श्रीगुरुभ्यो नमः ।।
अथ प्रथमोध्यायः
सूक्त1
नवर्चम् । मधुच्छन्दा वैश्वामित्रः । अग्निः । गायत्री ।
अग्निमीळे पुरोहितं यज्ञस्य देवमृत्विजम् । होतारं रत्नधातमम् ।।1।।
अग्निः पूर्वेभिः ऋषिभिरीड्यो नूतनैरुत । स देवां? एह वक्षति ।।2।।
अग्निना रयिमश्नवत् पोषमेव दिवे दिवे । यशसं वीरवत्तमम् ।।3।।
अग्ने यं यज्ञमध्वरं विश्वतः परिभूरसि । स इद् देवेषु गच्छति ।।4।।
अग्निर्होता कविक्रतुः सत्यश्चित्रश्रवस्तमः । देवो देवेभिरा गमत् ।।5।।
यदङ्ग दाशुषे त्वमग्ने भद्रं करिष्यसि । तवेत् तत् सत्यमङ्गिरः ।।6।।
उप त्वाग्ने दिवे दिवे दोषावस्तर्धिया वयम् । नमो भरन्त एमासि ।।7।।
राजन्तमध्वराणां गोपामृतस्य दीदिविम् । वर्धमानं स्वे दमे ।।8।।
स नः पितेव सूनवेग्ने सूपायनो भव । सचस्वा नः स्वस्तये ।।9।।
सूक्त2
नवर्चम् । मधुच्छन्दा वैश्वामित्रः ।1-3 वायुः ,4-6 इन्द्रवायू, 7-9 मित्रावरुणौ । गायत्री ।
वायवा याहि दर्शतेमे सोमा अरङ्कृताः । तेषां पाहि श्रुधी हवम् ।।1।।
वाय उक्थेभिर्जरन्ते त्वामच्छा जरितारः । सुतसोमा अहर्विदः ।।2।।
वायो तव प्रपृञ्चती धेना जिगाति दाशुषे । उरूची सोमपीतये ।।3।।
इन्द्रवायू इमे सुता उप प्रयोभिरा गतम् । इन्दवो वामुशन्ति हि ।।4।।
वायविन्द्रश्च चेतथः सुतानां वाजिनीवसू । तावा यातमुप द्रवत् ।।5।।
वायविन्द्रश्च सुन्वत आ यातमुप निष्कृतम् । मक्ष्वि1 त्था धिया नरा ।।6।।
मित्रं हुवे पूतदक्षं वरुणं च रिशादसम् । धियं घृताचीं साधन्ता ।।7।।
ऋतेन मित्रावरुणावृतावृधावृतस्पृशा । क्रतुं बृहन्तमाशाथे ।।8।।
कवी नो मित्रावरुणा तुविजाता उरुक्षया । दक्षं दधाते अपसम् ।।9।।
सूक्त3
द्वादशर्चम् । मधुच्छन्दा वैश्वामित्रः ।1-3 अश्विनौ 4-6 इन्द्रः 7-9 विश्वेदेवाः 10-12 सरस्वती । गायत्री ।
अश्विना यज्वरीरिषो द्रवत्पाणी शुभस्पती । पुरुभुजा चनस्यतम् ।।1।।
अश्विना पुरुदंससा नरा शवीरया धिया । धिष्ण्या वनतं गिरः ।।2।।
दस्रा युवाकवः सुता नासत्या वृक्तबर्हिषः । आ यातं रुद्रवर्तनी ।।3।।
इन्द्रा याहि चित्रभानो सुता इमे त्वायवः । अण्वीभिस्तना पूतासः ।।4।।
इन्द्रा याहि धियेषितो विप्रजूतः सुतावतः । उप ब्रह्माणि वाघतः ।।5।।
इन्द्र याहि तूतुजान उप ब्रह्माणि हरिवः । सुते दधिष्व नश्चन ।।6।।
ओमासश्चर्षणीधृतो विश्वे देवास आ गत । दाश्वांसो दाशुषः सुतम् ।।7।।
विश्वे देवासो अप्तुरः सुतमा गन्त तूर्णयः । उस्रा इव स्वसराणि ।।8।।
विश्वे देवासो अस्रिध एहिमायासो अद्रुहः । मेघं जुषन्तः वह्नयः ।।9।।
पावका नः सरस्वती वाजेभिर्वाजिनीवती । यज्ञं वष्टु धियावसुः ।।10।।
चोदयित्री सूनृतानां चेतन्ती सुमतीनाम् । यज्ञं दधे सरस्वती ।।11।।
महो अर्णः सरस्वती प्र चेतयति केतुना । धियो विश्वा वि राजति ।।12।।
सूक्त4
दशर्चम् । मधुच्छन्दा वैश्वामित्रः । इन्द्रः । गायत्री ।
सुरूपकृत्नुमूतये सुदुघामिव गोदुहे । जुहूमसि द्यविद्यवि ।।1।।
उप नः सवना गहि सोमस्य सोमपाः पिब । गोदा इद् रेवतो मदः ।।2।।
अथा ते अन्तमानां विद्याम सुमतीनाम् । मा नो अति ख्य आ गहि ।।3।।
परेहि विग्रमस्तृतमिन्द्रं पृच्छा विपश्चितम् । यस्ते सखिभ्य आ वरम् ।।4।।
उत ब्रुवन्तु नो निदो निरन्यतश्चिदारत । दधाना इन्द्र इद् दुवः ।।5।।
उत नः सुभगां? अरिर्वोचेयुदस्म कृष्टयः । स्यामेदिन्द्रस्य शर्मणि ।।6।।
एमाशुमाशवे भर यज्ञश्रियं नृमादनम् । पतयन् मन्दयत्सखम् ।।7।।
अस्य पीत्वा शतक्रतो घनो वृत्राणामभवः । प्रावो वाजेषु वाजिनम् ।।8।।
तं त्वा वाजेषु वाजिनं वाजयामः शतक्रतो । धनानामिन्द्र सातये ।।9।।
यो रायो 3 वनिर्महान्त सुपारः सुन्वतः सखा । तस्मा इन्द्राय गायत ।।10।।
सूक्त5
दशर्चम् । मधुच्छन्दा वैश्वामित्रः । इन्द्रः । गायत्री ।
आ त्वेता नि षीदतेन्द्रमभि प्र गायत । सखायः स्तोमवाहसः ।।1।।
पुरूतमं पुरूणामीशानं वार्याणाम् । इन्द्रं सोमे सचा सुते ।।2।।
स घा नो योग आ भुवत् स राये स पुरंध्याम् । गमद्वाजेभिरा स नः ।।3।।
यस्य संस्थे न वृण्वते हरी समत्सु शत्रवः । तस्मा इन्द्राय गायत ।।4।।
