close


  • वयं पञ्चाधिकं शतम्

        ॥ वयं पञ्चाधिकं शतम्

 

 

 

व्यवस्थापकः -- (यवनिकायाः पुरतः आगत्य ध्वनियन्त्रं हस्ते गृहीत्वा)
 अयि भोः सामाजिकाः निमेषद्वये वयं नाटकं प्रारभिष्यामहे । नाटकप्रारम्भे किञ्चित् वयं वक्तुं उत्सुकास्मः । देशे विविधभावना विराजमानाः प्रजाः परस्परं कलहायमानाः वर्तन्ते स्वार्थ सम्पादनाय । जगति कलहः प्राणिनां सहजः एव । कलहस्य अस्तित्वेऽपि शान्तगत्या अन्योन्य सहायेन जीवनयापनं योग्यं इति, तदेव भारतसंरक्षणं भवतीति, तादृशी ऐक्यता अधुना अपेक्ष्यते इति भावनाम् अनेन नाटकप्रदर्शनेन वयं ज्ञापयामः । प्रजाः कलहायमानाः अपि राष्ट्रस्य सङ्कटकाले एकचित्तीभूय देशसंरक्षणार्थं प्रयतमानाः वयं पञ्चाधिकम् शतम् इति बुध्या देशरक्षणं कुर्युः इति भावयन् कविः एतन्नाटकं लिलेख । वयं पञ्चाधिकं शतम् इत्यस्य नाटकस्य प्रणेता पण्डित परीक्षित् शर्मा । अयं गीर्वाणान्ध्रभाषाप्रवीणः । महाकविः । अयं स्वीयरचनाभिः विंशतितमे शताब्दे गीर्वाणभारतीं लोकभारतीं विधातुं कटिबद्धः प्रयतते । अस्य कवेः गीर्वाण गेयचक्रवर्तीति उपनाम विद्यते । कालावधिः व्यतीता अधुना नाटकं प्रदर्शयिष्यामः । नमासि भूयांसि ।

    (इति नमस्कृत्य गच्छति यवनिकान्तरम्)

        (ततः यवनिका अपसार्यते)

    (रङ्गस्थलमध्ये धान्यराशिंविधाय तां परितः कृषीमलाः मण्डलं विधाय बम्भ्रम्यमानाः नाट्यादिकं कुर्वन्तः गायन्ति)

    गीतम् (मालर्कौंस रागे)

    ओ !!! ओ !!! चल रे चल हस रे हस
    सर रे सर नट रे नट रे नटारे  धृ.

    क्रान्तिभाव मार्गदर्शने परावयम्
    शान्तिदीप्त मानसा मुदाऽनिशम्
    दीनजीव जीवदा नीरदा भृशम्
    पूर्ण हर्ष भासुराः कर्षका वयम्  1

    धर्मवारि निचय सिञ्चितोर्वरारे
    बीजवपन श्यामसुन्दरी वसुन्धरारे
    शलाटूपत्र सूनचित्रिता भूमि रे
    रामराज्य मार्गयान कर्षका वयं रे  2

    सुजल सुफल सकस सस्य पूर्ण शालिनी
    निखिल प्राणि जीवनादान मेदिनी 
    अच्छ मधुर सलिल पूर्ण वेगवाहिनी
    फुल्ल कुसुमगन्धलिप्त मन्दहासिनी  3

    तरणि किरण तप्तधरणि कर्षकावयम्
    जलदवारि सिक्त भूमि स्नातकावयम्
    तुषार परुषवायु प्रकृति लालिता वयम्
    निखिल सस्य राशिपूर्ण हर्षिता वयम्  4

    मन्द चलन वायुवीत श्रामिका रे
    अमन्द वेग कार्यकरण यान्त्रिकारे 
    धरणि खनन दीक्षिता सागरा रे
    अचल भिदन कुशल कुलिशरुपकारे         5

    (गीतावसाने सर्वे उपविश्य एकस्वरेण एवम् उच्चारन्ति)

    धनुर्धराय विद्महे सर्व सिध्यै च धीमहि ।
    तन्नोधरा प्रचोदयात् ॐ शान्तिः शान्तिः शान्तिः ॥

    (इति सर्वे धान्य राशिं नमस्कुर्वन्ति)

सूर्यः -- (नारिकेळं गृहीत्वा भिन्ते तच्च देव्यै नैवेद्यं ददाति, तानि शकलानि सर्वेभ्यः प्रसादमिति ददाति, सर्वे गृहीत्वा भक्त्या खादन्ति)

केदारेश्वरः -- अयि सुहृदः जननीधरा अस्मभ्यम् इयन्तीं धान्यराशिं प्रददौ । अस्मिन् वर्षे जननी धरणी अतीव करुणामयी जाता । अस्मदीय परिश्रमः सफलः जातः ।

सूर्यः -- अयि भोः सखायः । वयमेव सर्वं जगत् अन्नधान्योत्पादनेन सजीवितं कुर्मः । यदि वयं कृषीवलाः न स्याम जगति मानवाः किं खादिष्यन्ति । विचार्यमाणे वयमेव नितरां भोजनदातारः ।

केदारेश्वरः -- प्रकृतिमाता अस्माकं सर्वसौख्यं जनयति । भगवान् कर्मसाक्षी कर्मचारिणः अस्मान् सदैव रक्षति । वयं वरुणदेवं सम्प्रार्थ्य उर्वरां भीत्वा भूमिं सीतां विधाय तां सस्य श्यामलां कुर्मः ।

सूर्यः -- अयि केदार । अस्मत् ऋते अपरः कः देशरक्षणे समर्थः अस्ति । वयं कृषकाः धान्यम् उत्पादयामः । तेन कारणेन नागरिकाः तत् धान्यं क्रीत्वा सुखेन भुञ्जते । यदि वयं नोत्पादनं कुर्मः तर्हि सर्वजनाळिः बुभुक्षया उपवासं विधाय अस्तङ्गमिष्यति ।

केदारेश्वरः -- तस्मात् जगति न कोऽपि अस्मान् निर्लक्ष्यभावेन पश्यति । वयं देशं श्रीमन्तं कुर्मः । वयमेव सर्वेषु मानवसमुदायेषु उत्तमाङ्गसमानाः पुण्यप्रदाश्च इति मे मनीषा ।

