवमभक्ताय कदापि न वाच्यम् । कदाचिदल्पतपसोऽल्पशुश्रूषोरपि भक्त्याधिक्ये वाच्यं भवतीति कदाचनेति शेषः । अभक्ताश्च न वाच्यमसूयोरिति तत्रापि च शब्दः ।
``समुच्चये तथाऽधिक्ये न्यूनत्वे चः प्रयुज्यते" इति शब्दनिर्णये ।
`अभक्तादपि पापः स्यादसूयुर्दोषदृग्यतः " इति च पाद्मे ॥67॥
// गीतास्वनधिकारिनिरासेनाधिकारी लक्ष्यते -- ``इदं" इति । तत्रातपस्कादीनां चतुर्णामप्यनधिकारित्वं किं सममित्यतो गीतापदैरेव तत्तारतम्यं दर्शयति-- अतपस्कायेति ॥ यथाऽतपस्कादतिशयेन अशुश्रूषोर्न वाच्यं, ऎवमशुश्रूषोरप्यतिशयेन अभक्ताय न वाच्यमिति कदाचनेत्यनेन ज्ञायत इत्यर्थः । नन्वतपस्कादीनामपि कदाचनवाच्यमेव । अतः कदाचनेति विशिष्यात्रोक्त्या कथमस्य दोषाधिक्यं सूच्यत इत्यत आह -- कदाचिदिति ॥ विशेषो दोषाधिक्यसूचको भवतीति शेषः । अभक्ताच्चातिशयेनेत्यर्थः । इति सूचयितुमिति शेषः । चशब्दस्य दोषाधिक्यसूचकत्वं कुत इत्यत आह -- समुच्चय इति ॥ अभक्ताच्च न वाच्यमसूयोरित्यत्र स्मृतिं चाह -- अभक्तादपीति ॥67॥
((य इदं परमं गुह्यं मद्भक्तेष्वभिधास्यति ।
भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशयः ॥ 68 ॥
नच तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः ।
भविता नच मे तस्मादन्यः प्रियतरो भुवि ॥ 69 ॥
अध्येष्यते च य इमं धर्म्यं संवादमावयोः ।
ज्ञानयज्ञेन तेनाहमिष्टः स्यामिति मे मतिः ॥ 70 ॥
श्रद्धवाननसूयश्च शृणुयादपि यो नरः ।
सोऽपि मुक्तः शुभांल्लोकान् प्राप्नुयात् पुण्यकर्मणाम् ॥ 71 ॥
कच्चिदेतत् श्रुतं पार्थ त्वयैकाग्रेण चेतसा ।
कच्चिदज्ञानसम्मोहः प्रनष्टस्ते धनञ्जय ॥ 72 ॥
अर्जुन उवाच --
नष्टो मोहः स्मृतिर्लब्ध्वा त्वत्प्रसादान्मयाऽच्युत ।
स्थितोऽस्मि गतसन्देहः करिष्ये वचनं तव ॥ 73 ॥
सञ्जय उवाच --
इत्यहं वासुदेवस्य पार्थस्य च महात्मनः ।
संवादमिममश्रौषमद्भुतं रोमहर्षणम् ॥ 74 ॥
व्यासप्रसादात् श्रुतवानेतद् गुह्यमहं परम् ।
योगं योगेश्वरात् कृष्णात् साक्षात् कथयतः स्वयम् ॥ 75 ॥
राजन् संस्मृत्य संस्मृत्य संवादमिममध्भुतम् ।
केशवार्जुनयोः पुण्यं हृष्यामि च मुहुर्मुहुः ॥ 76 ॥
तच्च संस्मृत्य संस्मृत्य रूपमत्यद्भुतं हरेः ।
विस्मयो मे महान् राजन् हृष्यामि च पुनः पुनः ॥ 77 ॥
यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः ।
तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिमम ॥ 78 ॥
॥ ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे मोक्षसंन्यासयोगो नाम अष्टादशोऽध्यायः ॥