सुतपाव्ने सुता इमे शुचयो यन्ति वीतये । सोमासो दध्याशिरः ।।5।।
त्वं सुतस्य पीतये सद्यो वृद्धो अजायथाः । इन्द्र ज्यैष्ठ्याय सुक्रतो ।।6।।
आ त्वा विशन्त्वाशवः सोमास इन्द्र गिर्वणः । शं ते सन्तु प्रचेतसे ।।7।।
त्वां स्तोमा अविवृधन् त्वामुक्था शतक्रतो । त्वां वर्धन्तु नो गिरः ।।8।।
अक्षितोतिः सनेदिमं वाजमिन्द्रः सहस्रिणम् । यस्मिन् विश्वानि पौंस्या ।।9।।
मा नो मर्ता अभि द्रुहन् तनूनामिन्द्र गिर्वणः । ईशानो यवया वधम् ।।10।।
सूक्त6
दशर्चम् । मधुच्छन्दा वैश्वामित्रः । 1,2,4 मरुतः 3,5 मरुत इन्द्रश्च 6-10 इन्द्रः । गायत्री ।
युञ्जन्ति ब्रध्नमरुषं चरन्तं परि तस्थुषः । रोचन्ते रोचना दिवि ।।1।।
युञ्जन्त्यस्य काम्या हरी विपक्षसा रथे । शोणा धृष्णू नृवाहसा ।।2।।
केतुं कृण्वन्नकेतवे पेशो मर्या अपेशसे । समुषद्भिरजायथाः ।।3।।
आदह स्वधामनु पुनर्गर्भत्वमेरिरे । दधाना नाम यज्ञियम् ।।4।।
वीळु चिदारुजत्नुभिर्गुहा चिदिन्द्र वह्निभिः । अविन्द उस्रिया अनु ।।5।।
देवयन्तो यथा मतिमच्छा विदद्वसु गिरः । महामनूषत श्रुतम् ।।6।।
इन्द्रेण सं हि दृक्षसे संजग्मानो अबिभ्युषा । मन्दू संमानवर्चसा ।।7।।
अनवद्यैरभिद्युभिर्मखः सहस्वदर्चति । गणैरिन्द्रस्य काम्यैः ।।8।।
अतः परिज्मन्ना गहि दिवो वा रोचनादधि । समस्मिन्नृञ्जसे गिरः ।।9।।
इतो वा सातिमीमहे दिवो वा पार्थिवादधि । इन्द्रं महो वा रजसः ।।10।।
सूक्त7
दशर्चम् । मधुच्छन्दा वैश्वामित्रः । इन्द्रः । गायत्री ।
इन्द्रमिद्गाथिनो बृहदिन्द्रमर्केभिरर्किणः । इन्द्रं वाणीरनूषत ।।1।।
इन्द्र इद्धर्योः सचा संमिश् आ वचोयुजा । इन्द्रो वज्री हिरण्ययः ।।2।।
इन्द्रो दीर्घाय चक्षस आ सूर्यं रोहयद् दिवि । वि गोभिरद्रिमैरयत् ।।3।।
इन्द्र वाजेषु नोव सहस्रप्रधनेषु च । उग्र उग्राभिरूतिभिः ।।4।।
इन्द्रं वयं महाधन इन्द्रमर्भे हवामहे । युजं वृत्रेषु वज्रिणम् ।।5।।
स नो वृषन्नमुं चरुं सत्रादावन्नपा वृधि । अस्माभ्यमप्रतिष्कुतः ।।6।।
तुञ्जेतुञ्जे य उत्तरे स्तोमा इन्द्रस्य वज्रिणः । न विन्धे अस्य सुष्टुतिम् ।।7।।
वृषा यूथेव वंसगः कृष्टीरियर्त्योजसा । ईशानो अप्रतिष्कुतः ।।8।।
य एकश्चर्षणीनां वसूनामिरज्यति । इन्द्रः पञ्च क्षितीनाम् ।।9।।
इन्द्रं वो विश्वतस्परि हवामहे जनेभ्यः । अस्माकमस्तु केवः ।।10।।
सूक्त8
दशर्चम् । मधुच्छन्दा वैश्वामित्रः । इन्द्रः । गायत्री ।
एन्द्र सानसिं रयिं सजित्वानं सदासहम् । वर्षिष्ठमूतये भर ।।1।।
नि येन मुष्टिहत्यया नि वृत्रा रुणधामहै । त्वोतासो न्यर्वता ।।2।।
इन्द्र त्वोतास आ वयं वज्रं घना ददीमहि । जयेम सं युधि स्पृधः ।।3।।
वयं शूरेभिरस्तृभिरिन्द्र त्वया युजा वयम् । सासह्याम पृतन्यतः ।।4।।
महां? इन्द्रः परश्च नु महित्वमस्तु वज्रिणे । द्यौर्न प्रथिना शवः ।।5।।
समोहे वा य आशत नरस्तोकस्य सनितौ । विप्रसो वा धियायवः ।।6।।
यः कुक्षिः सोमपातमः समुद्र इव पिन्वते । उर्वीरापो न काकुदः ।।7।।
एवा ह्यस्य सूनृता विरप्शी गोमती मही । एका शाखा न दाशुषे ।।8।।
एवा हि ते विभूतय ऊतय इन्द्र मावते । सद्यश्चित् सन्ति दाशुषे ।।9।।
एवा ह्यस्य काम्या स्तोम उक्थं च शंस्या । इन्द्राय सोमपीतये ।।10।।
सूक्त9
दशर्चम् । मधुच्छन्दा वैश्वामित्रः । इन्द्रः । गायत्री ।
इन्द्रेहि मथ्स्यन्धसो विश्वेभिः सोमपर्वभिः । महां? अभिष्टिरोजसा ।।1।।
एमेनं सृजसा सुते मन्दिमिन्द्राय मन्दिने । चक्रिं विश्वानि चक्रये ।।2।।
मथ्स्वा सुशिप्र मन्दिभिः स्तोमेभिर्विश्वचर्षणे । सचैषु सवनेष्वा ।।3।।
असृग्रमिन्द्र ते गिरः प्रति त्वामुदहासत । अजोषा वृषभं पतिम् ।।4।।
सं चोदय चित्रमर्वाग् राध इन्द्र वरेण्यम् । असदित् ते विभु प्रभु ।।5।।
अस्मान्त्सु तत्रं चोदयेन्द्रं राये रभस्वतः । तुविद्युम्न यशस्वतः ।।6।।
सं गोमदिन्द्र वाजवदस्मे पृथु श्रवो बृहत् । विश्वायुर्धेह्यक्षितम् ।।7।।
अस्मे धेहि श्रवो द्युम्नं सहस्रसातमम् । इन्द्र ता रथिनीरिषः ।।8।।
वसोरिन्द्रं वसुपतिं गीर्भिर्गृणन्तं ऋग्मियम् । होम गन्तारमूतये ।।9।।