सूर्यः -- भवता यत् प्रोक्तं तत् अलीकं न भवति । किन्तु जगति सर्वे मानवाः प्रभाविताः महिमान्विताः सन्ति । पश्य ये सुशिक्षिताः विद्यन्ते ते जीवने मानवेभ्य ज्ञानदानं विद्यादानं च विधाय मोक्षद्वारम् उद्घाटयन्ति । ये संरक्षकाः विद्यन्ते ते देशं विदेशीयानां दाटीभ्यः संरक्षन्ति । ये व्यापारिणः । वर्तन्ते ते सर्वे अस्मदीय उत्पादनं सर्वत्रदेशे यथा मूल्यं वितरन्ति । तस्मात् सर्वाः संस्थाः प्रभावान्विताः वर्तन्ते । नात्र विद्यते निम्नोन्नत भावः उत तरतमभावश्य ।

केदारेश्वरः -- मूलतः सर्वेषां प्राणिनां आहारः अत्यन्तावश्यकः वर्तते । अशनबाधा निवारणानन्तरं सर्वाणि आवश्यकानि भवन्ति । वयं देशे क्षुत्‌बाधां निवारयामः, तस्मात् कारणात् वयं वरिष्ठाः इति भावना मे सर्वदा प्रतिभाति ।

सूर्यः -- विचार्यमाणे वयं कियन्तं कष्टम् अनुभूय धान्यम् उत्पादयामः तदनुमेयं न भवति केषामपि । वर्षासु सिक्ताः भवामः । आतपेषु तापिताः भवामः । नीहारेषु शीतवातेषु कम्पिताः भवामः । दिवारात्रं क्षेत्रेषु कष्टं अनुभूय वयं धान्यम् उत्पादयामः । वयं प्रकृतिजननी करुणाकटाक्ष संवर्धिताः भवामः ।

केदारेश्वरः -- अरे सोम एकां धूम्रवर्तीं देहि ।

सोमः -- अरे केदार धूम्रपत्रवर्ति विद्यते । (इति तस्मै ददाति)

केदारेश्वरः -- (तत् गृहीत्वा मुखे निक्षिपति, सोमः तं वर्तीं ज्वालयति, सः वर्तीं पिबन्) यः अस्मान् तृणीकरिष्यति सः मूर्खः भवति । अस्मयीय सौख्यमेव भारतदेश सौख्यम् इति यः चिन्तयति स एव अस्मदीय कल्याणकारकः स एव अस्मदीय देवः । अस्मात् ॠते भारतं किं खादिष्यति । ततः वयं भारतदेशस्य संरक्षकाः । वयं प्राणिनां प्राणदातारः ।

सूर्यः -- अरे केदार, एवमेव वयम् अत्र भाषणं कुर्वन्तः तिष्ठेम तर्हि क्षेत्रे कर्म न भविष्यति । उत्तिष्ठ रे । (इति स्वयम् उत्तिष्ठति) चल । (इति उत्तरीयेन शिरोवेष्टनं विधाय) वयं कर्म कृत्वा अस्मदीयाधिक्यं औन्नित्यं च दर्शयिष्यामः । (इति धूम्रवर्तिं पिबन् गच्छति, सर्वेपि उत्थाय तेन सार्थं गच्छन्ति)


        (यवनिका पतति)


 

 

************************************************************

 

 

 

.

        द्वितीयं दृश्यम्

 

 

 

    (कृषीवलस्य कुटीरः तत्र सः रज्जुं विरचयन् आस्ते, ततः प्रविशति हरिर्नाम खिन्नवदनः बुभुक्षितः)

हरिः -- (आत्मगतम्) अहो पूर्वजन्मनि कियान् पापः कृतः मया । अहं अस्मिन् जन्मनि पञ्चमो भूत्वा जातः । मदीय वंशजान् चातुर्वर्णीयाः पञ्चमान् इति तृणीकुर्वन्ति । अहं तृषितोऽस्मि, बुभुक्षितोऽस्मि । न कोपि विद्यते अत्र मह्यं पानीयं दातुं, उत खाद्यं च दातुम् । एते मानवाः सर्वदा स्वार्थय प्रयतमानाः जीवनं यापयन्ति । भवतु नाम । जगति दारिद्रस्य भावनायाः न किमपि स्थानं विद्यते । दरिद्राणां भावनाः अजागळस्तनसमानाः भवन्ति । (इति इतस्ततः विलोक्य) हाम् अत्र एकं कृषीवलगृहं विद्यते । तस्य गृहं गत्वा पानीयं खाद्यं च पृच्छामि । (इति कतिचित् पदानि गत्वा, कृषीवलं विलोक्य, सम्बोधनापूर्वकम् एवं कथयति)

    अयि भोः दास । अहं तृषितोऽस्मि, बुभुक्षितोऽस्मि । किञ्चित्, खाद्यं पानीयं च भवान् ददातु ।

दासः -- (किञ्चिदुन्नमितशिरः तं याचकं दृष्ट्वा) कस्त्वम् ?

हरिः -- भोः अहं हरिः ।

दासः -- अरे त्वं हरिः कथम् ?

हरिः -- अहं सत्यमेव हरिः ।

दासः -- सर्वोऽपि हरिः न भवति ।

हरिः -- अहं नाम्ना हरिः ।

दासः -- वयं दासाः । अपि च धरणीदासाः क्षेत्रपालकाः । वयम् उर्वरां भित्वा धान्योत्पत्तिं कुर्मः ।

हरिः -- तस्मादेव भवतां सन्निधिं भिक्षार्थम्मागतोऽस्मि । तत्र भवन्तः धरणी पुत्राः ।

दासः -- अस्मानुद्दिश्य स्तोत्रं मा कुरु ।

हरिः -- स्तोत्रं नहि दासप्रभो । सत्यं ब्रवीमि ।

दासः -- यूयम् अस्मदीय क्षेत्रे कर्मकराः । वयं दाताराः भवन्तः ग्राहकाः ।

हरिः -- सत्यमुदीरितम् ।

दासः -- हञ्जे । (इति जायाम् आह्वयति)

    (ततः प्रविशति दासपत्नी रञ्जना)

रञ्जना -- किं आह्वयति भवान् माम् ?