* ``सोऽपि मुक्तः", ``नच तस्मान्मनुष्येषु" इत्युक्तेश्च मुक्तानां महत् तारतम्यं ज्ञायते । ``मनुष्येषु" इति विशेषणात् तत्रापि देवानामाधिक्यं च ।
``मुक्तिर्ज्ञात्वाऽपि विष्णुं स्यात् शास्त्रं श्रुत्वा ततोऽधिकम् ।
मुक्तौ सुखं तत्पठतस्ततोऽप्यधिकमिष्यते ॥
व्याख्यातुस्तु समं मुक्तौ सुखं नान्यस्य कस्यचित् ।
ततोऽधिकं तु देवानां मुख्यव्याख्याकृतो यतः ॥" इति च ॥68-72॥
// गीताव्याख्यानादि फलकथनेन स्तूयते -- ``यः" इति । तत्र व्याख्यात्रादीनामुक्तो मोक्षः किमेकप्रकार इत्यतो गीतावाक्यैरेव तत्तारतम्यं दर्शयति -- सोऽपीति ॥ मुक्तानां व्याख्यात्रादीनामिति शेषः । ऎवं चेत् किं व्याख्यातुरेव सर्वाधिक्यमित्यत आह -- मनुष्येष्विति ॥ तत्र मुक्तेष्वपि । ऎतदेव प्रमाणान्तरेण द्रढयति -- मुक्तिरिति ॥ मुख्यव्याख्याकृत इति ॥ अन्येषां व्याख्यातृत्वे मुख्यकारणभूता इत्यर्थः । नन्वर्जुनेन स्वोक्तमदद्यापि नाङ्गीकृतम् । तत्कथं भगवता तद्बोधनं समाप्यत इत्याशङ्कां `यथेच्छसि तथा कुरु" इति यथेष्टाचरणमनुज्ञायत इत्यन्यथाप्रतीतिं पराकुर्वन् परिहरति -- यथेति ॥ भगवदुक्तानुसरणमर्जुनेन कृतमित्यत्रैवोक्तत्वात् ततः प्रागेव तज्जञस्य भगवतः तद्बोधनोपरमो युक्त इति भावः ॥73-78॥
* नमस्ते वासुदेवाय प्रेयसां मे प्रियोत्तम ।
समस्तगुणसम्पूर्ण निर्दोषानन्ददायिने ॥
यस्य त्रीण्युदितानि वेदवचने रूपाणि दिव्यान्यलं
बट् तद्दर्शतमित्थमेव निहितं देवस्य भर्गो महत् ।
वायो रामवचोनयं प्रथमकं पृक्षो द्वितीयं वपुः
मध्वो यत्तु तृतीयमेतदमुना ग्रन्थः कृत केशवे ॥
निःशेषदोषरहित कल्याणाशेषसद्गुण ।
भूतिस्वयम्भुशर्वादिवन्द्यं त्वां नौमि मे प्रियम् ॥
इति श्रीमदानन्दभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीतातात्पर्यनिर्णये अष्टादशोऽध्यायः ॥18॥
// अथ समापितग्रन्थोऽयं भगवानाचार्यः स्वप्रतिपादितप्रकारमेव वासुदेवं नमति -- नम इति ॥ स्वस्वरूपपरिज्ञानस्यापि कैवल्याद्यखिलपुरुषार्थहेतुत्वात् स्वकृतां ग्रन्थनिर्माणरूपपरिचर्यां केशवे समर्पयन् तदाह -- यस्येति ॥ अथ तमेव हरिमादरविशेषात् पुनः स्तौति -- निःशेषेति ॥ भूतिर्महालक्ष्मीः ।
श्रीमदानन्दतीर्थार्यहृदयामलमन्दिरः ।
इन्दिरारमणः प्रीतिं यातु दीनदयापरः ॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्य श्रीमद्भगवद्गीतातात्पर्यनिर्णयस्य जयतीर्थमुनिविरचितायां न्यायदीपिकायां अष्टादशोऽध्यायः ॥ 18॥
॥ समाप्तोऽयं ग्रन्थः ॥
श्रीवादिराजगुर्वन्तर्गत अश्विनीहयग्रीवात्मकमध्वेशाभिन्नश्रीकृष्णार्पणमस्तु ॥
**********************************************************************************************************