सुतेसुते न्योकसे बृहद् बृहत एदरिः । इन्द्राय शूषमर्चति ।।10।।
सूक्त10
दशर्चम् । मधुच्छन्दा वैश्वामित्रः । इन्द्रः । अनुष्टुप् ।
गायन्ति त्वा गायत्रिणोर्चन्त्यर्कमर्किणः । ब्रह्मामस्त्वा शतक्रत उद् वंशमिव येमिरे ।।1।।
यत् सानोः सानुमारुहत् भूर्यस्पष्ट कत्वम् । तदिन्द्रो अर्थं चेतति यूथेन वृष्णिरेजति ।।2।।
युक्ष्वा हि केशिना हरी वृषणा कक्ष्यप्रा । अथा न इन्द्र सोमपा गिरामुपश्रुतिं चर ।।3।।
एहि स्तोमां? अभि स्वरा भि गृणीह्य रुव । ब्रह्म च नो वसो सचेन्द्रं यज्ञं च वर्धय ।।4।।
उक्थमिन्द्राय शंस्यं वर्धनं पुरुनिष्पिधे । शक्रो यथा सुतेषु णो रारणत् सख्येषु च ।।5।।
तमित् सखित्व ईमहे तं राये तं सुवीर्यम् । स शक्र उत नः शकदिन्द्रो वसु दयमानः ।।6।।
सुविवृतं सुनिरजमिन्द्र त्वादातमिद्यशः । गवामप व्रजं वृधि कृणुश्व राधो अद्रिवः ।।7।।
नहि त्वा रोदसी उभे ऋधायमाणमिन्वतः । जेषः स्वर्ततीरपः सं गा अस्मभ्यं धूनुहि ।।8।।
आश्रुत्कर्ण श्रुधी हवं नू चिद्दधिष्व मे गिरः । इन्द्र स्तोममिं मम कृष्वा युजश्चिदन्तरम् ।।9।।
विद्मा हि त्वा वृषन्तमं वाजेषु हवनश्रुतम् । वृषन्तमस्य हूमह ऊतिं सहस्रसातमाम् ।।10।।
आ तू न इन्द्र कौशिक मन्दसानः सुतं पिब । नव्यमायुः प्रसूतिर कृधी सहस्रसामृषिम् ।।11।।
परि त्वा गिर्वणो गिर इमा भवन्तु विश्वतः । वृद्धायुमनु वृद्धयो जुष्टा भवन्तु जुष्टयः ।।12।।
सूक्त11
अष्टर्चम् । मधुच्छन्दा वैश्वामित्रः । इन्द्रः । गायत्री ।
इन्द्रं विश्वा अवीवृधन्त समुद्रव्यचसं गिरः । रथीतम रथीनां वाजानां सत्पतिं पतिम् ।।1।।
सख्ये तं इन्द्र वाजिनो मा भेम शवसस्पते । त्वामभि प्र णोनुमो जेतारमपराजितम् ।।2।।
पूर्वीरिन्द्राय रातयो न वि दस्यन्त्यूतयः । यदी वाजस्य गोमतः स्तोतृभ्यो महते मघम् ।।3।।
पुरां भिन्दुर्युवां कविरमितौजा अजायत । इन्द्रो विश्वस्य कर्मणो धर्ता वज्री पुरुष्टुतः ।।4।।
त्वं बस्य गोमतोपावरद्रिवो बिम् । त्वां देवा अबिभ्युषस् तुज्यमानास आविषुः ।।5।।
तवाह शूर रातिभिः प्रत्यायं सिन्धुमावदन् । उपातिष्ठन्त गिर्वणो विदुषे तस्य कारवः ।।6।।
मायाभिरिन्द्र मायिनं त्वं शुष्णमवातिरः । विदुष्टे तस्य मेधिरास् तेषां श्रवास्युत्तिरः ।।7।।
इन्द्रमीशानमोजसाभि स्तोमा अनूषत । सहस्रं यस्य रातय उत वा सन्ति भूयसीः ।।8।।
सूक्त12
द्वादशर्चम् । मेधातिथिः काण्वः । अग्निः 6 प्रथमपादस्य निर्मथ्याहवनीयौ अग्नी । गायत्री ।
अग्निं दूतं वृणीमहे होतारं विश्ववेदसम् । अस्य यज्ञस्य सुक्रतुम् ।।1।।
अग्निमग्निं हवीमभिः सदा हवन्त विश्पतिम् । हव्यवाहं पुरुप्रियम् ।।2।।
अग्ने देवां? इहा वह जज्ञानो वृक्तबर्हिषे । असि होता न ईड्यः ।।3।।
तां? उशतो वि बोधय यदग्ने यासि दूत्यम् । देवैरा सत्सि बर्हिषि ।।4।।
धृताहवन दीदिवः प्रति ष्म रिषतो दह । अग्ने त्वं रक्षस्विनः ।।5।।
अग्निनाग्निः समिध्यते कविर्गृहपतिर्युवा । हव्यवाड् जुह्वास्यः ।।6।।
कविमग्निमुप स्तुहि सत्यधर्माणमध्वरे । देवममीवचातनम् ।।7।।
यस्त्वामग्ने हविष्पतिर्दूतं देव सपर्यति । तस्य स्म प्राविता भव ।।8।।
यो अग्निं देववीतये हविष्मां? आविवासति । तस्मै पाव मृळय ।।9।।
स नः पावक दीदिवोग्ने देवां? इहा वह । उप यज्ञं हविश्च नः ।।10।।
स नः स्तवान आ भर गायत्रेण नवीयसा । रयिं वीरवतीमिषम् ।।11।।
अग्ने शुक्रेण शोचिषा विश्वाभिर्देवहूतिभिः । इमं स्तोमं जुषस्व नः ।।12।।
सूक्त13
द्वादशर्चम् । मेधातिथिः काण्वः । आप्रीसूक्तं (अग्निरूपा देवताः प्रत्यृचं भिन्नाः) 1 इध्मः समिद्धोग्निर्वा 2 तनूनपात् 3 नराशंसः 4 इळः 5 बर्हिः 6 द्वारो देवीः 7 नक्ता उषा च दैव्यौ 8 प्रचेतसौ देव्यौ होतारौ 9 तिस्रो देव्यः सरस्वतीळाभारत्यः 10 त्वष्टा 11 वनस्पतिः 12 स्वाहाकृतयः । गायत्री ।
सुसमिद्धो न आ वह देवां? अग्ने हविष्मते । होतः पावक यक्षि च ।।1।।
मधुमन्तं तनूनपाद् यज्ञं देवेषु न कवे । अद्या कृणुहि वीतये ।।2।।
नराशंसमिह प्रियमस्मिन् यज्ञ उप ह्वये । मधुजिह्वं हविष्कृतम् ।।3।।
अग्ने सुखतमे रथे देवां? ईळित आ वह । असि होता मनुर्हितः ।।4।।