दासः -- हाम् आह्वयामि ।

रञ्जना -- किमर्थम् ।

दासः -- पश्य एतस्य नाम हरिः ।

रञ्जना -- तस्मात् किं कर्तव्यम् ।

दासः -- तस्मै पातुं जलं भोक्तुं यत् किमपि खाद्यं प्रयच्छ । (इति रेज्जुं गृहीत्वा अन्तः प्रविशति)

रञ्जना -- (अन्तःप्रविश्य अन्नपानीयं च आनीय) अरे हरे इदं खाद्यं गृहाण । (इति खाद्यपूर्णपत्रपुट भूमौ निक्षिपति) इदं पानीयकलशं गृहाण । (इति अधः निक्षिपति निर्लक्ष्य भावनेन)

हरिः -- किमेतत् मातः । एवं निर्लक्ष्यभावेन तृणीकारबुद्ध्या ददाति भवती । अहमपि मानवः सभक्तिकं प्रेम्णा यदि दीयते तत् ससन्तोषं हरिणा भुज्यते ।

रञ्जना -- अरे शतमूर्ख, भिक्षार्थम् आगत्य, मां तृणीकरोषि । अहं भक्त्या ददामि गृहाण । (इति उक्त्वा अन्तः गच्छति)

हरिः -- (खाद्यं स्वीय वस्त्राञ्चलेन बध्वा पानीयं पीत्वा पात्रं तत्र अधः निक्षिपति)

रञ्जना -- (प्रविश्य) अरे हरे कथं निक्षिपसि कलशं एवम् ? कलशम् अधोमुखं निक्षिप ।

हरिः -- तथैव । (इति अधोमुखं निक्षिपति)

रञ्जना -- (अन्तःप्रविश्य कलशान्तरेण पानीयमानीय तत्र विद्यमान कलशोपरि सम्प्रोक्ष्य तत् पात्रं हस्ते गृहीत्वा नयति)

हरिः -- मातः किमर्थमेवं करोति भवती ।

रञ्जना -- त्वं हरिजनः । हरिजनेन स्पृष्ठं जलेन पवित्री कर्तव्यम् इति मे माता मही जगाद अस्मादहम् एवं करोमि ।

हरिः -- क्षेत्रे वयं धान्यम् उत्पादयामः तत् सर्वधान्यं युष्मदीयगृहे वर्तते किं गृहं अपवित्रं जातम् किम् ?

रञ्जना -- मुखं पिधेहि । अधिकं मा वद । त्वम् अस्पृश्यः अपेहि मन्मुखात् ।

हरिः -- हाम् अस्पृश्यः भवति, हरिः पापात्मभिः ।

रञ्जना -- अरे त्वं साधुव्यवहर । वयं क्षेत्राधिकारिणः त्वां हनिष्यामः । त्वं सर्वदा अस्मदीय भूम्यां कर्मकारी असि ।

हरिः -- इयं भारतभूमिः कर्मभूमिः पुण्यभूमिः इति परम्परागताभिप्रायः इति शृतं मया । अत्र सर्वे कर्मकराः एव तथैवाहमपि । अहं कर्मणा जीवामि ।

रञ्जना -- अरे अधिकं मा वद । त्वं गृहे भुक्त्वा गृहदारुफलकानि गणयसि अपेहि । (इति कृत्था सा तं तृणीकरोति)

हरिः -- शूद्राणामपि अहम् अस्पृश्यः, किमेतत् मे जन्म । (इति चिन्तया निर्गच्छति)

रञ्जना -- अयं नीचः । नीचानां स्वभावः दुरतिक्रमः । यदि दयां दर्शयिष्यामः तर्हि ते अस्मत् स्कन्धोपरि उपवेक्ष्यन्ति । (इति मुखं वक्रितं कुर्वन्ती अन्तःगच्छति)

        (यवनिका पतति)


 

 

*******************************************************************************

 

 

 

.

        तृतीयं दृश्यम्

 

 

 

    (गुप्तः मोदकैः अपि च अन्यखाद्यपदार्थैः स्वीय आपणे उपविष्टः अस्ति ततः प्रविशति हरिः)

हरिः -- नमो नमः गुप्तमहोदय ।

गुप्तः -- कोऽसि त्वम् । (इति आपादमस्तकं पश्यति)

हरिः -- अहं हरिः ।

गुप्तः -- त्वं हरिः कथम् ।

हरिः -- अहं हरिः एव ।

गुप्तः -- हरिः इत्यस्य पदस्य मर्कटः इति अर्थः भवति ।

हरिः -- हरिः इत्यस्य पदस्य अनेके अर्थाः सन्ति ।

गुप्तः -- सन्तु नाम । अधुना त्वया किम् अपेक्ष्यते ।

हरिः -- मम पुत्रिकायै खादितुं एकं मोदकं भवान् यच्छतु इति अहं याचे ।

गुप्तः -- अरे हरे इदं याचकानां स्थानं नहि । इदम् आपणं वर्तते । अत्र विक्रेतुं वस्तुचयः संस्थाप्यते ।

हरिः -- एकं यच्छतु भवान् इति अहं याचे ।

गुप्तः -- किं रूप्यकं वर्तते तव समीपे ।

हरिः -- मत्सकाशे न किमपि विद्यते ।

गुप्तः -- रूप्यकेन विना मोदकः कथं भवति ।

हरिः -- अहं ते क्षेत्रे कर्मकारः ।

गुप्तः -- तत्र क्षेत्रे तव कर्म कृते तदैव मूल्यं दत्तम् ।

हरिः -- हां सत्यमेव दत्तं तदैव मूल्यम् । रूप्यकम् अनन्तरं दास्यामि, अधुना मोदकं ददातु ।

गुप्तः -- यदि हस्ते रूप्यकं विद्यते तर्हि मुखे मोदकः भवति । नोचेत् तिरोगमनमेव वरम् ।

हरिः -- अहं दरिद्रः । कर्म कृत्वा जीवामि । एतावत्पर्यन्तं मया न भुक्तम् । अधुनैव भुक्त्वा आगतोऽस्मि ।

गुप्तः -- दरिद्रः इति कथयसि, कुत्र भुक्तं त्वया ।

हरिः -- तत्र दासगृहे किञ्चित् खादितुं प्राप्तं, तत् भुक्त्वा आगच्छामि ।

गुप्तः -- दासः तुभ्यं खाद्यं विनामूल्यम् अयच्छत् किम् ?

हरिः -- हां विनामूल्यं दत्तवान् ।

गुप्तः -- अहं वणिक् । लक्ष्मीदर्शनं विना ते मोदकं न दास्यामि ।

हरिः -- अहं कर्म कृत्वा जीवामि । मत्सकाशे अधुना रूप्यकं नास्ति ।

गुप्तः -- अहं तुभ्यं कर्म दास्यामि ।

हरिः -- यच्छतु भवान् ।

गुप्तः -- हञ्जे रत्ने । (इति पत्नीम् आह्वयति)

    (ततः प्रविशति रत्ना)

रत्ना -- किम् आहूतास्मि ।

गुप्तः -- हाम् ।

रत्ना -- किमर्थम् ?

गुप्तः -- अस्मै काष्ठविदळनकर्म दत्वा कर्म समाप्त्यनन्तरं तस्मै एकं रूप्यकं दत्वा प्रेषय ।

रत्ना -- तथैव । (इति अन्तःप्रविश्य, कुठारमानीय तत्र निक्षिप्य सम्मार्जनीं गृह्णाति)

हरिः -- (शनैः कुठारं गृहीत्वा रथ्यां गच्छति)

रत्ना -- (गृहं सम्मार्जयन्ती) प्रातः प्रभृति न कोपि ग्राहकः समागतः, एतावत्पर्यन्तं लक्ष्मीदर्शनं न बभूव, किन्तु अमुष्मै रूप्यकं दातव्यं, किं अर्थः विद्यते अस्मिन् व्यापारे ?

गुप्तः -- हञ्जे अयं व्यापारः उत्तरोत्तर बलवान् भविष्यति । विचारं मा कुरु ।

रत्ना -- उपविश्य भाषणं क्रियते भवता परिश्रमः न कदापि कृतः । (इति वेगेन सम्मार्जयति, ततः प्रविशति हरिः कुठारहस्तः)

हरिः -- मातः काष्ठविदळनकर्म कृतम् ।

रत्ना -- अरे त्वं तत्रैव तिष्ठ । एकं पदमपि मा विचल ।

हरिः -- मातः रूप्यकं दीयताम् । अयं कुठारः इदं काष्ठचयश्च । (इति तत्र निक्षिपति)

रत्ना -- (अन्तःगत्वा गलकलशहस्ता प्रविश्य कुठारोऽपरि काष्ठचये च सम्प्रोक्ष्य अन्तःनयति)

हरिः -- मातः किमर्थं जलेन काष्ठचयं कुठारं च सिञ्चसि ।

रत्ना -- अरे त्वम् अस्पृश्यः त्वया स्पृष्टं नाहं शक्या ग्रहीतुं तस्मात् जलेन पवित्रं करोमि । (इति जलेन सिञ्चति)

हरिः -- मातः जलेन सर्वाणि पवित्रीकृतानि भवन्ति किम् ?

रत्ना -- हां पवित्रीकृतानि भवन्तीति मे मातामही अवदत् । तस्मात् अहम् एवं करोमि ।

हरिः -- वयम् अस्पृश्याः किन्तु अस्माभिः सर्वैरपि कर्म कारयित्वा यूयं सुखमनुभवथ । मातः धरण्यां सर्वे मानवाः देवपुत्राः तरतमभेदः कुतः ?

रत्ना -- सः एवं वदति सर्वं शृत्वा भवान् मौनं वहति किम् ? (इति भर्तारं गुप्तं कथयति)

गुप्तः -- अरे हरे ! किमर्थमेवं प्रजल्पसे । त्वं तव सीमोल्लङ्घनं मा कुरु, गच्छ ।

हरिः -- अहं स्थितां गतिं विचारयामि ।

रत्ना -- त्वं तव गतिं विचारय । स्थितां लोकगतिं किं विचारयिष्यसि ।

हरिः -- रूप्यकं देहि मातः ।

गुप्तः -- एतावत्पर्यन्तं तस्मै रूप्यकं न दत्तं किम् ?

रत्ना -- नहि, सः मत्कृत कार्यं दृष्ट्वा प्रजल्पति । रूप्यकदाने अपि मे समयः नास्ति । (इति रूप्यकं हरेः सम्मुखं निक्षिपति)

हरिः -- किमर्थमेवं भेदभावं दर्शयसि ।

रत्ना -- अरे मुर्ख, मुखं पिधेहि । किं त्वं मां पाठं बोधयसि । अपेहि रूप्यकं गृहीत्वा मम सम्मुखात् ।

हरिः -- (आत्मगतम्) अहो बत एषा काळीभूत्वा मां तृणी करोति । अहम् अनेन रूप्यकेन मोदकं क्रीत्वा गच्छेयम् । (इति गुप्तसकाशं आगत्य) अयि भोः श्रेष्ठिन् मोदकं दीयताम् । (इति रूप्यकं भूमौ निक्षिपति)

गुप्तः -- (सन्तोषेण रूप्यकं गृहीत्वा तस्मै मोदकं कर्गजे बध्वा भूमौ निक्षिप्य) गृहाण । (इति कथयति)

हरिः -- अयि भोः गुप्त, मया दत्तं रूप्यकं स्पृश्यं भवति किम् ?

गुप्तः -- लक्ष्म्याः स्पृशाऽस्पृश्यता नास्ति । सा सर्वातीता जगज्जननी । (इति धनपेटिकायां निक्षिप्य धनपेटिकां नमस्करोति)

हरिः -- (गृहीत्वा) नमः गुप्तमहोदय । (इति निर्गच्छति)

रत्ना -- अल्पानां स्थानं यावत्पर्यन्तं दातव्यं तावत्पर्यन्तमेव दातव्यं नत्वधिकं, यदि अधिकं स्थानं दीयते तर्हि ते आगत्य अस्मदीय उत्तमाङ्गे उपविश्यन्ति । (इति कुठारं काष्ठचयं च गृहीत्वा अन्तः प्रविशति)

गुप्तः -- लक्ष्मीः लोला । लक्ष्मीः मां न कदापि त्यक्ष्यति । मदीय रूप्यकं पुनः मत्सकाशम् आगतम् । काष्ठविदळनकर्मापि जातम् । भवतु नाम मोदकः गतः । अयं व्यापारः लक्ष्मीसंवर्धनकारकः भवति ।

    लक्ष्मीं क्षीरसमुद्रराजतनयां श्रीरङ्ग धामेश्वरीं
    दासीभूत समस्त देववनितां लोकैकदीपाङ्कुराम्
    श्रीमन्मन्द कटाक्षलब्धविभवत् ब्रह्मेन्द्रगङ्गाधरां
    त्वां त्रैलोक्य कुटुम्बिनीं सरसिजां वन्दे मुकुन्दप्रियाम् ॥


    (इति धनपेटिकां नमस्कृत्य यच्छति)

        (यवनिका पतति)

 

 

 

*******************************************************

 

 

 

.