स्तृणीत बर्हिरानुषग् घृतपृष्ठं मनीषिणः । यत्रामृतस्य चक्षणम् ।।5।।
वि श्रयन्तामृतावृधो द्वारो देवीरसश्चतः । अद्या नूनं च यष्टवे ।।6।।
नक्तोषासा सुपेशसास्मिन् यज्ञ उप ह्वये । इदं नो बर्हिरासदे ।।7।।
ता सुजिह्वा उप ह्वये होतारा दैव्याकवी । यज्ञं नो यक्षतामिमम् ।।8।।
इळा सरस्वती मही तिस्रो देवीर्मयोभुवः । बर्हिः सीदन्त्वस्रिधः ।।9।।
इह त्वष्टारमग्रियं विश्वरूपमुप ह्वये । अस्माकमस्तु केवः ।।10।।
अव सृजा वनस्पते देव देवेभ्यो हविः । प्र दातुरस्तु चेतनम् ।।11।।
स्वाहा यज्ञं कृणोतनेन्द्राय यज्वनो गृहे । तत्र देवां? उप ह्वये ।।12।।
सूक्त14
द्वादशर्चम् । मेधातिथिः काण्वः । विश्वे देवाः । गायत्री ।
ऐभिरग्ने दुवो गिरो विश्वेभिः सोमपीतये । देवेभिर्याहि यक्षि च ।।1।।
आ त्वा कण्वा अहूषत गृणन्ति विप्र ते धियः । देवेभिरग्न आ गहि ।।2।।
इन्द्रवायू बृहस्पतिं मित्राग्निं पूषणं भगम् । आदित्यान् मारुतं गणम् ।।3।।
प्र वो भ्रियन्त इन्दवो मत्सरा मादयिष्णवः । द्रप्सा मध्वश्चमूषदः ।।4।।
ईळते त्वामवस्यवः कण्वासो वृक्तबर्हिषः । हविष्मन्तो अरङ्कृतः ।।5।।
घृतपृष्ठा मनोयुजो ये त्वा वहन्ति वह्नयः । आ देवान् सोमपीतये ।।6।।
तान् यजत्रां? ऋतावृधोग्ने पत्नीवतस्कृधि । मध्वः सुजिह्व पायय ।।7।।
ये यजत्रा य ईड्यास्ते ते पिबन्तु जिह्वया । मघोरग्ने वषट्कृति ।।8।।
आर्की सूर्यस्य रोचनाद् विश्वान् देवां? उषर्बुधः । विप्रो हातेह वक्षति ।।9।।
विश्वेभिः सोम्यं मध्वग्न इन्द्रेण वायुना । पिबा मित्रस्य धामभिः ।।10।।
त्वं होता मनुर्हितोग्ने यज्ञेषु सीदसि । सेमं नो अध्वरं यज ।।11।।
युक्ष्वा ह्यरुषी रथे हरितो देव रोहितः । ताभिर्देवां? इहा वह ।।12।।
सूक्त15
द्वादशर्चम् । मेधातिथिः काण्वः । ऋतवः 1 इन्द्रः 2 मरुतः विष्णुरिन्द्रोग्निस्त्वष्टा 4 अग्निः 5 इन्द्रः 6 मित्रावरुणौ 7 -10 द्रविणोदाः 11 अश्विनी 12 विष्णुरग्निश्च । गायत्री ।
इन्द्र सोम पिब ऋतुना त्वां विशन्त्विन्दवः । मत्सरासस्तदोकसः ।।1।।
मरुतः पिबत ऋतुना पोत्राद् यज्ञ पुनीतन । पूयं हि ष्ठा सुदानवः ।।2।।
अभि यज्ञं गृणीहि नो ग्नावो नेष्टः पिब ऋतुना । त्वं हि रत्नधा असि ।।3।।
अग्ने देवां? इहा वह सादया योनिषु त्रिषु । परि भूष पिब ऋतुना ।।4।।
ब्राह्मणादिन्द्र राधसः पिबा सोममृतूं?रनु । तवेद्धि सख्यमस्तृतम् ।।5।।
युवं दक्षं घृतव्रत मित्रावरुण दूळभम् । ऋतुना यज्ञमाशाथे ।।6।।
द्रविणोदा द्रविणसो ग्रावहस्तासो अध्वरे । यज्ञेषु देवमीळते ।।7।।
द्रविणोदा ददातु नो वसूनि यानि शृण्विरे । देवेषु ता वनामहे ।।8।।
द्रविणोदाः पिपीषति जुहोत प्र च तिष्ठत । नेष्ट्रादृतुभिरिष्यत ।।9।।
यत् त्वा तुरीयमृतुभिर्द्रविणोदो यजामहे । अघ स्मा नो ददिर्भव ।।10।।
अश्विना पिबतं मधु दीद्यग्नी शुचिव्रता । ऋतुना यज्ञवाहसा ।।11।।
गार्हपत्येन सन्त्य ऋतुना यज्ञनीरसि । देवान् देवयते यज ।।12।।
सूक्त16
नवर्चम् । मेधातिथिः काण्वः । इन्द्रः । गायत्री ।
आ त्वा वहन्तु हरयो वृषणं सोमपीतये । इन्द्र त्वा सूरचक्षसः ।।1।।
इमा धाना घृतस्नुवो हरी इहोप वक्षतः । इन्द्रं सुखतमे रथे ।।2।।
इन्द्रं प्रातर्हवामहे इन्द्रं प्रयत्यध्वरे । इन्द्रं सोमस्य पीतये ।।3।।
उप नः सुतमा गहि हरिभिरिन्द्र केशिभिः । सुते हि त्वा हवामहे ।।4।।
सेमं नः स्तोममा गह्युपेदं सवनं सुतम् । गौरो न तृषितः पिब ।।5।।
इमे सोमास इन्दवः सुतासो अधि बर्हिषि । तां? इन्द्र सहसे पिब ।।6।।
अयं ते स्तोमो अग्रियो हृदिस्पृगस्तु शन्तमः । अथा सोमं सुतं पिब ।।7।।
विश्वमित्सवनं सुतमिन्द्रो मदाय गच्छति । वृत्रहा सोमपीतये ।।8।।
सेमं नः काममा पृण गोभिरश्वैः शतक्रतो । स्तवाम त्वा स्वाध्यः ।।9।।
सूक्त17
नवर्चम् । मेधातिथिः काण्वः । इन्द्रावरुणौ । गायत्री 4-5 पादनिचृत् (5 ह्रसीयसी वा) गायत्री ।
इन्द्रावरुणयोरहं सम्राजोरव आ वृणे । ता नो मृळात ईदृशे ।।1।।
गन्तारा हि स्थोवसे हवं विप्रस्य मावतः । धर्तारो चर्षणीनाम् ।।2।।