       चतुर्थं दृश्यम्

 

 

    ( ग्रामाध्यक्षः, विष्णुशर्मा, यशोवर्मा, भानुगुप्तः दिवोदासः इत्यादयः भूमौ उपविष्टाः सन्ति)

प्रतीहारी -- (प्रविश्य) अयि अध्यक्ष महोदय, द्वारि कश्चन हरिनामकः पौरः भवतां दिदृक्षया तिष्ठति)

ग्रामाध्यक्षः -- (सर्वान् विलोक्य) अरे प्रवेशय तम् ।

प्रतीहारी -- तथैव । (इति निर्गच्छति)

    (ततः प्रविशति हरिः)

हरिः --(प्रविश्य नतमस्तकः पञ्चाङ्गुळयः दशविधाय) अभिवादये पञ्चायतिभ्यः ।

ग्रामाध्यक्षः -- किं ते कथनीयं निवेदय । अत्रोऽपविश ।

हरिः -- (भूमौ उपविशति कथयति च) प्रभो, अहं दरिद्रः । मम कुत्रापि देशे कर्म कर्तुं समयः न केनापि परिकल्पितः ।

विष्णुशर्मा -- इदं वाक्यं शृत्वा मम अतीव आश्चर्यं भवति । किमेतत् सत्यम् ?

हरिः -- हां इदं सत्यमेव भोः ।

विष्णुशर्मा -- कथं ? कुत्र वुत्र किं वृत्तं तत् सविस्तरं कथय ।

हरिः -- न कोपि पानीयमपि ददाति पातुम् ।

यशोवर्मा -- कुत्र कुत्र भवता प्रयतितम् ।

हरिः -- अस्मिन् ग्रामे दासस्य समीपे प्रयतितम् ।

यशोवर्मा -- कोऽयं दासः ।

हरिः -- शृङ्गाटिकायां दक्षिणतः द्वितीयसौधे कश्चन दासः निवसति सः ।

भानुगुप्तः -- किं याचितं भवता ।

हरिः -- महोदय अहं बुभुक्षितोऽस्मि, तृषितोस्मि किञ्चित् पातुं खातुम् अपि च यत् किमपि कर्म कर्तुं च ददातु इति अयाचम् ।

भानुगुप्तः-- दत्तवान् किम् ?

हरिः -- दत्तवान् । किन्तु त्वम् अस्पृश्यः अत्र न किमपि विद्यते, दत्तम् अथवा पानीयं च पीत्वा गच्छ इति अवदत् ।

दासः -- अनन्तरम् ।

हरिः -- अहम् अस्पृश्यः इति तस्य पत्नी मया पीतं पानीयपात्रं जलेन प्रोक्ष्य शुद्धिं कृत्वा अन्तः निनाय । तेन कर्मणा अहम् अवमानितः अभवम् ।

ग्रामाध्यक्षः -- एतत् कर्म अवमानहेतुः न भवति । किन्तु आरोग्यहेतुः शुद्धिमूलकः भवति । तस्य समक्षे करणं कर्म एतत् गर्ह्यं भवति इति मे मतिः ।

विष्णुशर्मा -- अनन्तरं किं जातं रे कथय ।

हरिः -- अहम् एकस्य गुप्तस्य गृहम् अगच्छम् ।

विष्णुशर्मा -- तत्र किं जातम् ।

हरिः -- अहम् एकं मोदकं मे कुमार्यै तमपृच्छम् ।

भानुगुप्तः -- हां गुप्तः किमवादीत् ।

हरिः -- विना च रूप्यकेन मोदकं न दास्यामि इति अवादीत् ।

विष्णुशर्मा -- अनन्तरं किं जातम् ।

हरिः -- अहम् अवदम् अहं कर्मजीवी इति ।

विष्णुशर्मा -- ततस्ततः ।

हरिः -- सः गुप्तः भार्यामाहूय अस्मै काष्ठविदाळनकर्मदत्वा तत् कर्म समाप्त्यनन्तरं तस्मै रूप्यकमेकं देहि इत्यवोचत् ।

विष्णुशर्मा -- ततस्ततः ।

हरिः -- अहं तत् कर्म अकरवम् ।

यशोवर्मा -- अनन्तरम् ।

हरिः -- सा नारी काष्ठसञ्चये, कुठारे च पानीयं सम्प्रोक्ष्य तत् द्वयम् अन्तः निनाय ।

यशोवर्मा -- ततस्ततः ।

यशोवर्मा -- अहम् अपृच्छं तां मातः त्वं किमर्थमेवं करोषि इति ।

हरिः -- सा अवादीत् त्वम् अस्पृश्योऽसि । तव हस्तस्पर्शया एतानि सर्वाणि मलिनानि जातानि इति ।

यसोवर्मा -- अहो ततः ।

हरिः -- तत् शृत्वा अहं नतमस्तकः स्वात्मानं विनिन्दन् तत् सर्वं युष्मभ्यं निवेदयितुम् अत्रागतोऽस्मि ।

यशोवर्मा -- अध्यक्षमहोदय शृतं खलु भवता सर्वम् । जगति जनाः एवं विधाः वर्तन्ते ।

ग्रामाध्यक्षः -- अस्पृश्यतामुद्दिश्य कठोरदण्डः भवितव्यः वर्तते ।

यशोवर्मा -- कोऽत्र भोः ।

प्रतीहारी -- (प्रविश्य) अहमस्मि ।

यशोवर्मा -- गुप्तदासौ आनय अस्याः पञ्चायत्याः समक्षम् ।

प्रतीहारी -- यथाज्ञापयति भवान् । (इति निर्गच्छति)


        (यवनिका पतति)

 

 

 

*********************************************************

 

 

 

.


 

       पञ्चमं दृश्यम्

 

 

 

    (तत्र पञ्चायति सदस्याः उपविष्टाः सन्ति)

ग्रामाध्यक्षः -- कोऽत्र भोः ।

प्रतीहारी -- (प्रविश्य) एषोऽस्मि भोः ।

ग्रामाध्यक्षः -- सत्वरं दासं प्रावेशय ।

प्रतीहारी -- यथाज्ञापयति देवः । (इति नमस्कृत्य गच्छति)

    (ततः प्रविशति दासः)

दासः -- नमांसि महोदय । (इति नमस्करोति)

ग्रामाध्यक्षः -- दास एहि अत्र उपविश । (इति आसनं दर्शयति)

दासः -- (उपविशति)

ग्रामाध्यक्षः -- अयि दास, भवान् भवतः पत्नी च अस्पृश्यतां पालयतः इति हरिणा प्रतिपादितम् अस्ति । किं तत् प्रतिपादनं सत्यम् ।

दासः -- हां हरिणा यदुक्तं तत् सत्यमेव भोः ।

शर्मा -- किमर्थं कृतं तथा ।

दासः -- इयमस्पृश्यता बहुकालात् परम्परागता देशे प्रचलति । अहं साम्प्रदायमनुसरम् ।

शर्मा -- अयि दास, अयं साम्प्रदायः इति देशकीर्तिं मानाशय । अयं मध्यकाले सञ्जातः पङ्किलित साम्प्रदायः इति विचारय ।

दासः -- कथने सौलभ्यं विद्यते किन्तु आचरणे दुष्करं भवति ।

शर्मा -- तस्मादेव आचरणार्थं प्रयतनीयः इति कथयामि ।

दासः -- देशे सर्वत्र सर्वोऽपि अस्पृश्यतां पालयति । एषा मत्‌विषयकी नहि ।

वर्मा -- तदनुर्पालनं साम्प्रतमसाम्प्रतम् इति अहं भणामि ।

दासः -- अयि भोः समाजे सर्वत्र तरतमभावाभ्याम् अस्पृश्यता सर्ववर्गेषु सन्दृश्यते किमुत मद्विषये ।

वर्मा -- कुत्र दर्शय ।

दासः -- हिरजनेष्वपि चर्मकारवर्गाः इति मातङ्गीयाः इति भेदाः सन्ति कथमहं हरिजनं स्पृशेयम् ।

भानुगुप्तः -- अयि दास, स्पृश्यता, अस्पृश्यता च आरोग्यस्वच्छताव्यवहाराभ्यां भवतः ।

दासः -- हरिजनाः सर्वदा पशुमांससम्पर्केण कर्मकुर्वन्ति ते अस्वच्छतापूर्णाः कथं तैः स्पृश्यतां पालयेयम् ।

शर्मा -- तत् सत्यमेव । अनारोग्यमानुषस्पर्शाविषये आरोग्यसुत्राणि परिपालनीयानि भवन्ति । किन्तु मानवम् अमानवः इव विलोकनं पापः भवति ।

ग्रामाध्यक्षः -- (करतलघ्वनिं करोति)

प्रतीहारी -- (प्रविश्य) एषोस्मि भोः ।

ग्रामाध्यक्षः -- गुप्तं प्रवेशय ।

प्रतीहारी -- तथैव । (इति नतमस्तकः गच्छति)

           (ततः प्रविशति गुप्तः)

गुप्तः -- नमोवः । (इति नमस्करोति)

ग्रामाध्यक्षः -- एहि गुप्तवर्य उपविश । (इति आसनं दर्शयति)

गुप्तः -- (उपविशति)

ग्रामाध्यक्षः -- गुप्तमहोदय भवान् भवतःपत्नी च अस्पृश्यतां पालयित्वा आगन्तुकान् अवमानितान् कुरुतः इति हरिः अकथयत् किं तत् सत्यम् ।

गुप्तः -- सत्यमेव ।

ग्रामाध्यक्षः -- किमर्थमेवं कृतम् ।

गुप्तः -- सर्वत्र सर्वोऽपि अस्पृश्यतां पालयति मम विषये कोऽयम् अपराधः ।

शर्मा -- अस्पृश्यतां सर्वव्याप्तां विधाय ब्रवीषि किं तत् सत्यं कथय ।

गुप्तः -- अयि भोः तरतमभेदाः सर्वत्र विद्यन्ते समाजे पश्यतु भवान् । उदाहरणार्थम् अयं ब्राह्मणः अयं क्षत्रियः एषः वैश्यः एषः शूद्रः इति अयं अन्यः हरिजनः इति च ।

यशोवर्मा -- तं भेदभावं नाशयितुमेव वयं प्रयतामहे ।

गुप्तः -- तत् कथं भविष्यति । येन केनापि नाम्ना समाजे जनसमुदायं विभज्य पालनीयं भवति । तरतमभावनाशनम् असम्भवमिति अस्पृश्यता निवारणम् असहजमिति मे अभिप्रायः ।

यशोवर्मा -- पाश्चात्यदेशेषु अयं भावः नास्तीति लोकः कथयति । अस्मदीयदेशे कुतः अयम्भावः ।

गुप्तः -- तत्राऽपि विद्यते रूपान्तरेण तरमतभावः ।

यशोवर्मा -- कथं विद्यते विस्तारय ।

गुप्तः -- धनिकवर्गः, निर्धनवर्गः, श्रामिकवर्गः इति च । तत्र अन्योन्यदर्शनमपि पातकमिति तत्रस्थ वर्गाणां भावः । कालिम वर्णीयान् विलोक्य श्वेतवर्णीयाः अस्पृश्यता भावनापेक्ष्या पापपुण्यभावनया व्यवहरन्ति । तत्र कालिम श्वेतवर्णयोर्मध्ये मारणहोमः भवति ।

यशोवर्मा -- अस्मदीयदेशे सर्वमानव सौभ्रातृत्वम् अधुना अपेक्ष्यते ।

गुप्तः -- अस्मदीयदेशे चातुर्वण्यव्यवस्था विद्यमानायां सत्यां परस्परस्नेहभावेन वरतन्ते । तत्र तथा न वर्तन्ते । तस्मात् भारतवर्षे अतीव सहिष्णुता वर्तते इति ज्ञातव्यं विद्यते भवता ।