अनुकामं तर्पयेथामिन्द्रावरुण राय आ । ता वां नेदिष्ठमीमहे ।।3।।
युवाकु हि शचीनां युवाकुं सुमतीनाम् । भूयाम वाजदान्नाम् ।।4।।
इन्द्रः सहस्रदाव्नां वरुणः शंस्यानाम् । क्रतुर्भवत्युक्थ्यः ।।5।।
तयोरिदवसा वयं सनेम नि च धीमहि । स्यादुत प्ररेचनम् ।।6।।
इन्द्रावरुण वामहं हुवे चित्राय राधसे । अस्मान्सु जिग्युषस्कृतम् ।।7।।
इन्द्रावरुण नू नु वां सिषासन्तीषु धीष्वा । अस्मभ्यं शर्म यच्छतम् ।।8।।
प्र वामश्नोतु सुष्टुतिरिन्द्रावरुण यां हुवे । यामृधार्थे सधस्तुतिम् ।।9।।
सूक्त18
नवर्चम् । मेधातिथिः काण्वः । 1-5 ब्रह्मणस्पतिः 4 इन्द्रो ब्रह्मणस्पतिः सोमश्च 5 ब्रह्मणस्पतिः सोम इन्द्रो दक्षिणा च 6-8 सदसस्पतिः 9 सदसस्पतिर्नराशंसो वा । गायत्री ।
सोमानं स्वरणं कृणुहि ब्रह्मणस्पते । कक्षीवन्त य औशिजः ।।1।।
यो रेवान् यो अमीवहा वसुवित् पुष्टिवर्धनः । स नः सिषक्तु यस्तुरः ।।2।।
मा नः शंसो अररुषो धूर्तिः प्रणङ् मर्त्यस्य । रक्षा णो ब्रह्मणस्पते ।।3।।
स घा वीरो न रिष्यति यमिन्द्रो ब्रह्मणस्पतिः । सोमो हिनोति मर्त्यम् ।।4।।
त्वं तं ब्रह्मणस्पते सोम इन्द्रश्च मर्त्यम् । दक्षिणा पात्वंहसः ।।5।।
सदसस्पतिमद्भुतं प्रियमिन्द्रस्य काम्यम् । सनिं मेधामयासिषम् ।।6।।
यस्मादृते न सिध्यति यज्ञो विपश्चितश्चन । स धीनां योगमिन्वति ।।7।।
आदृध्नोति हविष्कृतिं प्राञ्चं कृणोत्यध्वरम् । होत्रा देवेषु गच्छति ।।8।।
नराशंसं सुधृष्टममपश्यं सप्रथस्तमम् । दिवो न सद्ममखसम् ।।9।।
सूक्त19
नवर्चम् । मेधातिथिः काण्वः । अग्निः मरुतश्च । गायत्री ।
प्रति त्वं चारुमध्वरं गोपीथाय प्र हूयसे । मरुद्भिरग्न आ गहि ।।1।।
नहि देवो न मर्त्यो महस्तव क्रतुं परः । मरुद्भिरग्न आ गहि ।।2।।
ये महो रजसो विदुर्विश्वे देवासो अद्रुहः । मरुद्भिरग्न आ गहि ।।3।।
य उग्रा अर्कमानृचुरनाधृष्टास ओजसा । मरुद्भिरग्न आ गहि ।।4।।
ये शुभ्रा घोरवर्पसः सुक्षत्रासो रिशादसः । मरुद्भिरग्न आ गहि ।।5।।
ये नाकस्याधि रोचते दिवि देवास आसते । मरुद्भिरग्न आ गहि ।।6।।
य ईङ्खयन्ति पर्वतान् तिरः समुद्रमर्णवम् । मरुद्भिरग्न आ गहि ।।7।।
आ ये तन्वन्ति रश्मिभिस्तिरः समुद्रमोजसा । मरुद्भिरग्न आ गहि ।।8।।
अभि त्वा पूर्वपीतये सृजामि सोम्य मधु । मरुद्भिरग्न आ गहि ।।9।।
इति प्रथमोध्यायः ।।
********************************************************
अथ तृतीयोध्यायः
सूक्त33
पञ्चदशर्चम् । हिरण्यस्थूपः आङ्गिरसः । इन्द्रः । त्रिष्टुप् ।
एतायामोप गव्यन्त इन्द्रमस्माकं सु प्रमतिं वावृधाति । अनामृणः कुविदादस्य रायो गवां केतं परमावर्जते नः ।।1।।
उपदेहं धनदामप्रतीतं जुष्टां न श्येनो वसतिं पतामि । इन्द्रं नमस्यन्नुपमेभिरर्कैर्यः स्तोतृभ्यो हव्यो अस्ति यामन् ।।2।।
नि सर्वसेन इषुधीरसक्त समर्यो गा अजति यस्य वष्टि । चोष्कूयमाण इन्द्र भूरि वामं मा पणिर्भूरस्मदधि प्रवृद्ध ।।3।।
वधीर्हि दस्युं धनिनं घनेनं? एकश्चरन्नुपशाकेभिरिन्द्र । धनोरधि विषुणक् ते व्यायन्नयज्वानः सनकाः प्रेतिमीयुः ।।4।।
परा चिच्छीर्षा ववृजुस्त इन्द्रायज्वनो यज्वभिः स्पर्धमानाः । प्र यद् दिवो हरिवः स्थातरुग्र निरव्रतां? अधसो रोदस्योः ।।5।।
अयुयुत्सन्ननवद्यस्य सेनामयातयन्त क्षितयो नवग्वाः । वृषायुधो न वध्रयो निरष्टाः प्रवद्भिरिन्द्राच्चितयन्त आयन् ।।6।।
त्वमेतान् रुदतो जक्षतश्चायोधयो रजस इन्द्र पारे । अवादहो दिव आ दस्युमुच्चाप सुन्वतः स्तुवतः शंसमावः ।।7।।
चक्राणासः परीणहं पृथिव्या हिरण्येन मणिना शुम्भमानाः । न हिन्वानासास्तितिरुस्त इन्द्रं परि स्पशो अदधात् सूर्येण ।।8।।
परि यदिन्द्र रोदसी उभे अबुभोजीर्महिना विश्वतः सीम् । अमन्यमानो अभि मन्यमानैर्निबर्रह्मभिरधमो दस्युमिन्द्र ।।9।।
न ये दिवः पृथिव्या अन्तमापुर्न मायाभिर्धनदां पर्यभूवन् । युजं वज्रं वृषभश्चक्र इन्द्रो निर्ज्योतिषा तमसो गा अदुक्षत् ।।10।।
अनु स्वधामक्षरन्नापो अस्यावर्धत मध्य आ नाव्यानाम् । सध्रीचीनेन मनसा तमिन्द्र ओजिष्ठेन हन्मनाहन्नभि द्यून् ।।11।।
न्याविध्यदिीबिशस्य दृह्ळा वि शृङ्गिणमभिनच्छुष्णमिन्द्रः । यावत्तरो मघवन् यावदोजो वज्रेण शत्रुमवधीः पृतन्युम् ।।12।।
अभिसिध्मो अजिगादस्य शत्रून् वि तिग्मेन वृषभेणा पुरोभेत् । सं वज्रेणासृजद् वृत्रमिन्द्रः प्र स्वां मतिमतिरच्छाशदानः ।।13।।
आवः कुत्समिन्द्र यस्मिञ्चाकन् प्रावो युध्यन्तं वृषभं दशद्युम् । शफच्युतो रेणुर्नक्षत द्यामुच्छ्वैत्रेयो नृषाह्याय तस्थौ ।।14।।
आवः शमं वृषभं तुग्र्यासु क्षेत्रजेषे मघवञ्छ्वित्र्यं गाम् । ज्योक् चिदत्र तस्थिवांसो अक्रञ्चछत्रूयतामधरा वेदनाकः ।।15।।
सूक्त34
द्वादशर्चम् । हिरण्यस्थूपः आङ्गिरसः । अश्विनौ । जगती 9-12 त्रिष्टुप् ।
त्रिश्चिन् नो अद्या भवतं नवेदसा विभुर्वां याम उत रातिरश्विना ।
युवोर्हि यन्त्रं हिम्येव वाससोभ्यायंसेन्या भवतं मनीषिभिः ।।1।।
त्रयः पवयो मधुवाहने रथे सोमस्य वेनामनु विश्व इद् विभुः ।
त्रयः स्कम्भासः स्कभितास आरभे त्रिर्नक्तं याथस्त्रिर्वश्विना दिवा ।।2।।
समाने अहन् त्रिरवद्यागोहना त्रिरद्य यज्ञं मधुना मिमिक्षतम् ।
त्रिर्वाजवतीरिषो अश्विना युवं दोषा अस्मभ्यमुषसश्च पिन्वतम् ।।3।।
त्रिर्वर्तिर्यातं त्रिरनुव्रते जने त्रिः सुप्राव्ये त्रेधेव शिक्षतम् ।
त्रिर्नान्द्यं वहतमश्विना युवं त्रिः पृक्षो अस्मे अक्षरेव पिन्वतम् ।।4।।
त्रिर्नो रयिं वहतमश्विना युवं त्रिर्देवताता त्रिरुतावतं धियः ।
त्रिः सौभगत्वं त्रिरुत श्रवांसि नस् त्रिष्ठं वां सूरे दुहिता रुहद् रथम् ।।5।।
त्रिर्नो अश्विना दिव्यानि भेषजा त्रिः पाथिवानि त्रिरु दत्तमद्भ्यः ।
ओमानं शंयोर्ममकाय सूनवे त्रिधातु शर्म वहतं शुभस्पती ।।6।।
त्रिर्नो अश्विना यजता दिवेदिवे परि त्रिधातु पृथिवीमशायतम् ।
तिस्रो नासत्या रथ्या परावत आत्मेव वातः स्वसराणि गच्छतम् ।।7।।
त्रिरश्विना सिन्धुभिः सप्तमातृभिस् त्रय आहावास्त्रेधा हविष्कृतम् ।
तिस्रः पृथिवीरुपरि प्रवा दिवो नाकं रक्षेथे द्युभिरुक्तुभिर्हितम् ।।8।।
क्व1 त्री चक्रा त्रिवृतो रथस्य क्व1 त्रयो वन्धुरो ये सनीळाः ।
कदा योगो वाजिनो रासभस्य येन यज्ञं नासत्योपयाथः ।।9।।
आ नासत्या गच्छतं हूयते हविर्मध्वः पिबत मधुपेभिरासभिः ।
युवोर्हि पूर्वं सवितोषसो रथमृताय चित्रं घृतवन्तमिष्यति ।।10।।
आ नासत्या त्रिभिरेकादशैरिह देवेभिर्यातं मधुपेयमश्विना ।
प्रायुस्तारिष्टं नी रपांसि मृङतं सेधत द्वेषो भवतं सचाभुवा ।।11।।
आ नो अश्विना त्रिवृता रथेनार्वाञ्चं रयिं वहतं सुवीरम् ।
शृण्वन्ता वामवसे जोहवीमि वृधे च नो भवतं वाजसातौ ।।12।।
सूक्त35
एकादशर्चम् । हिरण्यस्थूपः आङ्गिरसः । 1 (पादानां क्रमेण) अग्निः, मित्रावरुणौ, रात्रिः सविता च , 2-11 सविता । त्रिष्टुप् 1,9 जगती ।
ह्वयाम्यग्निं प्रथमं स्वस्तये ह्वयामि मित्रावरुणाविहावसे । ह्वयामि रात्रीं जगतो निवेशनीं ह्वयामि देवं सवितारमूतये ।।1।।
आ कृष्णेन रजसा वर्तमानो निवेशयन्नमृतं मर्त्यं च । हिरण्ययेन सविता रथेनादेवो याति भुवनानि पश्यन् ।।2।।
याति देवः प्रवता यात्युद्वता याति शुभ्राभ्यां यजतो हरिभ्याम् । आ देवो याति सविता परावतोप विश्वा दुरिता बाधमानः ।।3।।
अभीवृतं कृशनैर्विश्वरूपं हिरण्यशम्यं यजतो बृहन्तम् । आस्थाद् रथं सविता चित्रभानुः कृष्णा रजांसि तविषीं दधानः ।।4।।
वि जनाञ्छ्यावाः शितिपादो अख्यन् रथं हिरण्यप्रउगं वहन्तः । शश्वद् विशः सवितुर्दैव्यस्योपस्थे विश्वा भुवनानि तस्थुः ।।5।।
तिस्रो द्यावः सवितुर्द्वा उपस्थां? एका यमस्य भुवने विराषाट् । आणिं न रथ्यममृताधि तस्थुरिह ब्रवीतु य उ तच्चिकेतत् ।।6।।
वि सुपर्णो अन्तरिक्षाण्यख्यद् गभीरवेपा असुरः सुनीथः । क्वे3दानीं सूर्यः कश्चिकेत कतमां द्यां रश्मिरस्या ततान ।।7।।
अष्टौ व्यख्यत् ककुभः पृथिव्याः त्री धन्व योजना सप्त सिन्धून् । हिरण्याक्षः सविता देव आगाद् दधद्रत्ना दाशुषे वार्याणि ।।8।।
हिरण्यपाणिः सविता विचर्षणिरुभे द्यावापृथिवी अन्तरीयते । अपामीवां बाधते वेत्ति सूर्यमभि कृष्णेन रजसा द्यामृणोति ।।9।।
हिरण्यहस्तो असुरः सुनीथः सुमृीकः स्ववां? यात्वर्वाङ् । अपसेधन् रक्षसो यातुधानानस्थाद् देवः प्रतिदोषं गृणानः ।।10।।