विष्णुशर्मा --  तस्मात् अनुकम्पाभावेन वयं भारतीयाः सर्वानापि स्नेहपूर्णभावनया पश्यामः यतः आत्मा एकः इति । अत्र अस्पृश्यता अधुना विडम्बना भवत्येव । किन्तु न कोऽपि परमार्थतः अनुपालयति अस्पृश्यताम् इति मे मतिः ।

गुप्तः -- अयि भोः अयं हरिः मम सकाशं मोदकार्थं समागतः । अहं विनामूल्यं न दास्यामीति अवदम् । सः कर्म याचे । तस्मै दत्तं कर्म मया । धनं च प्राप्तवान् । एतत् सर्वं कथं बभूव केवलं अनुकम्पा भावनया । समाजे सर्वोऽपि अन्योन्याश्रयेण जीवनं यापयति ।

यशोवर्मा -- तत् सत्यमेव भवता यत् उदीरितं तत् सर्वम् अङ्गीकरोमि । किन्तु त्वं हरिजनः इति भवतः पत्नी तेन स्पृष्टं काष्ठचयं कुठारं च जलेन सम्प्रोक्ष्य अन्तः निनाय किमेतत् साधु भवति ।

गुप्तः -- एवं करणे तस्य जीवनस्य किमापतितम् । लोके अयं व्यवहारः एवमेव प्रचलति । तत्रासाधुभावना नास्ति ।

ग्रामाध्यक्षः -- अस्मिन् ग्रामे मम अध्यक्षतायां न कुत्रापि अस्पृश्यता पालनीया अस्ति ।

विष्णुशर्मा -- अहं देशसमैक्यतावश्यकतामुद्दिश्य अस्पृश्यता निवारणार्थं जनानां भाषणादिकं विधाय समाजं बलवत्तमं कर्तुम् इच्छामि ।

ग्रामाध्यक्षः -- अयि शर्मन् भवान् राज्ये अस्पृश्यता निवारणार्थम्, समाज बलकरणार्थं भाषणं विदधातु ।

विष्णुशर्मा -- अहं प्रतिग्रामं ग्रामं ग्रामम् अस्पृश्यता निवारणार्थं प्रचाराय वक्त्रून् प्रेषयिष्यामि ।

ग्रामाध्यक्षः -- अयि भोः हरिदासगुप्तवर्मशर्म महोदयाः यूयं सर्वे गच्छथ श्वः प्रभृति यूयं सर्वे समाजं बलवत्तमं विधातुं प्रयतत । (इति उत्तिष्ठित सर्वे उत्तिष्ठन्ति एकैकशः गच्छन्ति)


        (यवनिका पतति)


 

 

 

*******************************************************

 

 

 

.

        षष्ठं दृश्यम्

 

 

 

    (ग्रामे श्रृङ्गाटिकायां एकस्यां वेदिकायां कुर्च्यां शर्मा आसीनः वर्तते गुप्तदास हरि इत्यादयः सामाजिकाः भूत्वा उपविष्ठाः वर्तन्ते, अन्ये च बहवः सामाजिकाः वर्तन्ते)

विष्णुशर्मा -- (उत्थाय) अयि भोः मित्रोत्तमाः मया किञ्चित् कथनीयं वर्तते। यत् अहं भावयामि तत् कथयामि । भवतां प्रश्नानां प्रत्युत्तरं अहं दास्यामि भवन्तः पृच्छन्तु । अयि सृहृदः वयं सर्वे एकराष्ट्रीयाः भारतीयाः । केचन प्रथयतः अहम् अमुकप्रान्तीयः इति उक्त्वा प्रान्तीयतायाः प्राथान्यं यच्छन्ति । तदहं न सेहे । तादृशी भावना राष्ट्रद्रोहकारिणी भवति दुराभिमानपूर्णा भवति । तस्मात् प्रान्तीयतावादं निर्मूल्य देशप्रेमवर्धनं कर्तव्यमस्माभिः ।

हरिः -- (उत्थाय) राष्ट्रभावना कथं भवति मानवानाम् । (इति उपविशति)

विष्णुशर्मा -- राष्ट्रीयभावना भारतीय ग्रन्थपठनेन सङ्गीतनृत्यसाहित्यवेदान्त शास्त्राभ्यासेन देशे सर्वत्र देशभक्तिः मानुषेषु भविष्यति ।

गुप्तः -- अधुना बहवः पठन्ति सकलपरीक्षासु उत्तीर्णतां भजन्ते ।

विष्णुशर्मा -- एताः विद्याः परीक्षाश्च सर्वाः उदरपोषणार्थं कर्मकरणार्थमेव उपयुक्ताः भवन्ति किन्तु ताभिः परीक्षाभिः ताभिः विद्याभिः देशभक्तिः न भवति । एभिः मानवाः स्वार्थिनः भवन्ति न तु देशभक्ताः ।

हरिः -- देशभक्तिः कथं सम्पादनीया भवति निवेदयतु भवान् ।

विष्णुशर्मा -- सर्वैरपि भारतीयैः संस्कृतभाषा अभ्यसनीया भवति तर्हि तदैव देशभक्तिः तेषु भविष्यति नत्वन्यथा ।

हरिः -- (उत्थाय) चातुर्वण्य निर्मूलनं कथं भविष्यति ।

विष्णुशर्मा -- चातुर्वर्ण्य निर्मूलनस्य आवश्यकता नास्ति ।

हरिः -- तत् कथम् ।

विष्णुशर्मा -- यतः वयं सर्वे भारतीयाः । अस्माकं भावना संस्कृतिश्च एका एव । ब्रह्मज्ञानं यस्य अस्ति, यः त्यागं करोति, यः सुखं नोपेक्षते, यः साधारणजीवनेन जीवति सः ब्राह्मणः । सः यः कोऽपि वा भवितुमर्हति । तथैव यः देशरक्षणे निरतः भवति सः क्षत्रियः । यः वाणिज्यं करोति सः वैश्यः । यः क्षेत्रेषु धान्योत्पादनं करोति सः शूद्रः । यः पशुपालनादिकं करोति सः हरिजनः । सर्वः सर्वमपि भवितुं शक्तः भवति । यदि चातुर्वर्ण्य विभागः नास्ति तर्हि येन केनापि नाम्ना व्यवहारः लोके कर्तव्यः भवति । तदापि लोके व्यवहारार्थं तरतमभावः देशे राष्ट्रेच भवत्येव ।