ये ते पन्थाः सवितः पृव्यासोरेणवः सुकृता अन्तरिक्षे । तेभिर्नो अद्य पथिभिः सुगेभी रक्षा च नो अधि च ब्रूहि देव ।।11।।
सूक्त36
विंशत्यर्चम् । कण्वो घोरः । अग्निः । प्रगाथ= विषमा बृहत्यः समाः सतो बृहत्यः,13 उपरिष्टाद् बृहती । ऐ.ब्रा.2-2 चरणच्छेदः।
प्र वो यह्वं पुरूणां विशा देवयतीनाम् । अग्निं सूक्तेभिर्वचोभिरीमहे यं सीमिदन्य ईळते ।।1।।
जनासो अग्निं दधिरे सहोवृधं हविष्मन्तो विधेम ते । स त्वं नो अद्य सुमना इहाविता भवा वाजेषु सन्त्य ।।2।।
प्र त्वा दूतं वृणीमहे होतारं विश्ववेदसम् । महस्ते सतो वि चरन्त्यर्चयो दिवि स्पृशन्ति भानवः ।।3।।
देवासस्त्वा वरुणो मित्रो अर्यमा सं दूतं प्रत्नमिन्धते । विश्वं सो अग्ने जयति त्वया धनं यस्ते ददाश मर्त्यः ।।4।।
मन्द्रो होता गृहपतिरग्ने दूतो विशामसि । त्वे विश्वा संगतानि व्रता ध्रुवा यानिं देवा अकृण्वत ।।5।।
त्वे इदग्ने सुभगे यविष्ठ्य विश्वमा हूयते हविः । स त्वं नो अद्य सुमना उतापरं यक्षि देवान्त्सुवीर्या ।।6।।
तं घेमित्था नमस्विन उप स्वराजमासते । होत्राभिरग्निं मनुषः समिन्धते तितिवां?सो अति स्रिधः ।।7।।
घ्नन्तो वृत्रमतरन् रोदसी अप उरु क्षयाय चक्रिरे । भुवत् कण्वे वृषा द्युुम्याहुतः क्रन्ददश्वो गविष्टिषु ।।8।।
सं सीदस्व महां? असि शोचस्व देववीतमः । वि धूममग्ने अरुष मियेध्य सृज प्रशस्त दर्शतम् ।।9।।
यं त्वा देवासो मनवे दधुरिह यजिष्ठं हव्यवाहन । यं कण्वो मेध्यातिथिर्धनस्पृतं यं वृषा यमुपस्तुतः ।।10।।
यमग्निं मेध्यातिथिः कण्व ईध ऋतादधि । तस्य प्रेषो दीदियुस्तमिमा ऋचः तमग्निं वर्धयामसि ।।11।।
रायस्यूर्धि स्वधावोसति हि तेग्ने देवेष्वाप्यम् । त्वं वाजस्य श्रुत्यस्य राजसि स नो मृळ महां? असि ।।12।।
ऊर्ध्व ऊ षु ण ऊतये तिष्ठा देवो न सविता । ऊर्ध्वो वाजस्य सनिता यदञ्जिभिर्वाघद्भिर्विह्वयामहे ।।13।।
ऊर्ध्वो नः पाह्यंहसो नि केतुना विश्वं समत्रिणं दह । कृधी न ऊर्ध्वाञ्चरथाय जीवसे विदा देवेषु नो दुवः ।।14।।
पाहि नो अग्ने रक्षसः पाहि धूर्तेरराव्णः । पाहि रीषत उत वा जिघांसतो बृहद्भानो यविष्ठ्य ।।15।।
घनेव विष्वग्धि जह्यराब्णस् तपुर्जम्भ यो अस्मध्रुक् । यो मर्त्यः शिशीते अत्यक्तुभिर्मा नः स रिपुरीशत ।।16।।
अग्निर्वव्ने सुवीर्यमग्निः कण्वाय सौभगम् । अग्निः प्रावन् मित्रोत मेध्यातिथिमग्निः साता उपस्तुतम् ।।17।।
अग्निना तुर्वशं यदुं परावत उग्रादेवं हवामहे । अग्निर्नयन्नववास्त्वं बृहद्रथं तुर्वीतिं दस्यवे सहः ।।18।।
नि त्वामग्ने मनुर्दधे ज्योतिर्जनाय शश्वते । दीदेथ कण्वं ऋतजात उक्षितो यं नमस्यन्ति कृष्टयः ।।19।।
त्वेषासो अग्नेरमवन्तो अर्चयो भीमासो न प्रतीतये । रक्षस्विनः सदमिद् यातुमावतो विश्वं समत्रिणं दह ।।20।।
सूक्त37
पञ्चदशर्चम् । कण्वो घोरः । मरुतः । गायत्री ।
क्रीळं वः शर्धो मारुतमनर्वाणं रथेशुभम् । कण्वा अभि प्र गायत ।।1।।
ये पृषतीभिर्ऋष्टिभिः साकं वाशीभिरञ्जिभिः । अजायन्त स्वभानवः ।।2।।
इहेव शृण्व एषां कशा हस्तेषु यद् वदान् । नि यामञ्चित्रमृञ्जते ।।3।।
प्र वः शर्धाय धृष्वये त्वेषद्युम्नाय शुष्मिणे । देवत्तं ब्रह्म गायत ।।4।।
प्र शंसा गोष्वघ्यं क्रीळं यच्छर्धो मारुतम् । जम्भे रसस्य वावृधे ।।5।।
को वो बर्षिष्ठ आ नरो दिवश्च ग्मश्च धूतयः । यत् सीमन्तं न धूनुथ ।।6।।
नि वो यामाय मानुषो दध्र उग्राय मन्यवे । जिहीत पर्वतो गिरिः ।।7।।
येषामज्मेषु पृथिवी जुजुं?र्वा ईव विश्पतिः । भिया यामेषु रेजते ।।8।।
स्थिरं हि जानमेषां वयो मातुर्निरेतवे । यत् सीमनु द्विता शवः ।।9।।
उदु त्ये सूनवो गिरः काष्ठा अज्मेष्वत्नत । वाश्रा अभिज्ञु यातवे ।।10।।
त्यं चिद् घा दीर्घं पृथुं मिहो नपातममृध्रम् । प्र च्यावयन्ति यामभिः ।।11।।
मरुतो यद्ध वो बं जनां? अचुच्यवीतन । गिरीरचुच्यवीतन ।।12।।
यद्ध यान्ति मरुतः सं ह ब्रुवतेध्वन्ना । शृणोति कश्चिदेषाम् ।।13।।
प्र यात शीभमाशुभिः सन्ति कण्वेषु वो दुवः । तत्रो षु मादयाध्वै ।।14।।
अस्ति हि ष्मा मदाय वः स्मसि ष्मा वयमेषाम् । विश्वं चिदायुर्जीवसे ।।15।।
सूक्त38
पञ्चदशर्चम् । कण्वो घोरः । मरुतः । गायत्री ।
कद्ध नून कधप्रियः पिता पुत्रं न हस्तयोः । दधिष्ये वृक्तबर्हिषः ।।1।।
क्व नूनं कद् वो अर्थं गन्ता दिवो न पृथिव्याः । क्व वो गावो न रण्यन्ति ।।2।।
क्व वः सुम्ना नव्यासि मरुतः क्व सुविता । क्वो3 विश्वानि सौभगा ।।3।।
यद्यूयं पृश्निमातरो मर्तासः स्यातन । स्तोता वो अमृतः स्यात् ।।4।।
मा वो मृगो न यवसे जरिता भूदजोष्यः । पथा यमस्य गादुप ।।5।।
मो षु णः परापरा निर्ऋतिर्दुर्हणा वधीत् । पदीष्ट तृष्णया सह ।।6।।
सत्यं त्वेषा अमवन्तो धन्वञ्चिदा रुद्रियासः । मिहं कृण्वन्त्यवाताम् ।।7।।
वाश्रेव विद्युन्मिमाति वत्स न माता सिषक्ति । यदेषां वृष्टिरसर्जि ।।8।।
दिवा चित् तमः कृण्वन्ति पर्जन्येनोदवाहेन । यत् पृथिवीं व्युन्दन्ति ।।9।।
अध स्वनान्मरुतां विश्वमा सद्म पार्थिवम् । अरेजन्त प्र मानुषाः ।।10।।
मरुतो वीळुपाणिभिः चित्रा रोधस्वतीरनु । यातेमखिद्रयामभिः ।।11।।
स्थिरा वः सन्तु नेमयो रथा अश्वास एषाम् । सुसंस्कृता अभीशवः ।।12।।
अच्छा वद तना गिरा जरायै ब्रह्मणस्पतिम् । अग्निं मित्रं न दर्शतम् ।।13।।
मिमीहि श्ोकमास्ये पर्जन्य इव ततनः । गाय गायत्त्रमुक्थ्यम् ।।14।।
वन्दस्व मारुतं गणं त्वेषं पनस्युमर्किणम् । अस्मे वृद्धा असन्निह ।।15।।
सूक्त39
दशर्चम् । कण्वो घोरः । मरुतः । प्रगाथः = विषमा बृहत्यः, समाः सतो बृहत्यः ।
प्र यदित्था परावतः शोचिर्न मानमस्यथ । कस्य क्रत्वा मरुतः कस्य वर्पसा कं याथ कं हं धूतयः ।।1।।
स्थिरा वः सन्त्वायुधा पराणुर्दे वीळू उत प्रतिष्कभे । युष्माकमस्तु तविषी पनीयसी मा मर्त्यस्य मायिनः ।।2।।
परा ह यत् स्थिर हथ नरो वर्तयथा गुरु । वि याथन वनिनः पृथिव्या व्याशाः पर्वतानाम् ।।3।।
नहि वः शत्रुर्विविदे अधि द्यवि न भूम्यां रिशादसः । युष्माकमस्तु तविषी तना युजा रुद्रासो नू चिदाधृषे ।।4।।
प्र वेपयन्ति पर्वतान् वि विञ्चन्ति वनस्पतीन् । प्रो आरत मरुतो दुर्मदा इव देवासः सर्वया विशा ।।5।।
उपो रथेषु पृषतीरयुग्ध्वं प्रष्टिर्वहति रोहितः । आ वो यामाय पृथिवी चिदश्रोदबीभयन्त मानुषाः ।।6।।
आ वो मक्षू तनाय क रुद्रा अवो वृणीमहे । गन्ता नूनं नोवसा यथा पुरेत्था कण्वाय विभ्युषे ।।7।।
युष्मेषितो मरुतो मर्त्येषित आ यो नो अब्व ईषते । वि तं युयोत शवसा व्योजसा वि युष्माकाभिरूतिभिः ।।8।।
असामि हि प्रयज्यवः कण्वं दद प्रचेतसः । असामिभिर्मरुत आ न ऊतिभिर्गन्ता वृष्टिं न विद्युतः ।।9।।
असाम्योजो बिभृथा सुदानवोसामि धूतयः शवः । ऋषिद्विषे मरुतः परिमन्यव इषुं न सृजत द्विषम् ।।10।।
सूक्त40
अष्टर्चम् । काण्वो घौरः ।1 ब्रह्मणस्पतिर्मरुत इन्द्रश्च, 2 सहसस्पुत्रो मरुतश्च, 3 ब्रह्मणस्पतिः सूनृता देवी देवाश्च 4-5 ब्रह्मणस्पतिः, 6-7 देवाः 8 इन्द्रः । प्रगाथः = विषमा बृहत्यः, समाः सतो बृहत्यः ।
उत्तिष्ठ ब्रह्मणस्पते देवयन्तस्त्वेमहे । उप प्र यन्तु मरुतः सुदानव इन्द्र प्राशूर्भवा सचा ।।1।।
त्वामिद्धि सहसस्पुत्र मर्त्यं उपब्रूते धने हिते । सुवीर्यं मरुत आ स्वश्व्यं दधीत यो व आचके ।।2।।
प्रैतु ब्रह्मणस्पतिः प्र देव्येतु सूनृता । अच्छा वीरं नर्यं पङ्क्तिराधसं देवा यज्ञं नयन्तु नः ।।3।।
यो वाघते ददाति सूनरं वसु स धत्ते अक्षिति श्रवः । तस्मा इळां सुवीरामा यजामहे सुप्रतूर्तिमनेहसम् ।।4।।
प्र नूनं ब्रह्मणस्पतिर्मन्त्रं वदत्युक्थ्यम् । यस्मिन्निन्द्रो वरुणो मित्रो अर्यमा देवा ओकांसि चक्रिरे ।।5।।
तमिद्वोचेमा विदथेषु शंभुवं मन्त्रं देवा अनेहसम् । इमां च वाचं प्रतिहर्यथा नरो विश्वेद् वामा वो अश्नवत् ।।6।।
को देवयन्तमश्नवज्जनं को वृक्तबर्हिषम् । प्रप्र दाश्वान्पस्त्याभिरस्थितान्तर्वावत्क्षयं दधे ।।7।।
उप क्षत्रं पृञ्चीत हन्ति राजभिर्भये चित्सुक्षितिं दधे । नास्य वर्ता न तरुता महाधने नार्भे अस्ति वज्रिणः ।।8।।
***********************************************************************************************