हरिः -- तस्मात् प्राचीनव्यवस्था समीचीना साभिप्राया अर्थयुक्ता इति भवतः अभिप्रायः ।

विष्णुशर्मा -- समाजे केचन स्वार्थपराः सङ्कुचितभावनया तरतमभावनादीन् राष्ट्रहितापेक्ष्या राष्ट्रनाशाय उपयोगम् अकुर्वन् । वयं सर्वे इतःपरं स्वस्तिरस्तुनः, स्वस्तिर्मानुष्येभ्यः । शन्नो अस्तु द्विपदे । शन्नो चतुष्पदे इति आषभावनानुरूपं बहुजनहिताय, बहुजन सुखाय व्यवहरिष्यामः ।

दासः -- एवं कर्तुं शक्यं भवति किम्?

विष्णुशर्मा -- कर्तुं शक्यं भवति । यादृशी भावना यत्र सिद्धिर्भवति तादृशी ।

हरिः -- अधुना सर्वत्रदेशे अस्पृश्यता व्याप्ताविद्यते, कदा तस्यान्तः भविष्यति ।

विष्णुशर्मा -- अस्माकं सर्वेषां विदितमेव यत् अस्मदीयराष्ट्रं बहुविशालम् अनेक समस्यापरिपूरितं च । सर्वमपिदुःखम् एकवारम् अपास्तकरणं कष्टं भवति । कतिपयवर्षानन्तरं सर्वमपि सुखमयं परिष्कृतं भविष्यति । सर्वजन योगक्षेमकल्याणार्थम् अस्मदीय नेतारः दिवारात्रं प्रयतन्ते । 

हरिः -- अयि भोः दरिद्रता सर्वत्र नरीनर्तिकदा प्राणिनः सुखान्विताः भवेयुः ।

विष्णुशर्मा -- वयं सर्वे विना च तरतमभावः देशहिताय देश औन्नत्यै संहत्य जनहितकारकं कर्म कुर्मः तदा दरिद्रता दरिद्रभावं प्राप्स्यति । न केनापि कदापि अकर्मकृता भवितव्यम् ।

हरिः -- न कदापि समाजे समभावना भवितुम् अर्हति ।

विष्णुशर्मा -- समभावनां जनयितुं प्रयतिष्यामः "यत्ने कृते यदि न सिध्यति कोऽत्र दोषः" । समाजे नैकविभागाः सन्ति तथापि सर्वेविभागाः प्रधानपञ्चविभागेषु अन्तर्हिताः भवन्ति । भारतवर्षे ते एवं सन्ति, ब्राह्मण, क्षत्रिय, वैश्य, शूद्र, हरिजनाः एते पञ्चवर्णाः समाजपुरुषस्य पञ्चप्राणाः । तत्र उच्चनीच भावोनास्ति । यदि समाजः एकेन हीनः भवति पतनोन्मुखं भविष्यति, इति भावनया व्यवहारः कर्तव्यः इति मे अभिप्रायः ।

हरिः -- न कदापि सर्वेषां पञ्चवर्णानां संसृष्टिः भवति वसुधातले । जगति तरुषु अनेके विभिन्नतरवः सन्ति । व्यष्टिरूपेण तेषां अस्तित्वं राजते । पक्षिषु बहवः विचित्रपक्षिणः विभिन्नरावराजिताः तेषां व्यक्तिमत्वं प्रदर्शयन्ति ते न कदापि समानशीलतया एकचित्तीभूय सन्ति ।

विष्णुशर्मा -- भवताप्रतिपादितं सत्यमेव । सर्वोपि स्वीय चातुर्येण जगति अस्तित्वं दर्शयति । श्रृण्वन्तु एकां वृत्तकथां कथयामि । महाभारते यदा गन्धर्वाः दुर्योधनादीन् निगृह्यगताः तदा भीमः एवं जगाद ।

हरिः -- किमिति जगाद ।

विष्णुशर्मा -- यत् वयं कर्तुम् उद्युक्ताः तदेव कृतं गन्धर्वैः इति ।

हरिः -- दुर्योधनादयः वञ्चनशीलाः तस्मात् सम्यगेव वृत्तम् इति ममापि द्योतते तादृशी भावना ।

विष्णुशर्मा -- तथा मा वद । तस्मिन्‌समये धर्मराजः एवं जगाद भीमम्प्रति ।

दासः -- किमिति ।

विष्णुशर्मा -- अरे भीम, एते दुर्योधनादयः पराः न सन्ति । एते अस्मदीयभ्रातरः । कौरवपाण्डवयोर्मध्ये विद्वेषपूर्णभावना वर्तते । वयं सर्वे सर्वदा कलहायमानाः स्मः । किन्तु अधुना पराः अस्मदीय बन्धून् देशजान् गृहीत्वा अगच्छन् । ततः वयम् अस्मदीय भेदभावं परस्परद्वेषभावं सन्त्यज्य तान् जेतुं वयं पञ्चाधिकशतम् इति भावनया अस्मदीयैः मिळित्वा शत्रृनाशनं कुर्याम इति ।

हरिः -- तदा किं जातम् ।

विष्णुशर्मा -- तदा अर्जुनःगत्वा गन्धर्वादीन् जित्वा कौरवान् विमोचयामास । तद्वत् वयमपि भेदभावसंराजमानाः अपि राष्ट्रहिताय राष्ट्रसुखाय धर्मरक्षणाय परस्परस्नेहभावनया वयं पञ्चाधिकशतं इति न्यायेन भारतवर्षे जीवेम इति मे आदेशः ।

     (हरिदास गुप्तादयः उत्थाय परस्परम् आलिङ्गयन्तः शर्मणः समीपमागत्य एकैकशः शर्माणम् आलिङ्ग्य) वयं देशरक्षणे पञ्चाधिकशतम् । (इति उन्नमितमुष्टिहस्ताः क्रमशः गच्छन्ति)
        (यवनिका पतति)

 

 

 

****************************************************

 

 

 

.